अनूढात्वाप्रतिष्ठितत्वविशेषणविशेषितानामेव भगिनीनामंशदानं प्रतीयते । तच्च प्रतिष्ठोपयोगि विवाहोपयोगि वा प्रतीयते । "पतितास्स्युरदित्सव" इत्यदाने प्रत्यवायस्मरणं तु प्रतिष्ठोपयोगिद्रव्यदानेन प्रतिष्ठाया अकरणे संस्कारोपयोगिद्रव्यदानेन संस्काराकरणे प्रत्यवाय इत्यर्थकयवगन्तव्यम् । जीवति पितरि दुहितॄणां यत्किंचिद्दानमेवमजीवति पितरि । दृष्टार्थत्वे सिद्धे अदृष्टकल्पना अन्याय्या एतासां स्मृतीनां न्यायमूलत्वादिति भारुच्यपरार्कयज्ञपत्यादीनां मतम् । अत एव बृहद्विष्णुनोक्तं--
'अनूढानां च कन्यानां स्ववित्तानुसारेण संस्कारं कुर्यात् ।
इति । अत्र विशेषमाह शङ्खः--
विभज्यमाने दायाद्ये कन्यालङ्कारं वैवाहिकं स्त्रीधनं च कन्या लभेत इति । कन्यालङ्कारं-- कन्यया स्वधृतमलङ्कारं स्त्रीधनं-- मातृधनं । अत्र बोधायनः--
मातुरलङ्कारं दुहितरः सांप्रदायिकं लभेरन्नन्यद्वेति। सांप्रदायिकं मातृपरम्परायातं । अन्यत्तदितरत् भ्रातृभिः स्वेच्छया दत्तं कुमार्यो लभेरन् । दुहितरः सांप्रदायिकं लभेरन्नित्यस्यापवादमाह याज्ञवल्क्यः--
मातुर्दुहितरश्शेषमृणात्ताभ्य ऋतेऽन्वयः ।
इति । मातुर्धनं दुहितरो विभजेरन् यथाक्रमं ऋणाच्छेषं-- तत्कृतर्णापाकरणावशिष्टं । एतदुक्तं भवति-- मातृकृतमृणं पुत्रैरेवापाकरणीयं न दुहितृभिः । ऋणावशिष्टं मातृधनं दुहितरो गृह्वीयुरिति । युक्तं चैतत्--
पुमान् पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रियाः ।
इति । स्त्र्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि ।