आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंस्याद्ब्राह्मणं गां च सर्वांश्चैव तपस्विनः ॥
इति मनुवचनाच्च ब्राह्मणवधे दोषस्स्मर्यते । अतश्चेदं वचनं ’ब्राह्मणो न हन्तव्यः' इति सामान्यशास्त्रेण निषेधस्य सिद्धत्वादाततायिनां हिंसाप्रतिषेधेनार्थवदिति ।
नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥
इति वचनं ब्राह्मणव्यतिरिक्तविषयमेव । ब्राह्मणस्य कूटसाक्ष्ये यथार्हं देशान्निष्कासनं ग्रामान्निष्कासनं नग्नीकरणमङ्कनं गृहभङ्गोऽर्थदण्डश्च कार्याः ॥ कदाचिदपि ब्राह्मणस्य शारीरदण्डो नास्तीति सर्वस्मृतिसिद्धमित्यवगन्तव्यमित्यलं [१]विस्तरेण ।
साक्ष्यनुयोगप्रकारः.
साक्ष्यानुयोगप्रकारमाह मनुः--
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेन्नृपो द्विजान् ।
उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिश्शुचीन् ॥
नारदस्तु--
आहूय साक्षिणः पृच्छेत् नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥
भयावहैश्शपथैः सत्यनिष्ठान् कृत्वा प्रत्येकं पृच्छेदित्यर्थः । शपथास्तेनैव दर्शिताः ॥
वर्णभेदेन सत्ये वस्तुभेदः.
सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः ।
- ↑ लमतिविस्तरेण.