आदिशङ्कराचार्यपूजाविधिः
॥ श्रीशङ्करभगवत्पाद पूजाविधिः ॥
॥ श्रीमदखण्डवरसिद्धश्रीशङ्करानन्दनाथसद्गुरुश्रीपादुकाभ्यो नमः ॥
[भस्म रुद्राक्षधारी उदङ्मुखः पूजोपकरणानि संमृत्य
पूजामारभेत् ]
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभन्तरः शुचिः ॥
[आचम्य]
ॐ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां
ध्रुवम् ॥
नमो ब्रह्मण्यदेव्याय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः ।
गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेcछृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नcछिदे तस्मै गणाधिपतये नमः ॥
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
देवतापूजनार्थाय घण्टानादं करोम्यहम् ॥ [इति घण्टानादं
कृत्वा]
भूतोत्सारणम्
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारः ते नश्श्यन्तु शिवाज्ञया ॥
अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम।
सर्वेषामविरोधेन पूजाकर्म समारभे ॥
आसनविधिः
आसनमहामन्त्रस्य पृथिव्या मेरुपृष्ठः ऋषिः कूर्मो देवता
सुतलं छंदः आसने विनियोगः ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
[मनुष्यगन्ध निवारणार्थं येभ्यो मातेति मन्त्रं जपेत्]
ॐ येभ्यो माता मधुमत्पिन्वते पयः पीयूषं
द्यौरदितिरद्रि बर्हाः । उक्थ शुष्मान्
वृषभरान्त्स्वप्न सस्ता{।म्+} आदित्या{।म्+} अनुमदा
स्वस्तये । एवा पित्रे विश्वदेवाय वृष्णे
यज्ञैर्विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा
वीरवन्तो वयं स्याम पतयो रयीणाम् ॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोऽपशान्तये ॥
[प्राणानायम्य]
[देशकालौ संकीर्त्य]ममोपात्त समस्त दुरितक्षयद्वारा
श्रीपरमेश्वर प्रीत्यर्थं अस्माकं सकुटुंबानां क्षेम स्थैर्य
विजय वीर्य अयुरारोग्यैश्वर्याभिवृद्ध्यर्थं
सर्वारिष्टशान्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं
श्रीशङ्करभगवत्पाद प्रसाद सिद्ध्यर्थं श्रीशङ्कराचार्य
चरणारविन्दयोः अचञ्चल निष्काम निष्कपट भक्तिसिद्ध्यर्थं
यथाशक्ति ध्यानावाहनादि षोडशैरुपचारैः
श्रीमcछङ्करभगवत्पाद पूजां करिष्ये ॥ तदङ्गत्वेन कलश
शंख आत्म पीठ पूजां च करिष्ये ॥
॥ कलशार्चनम् ॥
श्रीकलशाय नमः । दिव्यगन्धान्धारयामि ॥
[कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य परिमलद्रव्याणि
निक्षिप्य कलशं हस्तेनाcछाद्य]
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्wईपा वसुन्धरा ।
ऋग्वेदोऽथयजुर्वेदः सामवेदोऽप्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।
गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः ।
आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः ॥
ॐ आपो वा इद{।म्+} सर्वं विश्वा भूतान्यापः । प्राणा
वा आपः पशव
आपोऽन्नमापोऽमृतमापस्सम्राडापो
विराडापस्स्वराडापश्छंदा{।म्+}स्यापो
ज्योती{।म्+}ष्यापो यजू{।म्+}ष्यापस्सत्यमापस्सर्वा
देवता आपो भूर्भुवस्सुवराप ॐ ॥
ॐ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोम{।म्+}
सचतापरुष्णिया असिक्निया मरुद्वृधे
वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् ।
करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥
विधिहरिहररूपां सेन्दुकोटीरचूडाम् ।
कलितसितदुकूलां जाह्नवीं तां नमामि ॥
[गायत्र्या दक्षिणामूर्तिमूलेन च दशवारमभिमन्त्र्य
कलशमुखे पुष्पाणि निक्षिप्य कलशोदकेन आत्मानं
सर्वोपकरणानि च प्रोक्षयेत्]
॥ शंखपूजा ॥
[कलशोदकेन भूर्भुवस्सुवरोऽमिति शंखं प्रक्षाळ्य
चक्रमुद्रां प्रदर्श्य गायत्र्या दक्षिणामूर्तिमूलेन च शंखं
कलशजलेनापूर्य धेनुमुद्रां प्रदर्श्य परिमलद्रव्याणि
निक्षिप्य गन्धाक्षतपत्रपुष्पैः समभ्यर्चयेत्]
शंखमूले ब्रह्मणे नमः ।
शंखमध्ये जनार्दनाय नमः ।
शंखाग्रे चन्द्रशेखराय नमः ॥
[शंखं स्पृष्ट्वा]
शंखं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम् ।
पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शंखे तिष्ठन्ति विप्रेन्द्राः तस्माcछंखं प्रपूजयेत् ॥
त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे ।
पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥
गर्भा देवारिनारीणां विशीर्यन्ते सहस्रधा ।
तव नादेन पाताले पाञ्चजन्य नमोऽस्तुते ॥
दर्शनादेव शंखस्य किं पुनः स्पर्शनेन तु ।
विलयं यान्ति पापानि हिमवद्भास्करोदये ॥
नत्वा शंखं करे स्पृष्ट्वा मन्त्रैरेतस्तु वैष्णवैः ।
यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम् ॥
शंखमध्यस्थितं तोयं भ्रामितं केशवोपरि ।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् ॥
ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः
प्रचोदयात् ॥
[इति शंखगायत्रीं दशवारं जपित्वा शंखोदकेन किञ्चित्
कलशे निक्षिप्य देवस्यार्घ्यं दत्वा शंखोदकेन
पूजाद्रव्याणि आत्मानं च प्रोक्ष्य शेषं विसृज्य पुनः
शंखमापूर्य गन्धादिभिरभ्यर्च्य देवस्य दक्षिणदिग्भागे
स्थापयेत्]
॥ श्रीमहागणपति पूजा ॥
आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिपूजां करिष्ये ॥
ॐ गणाना।"ं त्वा गणपति{।म्+} हवामहे कविं
कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां
ब्रह्मणस्पत आनः शृण्वन्नूतिभिस्सीद सादनम् ॥
श्रीमहागणपतये नमः ध्यायामि । ध्यानं समर्पयामि ॥
श्रीमहागणपतये नमः अवाहयामि ।
श्रीमहागणपतये नमः आसनं कल्पयामि ।
श्रीमहागणपतये नमः पादारविन्दयोः पाद्यं पाद्यं
समर्पयामि ।
श्रीमहागणपतये नमः हस्तेषु अर्घ्यमर्घ्यं समर्पयामि ।
श्रीमहागणपतये नमः मुखारविन्दे आचमनीयमाचमनीयं
समर्पयामि ।
श्रीमहागणपतये नमः मलापकर्षणस्नानं समर्पयामि ।
श्रीमहागणपतये नमः फलपञ्चामृतस्नानं समर्पयामि ।
श्रीमहागणपतये नमः शुद्धोदकस्नानं समर्पयामि ।
श्रीमहागणपतये नमः स्नानाङ्गमाचमनीयमाचमनीयं
समर्पयामि ।
श्रीमहागणपतये नमः वस्त्रयुग्मं समर्पयामि ।
श्रीमहागणपतये नमः आचमनीयमाचमनीयं समर्पयामि ।
श्रीमहागणपतये नमः यज्ञोपवीतं समर्पयामि ।
श्रीमहागणपतये नमः आचमनीयमाचमनीयं समर्पयामि ।
श्रीमहागणपतये नमः आभरणानि समर्पयामि ।
श्रीमहागणपतये नमः दिव्यगन्धान्धारयामि ।
श्रीमहागणपतये नमः अक्षतान् समर्पयामि ।
।ऽथ नामपूजा ॥
ॐ सुमुखाय नमः ।
ॐ एकदन्ताय नमः ।
ॐ कपिलाय नमः ।
ॐ गजकर्णकाय नमः ।
ॐ लम्बोदराय नमः ।
ॐ विकटाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ धूम्रकेतवे नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ फालचन्द्राय नमः ।
ॐ गजाननाय नमः ।
श्रीमहागणपतये नमः नानाविध परिमलपत्रपुष्पाणि
समर्पयामि ॥
श्रीमहागणपतये नमः धूपमाघ्रापयामि ।
श्रीमहागणपतये नमः दीपं दर्शयामि ।
श्रीमहागणपतये नमः धूपदीपानन्तरं
आचमनीयमाचमनीयं समर्पयामि ।
श्रीमहागणपतये नमः अमृतनैवेद्यं समर्पयामि ।
श्रीमहागणपतये नमः ताम्बूलं समर्पयामि ।
श्रीमहागणपतये नमः दिव्यमङ्गलनीराजनं दर्शयामि ।
ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु
लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये
नमो नमः ॥
श्रीमहागणपतये नमः मन्त्रपुष्पं समर्पयामि ॥
श्रीमहागणपतये नमः प्रदक्षिणनमस्कारान् समर्पयामि ।
श्रीमहागणपतये नमः प्रसन्नार्घ्यं समर्पयामि ।
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
श्रीमहागणपतये नमः प्रार्थयामि ।
श्रीमहागणपतये नमः समस्तोपचारपूजाः समर्पयामि ।
अनया पूजया श्रीमहागणपतिः प्रीयताम् ॥
॥ आत्मपूजा ॥
आत्मने नमः दिव्यगन्धान् धारयामि ॥
आत्मने नमः ।
अन्तरात्मने नमः ।
जीवात्मने नमः ।
योगात्मने नमः ।
परमात्मने नमः ।
ज्ञानात्मने नमः समस्तोपचारान् समर्पयामि ॥
देहो देवालयः प्रोक्तः जीवो देवः सनातनः ।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥
आराधयामि मणिसन्निभमात्मलिङ्गं
मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकैः नित्यं
समाधिकुसुमैरपुनर्भवाय ॥
॥ मण्टपध्यानम् ॥
उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् ।
शुद्धस्फाटिकभित्तिकाविरचितैः स्तम्भैश्च हेमैश्शुभैः ॥
द्वारैश्चामररत्नराजखचितैः वज्रैश्च सोपानकैः ।
नानारत्नविचित्रस्वर्णकलशैः ध्यायेन्महामण्टपम् ॥
॥द्वारदेवता पूजा॥
ॐ पूर्वद्वारे द्वारश्रियै नमः ॐ धात्रे नमः । ॐ विधात्रे
नमः ॥
ॐ दक्षिणद्वारे द्वारश्रियै नमः ॐ जयाय नमः । ॐ विजयाय
नमः ॥
ॐ पश्चिमद्वारे द्वारश्रियै नमः ॐ चण्डाय नमः । ॐ
प्रचण्डाय नमः ॥
ॐ उत्तरद्वारे द्वारश्रियै नमः ॐ नन्दाय नमः । ॐ सुनन्दाय
नमः ॥
ॐ ऊर्ध्वद्वारे द्वारश्रियै नमः ॐ आकाशाय नमः । ॐ
अन्तरिक्षाय नमः ॥
ॐ अधोद्वारे द्वारश्रियै नमः ॐ भूम्यै नमः । ॐ पातालाय
नमः ॥
ॐ पूर्वे धर्माय नमः ।
ॐ दक्षिणे ज्ञानाय नमः ।
ॐ पश्चिमे वैराग्याय नमः ।
ॐ उत्तरे ऐश्वर्याय नमः ॥
॥ अष्टदिक्पाल पूजा ॥
ॐ इन्द्राय नमः ।
ॐ अग्नये नमः ।
ॐ यमाय नमः ।
ॐ निरृतये नमः ।
ॐ वरुणाय नमः ।
ॐ वायवे नमः ।
ॐ कुबेराय नमः ।
ॐ ईशानाय नमः ॥
॥ पीठपूजा ॥
ॐ आधारशक्त्यै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ आदिकूर्माय नमः ।
ॐ वराहाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अष्टदिग्गजेभ्यो नमः ।
ॐ क्षीरार्णवाय नमः ।
ॐ श्वेतद्wईपाय नमः ।
ॐ कल्पवृक्षाय नमः ।
ॐ सुवर्णमण्टपाय नमः ।
ॐ सं सत्वाय नमः ।
ॐ रं रजसे नमः ।
ॐ तं तमसे नमः ।
ॐ वह्निमण्डलाय नमः ।
ॐ सूर्यमण्डलाय नमः ।
ॐ सोममण्डलाय नमः ।
ॐ ह्रीं ज्ञानात्मने नमः ।
ॐ चतुर्दशलोकेभ्यो नमः ।
ॐ सप्तसागरेभ्यो नमः ।
ॐ अङ्कुराय नमः ।
ॐ नाळाय नमः ।
ॐ पत्रेभ्यो नमः ।
ॐ केसरेभ्यो नमः ।
ॐ दलेभ्यो नमः ॥
ध्यानम्
कैलासाचलमध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्त दिव्यमानुषविग्रहम् ॥
भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।
सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानम् ।
वामे नम्रेष्टदान प्रकटनचतुरं चिह्नमप्यादधानम् ॥
कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशम् ।
चन्द्राहङ्कारहुङ्कृत् स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥
अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं ध्यायामि
॥
आवाहनम्
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥
सद्गुरो शङ्कराचार्य रूपान्तरितविग्रह ।
साक्षाcछ्रीदक्षिणामूर्ते कृपयाऽऽवाहितो भव ॥
अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं
आवाहयामि ॥
आसनम्
ॐ पुरुष एवेद{।म्+} सर्व।"ं यद्भूतं यcच भव्यम।" ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
आर्याम्बा गर्भसम्भूत मातृवात्सल्यभाजन ।
जगद्गुरुददाम्येतद्रत्नसिंहासनं शुभम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रत्नसिंहासनं
समर्पयामि ॥
पाद्यम्
ॐ एतावानस्य महिमा अतो ज्याया{।म्+}श्च पूरुषः ।
पादोऽ।"स्य विश्वा भूतानि त्रिपादस्यामृतं दिवि
॥
विद्यधिराजसत्पौत्र विद्याव्यासङ्गतत्पर ।
विश्वविख्यात वैदुष्य पाद्यमेतद्ददाम्यहम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पादारविन्दयोः
पाद्यं पाद्यं समर्पयामि ॥
अर्घ्यम्
ॐ त्रिपादूर्ध्व उदैत्पुरुषः
पादो।"ऽस्येहाभवात्पुनः ।
ततो विश्wअं व्यक्रामत् साशनानशने अभि ॥
शिवगुर्वन्वयाम्बोधि शरत्पर्वनिशाकर ।
शिवावतार भगवन् गृहाणार्घ्यं नमोऽस्तुते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः हस्तयोः
अर्घ्यमर्घ्यं समर्पयामि ॥
आचमनम्
तस्मा।"द्विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥
दरिद्रब्राह्मणीसद्म स्वर्णामलकवर्षक ।
विस्मापकस्वात्मवृत्त ददाम्याचमनीयकम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मुखारविन्दे
आचमनीयमाचमनीयं समर्पयामि ॥
॥ मधुपर्कम् ॥
ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वी।"र्नः सन्त्वोषधीः ।
मधुमक्तमुतोषसि मधुमत्पार्थिव{।म्+} रजः ।
मधु द्यौरस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमा{।म्+} अस्तु सूर्यः ।
माध्wईर्गावो भवन्तु नः ॥
जननीसमनुज्ञात सन्यासाश्रमसङ्ग्रह ।
गन्धर्वशापशमन मधुपर्कं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मधुपर्कं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
आचमनीयमाचमनीयं समर्पयामि ॥
॥ स्नानम् ॥
ॐ यत्पुरुषेण हविषा।" देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्य।"ं ग्रीष्म इध्मश्शरद्धविः ॥
ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन ।
महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य
भाजयतेह नः । उशतीरिव मातरः । तस्मा अरङ्ग
मामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
मलापकर्षणस्नानं समर्पयामि ॥
ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम् ।
भवा वाजस्य संगथे ॥
ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः
। भवे भवे नाति भवे भवस्व मां भवोद्भवाय
नमः ॥
कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् ।
पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः क्षीरस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभिनो मुखा करत्प्रण अयू{।म्+}षि तारिषत् ॥
ॐ वामदेवाय नमो।" ज्येष्ठाय नमः श्रेष्ठाय
नमो रुद्राय नमः कालाय नमः कलविकरणाय
नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय
नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥
चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि ।
स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः दधिस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ शुक्रमसि ज्योतिरसि तेजोऽसि देवो
वस्सवितोत्पुनात्वcछिद्रेण पवित्रेण वसोस्सूर्यस्य
रश्मिभिः ॥
ॐ अघोरे।"भ्योऽथ घोरे।"भ्यो घोरघोरतरेभ्यः ।
सर्वे।"भ्यस्सर्वशर्वे।"भ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥
आज्यं सुराणामाहारः आज्यं यज्ञे प्रतिष्ठितम् ।
आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः आज्यस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वी।"र्नः सन्त्वोषधीः ।
मधुमक्तमुतोषसि मधुमत्पार्थिव{।म्+} रजः ।
मधु द्यौरस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमा{।म्+} अस्तु सूर्यः ।
माध्wईर्गावो भवन्तु नः ॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः
प्रचोदया।"त् ॥
सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ।
स्नानार्थं ते प्रयcछामि गृहाण परमेश्वर ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मधुस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्रा।"य
सुहवी।"तु नाम्ने ।
स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये
मधुमा{।म्+} अदा।"भ्यः ॥
ॐ ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां
ब्रह्माऽधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु
सदाशिवोम् ॥
इक्षुदण्दसमुद्भूत दिव्यशर्करया गुरुम् ।
स्नपयामि सदा भक्त्या प्रीतो भव महेश्वर ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शर्करास्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ याः फलिनीर्या अफला अपुष्पा याश्च
पुष्पिणी।"ः ।
बृहस्पति प्रसूतास्तानो मुंचंत्व{।म्+} हसः ॥
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
तस्मादस्याभिषेकेण सफलास्युर्मनोरथाः ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः नारिकेळ
फलोदकस्नानं समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
गोविन्दभगवत्पाद पादसेवादुरन्धर ।
महावाक्योपदेशाढ्य स्नाहि पञ्चामृतद्रवैः ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
फलपञ्चामृतस्नानं समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ ओषधयः सम्वदन्ते सोमेन सहराज्ञा।" । यस्मै
करोति ब्राह्मणस्त{।म्+} राजन् पारयामसि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः ओषधिस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां
करीषिणी।"म् ।
ईश्वरी{।म्+} सर्वभूतानां तामिहोपह्वये श्रियम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः गन्धोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ आयनेते परायणे दूर्वा।" रोहन्तु पुष्पिणी।"ः ।
ह्रदाश्च पुण्डरी।"काणि समुद्रस्य गृहा इमे ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पुष्पोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ उपा।"स्मै गायता नरः पवमानायेन्दवे ।
अभिदेवा{।म्+} इयक्षते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः अक्षतोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ तथ्सुवर्ण{।म्+} हिरण्यमभवत् । तथ्सुवर्णस्य
हिरण्यस्य जन्म । य एव{।म्+} सुवर्णस्य हिरण्यस्य
जन्म वेद । सुवर्ण आत्मना भवति ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः सुवर्णोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
माऽमृता।"त् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रुद्राक्षोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ मा नस्तोके तनये मान आयुषि मा नो गोषु मा
नो अश्वेषु रीरिषः । वीरान्मानो रुद्र भामितो
वधीर्हविष्मन्तो नमसा विधेम ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः भस्मस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ नमो बिल्मिने च कवचिने च नमः श्रुताय च
श्रुतसेनाय च ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः बिल्वोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ काण्डा।"त्काण्डात्प्ररोहन्ती परुषः परुषः परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः दूर्वोदकस्नानं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन ।
महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य
भाजयतेह नः । उशतीरिव मातरः । तस्मा अरङ्ग
मामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः शुद्धोदकस्नानं
समर्पयामि ॥
॥ अभिषेकः ॥
वाराणसीपुरी रम्यगङ्गातीरनिषेवक ।
गङ्गादितीर्थैः श्रीरुद्रमन्त्रैस्त्वां स्नपयाम्यहम् ॥
ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय। गातुं
यज्ञपतये । दैवी।"स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे।"। श।म्
चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥
ॐ सहस्रशीर्षा पुरुषः । सहस्राक्षः
सहस्रपात् । स भूमि।म् विश्वतो वृत्वा ।
अत्यतिष्टद्दशाङ्गुलम् । पुरुष एवेद{।म्+} सर्वम।" ।
यद्भूत।म् यच्च भव्यम।"। उतामृतत्वस्येषानः ।
यदन्नेनातिरोहति । एतावानस्य महिमा । अतो
ज्याया{।म्+}श्च पूरुषः। पादो।"ऽस्य विश्वा भूतानि
। त्रिपादस्यामृत।म् दिवि । त्रिपादूर्ध्व
उदैत्पुरुषः । पादो।"ऽस्येहाऽऽभवात्पुनः । ततो
विश्वङ्व्यक्रामत् । साशनानशने अभि ।
तस्मा।"द्विराडजायत । विराजो अधि पूरुषः । स जातो
अत्यरिcयत । पश्चाद्भूमिमथो पुरः । यत्पुरुषेण
हविषा।" । देवा यज्ञमतन्वत । वसन्तो
अस्यासीदाज्यम।"। ग्रीष्म इध्मश्शरद्धविः ।
सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः ।
देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुष।म् पशुम् ।
त।म् यज्ञ।म् बर्हिषि प्रौक्ष्हन। पुरुष।म्
जातमग्रतः । तेन देवा अयजन्त । साध्या
ऋषयश्च ये । तस्मा।"द्यज्ञाथ्सर्व हुतः ।
स।म्भृत।म् पृषदाज्यम् । पशू{।म्+}स्ता{।म्+}श्चक्रे
वायव्यान् । आरण्यान् ग्राम्याश्च ये ।
तस्मा।"द्यज्ञाथ्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।
छन्दा{।म्+}सि जज्ञिरे तस्मा।"त् । यजुस्तस्मादजायत ।
तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह
जज्ञिरे तस्मा।"त् । तस्मा।"ज्जाता अजावयः ।
यत्पुरुष।म् व्यदधुः । कतिधा व्यकल्पयन् । मुख।म्
किमस्य कौ बाहू । कावूरू पादावुcयेते ।
ब्राह्मणो।"ऽस्य मुखमासीत् । बाहू राजन्यः कृतः
। ऊरू तदस्य यद्वैश्यः । पद्भ्या{।म्+} शूद्रो अजायत
। चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।
पद्भ्या।म् भूमिर्दिशः श्रोत्रा।"त् । तथा लोका{।म्+}
अकल्पयन् । वेदाहमेत।म् पुरुष।म् महान्तम।" ।
आदित्यवर्ण।म् तमसस्तु पारे। सर्वाणि रूपाणि
विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते।"।
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्
प्रदिशश्चतस्रः । तमेव।म् विद्वानमृत इह
भवति । नान्यः पन्था अयनाय विद्यते । यज्ञेन
यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् ।
ते ह नाक।म् महिमानस्सचन्ते । यत्र पूर्वे
साध्यास्सन्ति देवाः ।
अद्भ्यः स।म्भूतः पृथिव्यै रसा।"च्च ।
विश्वकर्मणस्समवर्तताधि । तस्य त्वष्टा
विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे।"
। वेदाहमेत।म् पुरुष।म् महान्तम।"। आदित्यवर्ण।म्
तमसः परस्तात। तमेव।म् विद्वानमृत इह भवति ।
नान्यः पन्था विद्यतेयऽनाय । प्रजापतिश्चरति
गर्भे अन्तः । अजायमनो बहुधा विजायते। तस्य
धीराः परिजानन्ति योनिम।"। मरीचीना।म् पदमिच्छन्ति
वेधसः॥ यो देवेभ्य आतपति । यो देवाना।"।म्
पुरोहितः। पूर्वो यो देवेभ्यो जातः । नमो रुचाय
ब्राह्मये। रुच।म् ब्राह्मम् जनयन्तः । देवा अग्रे
तदब्रुवन। यस्त्वैव।म् ब्रा।"ह्मणो विद्यात् । तस्य देवा
असन् वशे।"। ह्रीश्च ते लक्ष्मीश्च पत्न्यौ।"।
अहोरात्रे पार्श्वे। नक्षत्राणि रूपम् । अश्विनौ
व्यात्तम।"। इष्टम् मनिषाण । अमु।म् मनिषाण। सर्वम्
मनिषण ॥
तच्छं योरावृणीमहे । गातुं यज्ञाय। गातुं
यज्ञपतये । दैवी।"स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे।"। श।म्
चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥
ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय
चारुणाय च नमः शङ्गाय च पशुपतये च
नम उग्राय च भीमाय च नमो अग्रेवधाय च
दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो
वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय
नमश्शंभवे च मयोभवे च नमः शंकराय च
मयस्कराय च नमः शिवाय च शिवतराय च
नमस्तीर्थ्याय च कूल्याय च नमः पार्याय
चावार्याय च नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च नमः शष्प्याय
च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
माऽमृता।"त् ॥
ॐ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा
भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ॥
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे
। तान् यज्ञस्य मायया सर्वानव यजामहे । मृत्यवे
स्वाहा मृत्यवे स्वाहा।" ॥ ॐ नमो भगवते रुद्राय विष्णवे
मृत्युर्मे पाहि । प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः
। तेनान्नेना।"प्यायस्व ॥ ६॥ नमो रुद्राय विष्णवे मृत्युर्मे
पाहि । सदाशिवोम् ॥
ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च
मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च
मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च
मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च
मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म
ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च
मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च
मेऽभयं च मे सुगं च मे शयनं च मे सूषा च
मे सुदिनं च मे ॥
ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
श{।म्+}सिषद्विश्वेदेवाः सू।"क्तवाचः
पृथिवीमातर्मा मा हि{।म्+}सीर्मधु मनिष्ये मधु
जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं
देवेभ्यो वाचमुद्यास{।म्+} शुश्रूषेण्या।"ं
मनुष्ये।"भ्यस्तं मा देवा अवन्तु शोभायै
पितरोऽनुमदन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनी।"म् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २ ॥
अश्वपूर्वां रथमध्यां हस्तिना।"दप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा।" देवी जुषताम् ॥ ३ ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं
तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां
तामिहोपह्वये श्रियम् ॥ ४ ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके
देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं
प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५ ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव
वृक्षोऽथ बिल्वः । तस्य फला।"नि तपसानुदन्तु
मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६ ॥
उपैतु मां दे।"वसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं
ददातु मे ॥ ७ ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ॥
८ ॥
गंधद्वारां दुराधर्षां नित्यपुष्टां
करीषिणी।"म् । ईश्वरी।"ं सर्वभूतानां
तामिहोपह्वये श्रियम् ॥ ९ ॥
मनसः काममाकू।"तिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः
॥ १० ॥
कर्दमेन प्रजाभूतामयि सम्भव कर्दम । श्रियं
वासय मे कुले मातरं पद्ममालिनीम् ॥ ११ ॥
आपः सृजन्तु स्निग्धानि चिक्लीत वसमे गृहे । नि
च देवीं मातरं श्रियं वासय मे कुले ॥ १२ ॥
आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३ ॥
आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम्
। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४
॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनी।"म् ।
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वा।"न्
विन्देयं पुरुषानहम् ॥ १५ ॥
महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो
लक्ष्मीः प्रचोदया।"त् ॥
ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः
।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं
दुरितात्यग्निः ॥ १॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं
कर्मफलेषु जुष्टा।"म् ।
दुर्गां देवी{।म्+} शरणमहं प्रपद्ये सुतरसितरसे
नमः ॥ २॥
अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि
विश्वा।" ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय
तनयाय शं योः ॥ ३॥
विश्वानि नो दुर्गहा जातवेदस्सिन्धुन्ननावा
दुरिताऽतिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानो।"ऽस्माकं बोद्ध्यविता
तनूना।"म् ॥ ४॥
पृतनाजित{।म्+} सहमानमुग्रमग्नि{।म्+} हुवेम
परमाथ्सधस्था।"त् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति
दुरितात्यग्निः ॥ ५॥
प्रत्नोषिकमीड्यो अध्वरेषु सनाcच होता
नव्यश्च सथ्सि ।
स्वाञ्चा।"ग्ने तनुवं पिप्रयस्वास्मभ्यं च
सौभगमायजस्व ॥ ६॥
गोभिर्जुष्टमयुजो निषिक्तं तवे।"न्द्र
विष्णोरनुसञ्चरेम ।
नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक
इहमादयन्ताम् ॥ ७॥
कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो
दुर्गिः प्रचोदया।"त् ॥
ॐ भूर्भुवस्स्wअः । अमृताभिषेकोऽस्तु ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ॥
वस्त्रयुग्मम्
ॐ सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः
। देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुष।म् पशुम्
।
भाष्यभागीरथीपाथः पवित्रीकृतभूतल ।
भाष्यप्रवचनासक्त वस्त्रयुग्मं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः वस्त्रयुग्मं
समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
आचमनीयमाचमनीयं समर्पयामि ॥
श्रीगन्धम्
ॐ त।म् यज्ञ।म् बर्हिषि प्रौक्ष्हन। पुरुष।म्
जातमग्रतः । तेन देवा अयजन्त । साध्या
ऋषयश्च ये । तस्मा।"द्यज्ञाथ्सर्व हुतः ।
स।म्भृत।म् पृषदाज्यम् । पशू{।म्+}स्ता{।म्+}श्चक्रे
वायव्यान् । आरण्यान् ग्राम्याश्च ये ।
गंधद्वारां दुराधर्षां नित्यपुष्टां
करीषिणी।"म् । ईश्वरी।"ं सर्वभूतानां
तामिहोपह्वये श्रियम् ॥
सनन्दनादि मेधाविपण्डितcछात्र सम्वृत ।
सर्वशास्त्रार्थनिपुण गन्धान् धारय सादरम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
दिव्यगन्धान्धारयामि ॥
अक्षतम्
ॐ तस्मा।"द्यज्ञाथ्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।
छन्दा{।म्+}सि जज्ञिरे तस्मा।"त् । यजुस्तस्मादजायत ।
आयनेते परायणे दूर्वा।" रोहन्तु पुष्पिणी।"ः ।
ह्रदाश्च पुण्डरी।"काणि समुद्रस्य गृहा इमे ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः गन्धस्योऽपरि
अलङ्करणार्थे अक्षतान् समर्पयामि ॥
भस्मोद्धूलनम्
ॐ मा नस्तोके तनये मान आयुषि मा नो गोषु मा
नो अश्वेषु रीरिषः । वीरान्मानो रुद्र भामितो
वधीर्हविष्मन्तो नमसा विधेम ते ॥
वृद्धवेषप्रतिcछन्न व्याससन्दर्शनोत्सुक ।
भस्मोद्धूलितसर्वाङ्ग भस्म दिव्यं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः भस्मोद्धूलनं
समर्पयामि ॥
कुङ्कुमचूर्णम्
व्यासदत्त वरप्राप्त षोडशाब्दायुरुज्ज्वल ।
किङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः कुङ्कुमचूर्णं
समर्पयामि ॥
रुद्राक्षमालिका
श्रीमन्मण्डनमिश्रादि वादकेळिविशारद ।
दुर्वादतूलवातूल भज रुद्राक्षमालिकाम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रुद्राक्षमालिकां
समर्पयामि ॥
ॐ नमो बिल्मिने च कवचिने च नमः श्रुताय च
श्रुतसेनाय च ॥
श्रीमन्मण्डनकर्णोक्त महावाक्यादिमन्त्रक ।
सुरेश्वराख्या सन्दायिन् बिल्वपत्रं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः बिल्वपत्रं
समर्पयामि ॥
पुष्पमालिका
ॐ तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह
जज्ञिरे तस्मा।"त् । तस्मा।"ज्जाता अजावयः ।
सुरेश पद्मचरण हस्तामलक तोटकैः ।
अन्यैश्च शिष्यैः सम्वीत पुष्पमालां ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पुष्पमालिकां
समर्पयामि ॥
॥ अथ पत्रपूजा ॥
ॐ शिवरूपाय नमः बिल्वपत्रं समर्पयामि ।
ॐ शक्तिरूपाय नमः कदम्बपत्रं समर्पयामि ।
ॐ विष्णुरूपाय नमः तुलसीपत्रं समर्पयामि ।
ॐ लक्ष्मीरूपाय नमः तामरसपत्रं समर्पयामि ।
ॐ ब्रह्मरूपाय नमः दाडिमीपत्रं समर्पयामि ।
ॐ सरस्वतीरूपाय नमः मल्लिकापत्रं समर्पयामि ।
ॐ गणपतिरूपाय नमः दूर्वापत्रं समर्पयामि ।
ॐ षण्मुखरूपाय नमः मरुवकपत्रं समर्पयामि ।
ॐ श्रीचक्र रूपाय नमः अशोकपत्रं समर्पयामि ।
ॐ श्रीदक्षिणामूर्तिरूपाय नमः नानाविध पत्राणि समर्पयामि
॥
॥ अथ पुष्पपूजा ॥
ॐ शिवरूपाय नमः जातीपुष्पं समर्पयामि ।
ॐ शक्तिरूपाय नमः कदम्बपुष्पं समर्पयामि ।
ॐ विष्णुरूपाय नमः तुलसीपुष्पं समर्पयामि ।
ॐ लक्ष्मीरूपाय नमः पद्मपुष्पं समर्पयामि ।
ॐ ब्रह्मरूपाय नमः श्वेतकमलपुष्पं समर्पयामि ।
ॐ सरस्वतीरूपाय नमः मल्लिकापुष्पं समर्पयामि ।
ॐ गणपतिरूपाय नमः कल्हारपुष्पं समर्पयामि ।
ॐ षण्मुखरूपाय नमः जपापुष्पं समर्पयामि ।
ॐ श्रीचक्र रूपाय नमः अशोकपुष्पं समर्पयामि ।
ॐ श्रीदक्षिणामूर्तिरूपाय नमः नानाविध पुष्पाणि
समर्पयामि ॥
॥ श्रीशङ्कराचार्याष्टोत्तरशतनामावलिः ॥
ॐ श्रीमत्कैलासनिलयशङ्कराय नमो नमः ।
ॐ ब्रह्मविद्याऽम्बिकाश्लिष्टवामाङ्गाय नमो नमः ।
ॐ ब्रह्मोपेन्द्रमहेन्द्रादिप्रार्थिताय नमो नमः ।
ॐ भक्तानुग्रहणैकान्तशान्तस्वान्ताय ते नमः ।
ॐ नास्तिकाक्रान्तवसुधा पालकाय नमो नमः ।
ॐ कर्मकाण्डावनस्कन्दप्रेषकाय नमो नमः ।
ॐ लोकानुग्रहणोपात्तनृदेहाय नमो नमः ।
ॐ कालटीक्षेत्रवासादिरसिकाय नमो नमः ।
ॐ पूर्णानदीतीरवासलोलुपाय नमो नमः ।
ॐ विद्याधिराजसद्वंशपावनाय नमो नमः ॥ १० ॥
ॐ आर्याम्बिकागर्भवासनिर्भराय नमो नमः ।
ॐ शिवगुर्वाप्तसुकृतसत्फलाय नमो नमः ।
ॐ आर्याशिवगुरुप्रीतिभाजनाय नमो नमः ।
ॐ ईश्वराब्धीयवैशाखपञ्चमीजन्मने नमः ।
ॐ निजावतारानुगुण शङ्कराख्याभृते नमः ।
ॐ नामसंख्यासमुन्नेयजन्मकालाय ते नमः ।
ॐ शङ्कराख्यासुविख्यातमङ्गलाय नमो नमः ।
ॐ पितृदत्तान्वर्थभूतनामधेयाय ते नमः ।
ॐ बाललीलातोषितस्वमातृकाय नमो नमः ।
ॐ प्रथमाब्दाभ्यस्तनानाभाषाढ्याय नमो नमः ॥ २० ॥
ॐ द्वितीयाब्दकृतस्wईयसcचूडाकृतये नमः ।
ॐ निजतातवियोगार्तमात्राश्वासकृते नमः ।
ॐ मातृकारितसद्विप्रसम्स्काराय नमो नमः ।
ॐ पलाशदण्डमौञ्ज्यादिभासुराय नमो नमः ।
ॐ सन्ध्याग्निसेवानुष्ठाननिरताय नमो नमः ।
ॐ विद्यागुरुकुलैकान्तनिवासाय नमो नमः ।
ॐ विद्याग्रहणनैपुण्यविस्मापनकृते नमः ।
ॐ अभ्यस्यवेदवेदाङ्गसन्दोहाय नमो नमः ।
ॐ भिक्षाशनादिनियमपालकाय नमो नमः ।
ॐ विद्याविनयसम्पत्तिविख्याताय नमो नमः ॥ ३० ॥
ॐ भिक्षामलकसन्दातृसतीशोकहृते नमः ।
ॐ स्वर्णामलकसद्वृष्टिकारकाय नमो नमः ।
ॐ न्यायसांख्यादिशास्त्राब्धिमथनाय नमो नमः ।
ॐ जैमिनीयनयार्णोधिकर्णधाराय ते नमः ।
ॐ पातञ्जलनयारण्यपञ्चास्याय नमो नमः ।
ॐ मातृशुश्रूषणासक्तमानसाय नमो नमः ।
ॐ पूर्णासामीप्यसन्तुष्टमातृकाय नमो नमः ।
ॐ केरलेशकृतग्रन्थप्रेक्षकाय नमो नमः ।
ॐ दत्तराजोपहारादिनिराशाय नमो नमः ।
ॐ स्वावतारफलप्राप्तिनिरीक्षणकृते नमः ॥ ४० ॥
ॐ सन्यासग्रहणोपायचिन्तकाय नमो नमः ।
ॐ नक्रग्रहमिषावाप्तमात्राज्ञाय नमो नमः ।
ॐ प्रैषोcचारणसंत्यक्तनक्रपीडाय ते नमः ।
ॐ अन्त्यकालस्वसानिध्यशम्सकाय नमो नमः ।
ॐ गोविन्दभगवत्पादान्वेषकाय नमो नमः ।
ॐ गोविन्दशिष्यताप्राप्तिप्रशम्सनकृते नमः ।
ॐ आर्यपादमुखावाप्तब्रह्मविद्याय ते नमः ।
ॐ नर्मदातटिनीतीरस्तम्भकाय नमो नमः ।
ॐ गुर्वनुज्ञातविश्वेशदर्शनाय नमो नमः ।
ॐ वाराणसीविश्वनाथक्षेत्रगाय नमो नमः ॥ ५० ॥
ॐ चण्डालाकृतिविश्वेशवादसंश्राविणे नमः ।
ॐ मनीषापञ्चकस्तोत्रश्रावकाय नमो नमः ।
ॐ साक्षात्कृतमहादेवस्वरूपाय नमो नमः ।
ॐ गुरुविश्वेश्वराज्ञप्तभाष्यग्रन्थकृते नमः ।
ॐ नानाभाष्यप्रकरणस्तोत्रजातकृते नमः ।
ॐ देवतागुरुविप्रादिभक्तिसंधुक्षिणे नमः ।
ॐ भाष्याद्यध्यापनासक्तमानसाय नमो नमः ।
ॐ आनन्दादिशिष्यौघसंवृताय नमो नमः ।
ॐ पद्मपादाभिधालाभहृष्टशिष्याय ते नमः ।
ॐ आचार्यभक्तिमाहात्म्यनिदर्शनकृते नमः ॥ ६० ॥
ॐ वृद्धव्यासपरामृष्टभाष्यार्थाय नमो नमः ।
ॐ व्यासप्रशंसिताशेषभाष्यजाताय ते नमः ।
ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीतिकृते नमः ।
ॐ नारायणावतारत्वस्मारकाय नमो नमः ।
ॐ वेदव्यासवरप्राप्तषोडशाब्दायुषे नमः ।
ॐ कुमारिलजयाशम्साशम्सकाय नमो नमः ।
ॐ तुषाग्निस्थितभट्टोक्तिश्लाघकाय नमो नमः ।
ॐ सुब्रह्मण्यावतारश्रीभट्टनुग्राहिणे नमो नमः ।
ॐ मण्डनाख्यमहासूरिविजयाशम्सिने नमः ।
ॐ माहिष्मतीपुरोपान्तपावनाय नमो नमः ॥ ७० ॥
ॐ शुकसूचिततद्गेहदर्शकाय नमो नमः ।
ॐ वादभिक्षापेक्षणादिस्वाशयोद्घाटिने नमः ।
ॐ व्यासजैमिनिसानिध्यवावदूकाय ते नमः ।
ॐ मण्डनीयप्रश्नजातोत्तरदात्रे नमो नमः ।
ॐ मध्यस्थभारतीवाक्यप्रमाणाय नमो नमः ।
ॐ मालामालिन्यनिर्विण्णमण्डनार्यजिते नमः ।
ॐ प्रवृत्तिमार्गपारम्यवारकाय नमो नमः ।
ॐ कर्मकाण्डीयतात्पर्योद्धारकाय नमो नमः ।
ॐ ज्ञानकाण्डप्रमाणत्वसमर्थनकृते नमः ।
ॐ युक्तिसाहस्रतोऽद्वैतसाधकाय नमो नमः ॥ ८० ॥
ॐ जीवब्रह्मैक्यसिद्धान्तसंस्थापनकृते नमः ।
ॐ निजापजयनिर्विण्णमण्डनेड्यपदे नमः ।
ॐ सन्यासकृन्मण्डनानुग्राहकाय नमो नमः ।
ॐ महावाक्योपदेशादिदायकाय नमो नमः ।
ॐ सुरेश्वराभिधाजुष्टशिष्यानुग्राहिणे नमः ।
ॐ वनदुर्गामन्त्रबद्धभारतीवपुषे नमः ।
ॐ शृङ्गाद्रिक्षेत्रसानिध्यप्रार्थकाय नमो नमः ।
ॐ श्रीशारदादिव्यमूर्तिस्थापकाय नमो नमः ।
ॐ शृङ्गाद्रिशारदपीठसंस्थापनकृते नमः ।
ॐ द्वादशाब्दनिजावासपूतशृङ्गाद्रये नमः ॥ ९० ॥
ॐ प्रत्यहं भाष्यपाठादिकालक्षेपकृते नमः ।
ॐ अन्त्यकालस्मृतिप्राप्तमातृपार्श्वाय ते नमः ।
ॐ मातृसंस्कारनिर्व्यूढप्रतिज्ञाय नमो नमः ।
ॐ पञ्चपादीसमुद्धारप्रीतपद्माङ्घ्रये नमः ।
ॐ स्ववधोद्युक्तकापालिकोपेक्षणकृते नमः ।
ॐ स्वशिष्यमारितस्wईयमारकाय नमो नमः ।
ॐ परकायप्रवेशादियोगसिद्धिमते नमः ।
ॐ लक्ष्मीनृसिंहकरुणाशान्तदेहाधये नमः ।
ॐ गोकर्णनाथमूकाम्बासन्दर्शनकृते नमः ।
ॐ मृतपुत्रोज्जीवनादिमहाश्चर्यकृते नमः ॥ १०० ॥
ॐ मूकबालकसम्भाषाद्यमानुषकृते नमः ।
ॐ हस्तामलकनामाढ्यशिष्योपेताय ते नमः ।
ॐ चतुर्दिक्चतुराम्नायस्थापकाय नमो नमः ।
ॐ तोटकाभिधसcछिष्यसंग्रहाय नमो नमः ।
ॐ हस्ततोटकपद्मांघ्रिसुरेशाराध्य ते नमः ।
ॐ काश्मीरगतसर्वज्ञपीठगाय नमो नमः ।
ॐ केदारान्तर्धिकैलासप्राप्तिकर्त्रे नमो नमः ।
ॐ कैलासाचलसम्वासिपार्वतीशाय ते नमः ।
ॐ मङ्गलौघलसत्सर्वमङ्गलापतये नमः ॥ १०८ ॥
धूपम्
ॐ यत्पुरुष।म् व्यदधुः । कतिधा व्यकल्पयन् । मुख।म्
किमस्य कौ बाहू । कावूरू पादावुcयेते ।
ॐ धूरसि धूर्व धूर्वन्तं धूर्वतं यो।"ऽस्मान्
धूर्वतितं धू।"र्वयं वयं धूर्वामस्त्वं
देवानामसि। सस्नितमं पप्रितमं जुष्टतमं
वह्नितमं देवहूतममहृतमसि हविर्धानं
दृ{।म्+}हस्व माह्वा।"र्मित्रस्य त्वा चक्षुषा प्रेक्षे
माभेर्मा संविक्था मा त्वा हि{।म्+}सिषम् ॥
सर्वज्ञपीठिकारोहसमुत्सुकितमानस ।
सर्वज्ञमूर्ते सर्वात्मन् धूपमाजिघ्र सादरम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः धूपमाघ्रापयामि
॥
दीपम्
ॐ ब्राह्मणो।"ऽस्य मुखमासीत् । बाहू राजन्यः
कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्या{।म्+} शूद्रो
अजायत ॥
उद्दी।"प्यस्व जातवेदोऽपघ्नन्निरृतिं मम ।
पशू{।म्+}श्च मह्यमावह जीवनं च दिशो दिश ।
मानो हि{।म्+}सीज्जातवेदो गामश्वं पुरुषं जगत् ।
अबिभ्रदग्न आगहि श्रिया मा परिपातय ॥
सरस्वतीकृतप्रश्नोत्तरदानविचक्षण ।
शृङ्गाद्रिस्थानतत्संस्थाकारिन् दीपं गृहाण भोः ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः दीपं दर्शयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः धूपदीपानन्तरं
आचमनीयमाचमनीयं समर्पयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः आचमनानन्तरं
परिमलपत्रपुष्पाणि समर्पयामि ॥
नैवेद्यम्
[नैवेद्यपदार्थान् गायत्र्या प्रोक्ष्य]
ॐ भूर्भुवस्सुवः तत्सवितुर्वरे।"ण्यं भर्गो देवस्य
धीमहि धियो यो नः प्रचोदया।"त् ॥
सत्यं त्वर्तेन परिषिञ्चामि ॥
कामधेनुं स्मरामि [धेनुमुद्रां प्रदर्श्य]
अमृतमस्तु । अमृतोपस्तरणमसि ॥
ॐ प्राणाय स्वाहा।" ।
ॐ अपानाय स्वाहा।" ।
ॐ व्यानाय स्वाहा।" ।
ॐ उदानाय स्वाहा।" ।
ॐ समानाय स्वाहा।" ।
ॐ ब्रह्मणे स्वाहा ॥
ॐ चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।
षण्मतस्थापनाचार्य षड्दर्शनविशारद ।
गृहाण षड्रसोपेतं भक्ष्यभोज्यादिकं प्रभो ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः नैवेद्यं
समर्पयामि ॥
सर्वदिक् चतुराम्नायव्यवस्थापक शङ्कर ।
सर्वलोकैकसम्पूज्य पानीयं प्रतिगृह्यताम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मध्ये मध्ये
अमृतपानीयं समर्पयामि ॥
अमृतापिधानमसि उत्तरापोशनं समर्पयामि ।
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः हस्तप्रक्षाळनं
समर्पयामि । गण्डूषं समर्पयामि । पादप्रक्षाळनं समर्पयामि ।
आचमनीयमाचम्नीयं समर्पयामि । करोद्वर्तनं समर्पयामि ॥
ताम्बूलम्
ॐ नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।
पद्भ्या।म् भूमिर्दिशः श्रोत्रा।"त् । तथा लोका{।म्+}
अकल्पयन् ॥
सर्वलोकसुविख्यात यशोराशिनिशाकर ।
सर्वात्मभूत सुगुरो ताम्बूलं प्रददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः पूगीफल
ताम्बूलं समर्पयामि ॥
मङ्गलनीराजनम्
ॐ वेदाहमेत।म् पुरुष।म् महान्तम।" । आदित्यवर्ण।म्
तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः ।
नामानि कृत्वाऽभिवदन् यदास्ते।"॥
सोमो वा एतस्य राज्यमादत्ते । यो राजा सन्राज्यो वा
सोमेन यजते । देवसुवामेतानि हवी{।म्+}षि
भवन्ति । एतावन्तो वै देवाना{।म्+} सवाः । त
एवास्मै सवान् प्रयcछन्ति । त एनं पुनस्सुवन्ते
राज्याय । देवसू राजा भवति ॥
साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठिकं राज्यं
महाराज्यमाधिपत्यम् ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति
कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं
विभाति ॥
प्रस्थानत्रयीभाष्यनिर्माणैक विशारद ।
अज्ञानतिमिरोत्सारिन् पश्य नीराजनप्रभाम् ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
दिव्यमङ्गलनीराजनं दर्शयामि ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः नीराजनानन्तरं
आचमनीयमाचमनीयं समर्पयामि । आचमनानन्तरं
परिमलपत्रपुष्पाणि समर्पयामि ॥
रक्षाधारणम्
ॐ बृहत् साम क्षत्त्रभृद्वृद्धवृष्णियं
त्रिष्टुभौजश्शुभितमुग्रवीरम् । इन्द्रस्तोमेन
पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः रक्षां धारयामि
॥
मन्त्रपुष्पम्
ॐ धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्
प्रदिशश्चतस्रः । तमेव।म् विद्वानमृत इह
भवति । नान्यः पन्था अयनाय विद्यते ॥
राजाधिराजाय प्रसह्यसाहिने।" । नमो वयं
वै।"श्रवणाय कुर्महे । स मे कामान् कामकामाय
मह्य।"म् । कामेश्वरो वै।"श्रवणो ददातु । कुबेराय
वैश्रवणाय । महाराजाय नमः ॥
श्रीविद्यादिमहामन्त्रमाहात्म्यपरिदर्शक ।
मन्त्रसारज्ञ भगवन् मन्त्रपुष्पं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः मन्त्रपुष्पं
समर्पयामि ॥
प्रदक्षिणा
ॐ यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि
प्रथमान्यासन् । ते ह नाक।म् महिमानस्सचन्ते । यत्र
पूर्वे साध्यास्सन्ति देवाः ॥
प्रदक्षिणीकृताशेष भारताजिर शङ्कर ।
प्रदक्षिणं करोमि त्वां प्रसन्नवदनाम्बुज ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः अनन्तकोटि
प्रदक्षिणनमस्कारान् समर्पयामि ॥
प्रसन्नार्घ्यम्
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः
प्रचोदया।"त् ॥
प्रसन्नहृदयाम्भोज प्रपन्नार्तिप्रभञ्जन ।
प्रकृष्टज्ञानमाहात्म्य प्रसन्नार्घ्यं ददामि ते ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥
प्रार्थना
अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥
ज्ञानं देहि यशो देहि विवेकं बुद्धिमेव च ।
वैराग्यं च शिवां विद्यां निर्मलां भक्तिमन्वहम् ॥
अद्वैतसारसर्वस्व संग्रहोत्सुकमानस ।
शिष्योपदेशप्रणयिन् प्रार्थनां ते समर्पये ॥
श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः प्रार्थयामि ॥
पुनः पूजा
छत्रं धारयामि चामरं वीजयामि गीतं श्रावयामि
वाद्यं घोषयामि नृत्तं दर्शयामि आन्दोलिकामारोपयामि
अश्वमारोपयामि गजमारोपयामि रथमारोपयामि
ध्वजारोहणं समर्पयामि ॥
श्रीपूर्णातटिनीतरङ्गपटली पूरोदरोदित्वर
स्फीतांभःकण शीतलानिल परिस्पन्दाधिकानन्दित ।
कालट्याख्य पुरोल्लसcछिवगुरुस्थान प्रदीपाङ्कुर
श्रीमcछङ्करदेशिकोत्तम विभो ऋग्वेदमाकर्णय ॥
श्रीमत्कैलासाचलकृताधिवास श्रीपतिप्रमुखसुरवर प्रार्थित
भूलोकवास ऋग्वेदप्रिय ऋग्वेदमवधारय ।
ॐ अग्निमी।"ळे पुरोहितं यज्ञस्य देवमृत्विज।"म् ।
होता।"रं रत्नधातमम् ॥
कल्यातङ्क निरङ्कुशस्य जगतः कल्याणसन्दायक
ब्रह्मेन्द्रादि समस्तदेव निकुरुम्भाभ्यर्थना साधक ।
श्रीमत्कालटिपुण्यभूपरिसर प्राप्तावतारोज्ज्वल
विद्याराजकुलाब्धिचन्दिर यजुर्वेदं त्वमाकर्णय ॥
समाश्रित वृषाचलेश्वर स्वयम्भूलिङ्ग समादृत स्वाश्रित
भक्तजन प्रार्थनापूरण व्यतिषङ्ग यजुर्वेदप्रिय
यजुर्वेदमवधारय ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
माऽमृता।"त् ॥
आर्याम्बा मुखपङ्कजार्क शिवगुर्वानन्दसन्दोहन
स्वाचार्याधिगताखिल श्रुतितते सcछास्त्रपारङ्गत ।
ग्राहग्रासमिषात् स्वमातृकृतसन्यासाभ्यनुज्ञानुग
श्रीमcछङ्कर सामवेदमधुना सानन्दमाकर्णय ॥
सफलीकृतार्याम्बाशिवगुरु मनोरथ
विशदीकृतात्मविद्याविचार विकलीकृतमन्मथ सामवेदप्रिय
सामवेदमवधारय ।
ॐ अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता
सत्सि बर्हिषि ॥
श्रीगोविन्दमुखोद्गत श्रुतिशिरोवाक्योपदेशादृत
श्रीविश्वेश्वर दर्शनोत्सुक विभो काशीनिवासप्रिय ।
सम्सारार्तसनन्दनादिकृतिनां सन्यासदीक्षागुरो
सामोदं त्वमथर्ववेदमधुना स्वामिन् समाकर्णय ॥
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं
यो रभिस्रवन्तु नः ॥
गीतावाक्य ततेर्दशोपनिषदां श्रीव्याससूत्रावलेः
प्रस्थानत्रितयस्य निस्तुल महाभाष्यप्रणेतः प्रभो ।
वाराणस्युपसन्न शिष्यजनताभाष्योपदेशोत्सुक
स्वाधीनीकृत सर्वशास्त्रवितते शास्त्रं समाकर्णय ॥
निजपादाम्सु परिपावित कालटीक्षेत्र निजपुण्यावतार
परिष्कृतात्रेयगोत्र शास्त्रार्थप्रिय शास्त्रमवधारय ।
ॐ अथातो दर्शपूर्णमासौ व्याख्यास्यामः । प्रातरग्निहोत्रं हुत्वा
अन्यमाहवनीयं प्रणीय अग्नीनन्वादधाति ॥
वृद्धब्राह्मण बादरायणकृतप्रश्नोत्तरात्युत्सुक
सूत्रौघ स्वरसार्थ वर्णन सुसंतुष्यन्मुनिश्लाघित ।
व्यासाज्ञावशतः स्वभाष्य विशदीकार प्रचारोद्यत
शुद्धाद्वैतमतप्रसारणपटो प्रीत्या पुराणं शृणु ॥
स्वमहिम सम्प्रापित सौवर्णवर्ष समुत्पादित
दीनतरद्विजसतीहर्ष पुराणपठनप्रिय पुराणमवधारय ।
ॐ परित्राणाय साधूनां विनाशाय च दुष्कृतां ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
क्षमाप्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पुजाविधिं न जानामि क्षमस्व गुरुसत्तम ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व गुरुपुङ्गव ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः
स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीशङ्करायेति समर्पयामि ॥
हृत्पद्मकर्णिकामध्यं स्वशिष्यैः सह शङ्कर ।
प्रविश त्वं महादेव सर्वलोकैकनायक ॥
[इति निर्माल्यमाघ्राय स्तोत्रादिकं पठेत्]
यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जगद्गुरो ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
अनेन मया कृत पूजया श्रीशङ्करभगवत्पादाचार्यः
प्रीयताम् ॥
मध्ये मन्त्र तन्त्र स्वर वर्ण ध्यान नियम न्यूनातिरिक्त लोपदोष
प्रायश्चित्तार्थं नामत्रयजपमहं करिष्ये ॥
ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः [त्रिः]
ॐ अच्युतानन्तगोविन्देभ्यो नमो नमः ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
श्रीकृष्णकृष्णकृष्ण
ॐ हर ॐ हर ॐ हर
॥ श्रीमहात्रिपुरसुन्दरी चरणारविन्दार्पणमस्तु ॥