अथर्ववेदः/काण्डं ७/सूक्तम् १२३
दिखावट
← सूक्तं ७.१२२ | अथर्ववेदः - काण्डं ७ सूक्तं ७.१२३(७.११८) ऋषिः - अथर्वाङ्गिराः |
दे. चन्द्रमाः, वरुणः, देवः। त्रिष्टुप्। |
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥