र्पणमेव सहस्रादिशतादिसंख्यासंख्येयमिति मन्यन्ते । अन्ये तु ताम्रकाकणिकाभिप्राया सर्वदिव्येषु संख्येति मन्यन्ते । अपरे तु--
मानस्तण्डुलमात्रं स्याद्दशमानः पणस्स्मृतः ।
इत्यागमवचनाद्दशमानात्मक एव पण इति मन्यन्ते । अपरे--
माषो विंशतिमो भागो ज्ञेयः कार्षापणस्य तु ।
काकणीस्तु चतुर्भागो माषस्येति प्रकीर्तितः ॥
इति औशनसवचनात्-
तथा माषं बुधाः प्राहुः काकणीनां चतुष्टयम् ।
विंशतिस्स्यात्पुनस्तेषां स मुख्यः पण उच्यते ॥
इति भारद्वाजवचनात्-
माषो विंशतिमो भागः पणस्य परिकीर्तितः ।
इति कात्यायन (स्मरणा) वचनाच्च विंशतिमाषाः पण इति तद्विषया दिव्येषु संख्येति मन्यन्ते । तदेतदसारम्--
पणो विंशतिमाषस्तु दिव्यादन्यत्र कीर्तितः ।
इति कात्यायनवचनेन दिव्येषु विंशतिमाषस्य पणस्य निषेधात् । तथा ज्ञात्वा सुवर्णस्य संख्यां इति स्मृतेः--
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
सर्वेष्वर्थजातेषु मूल्यं कनकं कल्पयेदित्येवमादिस्मृतिभ्यः सुवर्णस्यैव संख्येयत्वावगमात् । ताम्रिककार्षापणस्य दिव्येषु संख्येयत्वप्रापकवचनाभावाच्च सुवर्णपणानामेव दिव्येषु संख्येयत्वमुक्तं । यत्तु-- चन्द्रिकाकोरण सहस्रादिसंख्यानां लौकिकनिष्कस्य संख्येयत्वमित्युक्तमिति । तत्तूक्तरीत्या सहस्रादिसंख्यानां