बोधपञ्चदशिका

विकिस्रोतः तः
बोधपञ्चदशिका
[[लेखकः :|]]

अनस्तमितभारूपस्तेजसां तमसामपि ।
य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च ॥ १ ॥

स एव सर्वभूतानां स्वभावः परमेश्वरः ।
भावजातं हि तस्यैव शक्तिरीश्वरतामयी ॥ २ ॥

शक्तिश्च शक्तिमद्रूपाद्व्यतिरेकं न वाञ्छति ।
तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव ॥ ३ ॥

स एव भैरवो देवो जगद्भरणलक्षणः ।
स्वात्मादृषे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ॥ ४ ॥

तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका ।
पूर्णत्वं सर्वभवेषु यस्या नाल्पं न चाधिकम् ॥ ५ ॥

एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः ।
विचित्रान् सृष्टिसंहारान् विधत्ते युगपद्विभुः ॥ ६ ॥

अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् ।
एतदेव स्वतन्त्रत्वमैस्वर्यं बोधरूपता ॥ ७ ॥

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ।
जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ ८ ॥

एवमस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः ।
स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ॥ ९ ॥

तेषु वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव यत् ।
भुवनानि तदंशाश्च सुखदुःखमतिश्च या ॥ १० ॥

यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् ।
स एव खलु संसारो मूडानां यो विभीषकः ॥ ११ ॥

तत्प्रसादरसादेव गुर्वागमत एव वा ।
शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपागतम् ॥ १२ ॥

यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः ।
तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥ १३ ॥

एतौ बन्धविमोक्षौ च परमेशस्वरूपतः ।
न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ॥ १४ ॥

इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः ।
भैरवः सर्वभावानां स्वभावः परिशील्यते ॥ १५ ॥


सुकुमारमतीन् शिष्यान् प्रबोधयितुमञ्जसा ।
इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशोदिताः ॥





____________


गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे

"https://sa.wikisource.org/w/index.php?title=बोधपञ्चदशिका&oldid=330598" इत्यस्माद् प्रतिप्राप्तम्