वैमानिकप्रकरणे
संपूर्य विधिवत्सर्वं कूर्मव्यासटिकांतरे । निधाय त्रिमुखीभस्त्रात् घ्मनेत्सिञ्जीरवेगतः ॥
तन्मध्येऽगस्तिपत्राणां रसप्रस्थाष्टकं न्यसेत् । माक्षिकाभ्रकसिञ्जीरवज्रटङ्कणवाकुलैः ॥
तैलमाहत्य विधिवत्तस्मिन्पश्चान्नियोजयेत् । पश्चात्संगृह्य तत्कालं गर्भतापनयंत्रके ॥
संताप्य ततैललिप्तवस्त्राण्यथ समाहरेत् । अग्निमित्रोक्तविधिना पटजात्यनुसारतः ॥
ऋतुधर्मानुसारेण कवचादीन्प्रकल्पयेत् । तत्तत्कालोचिताब्वस्त्रकवचादीन्यथाक्रमम् ॥
यानयंतृत्वाधिकारवरिष्ठेभ्यो मनोहरान् । दत्त्वा वस्त्ययनं कृत्वा रक्षाकरणपूर्वकम् ॥
पश्चात्संप्रेषयेद्यानयन्तृकर्मणि हर्षितः । सर्वदोषविनाशस्त्यात्तत्पटैर्बलवर्धनम् ॥
मेधोवृद्धिधातुवृद्धि रङ्गपुष्टिरजाड्यता । अङ्गरक्षादयः खेटयन्तृणां प्रभवेद्ध्रुवम् ॥ इत्यादि॥
७. आहाराधिकरणम्
सू. १. आहारः कल्पभेदात्
- बोधानन्दवृत्तिः -
यंतृणामाहारभेदनिर्णयार्थ पदयम् । सूत्रेऽस्मिन् कथितं सम्यक्तदर्थसंप्रकथ्यते ॥ कल्पशास्त्रोक्तरीत्यात्र ऋतुकालानुसारतः । यंतृणामाहारभेदास्त्रिविधा इति निर्णिताः ॥
रसवर्गे माहिषा:स्युः धान्येष्वादकशालिकाः । मांसेष्वाविकमांस च वसन्तग्रीष्मयोरिति ॥
रसेषु गव्यसम्बंधा धान्ये गोधूममुद्गकाः । मासेषु कालज्ञानीयं वर्षे शरदतावपि ॥
रसेष्वजारसश्चैव धान्येषु यवमुद्रकाः। मासेषु कलविङ्काश्च हेमंतशिशिरे क्रमात् ॥ इति ॥
विनामिषं द्विजातीनां भुक्तिसममितीरितम् ॥
सू. २. विषनाशस्त्रिभ्यः
- बोधानन्दवृत्तिः-
सूत्रे पदद्वयं प्रोक्तं विषनाशार्थबोधकम् । तदर्थं संप्रवक्ष्यामि समासेन न विस्तरात् ॥ १८७॥