तस्यांशं दशमं दद्याद्गृह्णीयुस्ते ततोऽपरम् ॥
कात्यायनोऽपि--
चोरतस्सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् ।
तस्यांशो दशमो देयः सर्वद्रव्येष्वयं विधिः ॥
इति । अत्र विशेषमाह बृहस्पतिः--
समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यःकश्चिल्लाभात्स परिहीयते ॥
इति । कृषिकादिसम्भूयोपजीविषु विशेषमाह हारीतः--
बाह्यबीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥
बाह्यबीजग्रहणं कृषिसाधनानामुपलक्षणार्थं । शिल्पिषु विशेषमाह बृहस्पतिः--
हेमकारादयो यत्र शिल्पं सम्भूय कुर्वते ।
कर्मानुरूपनिर्वेशं लभेरंस्तु यथांऽशतः ॥
निर्वेशो-- भृतिः । अंशप्रकारमाह कात्यायनः--
शिक्षका बीजकुशला आचार्यश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम् ॥
हर्म्यादिनिर्मातॄणां विशेषमाह बृहस्पतिः--
हर्म्यं देवगृहं वापीं चार्मिकोपस्करादि च ।
सम्भूयकुर्वतां चैषां प्रमुखो ह्यंशमर्हति ॥
ऋत्विजां तु विशेषमाह मनुः--
ऋत्विजस्समवेतास्तु यथा सत्रे निमन्त्रिताः ।
कुर्युर्यथाऽर्हतः कर्म गृह्णीयुर्दक्षिणां तथा ॥