सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
करुणविलासः


तरत्नसिंहासनमित्यर्थः । विलासिनीति संवोधनेन स्वाभाविकविलासस्तव मां विनर कथं सिद्ध्येदतः खर्गाप्तिरपि निःस्वभावत्वेन वरूपशून्यायाः कथं पुरुषार्थ इत्या- क्षेपान्तरमपि द्योत्यते । इति हेतोमै हृदयमिति योजना ॥

निर्दूषणा गुणवती रसभावपूर्णा
सालंकृतिः श्रवणकोमलवर्णराजिः ।
सा मामकीनकवितेव मनोभिरामा
रामा कदापि हृदयान्मम नापयाति ॥ ६॥

 निर्दूषणेति । विशेषणचतुष्टयं तु पक्षद्वयेऽपि स्पष्टमेव । श्रवणेति । श्रवणं श्रोत्रं तस्य कोमलानुद्वेजकत्वादतिप्रिया वर्णराजिणितादिक्षणोच्चारिताक्षरपङ्किः । पन्ने ‘तपःखाध्यायनिरतम्' इत्यादिग्रथिताक्षरसरणिर्यस्याः सा तथेत्यर्थः । एतादृशी सः पूर्वानुभूता । मामकीनेति । ममेयं मामकीना मदेकमुख्यवर्णनपरत्वेन मत्संब- न्धिनी श्रीमद्वाल्मीकिविरचितमहारामायणाभिधकवितेवेति यावत् । स्पष्टमन्यत्। अत्र कविवाक्यत्वभ्रान्तिस्त्वनालोचितपूर्वापरतात्पर्यतया विदुषामपि केषांचिदास्तां नाम परिपक्वाम्रफलविशेषे सिन्दूरधीरिव का नः क्षतिस्तावतावादितरसानामितर- रसानां चेति दिक् ॥

चिन्ता शशाम सकलापि सरोरुहाणा-
मिन्दोश्च बिम्बमसमा सुषमामयासीत् ।
अभ्युद्गतः कलकलः किल कोकिलाना
प्राणप्रिये यदवधि त्वमितो गतासि ॥ ७ ॥

 चिन्तेति । असमामतुल्याम् । निरुपमामित्यर्थः । अयासीत्। प्रापेति यावत्। शिष्टं तु स्पष्टमेव । इह क्रमेण त्रिपाद्यां चरमचरणेन सीतालोचनादेराननस्य वनस्य चाभावो हेतुत्वेन ध्वनितः ॥

सौदामनीविलसितप्रतिमानकाण्डे
दत्वा कियन्त्यपि दिनानि महेन्द्रभोगान् ।
मत्रोज्झितस्य नृपतेरिव राज्यलक्ष्मी-
र्भाग्यच्युतस्य करतो मम निर्गतासि ॥ ८ ॥

 सौदामनीति । तडित्सौदामनी विद्युत्' इत्यमराद्विद्युद्विक्रीडितसमत्वेन क्षणिकानित्यर्थः । एतेन दशसहस्रवर्षपर्यन्तत्वेऽपि वक्ष्यमाणविषयभोगेष्वनुपम-