अथर्ववेदः/काण्डं १५/सूक्तम् १६

विकिस्रोतः तः
← सूक्तं १५.१५ अथर्ववेदः - काण्डं १५
सूक्तं १५.१६
अथर्वा
सूक्तं १५.१७ →
दे. अध्यात्मम्, व्रात्यः। १, ३ साम्नी उष्णिक्, २, ४-५ प्राजापत्या उष्णिक्, ६ याजुषी त्रिष्टुप्, ७ आसुरी गायत्री ।

योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥
योऽस्य द्वितीयोऽपानः साष्टका ॥२॥
योऽस्य तृतीयोऽपानः सामावास्या ॥३॥
योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥
योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥
योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥
योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥