एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
वैराग्यशतके
कुतः - पुत्रोऽप्यात्मसंभवोऽपि। अमित्रायते अमित्रं शत्रुमिवाच -
रति - प्रतिकूलाचरणतत्परो भवतीत्यर्थः ; लालायत इत्यत्र *
• कर्तुः क्यङ्सलोप श्चे ' ति क्यङ् - अत्रतु * · उपमानादाचार'
इति क्यच् - उभयत्रापि * • अकृत्सार्वधातुकयो दीर्घ' इति दीर्घः॥
वर्ण सितं शिरसि वीक्ष्य शिरोरुहागां
स्थान जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहत्य यान्ति
चण्डालकूपमिव दूरतरं तरुण्यः ॥ ७४
व्या.-वर्णमिति.---तरुण्यो युवतयः कर्त्र्यः * 'वयसि 'प्रथम' इति ङीप् । शिरसि रोहन्तीति शिरोरुहा श्चिकुराः तेषाम्
- इगुपधलक्षणः कप्रत्ययः। सितं वर्णं धावळ्यगुणं - पलितत्वमि ति यावत् । झडित्यञ्जसा । वीक्ष्य दृष्ट्वा - नि. 'द्राग्झडित्यञ्जसा -ह्वाये' त्यमरः । तदा तस्मिन् समये दर्शनसमनन्तरकालएवेत्यर्थः। जरया वार्धकावस्थया - यः परिभवः अवमानस्तस्य - स्थानमा- स्पदं । तथ।। आरोपितं बहिः स्फुटलक्ष्यत्वादारोपितप्रायमस्थि - "शतकं यस्य तं तथोक्तं - अन्यत्रारोपितं निक्षिप्तं-अस्थिशतकं यस्मिन् तं - 'आरोपितास्थिशकल' मिति पाठे - एकत्रारोपितप्रायकीकस - खण्डं अन्यत्र निक्षिप्तकीकसखण्ड मित्यर्थः । पुमांसं पुरुषं।
चण्डालकूप चण्डालसंबन्धि जलाशयमिव । परिहत्य परित्यज्य । दूरतर - मतिविप्रकृष्टं । यान्ति हेयत्वाद्विहायान्यत्र गच्छन्तीत्यर्थः । अतः कष्टं जीर्णवयसोऽपि जीवनमिति भावः ।।