सामग्री पर जाएँ

पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ अप्रतिबन्धधायः.


 अथ विभक्तस्यापुत्रस्य स्वर्यातस्या संसृष्टिनो धनं को गृह्णीयादित्यत आह याज्ञवल्क्यः--

पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतो गोत्रजो बन्धुश्शिष्यस्सब्रह्मचारिणः ॥
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
स्वर्यातस्यह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥

इति । अयं च पत्न्यादिषु स्वामितासंक्रमक्रमः प्रत्यासत्तितारतम्यरूपन्यायनिबन्धनो वाचनिकः । स्वस्वामिभावसम्बन्धस्य वाचनिकत्वाभावात् । तथाहि-- स्वत्वं लौकिकं लौकिकक्रियाजन्यत्वात् व्रीह्यादिवत् । यूपाहवनीयाचार्यकादीनां लौकिकानां न लौकिकतक्षणादिक्रियामात्रजन्यता । किं तु मन्त्रादिनियमोपेततक्षणादिजन्यतेति न व्यभिचारः । यस्तु वैधदानप्रतियोगिनि प्रतिग्रहे मन्त्रनियमः स दानापूर्वोत्पत्त्यर्थो न स्वत्वोत्पत्त्यर्थः । अवैधदानप्रतियोगिन्यमन्त्रके प्रतिग्रहे स्वत्वोत्पत्तिदर्शनादिति प्रपञ्चितम् लिप्सासूत्रे । यत्तु विज्ञानयोगिना स्वत्वं लौकिकं लौकिकक्रियासाधनत्वात् व्रीह्यादिवदित्युक्तं; तद्वद्ग्रन्थं स्थूलमिव प्रतिभाति । लिप्सासूत्रे हि गुरुणा लौकिकक्रियासाध्यत्वेनैव स्वत्वस्य लौकिकत्वमुक्तं । यथेष्टविनियोगार्हत्वं स्वत्वमिति स्वत्वलक्षणमित्युक्त्वा आर्जनात्स्वत्वं नाम कश्चन सम्बन्ध इत्यनेन ग्रन्थेन । अस्यार्थः-- आर्जनं कर्तृकर्मणोस्सम्बन्धकरं सकर्मकत्वात् । न च ग्रामं त्यजतीत्यादौ व्यभिचार इति वाच्यं । न ह्यत्र पारमार्थिकस्संयोगादिसम्बन्धः साध्यते किंतु कर्तृकर्मगतः