न्तयोश्शिक्यधारणार्थं मध्येऽक्षकाष्ठे तुलाधारणार्थमिति विवेकः ॥ यथाऽऽह पितामहः--
आयसेन तु पादेन मध्ये संगृह्य धर्मवित् ।
योजयेत्तु सुसंयुक्तां तुलां प्रागपरायताम् ॥
प्रागपरायतां-- पूर्वपश्चिमदीर्घा मित्यर्थः ।
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्सदा ॥
शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि ।
प्राङ्मुखान् कल्पयेद्दर्भान् शिक्ययोरिति निश्चयः ॥
[१]एकस्मिंस्तोलयेत्कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् । कर्तुरिति पाठे तु कर्तारं-- अभियुक्तमित्यर्थः ॥
पिटकं पूरयेत्तस्मिन् इष्टकाग्रावपांसुभिः ।
अत्र मृत्तिकेष्टकाग्रावपांसूनां विकल्पो वेदितव्यः । एतच्च माषानामुपलक्षणम् । 'माषैर्वा निकटं पूरयेत्, इति स्मृत्यन्तरवचनात् । विकटं-- शिक्यान्तर्गतपात्रम् ॥
परीक्षका नियोक्तव्यास्तुलामानविशारदाः ।
वणिजो हेमकाराश्च कांस्यकारास्तथैव च ॥
कार्यः परीक्षकैर्नित्यमवलम्बसमो धटः ।
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ॥
यस्मिन्न प्लवते तोयं स विज्ञेयस्समो धटः ।
धटं तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥
तोलयित्वा नरं पूर्वं ततस्तमवतारयेत् ।
एवमुक्तविधानां तुलां कृत्वा प्राड्विवाकः किं कुर्यादित्यत आह--
प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत् ।
- ↑ पश्चिमे