अनेकार्थसङ्ग्रहः/द्विस्वरकाण्डः
- द्विस्वरकाण्डः
- द्विस्वरकान्ताः
अर्को द्रुभेदे स्फटिके ताम्रे सूर्ये बिडौजसि ।
अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १ ॥
चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ।
एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ॥ २ ॥
दम्भे पापिनि किट्टे च कङ्को ब्राह्मणलिङ्गिनि ।
लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे ॥ ३ ॥
कर्केतनेऽग्नौ राशौ च काकः स्यात्पीठसर्पिणि ।
द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके ॥ ४ ॥
काकं काकसमूहे स्याद्रतबन्धे च योषिताम् ।
काका तु काकजङ्घायां काकोलीकाकनाशयोः ॥ ५ ॥
काकोदुम्बरिकाकाकमाचिकारक्तिकास्वपि ।
किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ॥ ६ ॥
कोको वृके चक्रवाके खर्जूरीद्रुमभेदयोः ।
छेको विदग्धे विश्वस्तमृगनीडजयोरपि ॥ ७ ॥
टङ्को नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे ।
मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ ८ ॥
तर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः ।
त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठाधरे त्रये ॥ ९ ॥
तोकं संतानसुतयोर्द्विकः स्यात्काककोकयोः ।
न्यङ्कुर्मृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥ १० ॥
मुनिवल्मीकयोर्निष्कः कर्षे हेमनि तत्पले ।
दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ ११ ॥
पङ्कोऽघे कर्दमे पाकः पचने शिशुदैत्ययोः ।
बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः ॥ १२ ॥
भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु ।
मुष्को मोक्षद्रुमे सङ्घे तस्करे मांसलाण्डयोः ॥ १३ ॥
मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः ।
राका कच्छ्वां दृष्टरजःकन्यायां सरिदन्तरे ॥ १४ ॥
पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः ।
हीनेऽपि रोकं क्रयणभेदे नावि बिलेचरे ॥ १५ ॥
रोकोंऽशौ लङ्का तु शाखा शाकिनी कुलटा पुरी ।
लोको विश्वे जने वल्कं शकले त्वचि शल्कवत् ॥ १६ ॥
शको देशे राजभेदे शङ्का स्यात्संशये भये ।
शङ्कुः पत्त्रशिराजाले संख्याकीलकशंभुषु ॥ १७ ॥
यादोऽस्त्रभेदयोर्मेढ्रे शाको द्वीपे नृपे द्रुमे ।
शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥ १८ ॥
रक्षोऽमात्ये शुकं ग्रन्थिपर्णेऽरत्नुशिरीषयोः ।
शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ १९ ॥
शूकोऽनुक्रोशकिंशार्वोः शोकेऽभिषवशुङ्गयोः ।
शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥ २० ॥
शौकं शुकानां समूहे स्त्रीणां च करणान्तरे ।
सृका बाणोत्पलवातः स्तोकः स्याच्चातकाल्पयोः ॥ २१ ॥
- इति द्विस्वरकान्ताः ।
- द्विस्वरखान्ताः
नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः ।
न्युङ्खः सामविशेषस्य षडोंकार्यामतिप्रिये ॥ २२ ॥
पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपि ।
प्रेङ्खा पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥ २३ ॥
मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः ।
रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ २४ ॥
लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि ।
वीङ्खा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥ २५ ॥
शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि ।
शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ २६ ॥
शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः ।
ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि ॥ २७ ॥
सखा सहाये मित्त्रे च सुखं त्रिदिवशर्मणोः ।
सुखा प्रचेतसः पुर्याम्
- इति द्विस्वरखान्ताः ।
- द्विस्वरगान्ताः
अगः स्यान्नगवत्तरौ ॥ २८ ॥
शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः ।
उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥ २९ ॥
अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते ।
ज्ञानजङ्गमयोश्चापि खगोऽर्कग्रहपक्षिषु ॥ ३० ॥
शरे देवेऽपि खड्गोऽसौ खड्गिशृङ्गे च गण्डके ।
टङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः ॥ ३१ ॥
दुर्गं पुनर्दुर्गमे स्याद्दुर्गा तु नीलिकोमयोः ।
नागो मतङ्गजे सर्पे पुंनागे नागकेसरे ॥ ३२ ॥
क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च ।
देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ ३३ ॥
नागं रङ्गे सीसपत्त्रे स्त्रीबन्धे करणान्तरे ।
पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ॥ ३४ ॥
पिङ्गं बालके पिशङ्गे पूगः क्रमुकसंघयोः ।
फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥ ३५ ॥
भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु ।
रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥ ३६ ॥
भंगस्तरंगे भेदे च रुग्विशेषे पराजये ।
कौटिल्ये भयविच्छित्योर्भंगा शणे भंगिः पुनः ॥ ३७ ॥
भक्तिवीच्योर्भागो रुपार्द्धके भाग्यैकदेशयोः ।
भृंगं त्वक्पत्रं भृंगास्तु खिड्गधूम्याटमार्कवाः ॥ ३८ ॥
षट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः ।
शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥ ३९ ॥
धनेऽहिकायफणयोः पालनाऽभ्यवहारयोः ।
मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥ ४० ॥
मृगः कुरंगे याच्ञायां मृगयायां गजान्तरे ।
पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे ॥ ४१ ॥
युगं हस्तचतुष्के स्याद्रथाद्यंगे कृतादिके ।
वृद्धिनामौषधे युग्मे योगो विश्रब्धघातिनि ॥ ४२ ॥
अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु ।
वपुः स्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ ४३ ॥
विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्भुवोः रागे रङ्गं तु त्रपुणि रागः स्याल्लोहितादिषु ॥ ४४ ॥
गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे ।
लङ्गः संगे च पिङ्गे च लिङ्गं मेहनचिह्नयोः ॥ ४५ ॥
शिवमूर्तावनुमाने सांख्योक्तविकृतावपि ।
वङ्गः कार्पासे वृन्ताके वङ्गा जनपादान्तरे ॥ ४६ ॥
वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः ।
व्यङ्गो भेके हीनाङ्गे च वेगो रयप्रवाहयोः ॥ ४७ ॥
रेतः किंपाकयोश्चापि शार्ङ्गं विष्णुधनुर्द्धनुः ।
शुङ्ग्याम्राते वटे प्लक्षे शृङ्गं चिह्नविषाणयोः ॥ ४८ ॥
क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु ।
शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः ॥ ४९ ॥
विषायामृषभौषध्यां सर्गस्त्यागस्वभावयोः ।
उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥ ५० ॥
- इति द्विस्वरगान्ताः ।
- द्विस्वरघान्ताः
अर्घः पूजाविधौ मूल्येऽर्घं दुःखे व्यसनैनसोः ।
उद्घो हस्तपुटे वह्नौ श्लाघायां देहजानिले ॥ ५१ ॥
ओघः प्रवाहः संघातो द्रुतनृत्तं परंपरा ।
उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च ॥ ५२ ॥
मोघो दीने निष्फले च मोघा स्यात् पाटलातरौ ।
लघुः सृक्का लघ्वसारं ह्रस्वं चार्वगुरु द्रतम् ॥ ५३ ॥
श्लाघोपात्तीच्छयोः स्तोत्रे--
- इति द्विस्वरघान्ताः ।
- द्विस्वरचान्ताः
ऽर्चा पूजा प्रतिमाऽपि च ।
कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीष्पतेः ॥ ५४ ॥
कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि ।
काञ्ची गुञ्जामेखलयोः पुर्यां कूर्चो विकत्थने ॥ ५५ ॥
श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ ।
चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि ॥ ५६ ॥
चंचुः पंचांङ्गुले त्रोट्यां नीचः पामरखर्वयोः ।
मोचा शाल्मलिकदल्योर्मोचः शिग्रौ रुचिर्द्युतौ ॥ ५७ ॥
स्पृहाऽभिष्वङ्गशोभासु वचः शुके वचौषधौ ।
शारिकायां वीच्याल्यूर्म्योरवकाशे सुखाल्पयोः ॥ ५८ ॥
शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनले ।
ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि ॥ ५९ ॥
श्रृङ्गारे सूच्यभिनये व्यधने करणे स्त्रियाम् ।
- इति द्विस्वरचान्ताः ।
- द्विस्वरछान्ताः
अच्छो भल्लूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् ॥ ६० ॥
कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च ।
कच्छास्तु देशे कच्छा स्यात् परिधानापराञ्चले ॥ ६१ ॥
चीर्यां वाराह्यां च गुच्छो गुच्छे हारकलापयोः ।
पिच्छः पुच्छे पिच्छं वाजे पिच्छा शाल्मलिवेष्टके ॥ ६२ ॥
पङ्क्तिः पूगच्छटाकोशमण्डेष्वश्वपदामये ।
मोचायां पिच्छिले म्लेच्छो जातिभेदेऽपभाषणे ॥ ६३ ॥
- इति द्विस्वरछान्ताः ।
- द्विस्वरजान्ताः
अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे ।
अब्जो धन्वन्तरौ चन्द्रे शङ्खेऽब्जं पद्मसंख्ययोः ॥ ६४ ॥
आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले ।
कञ्जो वेधसि केशे च कञ्जं पीयूषपद्मयोः ॥ ६५ ॥
कुञ्जो हनो दन्तिदन्ते निकुञ्जे च कुजो द्रुमे ।
आरे नरकदैत्ये च कुब्जो न्युब्जद्रुभेदयोः ॥ ६६ ॥
खजा दर्वीमथोः खर्जूः खर्जूरीकीटकण्डुषु ।
गञ्जो भाण्डागारे रीढाखन्योर्गञ्जा सुरागृहे ॥ ६७ ॥
गुञ्जा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ ।
द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे ॥ ६८ ॥
द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे ।
शिश्ने चिह्ने पताकायां खट्वांगे शौण्डिकेऽपि च ॥ ६९ ॥
निजो नित्ये स्वकीये च न्युब्जः कुशे स्त्रुचि ।
अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले ॥ ७० ॥
प्रजा लोके संततौ च पिंजा तूलहरिद्रयोः ।
पिंजो व्यग्रे वधे पिंजं बले बीजं तु रेतसि ॥ ७१ ॥
स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे ।
भुजो बाहौ करे मर्जूः शिद्धौ च रजकेऽपि च ॥ ७२ ॥
राजी रेखायां पंक्तौ च रुजा त्वामयभङ्गयोः ।
लञ्जः पट्टे च कच्छे च लाजः स्यादार्द्रतण्डुले ॥ ७३ ॥
लाजास्तु भृष्टधानाः स्युर्लाजं पुनरुशीरके ।
व्रजोऽध्वगोष्ठसंघेषु वणिग् वाणिज्यजीविनि ॥ ७४ ॥
वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि ।
यज्ञान्ने वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ७५ ॥
व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ ।
संजौ ब्रह्मशिवौ
- इति द्विस्वरजान्ताः ।
- द्विस्वरञान्ताः
प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी ॥ ७६ ॥
यज्ञः स्यादात्मनि मखे नारायणहुताशयोः ।
संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥ ७७ ॥
चेतनाऽर्कस्त्रियोः
- इति द्विस्वरञान्ताः ।
- द्विस्वरटान्ताः
अट्टो हट्टाऽट्टालकयोर्भृशे ।
चतुष्कभक्तयोरिष्टमीप्सिते क्रतुकर्मणि ॥ ७८ ॥
पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः ।
संग्रहश्लोकेऽथ कटो गजगण्डे कटौ भृशे ॥ ७९ ॥
शवे शवरथौषध्योः क्रियाकारश्मशानयोः ।
किलिञ्जे समये चापि कष्टं गहनकृच्छ्रयोः ॥ ८० ॥
कट्वकार्ये मत्सरे च दूषणे च कटू रसे ।
तिक्ते प्रियङ्गुसुरभिकटुकाराजिकास्वपि ॥ ८१ ॥
कुटः कोटे शिलाकुट्टे घटे गेहे कुटी मुरा ।
चित्रगुच्छः कुम्भदासी कूटं पूर्द्वारयन्त्रयोः ॥ ८२ ॥
मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः ।
निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ॥ ८३ ॥
कोट्युत्कर्षाटनीसंख्यास्रिषु खटस्तृणे कफे ।
टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥ ८४ ॥
एकग्रहेऽथ खेटः स्याद्ग्रामभेदे कफेऽधमे ।
स्फरे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ ८५ ॥
वराहक्रान्ता च घटा घटने गजसंहतौ ।
गोष्ठ्यां घटस्त्विभशिरः कूटे समाधिकुम्भयोः ॥ ८६ ॥
घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः ।
घोण्टा पूगबदरयोश्चटुश्चाटुपिचण्डयोः ॥ ८७ ॥
व्रत्यासने जटा केशविकारे मांसिमूलयोः ।
झाटो व्रणादिसंमार्ष्टौ कुञ्जकान्तारयोरपि ॥ ८८ ॥
त्वष्टाऽर्के विश्वकृत्तक्ष्णोस्त्रुटिः संशयलेशयोः ।
सूक्ष्मैलायां कालमाने त्रोटिचञ्च्वां खगान्तरे ॥ ८९ ॥
मीनकज्जुलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि ।
दिष्टिरानन्दे माने च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ९० ॥
पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे ।
व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका ॥ ९१ ॥
रोध्रेऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः ।
स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ ९२ ॥
पुष्टिः स्यात् पोषणे वृद्धौ फटा तु कैतवे फणे ।
भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने ॥ ९३ ॥
शून्यवाट्यामथ म्लिष्टं म्लानमस्पष्टभाषितम् ।
यष्टिर्भार्ग्यां मधुयष्ट्यां ध्वजदण्डेऽस्त्रहारयोः ॥ ९४ ॥
रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः ।
वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः ॥ ९५ ॥
वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः ।
वाटी वास्तौ गृहोद्यानेत्कट्योर्विटस्तु मूषिके ॥ ९६ ॥
खदिरे लवणे षिड्गेऽद्रौ च व्युष्टं फले दिने ।
पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥ ९७ ॥
विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च ।
सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ९८ ॥
सिते व्याप्ते स्फुटिस्त्वङ्घ्रिस्फोटे निर्भिन्नचिर्भटे ।
सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ॥ ९९ ॥
प्रचुरे निर्मिते चाथ हृष्टः स्यात् केशरोमसु ।
जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ १०० ॥
- इति द्विस्वरटान्ताः ।
- द्विस्वरठान्ताः
कठो मुनौ स्वर ऋचां भेदे तत्पाठिवेदिनोः ।
कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे ॥ १०१ ॥
काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके ।
दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥ १०२ ॥
कुण्ठोऽकर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः ।
कोष्ठो निजे कुसूले च कुक्षेरन्तर्गृहस्य च ॥ १०३ ॥
गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि ।
ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः ॥ १०४ ॥
ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः ।
क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥ १०५ ॥
पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे ।
वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ॥ १०६ ॥
शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च ।
श्रेष्ठोऽग्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी ॥ १०७ ॥
हठोऽम्बुपर्ण्यां प्रसभेऽण्डं पेशीकेशमुष्कयोः ।
- इति द्विस्वरठान्ताः ।
- द्विस्वरडान्ताः
इडेलावत् स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ १०८ ॥
काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे ।
सहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥ १०९ ॥
कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते ।
देवतोयाशये स्थाल्यां क्ष्वेडः कर्णामये ध्वनौ ॥ ११० ॥
विषे वक्रे क्ष्वेडा सिंहनादवंशशलाकयोः ।
क्ष्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १११ ॥
क्रोडः कोले शनौ क्रोडमङ्के खण्डोऽर्द्ध ऐक्षवे ।
मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥ ११२ ॥
कपोले गण्डके योगे वाजिभूषणबुद्वुदे ।
गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥ ११३ ॥
गुडः कुञ्जरसंनाहे गोलकेक्षुविकारयोः ।
गुडा तु गुडिकास्नुह्योर्गोण्डः स्याद्वृद्धनाभिके ॥ ११४ ॥
पामरजातौ चण्डस्तु यमदासेऽतिकोपने ।
तीव्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ ११५ ॥
चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः ।
बाहुभूषावलभ्योश्च चोडः कञ्चुकदेशयोः ॥ ११६ ॥
जडो मूर्खे हिमाघ्राते जडा स्याच्छूकशिम्बिका ।
ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ॥ ११७ ॥
ताडी तालीदलतरौ दण्डः सैन्ये दमे यमे ।
मानव्यूहग्रहभेदेष्वश्वेऽर्कानुचरे मथि ॥ ११८ ॥
प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः ।
नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः ॥ ११९ ॥
नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये ।
पण्डः षण्ढे पण्डा बुद्धौ पाण्डुः कुन्तीपतौ सिते ॥ १२० ॥
पिण्डो वृन्दे जपापुष्पे गोलबोलेऽङ्गसिह्लयोः ।
कवले पिण्डं तु वेश्मैकगेशे जीवनायसोः ॥ १२१ ॥
बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च ।
पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥ १२२ ॥
भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने ।
नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥ १२३ ॥
मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः ।
शाके मण्डा चामलक्यां मुण्डो मण्डितशीर्षयोः ॥ १२४ ॥
राहौ दैत्यान्तरे रण्डा त्वाखुकर्णी मृतप्रिया ।
व्याडो हिंस्रपशौ सर्पे शुण्डा करिकरः सुरा ॥ १२५ ॥
जलेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे ।
शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः ॥ १२६ ॥
षडः पेयान्तरे भेदे षण्डः कानन इड्वरे ।
- इति द्विस्वरडान्ताः ।
- द्विस्वरढान्ताः
गूढं रहःसंवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥ १२७ ॥
दृढः शक्ते भृशे स्थूले बाढं भृशप्रतिज्ञयोः ।
माढिर्दैन्यं पत्रसिरार्चा मूढस्तन्द्रिते जडे ॥ १२८ ॥
राढा सुह्मेषु शोभायां व्यूढा न्यस्तोरुसंहताः ।
वोढा स्याद्भारिके सूते शण्ढषण्ढौ तु सौविदे ॥ १२९ ॥
वन्ध्यपुंसीड्वरे क्लीबे सोढा मर्षणशक्तयोः ।
- इति द्विस्वरढान्ताः ।
- द्विस्वरणान्ताः
अणिराणिवदश्रौ स्यात्सीमन्यक्षाग्रकीलके ॥ १३० ॥
अणुर्व्रीह्यल्पयोरुष्णा ग्रीष्मदक्षातपाऽहिमाः ।
ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ॥ १३१ ॥
ऋणं देये जलदुर्गे कणो घान्यांशलेशयोः ।
कणा जीरकपिप्पल्योः कर्णश्चम्पापतौ श्रुतौ ॥ १३२ ॥
क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे ।
व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः ॥ १३३ ॥
कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः ।
कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ ॥ १३४ ॥
कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि ।
कृष्णां तु मरिचे लोहे कोणो वीणादिवादने ॥ १३५ ॥
लगुडेऽश्रौ लोहिताङ्गे गणः प्रथमसंख्ययोः ।
समूहे सैन्यभेदेऽथ गुणो ज्यासूदतन्तुषु ॥ १३६ ॥
रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये ।
रुपादावप्रधाने च दोषान्यस्मिन् विशेषणे ॥ १३७ ॥
गेष्णो नटे गायने च घ्राणं तु घ्रातघोणयोः ।
घृणा तु जुगुप्सायां करुणायां घृणिः पुनः ॥ १३८ ॥
अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु ।
चूर्णं क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु ॥ १३९ ॥
जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि ।
झूर्णिः क्रमुकभेदे स्याद्दुष्टदैवश्रुतावपि ॥ १४० ॥
त्राणं त्राते रक्षणे च त्रायमाणौषधावपि ।
तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥ १४१ ॥
आत्मत्यागिनि तिग्मे च तूणी नीलीनिषङ्गयोः ।
द्रुणः स्याद्वृश्चिके भृङ्गे द्रुणं चापकृपाणयोः ॥ १४२ ॥
द्रुणी कूर्म्यां जलद्रोण्यां देष्णो दातरि दुर्दमे ।
द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥ १४३ ॥
नौभेदे शैलसंधौ च पणः कार्षापणे ग्लहे ।
विक्रय्यशाकादिबद्धमुष्टौ मूल्ये भृतौ धने ॥ १४४ ॥
व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ ।
पर्णस्त्रिपत्रे पर्णं तु पत्त्रे प्राणोऽनिले बले ॥ १४५ ॥
हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते ।
पार्ष्णिः कुम्भ्यां चमूपृष्टे पादमूलोन्मदस्त्रियोः ॥ १४६ ॥
पूर्णः कृत्त्स्ने पूरिते च फाणिर्गुडकरम्बयोः ।
बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे ॥ १४७ ॥
बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे ।
अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १४८ ॥
मेढ्राग्रेऽलिञ्जरे रत्ने मोणः सर्पकरण्डके ।
वाने नक्रमक्षिकायां रणः कोणे क्वणे युधि ॥ १४९ ॥
रेणुर्धूल्यां पर्पटके वर्णः स्वर्णे व्रते स्तुतौ ।
रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ १५० ॥
भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः ।
अङ्गरागे च वर्णं तु कुङ्कुमे वाणिरम्बुदे ॥ १५१ ॥
व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् ।
वृष्णिर्मेषे यादवे च वेणी सेतुप्रवाहयोः ॥ १५२ ॥
देवताडे केशबन्धे वेणुर्वंशे नृपान्तरे ।
शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ १५३ ॥
शोणो नदे रक्तवर्णे श्योनाकेऽग्नौ हयान्तरे ।
स्थाणुः कीले हरे स्थूणा सूर्म्यां स्तम्भे रुगन्तरे ॥ १५४ ॥
- इति द्विस्वरणान्ताः ।
- द्विस्वरतान्ताः
अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः ।
अवयवेऽप्यर्थार्हन् स्यात् पूज्ये तीर्थकरेऽपि च ॥ १५५ ॥
अस्तः क्षिप्ते पश्चिमाद्रावर्तिस्त्वटनिपीडयोः ।
आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः ॥ १५६ ॥
ईतिरजन्ये प्रवासे स्यादूतिः स्यूतिरक्षयोः ।
ऋतं शिलोञ्छे पानीये पूजिते दीप्तसत्ययोः ॥ १५७ ॥
ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः ।
स्त्रीणां पुष्पे वसन्तादावेतः कर्बुर आगते ॥ १५८ ॥
क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः ।
नियुक्ते दासजे द्वाःस्थे कन्तुः कामकुसूलयोः ॥ १५९ ॥
कान्तो रम्ये प्रिये ग्राव्णि कान्ता प्रियङ्गुयोषितोः ।
कान्तिः शोभाकामनयोः क्षितिर्गेहे भुवि क्षये ॥ १६० ॥
कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि च ।
कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥ १६१ ॥
कृत्तं छिन्ने वेष्टिते च केतुर्द्युतिपताकयोः ।
ग्रहोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥ १६२ ॥
त्रिगर्तांशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते ।
गतिर्वहद्व्रणे ज्ञाने यात्रोपायदशाध्वसु ॥ १६३ ॥
गीतिश्छन्दसि गाने च गीतं शब्दितगानयोः ।
गुप्तं गूढे त्राते गुप्तिर्यमे भूगर्तरक्षयोः ॥ १६४ ॥
कारायां घृतमाज्याम्बुदीप्तेष्वथ चिताचिती ।
मृतार्थदारुषु चये जगल्लोकेऽङ्गवायुषु ॥ १६५ ॥
जातं जात्योऽघजनिषु जातिः सामान्यगोत्रयोः ।
मालत्यामामलक्यां च चुल्ल्यां काम्पिल्यजन्मनोः ॥ १६६ ॥
जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः ।
ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ॥ १६७ ॥
तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभौ रसे ।
तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १६८ ॥
त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः ।
दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने ॥ १६९ ॥
दीप्तं निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः ।
द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके ॥ १७० ॥
धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः ।
महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥ १७१ ॥
धुतं त्यक्ते कम्पिते च धूतौ कम्पितभर्त्सितौ ।
धूर्तं तु खण्डलवणे धूर्तो धत्तूरमायिनोः ॥ १७२ ॥
धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे ।
संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १७३ ॥
नीतिर्नये प्रापणे च पक्तिर्गौरवपाकयोः ।
पङ्क्तिछन्दःश्रेण्योः सेनाभित्पद्गयोर्गतौ ॥ १७४ ॥
प्राप्तिर्महोदये लाभे पित्सन् पिपतिषन् यथा ।
पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १७५ ॥
पीता हरिद्रा पीतिः पानेऽश्वे प्रीतिः स्मरस्त्रियाम् ।
प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि ॥ १७६ ॥
पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके ।
पूर्तं पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ १७७ ॥
बिन्दौ प्रेतो मृते भूतविशेषे च परेतवत् ।
पोतः शिशौ प्रवहणे प्रोतो गुम्फितवाससोः ॥ १७८ ॥
भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके ।
भक्तिः सेवागौणवृत्त्योर्भङ्ग्यां श्रद्धाविभागयोः ॥ १७९ ॥
भास्वान् दीप्रे रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ ।
भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः ॥ १८० ॥
प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः ।
भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥ १८१ ॥
मांसपाकविरोषे च संपदुत्पादयोरपि ।
भृतिर्मूल्यभरणयोर्मतं तु संमतेऽर्चिते ॥ १८२ ॥
महद्बृहति धीतत्वे राज्ये मरुत्सुरेऽनिले ।
मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥ १८३ ॥
मातरस्तु ब्रह्माण्याद्यया मितिरैयत्यमानयोः ।
मुक्ता मौतिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः ॥ १८४ ॥
मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि ।
मृतं मृत्यौ याचिते च यन्ता सूते निषादिनि ॥ १८५ ॥
यतिर्निकारे विरतौ भिक्षौ युतोऽन्विते पृथक् ।
युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥ १८६ ॥
कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे ।
रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले ॥ १८७ ॥
वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ ।
लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ॥ १८८ ॥
स्पृक्कामाधव्योः कस्तूर्यां लिप्तं भुक्तविलिप्तयोः ।
विषाक्ते लूता तु रोगे पिपीलकोर्णनाभयोः ॥ १८९ ॥
वर्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च ।
दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः ॥ १९० ॥
व्यक्तो मनीषिस्फुटयोर्वार्त्ता वार्त्ताक्युदन्तयोः ।
कृष्यादौ वर्तने वार्त्तं त्वारोग्यारोगफल्गुषु ॥ १९१ ॥
वृत्तिशालिन्यथ व्याप्तिर्व्यापने लम्भनेऽपि च ।
वास्तु स्याद्गृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ १९२ ॥
वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे ।
ज्ञाने लाभे विचरे च वीतमङ्कुशकर्मणि ॥ १९३ ॥
असाराश्वगजे शान्ते वीतिरश्वेऽशने गतौ ।
प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ १९४ ॥
चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते ।
वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु वर्तने ॥ १९५ ॥
कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः ।
शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ १९६ ॥
शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे ।
शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ १९७ ॥
शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे सितेऽसिते ।
श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥ १९८ ॥
शीतो हिमे च जिह्मे च वानीरबहुवारयोः ।
शीतं गुणे शुक्तमम्ले पूतिभूते च कर्कशे ॥ १९९ ॥
शुक्तिः शङ्खनके शङ्खे कपालखण्डदृग्रुजोः ।
नख्यश्चावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥ २०० ॥
श्रुतमाकर्णिते शास्त्रे श्रुतिराम्नायवार्तयोः ।
षड्जाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥ २०१ ॥
श्वेतं रुप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके ।
श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात् सती पुनः ॥ २०२ ॥
कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः ।
सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा ॥ २०३ ॥
स्थित ऊर्ध्वे सप्रतिज्ञे स्थितिः स्थाने च सीम्नि च ।
सीता जनकजागङ्गाभेदयोर्हलपद्धतौ ॥ २०४ ॥
सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजि ।
सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥ २०५ ॥
ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि ।
स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे ॥ २०६ ॥
नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः ।
केशात्कलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २०७ ॥
वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते ।
हेतिर्ज्वालास्त्रसूर्यांशुषु
- इति द्विस्वरतान्ताः ।
- द्विस्वरथान्ताः
अर्थो हेतौ प्रयोजने ॥ २०८ ॥
निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु ।
आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २०९ ॥
कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः ।
द्रवनिष्पापकेऽथ कुथः स्यादास्तरणदर्भयोः ॥ २१० ॥
कोथस्तु मथने नेत्ररुग्भेदे शटितेऽपि च ।
ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मिर्तौ ॥ २११ ॥
ग्रन्थिर्वस्त्रादिबन्धे रुग्भेदे कौटिल्यपर्वणोः ।
ग्रन्थि तु ग्रन्थिपर्णे स्याद्गाथा वाग्भेदवृत्तयोः ॥ २१२ ॥
तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः ।
ऋषिजुष्टे जले सत्त्रिण्युपाये स्त्रीरजस्यपि ॥ २१३ ॥
योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने ।
तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयोः ॥ २१४ ॥
प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि ।
पृथुर्विशाले भूपाले वापिकाकृष्णजीरयोः ॥ २१५ ॥
प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि ।
साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे ॥ २१६ ॥
यूथी तु मागधीपुष्पविशेषयोः कुरण्टके ।
रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे ॥ २१७ ॥
वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरुपके ।
संस्था स्पशे स्थितौ मृत्यौ सार्थो वृन्दे वणिग्गणे ॥ २१८ ॥
सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके ।
- इति द्विस्वरथान्ताः ।
- द्विस्वरदान्ताः
अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥ २१९ ॥
अन्दुः स्यान्निगडे भूषाभेदे ककुदवत् ककुत् ।
श्रेष्ठे वृषाङ्गे राट्चिह्ने क्रव्यान्मांसाशिरक्षसोः ॥ २२० ॥
कन्दोऽब्दे सूरणे सस्यमूले कुन्दोऽच्युते निधौ ।
चक्रभूमौ च माघ्ये च क्षोदः पेषणचूर्णयोः ॥ २२१ ॥
गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे ।
छदः पत्रे पतत्त्रे च ग्रन्थिपर्णतमालयोः ॥ २२२ ॥
छन्दो वशेऽभिप्राये च दृषत् पाषाणमात्रके ।
निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः ॥ २२३ ॥
नदो वहेऽब्धौ निनदे नन्दा संपद्यलिञ्जरे ।
तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २२४ ॥
आनन्दने च द्यूते च निन्दा कुत्सापवादयोः ।
पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः ॥ २२५ ॥
त्राणे पादे पादचिह्ने व्यवसायापदेशयोः ।
पादो मूलोस्त्रतुर्यांशाङ्ध्रिषु प्रत्यन्तपर्वते ॥ २२६ ॥
भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः ।
भेदो विदारणे द्वैधे उपजापविशेषयोः ॥ २२७ ॥
मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः ।
कस्तूरिकायां क्षेब्ये च मदी कृषकवस्तुनि ॥ २२८ ॥
मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते ।
गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥ २२९ ॥
मृद्वतीक्ष्णे कोमले च रदो दन्ते विलेखने ।
विदा ज्ञानधियोर्बिन्दुविप्रुट्ज्ञात्रो रदक्षते ॥ २३० ॥
वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले ।
शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ २३१ ॥
शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः ।
संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥ २३२ ॥
क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि ।
संपदृद्धौ गुणोत्कर्षे हारे स्वादुस्तु सुन्दरे ॥ २३३ ॥
मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत् ।
स्वेदो घर्मे स्वेदने च
- इति द्विस्वरदान्ताः ।
- द्विस्वरधान्ताः
अन्धोऽन्धकारेऽक्षिवर्जिते ॥ २३४ ॥
अर्धः खण्डेऽर्धं समांशेऽथाब्धिः सरसि सागरे ।
आधिर्मनोर्त्तौ व्यसनेऽधिष्ठाने बन्धकाशयोः ॥ २३५ ॥
ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः ।
गन्धकामोदगर्वेषु गाधः स्यात्स्ताघलिप्सयोः ॥ २३६ ॥
गोधा प्राणिविशेषे स्याज्ज्याघातस्य च वारणे ।
दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥ २३७ ॥
दुग्धं क्षीरे पूरिते च दोग्धा गोपालवत्सयोः ।
अर्थोपजीवककवौ बन्ध आधौ च बन्धने ॥ २३८ ॥
बन्धुर्भ्रातृबान्धवयोर्बाधा दुःखनिषेधयोः ।
बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥ २३९ ॥
बोधिर्बौद्धसमाधौ चार्हद्धर्माप्तौ च पिप्पले ।
मधुश्चैत्रर्तुदैत्येषु जीवाशाकमधूकयोः ॥ २४० ॥
मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च ।
मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि ॥ २४१ ॥
मुग्धो मूढे रम्ये मेधः क्रतौ मेधा तु शेमुषी ।
राधो वैशाखमासे स्याद् राधा विद्युद्विशाखयोः ॥ २४२ ॥
विष्णुक्रान्तामलक्योः गोपीवेध्यविशेषयोः ।
लुब्ध आकाङ्क्षिणि व्याधे वधो हिंसकहिंसयोः ॥ २४३ ॥
वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि ।
नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥ २४४ ॥
विद्धं सदृग्वेधितयोः क्षिप्ते विधर्द्धिमूल्ययोः ।
प्रकारे भान्नविधिशु विधिर्ब्रह्मविधानयोः ॥ २४५ ॥
विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः ।
विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥ २४६ ॥
वृद्धः प्राज्ञे स्थविरे च वृद्धं शैलेयरूढयोः ।
वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे ॥ २४७ ॥
श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते ।
हव्यकव्यविधाने च शुद्धः केवलपूतयोः ॥ २४८ ॥
स्कन्धः प्रकाण्डे कार्येंऽसे विज्ञानादिषु पञ्चसु ।
नृपे समूहे व्यूहे च सन्धा स्थितिप्रतिज्ञयोः ॥ २४९ ॥
सन्धिर्योनौ सुरगायां नाट्याऽश्लेषभेदयोः ।
साधुर्जैनमुनौ वार्धुषिके सज्जनरम्ययोः ॥ २५० ॥
सिद्धो व्याड्यादिके देवयोनौ निष्पन्नमुक्तयोः ।
नित्ये प्रसिद्धे सिद्धिस्तु मोक्षे निष्पत्तियोगयोः ॥ २५१ ॥
सिन्धुर्नद्यां गजमदेऽब्धौ देशनदभेदयोः ।
सुधा गङ्गेष्टिकास्नुह्योर्मूर्वालेपामृतेषु च ॥ २५२ ॥
- इति द्विस्वरधान्ताः ।
- द्विस्वरनान्ताः
अन्नं भक्तेऽशितेऽर्वाश्वेऽधमेऽध्वा कालवर्त्मनोः ।
संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ ॥ २५३ ॥
आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे ।
परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ २५४ ॥
स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे ।
ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि ॥ २५५ ॥
कर्म कारकभेदे स्यात्क्रियायां च शुभाशुभे ।
कामी स्यात्कमने चक्रवाके पारावतेऽपि च ॥ २५६ ॥
कृती योग्ये बुधे खड्गी गण्डके खड्गधारिणि ।
ग्रावाश्मनि गिरौ गोमी फेरौ गोमत्युपासके ॥ २५७ ॥
घनः सान्द्रे दृढे दार्ढ्ये विस्तारे मुद्गरेऽम्बुदे ।
सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रकारयोः ॥ २५८ ॥
चर्म त्वचि स्फरे चर्मी भूर्जे फलकिभृङ्गिणोः ।
चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥ २५९ ॥
चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु ।
व्रीहौ वस्त्रे छद्म शाठ्येऽपदेशे घातिकर्मणि ॥ २६० ॥
छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी ।
छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने ॥ २६१ ॥
जनी स्नुषावनितयोर्जिनोऽर्हद्बुद्धविष्णुषु ।
ज्योत्स्ना स्याज्ज्योतिःसंयुक्तनिशि चन्द्रातपेऽपि च ॥ २६२ ॥
ज्यौत्स्नी पटोली ज्योत्स्नावन्निशोस्तनुर्वपुस्त्वचोः ।
विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयोः ॥ २६३ ॥
दानं मतं गजमदे रक्षणच्छेदशुद्धिषु ।
विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ २६४ ॥
धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः ।
धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ॥ २६५ ॥
धनुःशब्दः पियालद्रौ राशिभेदे धनुष्यपि ।
धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ॥ २६६ ॥
धाना भृष्टयवेऽङ्कुरे धान्याके चूर्णसक्तुषु ।
धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २६७ ॥
मागधे क्षपणके च नन्दी गिरिशवेत्रिणि ।
गर्दभाण्डे वटे न्यूनं हीनवच्चोनगर्ह्ययोः ॥ २६८ ॥
पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु ।
दर्शप्रतिपत्सन्धौ च तिथिग्रन्थविशेषयोः ॥ २६९ ॥
पक्ष्माऽक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे ।
गरुत्किञ्जल्कयोश्चापि पत्त्री काण्डे खगे द्रुमे ॥ २७० ॥
रथेऽद्रौ रथिके श्येने प्रेम तु स्नेहनर्मणोः ।
ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २७१ ॥
ऋत्विग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।
भर्म भारे भृतौ हेम्नि भानिरंशौ रवौ दिने ॥ २७२ ॥
भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजङ्गमे ।
वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च ॥ २७३ ॥
मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ।
मीनो मन्स्ये राशिभेदे मृत्स्ना तुवर्यपि ॥ २७४ ॥
यानं युग्ये गतौ योनिः कारणे भगताम्रयोः ।
रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे ॥ २७५ ॥
निशाकरे प्रभौ शक्रे यक्षक्षत्रिययोरपि ।
रास्नैलापर्णी सर्पाक्ष्योः रागी कामिनि रङ्क्तरि ॥ २७६ ॥
रोही रोहीतकेऽश्वत्थे वटे लग्नं तु लज्जिते ।
राशीनामुदये सक्ते लक्ष्म प्रधानचिन्हह्नयोः ॥ २७७ ॥
वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ।
वस्नं वस्त्रे धने मूल्ये भृतौ वर्ष्म पुनस्तनौ ॥ २७८ ॥
प्रमाणे सुन्दराकारे वर्त्म नेत्रच्छदेऽध्वनि ।
वर्णी पुनश्चित्रकरे लेखके ब्रह्मचारिणि ॥ २७९ ॥
वानं शुष्कफले शुष्के सीवने गमने कटे ।
जलसंप्लुतवातोर्मिसुरङ्गासौरभेषु च ॥ २८० ॥
वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ।
विन्नं विचारिते लब्धे स्थिते वृषा तु वासवे ॥ २८१ ॥
वृषभे तुरङ्गे पुंसि शाखी तु द्रुमवेदयोः ।
राजभेदे शिखी त्वग्नौ वृक्षे केतुग्रहे शरे ॥ २८२ ॥
चूडावति बलीवर्दे मयूरे कुक्कुटे हये ।
शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्त्रिणि ॥ २८३ ॥
स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थित्यवकाशयोः ।
सादृश्ये सन्निवेशे च स्नानं स्नानीय आप्लवे ॥ २८४ ॥
स्त्यानं स्यात्स्निग्ध आलस्ये प्रतिध्वानघनत्वयोः ।
सादी तुरङ्गमारोहे निषादिरथिनोरपि ॥ २८५ ॥
स्वामी प्रभौ गुहे सूनं पुष्पे सूना पुनः सुता ।
अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ ॥ २८६ ॥
हनुः कपोलावयवे मरणामययोरपि ।
हरिद्रायामायुधे च हली कृषकसीरिणोः ॥ २८७ ॥
- इति द्विस्वरनान्ताः ।
- द्विस्वरपान्ताः
कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ।
शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके ॥ २८८ ॥
मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः ।
विलम्बेरणहेलासु गोपौ भूपालबल्लवौ ॥ २८९ ॥
ग्रामौघगोष्ठाधिकृतौ गोपी गोपालसुन्दरी ।
शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः ॥ २९० ॥
त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः ।
तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे ॥ २९१ ॥
दर्पो मृगमदे गर्वे पुष्पं विकास आर्तवे ।
धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ॥ २९२ ॥
बाष्प ऊष्माक्षिजलयो रूपं तु श्लोकशब्दयोः ।
पाशावाकारे सौन्दर्ये नाणके नाटकादिके ॥ २९३ ॥
ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विगर्हिते ।
रोपौ रोपणेषू रोपं रन्ध्रे लेपस्तु लेपने ॥ २९४ ॥
अशने च सुधायां च वपा विवरमेदसोः ।
शष्पं तु प्रतिमाहीनतायां बालतृणेऽपि च ॥ २९५ ॥
शापः शपथ आक्रोशे शिष्पं स्रुवे क्रियोचिते ।
स्वापो निद्रायां रुग्भेदे शयनाज्ञानमात्रयोः ॥ २९६ ॥
- इति द्विस्वरपान्ताः ।
- द्विस्वरफान्ताः
गुम्फो दोर्भूषणे दृब्धौ रेफोऽवद्यरवर्णयोः ।
शफं खुरे गवादीनां मूले विटपिनामपि ॥ २९७ ॥
शिफा मातरि मांस्यां च जटायां च सरित्यपि ।
- इति द्विस्वरफान्ताः ।
- द्विस्वरबान्ताः
कम्बिर्वंशलतादर्व्योः कम्बुर्वलयशङ्खयोः ॥ २९८ ॥
गजे शम्बूके कर्चूरे ग्रीवायां नलकेऽपि च ।
जम्बूर्मेरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः ॥ २९९ ॥
डिम्ब एरण्डभययोर्विप्लवे प्लीह्नि पुप्फुसे ।
बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ॥ ३०० ॥
शम्बः पवौ लोहकाञ्च्यां स्तम्ब आलानगुल्मयोः ।
व्रीह्यादीनां प्रकाण्डे च
- इति द्विस्वरबान्ताः ।
- द्विस्वरभान्ताः
कुम्भो वेश्यापतौ घटे ॥ ३०१ ॥
द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ।
कुम्भ्युखायां पाटलायां वारिपर्ण्यां च कट्फले ॥ ३०२ ॥
गर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकण्टके ।
मध्येऽग्नावपवरके जम्भः स्याद्दानवान्तरे ॥ ३०३ ॥
दन्तभोजनयोरंशे हनौ जम्बीरतूणयोः ।
जृम्भा जृम्भणे विकासे डिम्भो वैधेयबालयोः ॥ ३०४ ॥
दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः ।
चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराजि च ॥ ३०५ ॥
निभः स्यात्सदृशे व्याजे दम्भो वैणवदण्डके ।
रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ ॥ ३०६ ॥
व्यापके शङ्करे नित्ये शम्भुर्ब्रह्मार्हतोः शिवे ।
शुभो योगे शुभं भद्रे स्तम्भः स्थूणाङ्गजाड्ययोः ॥ ३०७ ॥
सभा सभ्येषु शालायां गोष्ठ्यां द्यूतसमूहयोः ।
स्वभूर्विष्णौ विधावामोऽपक्वे रुग्भेदरोगयोः ॥ ३०८ ॥
- इति द्विस्वरभान्ताः ।
- द्विस्वरमान्ताः
उमा गौर्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि ।
ऊर्मिः पीडाजवोत्कण्ठाभङ्गप्रकाशवीचिषु ॥ ३०९ ॥
वस्रसंकोचलेखायां क्रमः कल्पाङ्घ्रिशक्तिषु ।
परिपाट्यां क्षमः शक्ते हिते युक्ते क्षमावति ॥ ३१० ॥
क्षमा क्षान्तौ क्षितौ कामं बाढेऽनुमितिरेतसोः ।
कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी ॥ ३११ ॥
कृमिः क्रिमिश्च लाक्षायां कीटे क्षेमस्तु मङ्गले ।
लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि ॥ ३१२ ॥
क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपि च ।
खर्मं क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः ॥ ३१३ ॥
सदृक्पाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः ।
षड्जादौ संवसथे च गुल्मः सैन्योपरक्षणे ॥ ३१४ ॥
रुक्सैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि ।
आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् ॥ ३१५ ॥
स्वेदाम्भस्यातपे ग्रीष्मोण्मणोर्जाल्मस्तु पामरे ।
असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः ॥ ३१६ ॥
जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे ।
तोक्मं कर्णमले तोक्मः स्याद्धरिते हरिद्यवे ॥ ३१७ ॥
दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च ।
दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे ॥ ३१८ ॥
धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ।
सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि ॥ ३१९ ॥
धर्मं दानादिके नेमस्त्वर्धे प्राकारगतयोः ।
अवधौ केतवे काले नेमिः कूपत्रिकाप्रधिः ॥ ३२० ॥
तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ।
संख्याब्जयोः पद्ममिभबिन्दौ ब्राह्मी तु भारती ॥ ३२१ ॥
शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ।
ब्रह्मशक्तिर्भ्रमस्तु स्याद्भ्रमणे वारिनिर्गमे ॥ ३२२ ॥
भ्रान्तौ कुन्दाख्ययन्त्रे च भीष्मो घोरे वृकोदरे ।
हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः ॥ ३२३ ॥
राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे ।
यमः कालयमजयोरहिंसादिषु पञ्चसु ॥ ३२४ ॥
संयमे यमने ध्वाङ्क्षे यामौ प्रहरसंयमौ ।
रमः कान्ते रक्ताशोके मन्भथे च रमा श्रियाम् ॥ ३२५ ॥
रश्मिर्घृणिप्रग्रहयो रामः श्यामे हलायुधे ।
पशुभेदे सिते चारौ राघवे रेणुकासुते ॥ ३२६ ॥
रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः ।
रुक्मं लोहे सुवर्णे च रुमा स्याल्लवणाकरे ॥ ३२७ ॥
सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपतप्रियङ्गुषु ।
वमिर्वान्तेऽनले वामः कामे सव्ये पयोधरे ॥ ३२८ ॥
उमानाथे प्रतिकूले चारौ वामा तु योषिति ।
वामी शृगाल्यां करभीरासभीवडवासु च ॥ ३२९ ॥
शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदे शितौ ।
हरिते प्रयागवटे कोकिले वृद्धदारके ॥ ३३० ॥
श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः ।
शारिवावल्गुनीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु ॥ ३३१ ॥
अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः ।
शुष्ममोजसि सूर्ये च समं साध्वखिलं सद्दक् ॥ ३३२ ॥
सीमाघाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके ।
अध्यात्मे कतके सोमस्त्वौषधीतद्रसेन्दुषु ॥ ३३३ ॥
दिव्यौषध्यां घनसारे समीरे पितृदैवते ।
वसुप्रभेदे सलिले वानरे किन्नरेश्वरे ॥ ३३४ ॥
हिमं तुषारे शीते च हिमश्चन्दनपादपे ।
होमिः सर्पिषि वह्नौ च स्यादर्य्यः स्वामिवैश्ययोः ॥ ३३५ ॥
- इति द्विस्वरमान्ताः ।
- द्विस्वरयान्ताः
अर्थ्यं शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः ।
अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभेवेऽधमे ॥ ३३६ ॥
अर्घ्यमर्घार्थमर्घार्हमास्यं मुखभवे मुखे ।
मुखान्तरास्या तु स्थित्यामार्यौ सज्जनसंविदौ ॥ ३३७ ॥
आर्योमाच्छन्दसोरिज्या दाने सङ्गेऽध्वरेऽर्चने ।
इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ ॥ ३३८ ॥
कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये ।
कल्या कल्याणवाची स्यात्कश्यं कशार्हमद्ययोः ॥ ३३९ ॥
अश्वमध्ये क्षयो गेहे कल्पान्तेऽपचये रुजि ।
कन्या नार्य्यां कुमार्य्यां च राश्योषधिविशेषयोः ॥ ३४० ॥
कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु ।
बृहतिकेभनाडयोश्च कार्यं हेतौ प्रयोजने ॥ ३४१ ॥
कायः कदैवते मूर्तौ सङ्घे लक्ष्यस्वभावयोः ।
कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः ॥ ३४२ ॥
काव्यं ग्रन्थे काव्यः शुक्रे कांस्यं तैजसवाद्ययोः ।
पानपात्रे मानभेदे क्रिया करणचेष्टयोः ॥ ३४३ ॥
कर्मोपायचिकित्सासु निष्कृतौ सम्प्रधारणे ।
अर्चाप्रारम्भशिक्षासु कुल्यं तु कुलजेऽस्थनि ॥ ३४४ ॥
सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ ।
कृत्यो विद्विषि कार्ये च कृत्या स्याद्देवता क्रिया ॥ ३४५ ॥
गव्यं क्षीरादिके ज्यायां रागवस्तुनि गोहिते ।
गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः ॥ ३४६ ॥
गुह्यमुपस्थे रहस्ये गृह्यं तु मलवर्त्मनि ।
गुह्योऽस्वैरिणि पक्ष्ये च गृहासक्तभृगाण्डजे ॥ ३४७ ॥
गृह्या तु शाखानगरे गेयौ गातव्यगायनौ ।
गोप्यौ दासेरगोप्तव्यौ चयः प्राकारपीठभूः ॥ ३४८ ॥
समूहेऽप्यथ चव्या स्याच्चविकाशतपर्वयोः ।
चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥ ३४९ ॥
चैत्यं जिनौकस्तद्विम्बं चेत्यो जिनसभातरुः ।
उद्देश्यवृक्षश्चोद्यं तु प्रेर्ये प्रश्नेऽद्भुतेऽपि च ॥ ३५० ॥
छाया पङ्क्तौ प्रतिमायामर्कयोषित्यनातपे ।
उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ॥ ३५१ ॥
जयो जयन्ते विजये जयोमा तत्सखी तिथिः ।
पथ्या जयन्त्यग्निमन्थे जन्यो जामातृवत्सले ॥ ३५२ ॥
जनके जननीये च नवोढानुचरादिके ।
जन्यं कौलीने युध्यट्टे जन्या मातृसखीमुदोः ॥ ३५३ ॥
त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि ।
तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे ॥ ३५४ ॥
अश्वकर्माह्वयतरौ स्यात्तार्क्ष्यं तु रसाञ्जने ।
तिष्यः पुष्यवत्कलौ भे तिष्या त्वामलकीतरौ ॥ ३५५ ॥
द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः ।
विनये भेषजे रीर्य्यां दस्युः प्रत्यर्थिचौरयोः ॥ ३५६ ॥
दायो दाने यौतकादिधने सोल्लुण्ठभाषणे ।
विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः ॥ ३५७ ॥
द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे ।
दूषणीये चाथ दैत्योऽसुरे दैत्या सुरौषधौ ॥ ३५८ ॥
धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ।
धान्यं तु व्रीहौ धन्याके धिष्ण्यं स्थानोडुवेश्मसु ॥ ३५९ ॥
बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु ।
नीतिद्यूतभिदोः पथ्यं हितं पथ्या हरीतकी ॥ ३६० ॥
पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोके पद्या तु वर्त्मनि ।
प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः ॥ ३६१ ॥
प्रियो वृद्ध्यौषधे हृद्ये पत्यौ पुण्यं तु सुन्दरे ।
सुकृते पावने धर्मे पूज्यः श्वसुरवन्द्ययोः ॥ ३६२ ॥
बल्यं रेतोबलकृतोर्भयं भीतौ भयङ्करे ।
कुब्जकपुष्पे भव्यं तु फले योग्ये शुभेऽस्थनि ॥ ३६३ ॥
सत्ये भाविनि भव्यस्तु कर्मरङ्गतरौ सति ।
भव्योमाकरिपिप्पल्योर्भाग्यं कर्म शुभाशुभम् ॥ ३६४ ॥
मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः ।
मयुर्मृगाश्वमुखयोर्मन्युर्दैत्ये क्रतौ क्रुधि ॥ ३६५ ॥
माल्यं मालाकुसुमयोः स्यान्माया शाम्बरी कृपा ।
दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥ ३६६ ॥
मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये ।
याम्याऽवाच्यां भरण्यां च योग्यो योगार्हशक्तयोः ॥ ३६७ ॥
उपायिनि प्रवीणे च योग्यमृद्ध्याह्वयौषधौ ।
योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ ३६८ ॥
रम्या रात्रावथ रथ्यो रथांशे रथवोढरि ।
रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे ॥ ३६९ ॥
रुप्यमाहतहेमादौ रजते रुपवत्यपि ।
लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ ३७० ॥
लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः ।
विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजःप्रभावयोः ॥ ३७१ ॥
शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च ।
वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे ॥ ३७२ ॥
वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे ।
नृपभेदेऽश्वाविधि च सीम्नि शस्त्रशलाकयोः ॥ ३७३ ॥
शय्या तल्पे शब्दगुम्फे शून्यं बिन्दौ च निर्जने ।
शून्या तु नलिका शौर्यं चारभट्यां बलेऽपि च ॥ ३७४ ॥
सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं दक्षिणे ।
वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥ ३७५ ॥
तथ्ये तद्वति सत्यस्तु लोकभित्संख्यमाहवे ।
संख्यैकादौ विचारे च सन्ध्या कालनदीभिदोः ॥ ३७६ ॥
चिन्तायां संश्रवे सीम्नि सन्धाने कुसुमान्तरे ।
साध्यो योगे साधनीये गणे दैवतभिद्यपि ॥ ३७७ ॥
सायः शरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः ।
सेव्यमुशीरे सेवार्हे सैन्यं सैनिकसेनयोः ॥ ३७८ ॥
सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते ।
सौम्याः पुनर्मृगशिरःशिरःस्थाः पञ्चतारकाः ॥ ३७९ ॥
हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके ।
हृत्प्रिये हृद्धिते हृज्जे हृद्या तु वृद्धिभेषजे ॥ ३८० ॥
हृद्यस्तु वशकृन्मन्त्रे
- इति द्विस्वरयान्ताः ।
- द्विस्वररान्ताः
अग्रं पुरः प्रथमेऽधिके ।
उपर्य्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥ ३८१ ॥
भिक्षाप्रकारे सङ्घाते प्रान्तेऽप्यद्रिस्तु पर्वते ।
सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे ॥ ३८२ ॥
अस्रः शिरसिजे कोणे स्यादस्रं शोणितेऽश्रुणि ।
अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः ॥ ३८३ ॥
अरो जिनेऽरं चक्राङ्गे शीघ्रशीघ्रगयोरपि ।
आरो रीरी शनिर्भौम आरा चर्मप्रभेदिनी ॥ ३८४ ॥
इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि ।
आदित्ये योगभेदे स्यादिन्द्रा तु फणिज्झके ॥ ३८५ ॥
उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः ।
उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥ ३८६ ॥
उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् ।
ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ॥ ३८७ ॥
औड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः ।
रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले ॥ ३८८ ॥
कद्रुः कनकपिङ्गे स्यात्कद्रूस्तु नागमातरि ।
कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ॥ ३८९ ॥
कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके ।
स्याद्धेमकारिकायां च क्षारः काचे रसे गुडे ॥ ३९० ॥
भस्मनि धूर्तलवणे कारिः शिल्पी क्रियाऽपि च ।
कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ॥ ३९१ ॥
कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः ।
क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि ॥ ३९२ ॥
क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः ।
क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ ३९३ ॥
चाङ्गेरिकायां हिंस्रायां मक्षिकामात्रवेश्ययोः ।
कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ ३९४ ॥
क्रूरा नृशंसघोरोष्णकठिनाः कृच्छ्रमंहसि ।
कष्टे सान्तपने क्षेत्रं भरतादौ भगाङ्गयोः ॥ ३९५ ॥
केदारे सिद्धभूपत्न्योः क्रोष्ट्री क्षीरविदारिका ।
शृगालिका लाङ्गली च क्षौद्रं तु मधुनीरयोः ॥ ३९६ ॥
खरो रक्षोऽन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च ।
खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च ॥ ३९७ ॥
खुरः शफे कोलदले गरस्तूपविषे विषे ।
रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ३९८ ॥
गजाग्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके ।
शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ३९९ ॥
गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके ।
गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४०० ॥
अलघौ दुर्जरे चापि गृद्ध्रो गृध्नौ खगान्तरे ।
गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्यबोधवर्त्मनोः ॥ ४०१ ॥
वने नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवाङ्गणे ।
गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ॥ ४०२ ॥
विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे ।
गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४०३ ॥
रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः ।
घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥ ४०४ ॥
चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे ।
कुलालाद्युपकरणे राष्ट्रे सैन्यरथाङ्गयोः ॥ ४०५ ॥
जलावर्त्ते छले चक्रः कोके चन्द्रोऽम्बुकाम्ययोः ।
स्वर्णे सुधांशौ कर्पुरे कम्पिल्ये मेचकेऽपि च ॥ ४०६ ॥
चरुर्हव्यान्ने भाण्डे च चारो बन्धावसर्पयोः ।
गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४०७ ॥
आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः ।
गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४०८ ॥
चीरं वाससि चूडायां गोस्तने सीसपत्रके ।
चीरी कच्छाटिकाझिल्ल्योश्चुक्रस्त्वम्लेऽम्लवेतसे ॥ ४०९ ॥
वृक्षाम्ले चुक्री चाङ्गेर्य्यां चैत्रो मासाद्रिभेदयोः ।
चैत्त्रं मृतकचैत्ये च चौरो दस्युसुगन्धयोः ॥ ४१० ॥
छत्त्रं स्यादातपत्राणे छत्त्रा मधुरिकौषधौ ।
धान्यके च शिलीन्ध्रे च छिद्रं विवररन्ध्रवत् ॥ ४११ ॥
गर्ते दोषे जारस्तूपपत्तौ जार्यौषिधीभिदि ।
जीरस्त्वजाज्यां खड्गे च टारो लिङ्गतुरङ्गयोः ॥ ४१२ ॥
तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः ।
अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥ ४१३ ॥
श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके ।
इतिकर्तव्यतातन्त्वोस्तन्त्री स्याद्वल्लकीगुणे ॥ ४१४ ॥
अमृतायां च नद्ध्र्यां च शिरायां वपुषोऽपि च ।
तरिर्दशायां बेडायां वस्त्रादीनां च पेटके ॥ ४१५ ॥
तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके ।
मुक्ताशुद्धावुच्चनादे नक्षत्रनेत्रमध्ययोः ॥ ४१६ ॥
तारं रुप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् ।
सुग्रीवपत्न्यां ताम्रं तु शुल्बे शुल्बनिभेऽपि च ॥ ४१७ ॥
तीव्रं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी ।
गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे ॥ ४१८ ॥
तोत्त्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः ।
दरी तु कन्दरे दस्रः खरो दस्रौ रवेः सुतौ ॥ ४१९ ॥
द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गुरौ ।
कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु ॥ ४२० ॥
धारो जलधरासारवर्षणे स्यादृणेऽपि च ।
धारोत्कर्षे खड्गाद्यग्रे सैन्याग्रे वाजिनां गतौ ॥ ४२१ ॥
जलादिपाते सन्तत्यां धात्री भुव्युपमातरि ।
आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४२२ ॥
स्वैरे धीरं तु घुसृणे नरोमर्त्येऽच्युतेर्जुने ।
नरं तु रामकर्पूरे नक्रं नासाग्रदारुणोः ॥ ४२३ ॥
नक्रो यादसि नीव्रं तु वलीकवननेमिषु ।
चन्द्रे च रेवतीभे च नेत्रं वस्त्रे मथोगुणे ॥ ४२४ ॥
मूलाक्षिनेतृषु परो दूरान्यश्रेष्ठशत्रुषु ।
परन्तु केवले पत्रं यानं पक्षश्छदश्छुरी ॥ ४२५ ॥
पारं प्रान्ते परतटे पारी पूरपरागयोः ।
पात्र्यां कर्पूरिकायां च पादबंधे च हस्तिनः ॥ ४२६ ॥
पात्त्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि ।
योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि ॥ ४२७ ॥
पुरं शरीरे नगरे गृहपाटलिपुत्रयोः ।
पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः ॥ ४२८ ॥
वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति ।
पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयोः ॥ ४२९ ॥
पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः ।
पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४३० ॥
पौरं कत्तृणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु ।
मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ ४३१ ॥
मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे ।
भद्रो रामचरे हस्तिजातौ मेरुकदम्बके ॥ ४३२ ॥
गवि शम्भौ भद्रा विष्टौ नभःसरिति कट्फले ।
कृष्णानन्तारास्नासु च भरोऽतिशयभारयोः ॥ ४३३ ॥
भरुर्भर्तृकनकयोर्भारो दशशतीद्वये ।
पलानां वीवधे चापि भीरुर्योषिति कातरे ॥ ४३४ ॥
भूरि स्वर्णे प्रचुरे च मन्त्रो देवादिसाधने ।
वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४३५ ॥
मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये ।
मात्त्रं त्ववधृतौ स्वार्थे कार्त्स्न्ये मात्रापरिच्छदे ॥ ४३६ ॥
अक्षरावयवे द्रव्ये मानेऽल्पे कर्मभूषणे ।
काले वृत्ते च मित्रं तु सख्यौ मित्रे दिवाकरे ॥ ४३७ ॥
यात्रोत्सवे गतौ वृत्तौ राष्ट्रमुत्पातनीवृतोः ।
रुरुर्दैत्ये मृगे रेत्रं पीयूषपटवासयोः ॥ ४३८ ॥
रेतःसूतकयो रोध्रो लोध्रे रोध्रमघागसोः ।
रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्यां वरो वृतौ ॥ ४३९ ॥
विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते ।
वरं तु घुसृणे किञ्चिदिष्टे वरी शतावरी ॥ ४४० ॥
वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः ।
वक्त्रमास्ये छन्दसि च वप्रःप्राकाररोधसोः ॥ ४४१ ॥
क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः ।
बालके वज्रा त्वमृता वर्ध्रः सीसवरत्रयोः ॥ ४४२ ॥
व्यग्रो व्यापृताकुलयोर्वारः सूर्यादिवासरे ।
महेश्वरावसरयोर्वृन्दे कुब्जाख्यपादपे ॥ ४४३ ॥
वारं तु मदिरापात्रे वारि ह्रीबेरनीरयोः ।
वारिर्घट्यां सरस्वत्यां गजबन्धनभुव्यपि ॥ ४४४ ॥
व्याघ्रः करञ्जे शार्दूले रक्तैरण्डतरावपि ।
श्रेष्ठे तूत्तरपदस्थः स्याद् व्याघ्री कण्टकारिका ॥ ४४५ ॥
वीरो जिने भटे श्रेष्ठे वीरं शृङ्ग्यां नतेऽपि च ।
वीरा गम्भारिकारम्भातामलक्येलवालुषु ॥ ४४६ ॥
मदिराक्षीरकाकोलीगोष्ठोदुम्बरिकासु च ।
पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि ॥ ४४७ ॥
वृत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ ।
वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥ ४४८ ॥
शरः पुनर्दधिसारे काण्डतेजनयोरपि ।
शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ ४४९ ॥
लोहे शस्त्री छुरिकायां शद्रिर्जिष्णौ तडित्वति ।
शरुः कोपे शरे वज्रे शारः शबलवातयोः ॥ ४५० ॥
द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः ।
शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने ॥ ४५१ ॥
शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतूर्णयोः ।
उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः ॥ ४५२ ॥
शुक्रं तु रेतोऽक्षिरुजोः शुभ्रं दीप्तेऽभ्रके सिते ।
शूरश्चारभटे सूर्य्ये सरौ दध्यग्रसायकौ ॥ ४५३ ॥
स्वरः शब्देऽचि षड्जादौ सत्रमाच्छादने क्रतौ ।
सदादाने वने दम्भे स्वरुः स्याद्यूपखण्डके ॥ ४५४ ॥
अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः ।
बले श्रेष्ठे च सारन्तु द्रविणन्याय्यवारिषु ॥ ४५५ ॥
स्फारस्तु स्फरकादीनां बुद्वुदे विपुलेऽपि च ।
स्थिरो मोक्षे निश्चले च स्थिरा भूःशालपर्ण्यपि ॥ ४५६ ॥
सिप्रः स्वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी ।
सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥ ४५७ ॥
लाङ्गलेऽथ सुरो देवे सुरा चषकमद्ययोः ।
सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः ॥ ४५८ ॥
स्वैरो मन्दे स्वतन्त्रे च हरो रासभरुद्रयोः ।
वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ ४५९ ॥
यमवासवसिंहांशुशशाङ्ककपिवाजिषु ।
पिङ्गवर्णे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु ॥ ४६० ॥
लोकान्तरे च हारस्तु मुक्तादामनि संयुगे ।
हिंस्रः स्याद्घातुके हिंस्रा मांसी काकादनी वसा ॥ ४६१ ॥
हीरो वज्रे हरे सर्पे हीरा पिपीलिकाश्रियोः ।
होरा तु लग्ने राश्यर्द्धे शास्त्ररेखाप्रभेदयोः ॥ ४६२ ॥
- इति द्विस्वररान्ताः ।
- द्विस्वरलान्ताः
अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे ।
अम्ली चाङ्गेर्यामालं स्यादनर्थहरितालयोः ॥ ४६३ ॥
आलिः सख्यावलीसेत्वनर्थेषु विशदाशये ।
आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः ॥ ४६४ ॥
इलोर्वी वाग् बुधस्त्री गौः कलं त्वजीर्णरेतसोः ।
अव्यक्तमधुरध्वाने कला स्यात्कालशिल्पयोः ॥ ४६५ ॥
कलने मूलरैवृद्धौ षोडशांशे विधोरपि ।
कलिर्बिभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ ४६६ ॥
कालः पुनः कुष्णवर्णे महाकालकृतान्तयोः ।
मरणानेहसोः काली कालिकाक्षीरकीटयोः ॥ ४६७ ॥
मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ।
काला कृष्णत्रिवृन्नील्योर्जिग्यां कीलोऽग्नितेजसि ॥ ४६८ ॥
कफणिस्तम्भयोः शङ्कौ कीला रताहतावपि ।
कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४६९ ॥
कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि ।
कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ ॥ ४७० ॥
कोलं तु बदरे कोला पिपल्ल्यां चव्यभेषजे ।
खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ॥ ४७१ ॥
खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।
खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥ ४७२ ॥
गलः कण्ठे सर्जरसे गोलः स्यात्सर्ववर्तुले ।
गोला पत्राञ्जने गोदावर्य्यां सख्यामलिञ्जरे ॥ ४७३ ॥
मण्डले च कुनद्यां च बालक्रीडनकाष्ठके ।
चिल्लः खगे स चुल्लश्च पिल्लवत् क्लिन्नलोचने ॥ ४७४ ॥
क्लिन्नाक्ष्णि चुल्ली तूद्धाने चेलं गर्हितवस्त्रयोः ।
छलं छद्मस्खलितयोश्छल्ली सन्तानवीरुधोः ॥ ४७५ ॥
वल्कले पुष्पभेदे च जलं गोकलले जडे ।
ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४७६ ॥
दम्भानाययोश्च जालो नीपे जाली पटोलिका ।
झला पुत्र्यामातपोर्मौ झिल्ली तूद्वर्तनाशके ॥ ४७७ ॥
वर्त्यातपरुचोश्चीर्य्यां तलं ज्याधातवारणे ।
तलश्चपेटे तालद्रौ स्वभावाधरयोः त्सरौ ॥ ४७८ ॥
तल्लो जलाधारभेदे तल्ली तु वरुणस्त्रियाम् ।
तालः कालक्रियामाने हस्तमानद्रुभेदयोः ॥ ४७९ ॥
करास्फोटे करतले हरिताले त्सरावपि ।
तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥ ४८० ॥
गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिचौ ।
ब्रह्मदारुण्यथ दलं शस्त्रिच्छदेऽर्द्धपर्णयोः ॥ ४८१ ॥
उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे ।
पितृदैवे नलं तु स्यात्पद्मे नली मनःशिला ॥ ४८२ ॥
नालं काण्डे मृणाले च नाली शाककदम्बके ।
नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥ ४८३ ॥
नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः ।
पल्लिस्तु ग्रामके कुट्यां पालिर्यूकाश्रिपङ्क्तिषु ॥ ४८४ ॥
जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने ।
प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ॥ ४८५ ॥
पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे ।
तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च ॥ ४८६ ॥
फलं हेतुकृते जातीफले फलकसस्ययोः ।
त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः ॥ ४८७ ॥
फली फलिन्यां फालं तु वाससि फाल उत्प्लुतौ ।
कुशिके च बलं रूपे स्थामनि स्थौल्यसैन्ययोः ॥ ४८८ ॥
बोले बलस्तु बलिनि काके दैत्ये हलायुधे ।
बला त्वौषधिभेदे स्याद्बलिर्दैत्योपहारयोः ॥ ४८९ ॥
करे चामरदण्डे च गृहदारूदरांशयोः ।
त्वक्सङ्कोचे गन्धके च बालोऽज्ञेऽश्वेभपुच्छयोः ॥ ४९० ॥
शिशौ ह्रीवेरकचयोर्बाला तु त्रुटियोषितोः ।
बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये ॥ ४९१ ॥
बिलं रन्ध्रे गुहायां च भल्लो भल्लूकबाणयोः ।
भल्ली भल्लातके भालं स्यल्ललाटे महस्यपि ॥ ४९२ ॥
भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते ।
मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥ ४९३ ॥
किट्टे कदर्ये विष्टायां मालं तु कपटे वने ।
मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि ॥ ४९४ ॥
मालुः स्त्रियां पत्रवल्ल्यां मूलं पार्श्वद्ययोरुडौ ।
निकुञ्जशिफयोर्मेला त्वञ्जने मेलकेऽपि च ॥ ४९५ ॥
मौलिः किरीटे धम्मिल्ले चूडाकङ्केल्लिमूर्द्धसु ।
लीला केलिर्विलासश्च शृङ्गारभावजक्रिया ॥ ४९६ ॥
लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः ।
वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥ ४९७ ॥
व्यालो दुष्टगजे सर्पे शठे श्वापदसिंहयोः ।
वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥ ४९८ ॥
अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः ।
शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ४९९ ॥
स्कन्धशाखायां शालिस्तु गन्धोतौ कलमादिषु ।
शालुः कषायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥ ५०० ॥
शिलमुञ्छः शिला द्वाराऽधोदारु कुनटी दृषत् ।
शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ॥ ५०१ ॥
शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः ।
योगे शूला तु पण्यस्त्री वधहेतुश्च कीलकः ॥ ५०२ ॥
शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके ।
सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५०३ ॥
स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः ।
स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥ ५०४ ॥
हाला सुरायां हेला तु स्यादवज्ञाविलासयोः ।
हेलिरालिङ्गने सूर्येऽपि
- इति द्विस्वरलान्ताः ।
- द्विस्वरवान्ताः
अविर्मूषिककम्बले ॥ ५०५ ॥
मेषे रवौ पर्वते च स्यादूर्ध्वं तु समुत्थिते ।
उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे ॥ ५०६ ॥
क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि ।
विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥ ५०७ ॥
किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः ।
खर्वह्रस्वौ न्यग्वामनौ ग्रीवे शिरोधितच्छिरे ॥ ५०८ ॥
छविस्तु रुचि शोभायां जवः स्याद् वेगवेगिनोः ।
जवौड्रपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः ॥ ५०९ ॥
जीवः स्यात्त्रिदशाचार्ये द्रुमभेदे शरीरिणि ।
जवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥ ५१० ॥
शिञ्जते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि ।
वाद्यभेदे स्वरूपे च द्रवो विद्रवनर्मणोः ॥ ५११ ॥
प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे ।
रहस्ये मिथुने युग्मे दवदावौ वनानले ॥ ५१२ ॥
वने दर्वी फणातर्व्वोर्दार्वी स्याद्देवदारुणि ।
हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥ ५१३ ॥
देवं हृषीके देवस्तु नृपतौ तोयदे सुरे ।
देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥ ५१४ ॥
धवो धूर्त्ते नरे पत्यौ द्रुभेदेऽथ ध्रुवो वटे ।
वसुयोगभिदोरातौ शङ्कावुत्तानपादजे ॥ ५१५ ॥
स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः ।
ध्रुवा मूर्वाशालिपर्ण्योः स्रुग्भेदे गीतिभिद्यपि ॥ ५१६ ॥
नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रबन्धने ।
मूलद्रव्ये परिपणे प्लवः प्लक्षे प्लुतौ कपौ ॥ ५१७ ॥
शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः ।
क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५१८ ॥
जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि ।
पक्वं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५१९ ॥
कक्षाधोवयवे वक्रोपायपर्शुसमूहयोः ।
प्राध्वं दूरपथे प्रह्वे बन्धे पूर्वं तु पूर्वजे ॥ ५२० ॥
प्रागग्रे श्रुतिभेदे च भवः सत्ताप्तिजन्मसु ।
रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५२१ ॥
स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु ।
चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे ॥ ५२२ ॥
शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति ।
नील्यां मेकलकन्यायां लवः कालभिदिच्छिदि ॥ ५२३ ॥
विलासे रामजे लेशे लट्वा पक्षिकुसुम्भयोः ।
लघ्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ ५२४ ॥
विश्वाः सुरेषु विश्वन्तु शुण्ठ्यां भुवनकृत्स्नयोः ।
विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले ॥ ५२५ ॥
शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे ।
पुण्डरीके द्रुमे कीले शिवा झाटामलोमयोः ॥ ५२६ ॥
फेरौ शम्यां पथ्याधात्र्योः शिविर्भुर्जे नृपान्तरे ।
शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ॥ ५२७ ॥
सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।
पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥ ५२८ ॥
सान्त्व सामनि दाक्षिण्ये स्रुवा मूर्वा स्रुवः स्रुचि ।
हवस्तु सप्ततन्तौ स्यान्निदेशाह्वानयोरपि ॥ ५२९ ॥
- इति द्विस्वरवान्ताः ।
- द्विस्वरशान्ताः
अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ ।
आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ॥ ५३० ॥
ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके ।
काशस्तृणे रोगभेदे कीशः कपौ दिगम्बरे ॥ ५३१ ॥
कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः ।
कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥ ५३२ ॥
केशः शिरसिजे पाशपाणौ ह्रीवेरदैत्ययोः ।
क्लेशो रागादौ दुःखे च कोशः कोष इवाण्डके ॥ ५३३ ॥
कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः ।
जातिकोशेऽसिपिधाने दर्शः सूर्येन्दुसङ्गमे ॥ ५३४ ॥
पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि चर्मणि ।
दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥ ५३५ ॥
दशा वर्ताववस्थायां दशास्तु वसनाञ्चले ।
नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५३६ ॥
निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु ।
प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५३७ ॥
कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः ।
छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ॥ ५३८ ॥
मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च ।
भूस्पृग् वैश्ये मानवे च राशिर्मेषादिपुञ्जयोः ॥ ५३९ ॥
वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ।
वशा नार्य्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५४० ॥
वंशः सङ्घेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च ।
वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥ ५४१ ॥
बोले लोघ्रे नृभेदे च स्पशो हेरिकयुद्धयोः ।
स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥ ५४२ ॥
- इति द्विस्वरशान्ताः ।
- द्विस्वरषान्ताः
अक्षो रथस्यावयवे व्यवहारे बिभीतके ।
पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥ ५४३ ॥
अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि ।
बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥ ५४४ ॥
महीधरविशेषे च शोणके क्षतवेधने ।
ऋषिर्वेदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥ ५४५ ॥
कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे ।
पापे कक्षा त्विभरज्जौ काञ्च्छां गेहप्रकोष्ठके ॥ ५४६ ॥
भित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।
उद्ग्राहण्यां च कर्षूस्तु तुषाग्नौ कृषिकुल्ययोः ॥ ५४७ ॥
घोषः कांस्ये स्वने गोपघोषकाभीरपल्लिषु ।
घोषा तु शतपुष्पायां चोक्षः सुन्दरगोतयोः ॥ ५४८ ॥
शुचौ झषस्तु मकरे वने मीने झषा पुनः ।
नागबलायां तुषस्तु धान्यत्वचि बिभीतके ॥ ५४९ ॥
दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ ।
द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेऽर्थिनि ॥ ५५० ॥
गृहे ध्वाङ्क्षी तु कक्कोल्यां न्यक्षः कार्त्स्न्यनिकृष्टयोः ।
जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥ ५५१ ॥
चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये ।
पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥ ५५२ ॥
प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके ।
प्रेक्षा धीरीक्षणं नृतं प्रैषौ प्रेषणपीडने ॥ ५५३ ॥
पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः ।
भिक्षा सेवाप्रार्थनयोर्भृतौ भिक्षितवस्तुनि ॥ ५५४ ॥
माषो माने धान्यभेदे मूर्खे त्वग्दोषभिद्यपि ।
मिषं व्याजे स्पर्द्धने च मेषो राश्यन्तरे हुडौ ॥ ५५५ ॥
मोक्षो निःश्रियसे वृक्षविशेषे मोचने मृतौ ।
यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥ ५५६ ॥
रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशरव्ययोः ।
संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥ ५५७ ॥
वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले ।
क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥ ५५८ ॥
पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च ।
श्रेष्ठे स्यादुत्तरस्थश्च वृषी तु व्रतिविष्टरे ॥ ५५९ ॥
वृषा पुनः कपिकच्छ्वां शुषिः शुषिरशोषयोः ।
शोषोऽनन्ते वधे सीरिण्युपयुक्तेतरेऽपि च ॥ ५६० ॥
शोषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः ।
- इति द्विस्वरषान्ताः ।
- द्विस्वरसान्ताः
अर्चिर्मयूखशिखयोरदोऽत्र च परत्र च ॥ ५६१ ॥
आगः स्यादेनोवदघे मन्तावाशीर्हितैषणे ।
उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५६२ ॥
उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ।
अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥ ५६३ ॥
ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः ।
पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥ ५६४ ॥
बुद्धौ विकलवाचि स्याद्गुत्सः स्तम्बगुलुच्छयोः ।
हारभेदे ग्रन्थिपर्णे गोसो बोलविभातयोः ॥ ५६५ ॥
चास इक्षुपक्षिभेदोश्छन्दः पद्येच्छयोः श्रुतौ ।
ज्यायान् वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ॥ ५६६ ॥
प्रकाशे दृशि नक्षत्रे तपः कृच्छ्रादिकर्मणि ।
धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥ ५६७ ॥
तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले ।
त्रासो भये मणिदोषे तेजस्त्विड्रेतसोर्बले ॥ ५६८ ॥
नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः ।
वृषले दानपात्रे च दासी झिण्ट्यपि चेट्यपि ॥ ५६९ ॥
धनुः शरासने राशौ पियालर्दौ धनुर्धरे ।
नभो व्योम्नि नभा घ्राणे विसतन्तौ पतद्ग्रहे ॥ ५७० ॥
प्रावृषि श्रावणे नासा घोणा द्वारोर्ध्वदारुणोः ।
पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥ ५७१ ॥
बर्हिः कुशेऽग्नौ भासस्तु भासि गृद्ध्रशकुन्तयोः ।
महस्तेजस्युत्सवे च मिसिर्मांस्यजमोदयोः ॥ ५७२ ॥
शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका ।
रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥ ५७३ ॥
चोले रागे देहधातौ तिक्तादौ पारदेऽपि च ।
रसा तु रसनापाठामल्लकीक्षितिकङ्गुषु ॥ ५७४ ॥
रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः ।
स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५७५ ॥
भाषाशृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः ।
वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥ ५७६ ॥
गूथे रूपे वसुस्त्वग्नौ देवभेदे नृपे रुचि ।
योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥ ५७७ ॥
वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः ।
वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥ ५७८ ॥
विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु ।
शंसा वचसि वाञ्छायां शिरोमूर्द्धप्रधानयोः ॥ ५७९ ॥
सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः ।
सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५८० ॥
स्रोतः प्रवाहेन्द्रिययोर्हंसोऽर्के मत्सरे च्युते ।
खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥ ५८१ ॥
निर्लोभनृपतौ प्रणवाते श्रेष्ठेऽग्रतः स्थितः ।
हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥ ५८२ ॥
- इति द्विस्वरसान्ताः ।
- द्विस्वरहान्ताः
अहिः सर्पे वृत्रे वप्रे स्यादीहोद्यमवाञ्छयोः ।
कुहूर्नष्टेन्दुदर्शे स्यात्क्वणिते कोकिलस्य च ॥ ५८३ ॥
ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे ।
उपरागे पूतनादावादित्यादौ विधुन्तुदे ॥ ५८४ ॥
ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः ।
गह्वरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि ॥ ५८५ ॥
प्रौहो निपुणतर्के स्याद्गजाङ्घ्रिपर्वणोरपि ।
बर्हः पर्णे परीवारे कलापे बहु भूयसि ॥ ५८६ ॥
त्र्यादिकासु च संख्यासु महावुत्सवतेजसी ।
मही भुवि नदीभेदे मोहौ मूर्च्छाविपर्ययौ ॥ ५८७ ॥
लोहं कालायसे सर्वतेजसे जोङ्गिकेऽपि च ।
वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ॥ ५८८ ॥
वृषे वाहा तु वाहौ स्याद् व्यूहो निर्वाणतर्कयोः ।
समूहे बलविन्यासे सहः क्षमे बलेऽपि च ॥ ५८९ ॥
सहोर्व्यां सहदेवायां कुमार्यां नखभेषजे ।
मूद्गपर्ण्यां च सिंहस्तु राशिभेदे मृगाधिपे ॥ ५९० ॥
श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि ।
वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥ ५९१ ॥
- इति द्विस्वरहान्ताः ।
- इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्रहे द्विस्वरकाण्डो द्वितीयः ॥ २ ॥