एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके द्धितीयो विमर्शः। यदाहुः--
"मुख्या महाकविगिरामलड्कृतभृतामपि । प्रतीयमानाच्छायैव भूषा लज्जेव योषिताम् ॥”
इति ।
अत एव बहुप्वन्येष्वलङ्कारेषु सत्स्वपि । कांश्चिदेव निबघ्नाति शक्तिमानपि सत्कविः ॥ ७८ ॥ यतः सर्वेष्वलङ्कारेषुपमा जीवितायते । सा च प्रतीयमानैव तद्विदां स्वदतेतराम् ॥ ७९ ॥ रूपकादिरलङ्कारवर्गो यमक एव हि । तत्प्रपञ्चतया प्रोक्तः कैश्चित्तत्त्वार्थदर्शिभिः ॥ ८० ॥
इति सङ्ग्रह्श्लोकाः । स चायं द्विविधः श्लेषः शब्दार्थविषयतयोच्यते । तत्र शब्दविषयो यथा----
यत्रान्यूनातिरिक्तेन सादृश्य वस्तुनोर्द्वयोः । शब्दमात्रेण कथ्येत स शब्दश्लेष इष्यते ॥ ८१ ॥ स शब्दैः कर्तृकर्मादिप्रधानार्थाविनाकृतैः । निबद्धो धर्मिधर्मार्थैर्द्विविधः परिकीर्तितः ॥ ८२ ॥ इत्थ समासतो ज्ञेयं शब्दश्लेषस्य लक्षणम् । अपरस्तु प्रसिद्धत्वादिहास्माभिर्न लक्षितः ॥ ८३ ॥ उभयत्राप्यभिव्यक्त्यै वाच्यं किञ्चिन्निबन्धनम् । अन्यथा व्यर्थ एव स्याच्छेषबन्धोध्यमः कवेः ॥ ८४ ॥
तत्र धम्यर्थस्य श्लेषादभिन्नत्वं यथा---
"अत्रान्तरे फुल्लमाल्लकािधवळाट्टहासः कुसुमसमय- युगमुपसहरन्नजृम्भत ग्रीष्माभिधानो महाकाल:"
इति । अत्र हि समासोक्तिनिबन्धना देवताविशेषवाचिनो महाकालशब्दस्यावृत्तिर्न तु तस्यैवोभयार्थत्वानिबन्धनेति वक्ष्यते । निबन्धनाभावे तु तस्य दुष्टतैव यथा--.
"आच्छादितायतादिगम्बरमुच्चकैर्गामाक्रम्य च स्थितमुदग्रविशालशृङ्गम् । मूर्ध्नि स्खलत्तुहिनदीधितिकोटिमेनमुद्रीक्ष्य को भुवि न विस्मयते गिरीशम्"
इति । अत्र ह्यावृत्तिनिबन्धनं न किञ्चिदुक्तमिति तस्य वाच्यस्यावचनं दोषः । न च
१. ‘नगे' इति खपुस्तके पाठः ।