कथारम्भः ।
अस्ति भागीरथीतीरे पाटलिपुत्रनामधेय नगरम् । तत्र सर्वस्वामिगुणोपेत सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पठ्यमानं श्लोकद्वयं शुश्राव-
"अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । |
इत्याकर्ण्यात्मन पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिना शास्त्राननुष्ठानेनोद्विग्नमना स राजा चिन्तयामास-
"कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।। |
किञ्च-
स जातो येन जातेन याति वंशः समुन्नतिम् । |
अन्यच्च-
गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य । |
अपि च-
दाने तपसि शौर्ये च यस्य न प्रथितं यशः। |
अपरं च-
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । |