सामग्री पर जाएँ

अथर्ववेदः/काण्डं ३/सूक्तम् २९

विकिस्रोतः तः
← सूक्तं ३.२८ अथर्ववेदः - काण्डं ३
सूक्तं ३.२९
उद्दालकः।
सूक्तं ३.३० →
दे. शितिपात् अविः, ७ कामः, ८ भूमिः। अनुष्टुप्, - - --

यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।
अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥
सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।
आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥
यो ददाति शितिपादमविं लोकेन संमितम् ।
स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥
पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥
पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥
इरेव नोप दस्यति समुद्र इव पयो महत्।
देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥
क इदं कस्मा अदात्कामः कामायादात्।
कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत्ते ॥७॥
भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्।
माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥

सायणभाष्यम्

'यद् राजानः' इति पञ्चर्चेन ओदनसवे कर्मणि पश्ववयवेषु पञ्चापूपनिधानं निरुप्तहविरभिमर्शनादिकं च कुर्यात् । तथा च सूत्रम् - 'अग्नीन् आधास्यमानः सवान् वा दास्यन् इति प्रक्रम्य 'यद् राजानः' इत्यवेक्षति । पदस्नातस्य पृथक्पादेष्वपूपान् निदधाति । नाभ्यां पञ्चमम्” (कौसू ६०,१-६४,४) इत्यादि ।
'क इदं कस्मै' इति द्वाभ्यां (७,८) दुष्टादुष्टप्रतिग्रहे तद्दोषशान्त्यर्थं प्रतिग्राह्यं पदार्थम् अभिमन्त्र्य गृह्णीयात् । सूत्रितं हि- 'क इदं कस्मा अदात्' (७,८), 'कामस्तदग्रे' (अ १९,५२), 'यद् अन्नम्' ( अ ६,७१ ), 'पुनर्मैत्विन्द्रियम्' (अ ७,६७ ) इति प्रतिगृह्णाति" ( कौसू ४५,१७) इति।
'भूमिष्ट्वा' (८) इत्यनया भूमिं प्रतिगृह्णीयात् ।
ग्रहयज्ञे 'यद् राजानः' इत्यनेन बुधस्य हविराज्ययोर्होमम् समिदाधानम् उपस्थानं च कुर्यात् । तद् उक्तं शान्तिकल्पे- 'यद् राजानः' इति ‘सोमस्यांशो युधां पते' (अ ७,८६,३) इति बुधाय" (शाक १५) इति ।

यद् राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।
अविस्तस्मात् प्र मुञ्चति दत्तः शितिपात् स्वधा ॥१॥
यत् । राजानः । विऽभजन्ते । इष्टापूर्तस्य । षोडशम् । यमस्य । अमी इति । सभाऽसदः ।
अविः । तस्मात् । प्र । मुञ्चति । दत्तः । शितऽपात् । स्वधा ॥ १॥
यमस्य धर्मराजस्य अमी दक्षिणस्यां दिशि द्युलोके परिदृश्यमानाः सभासदः सभायाम् उपविष्टा दुष्टनिग्रहे शिष्टपरिपालने च नियुक्ता राजानः राजमानाः ईश्वरा वा देवाः इष्टापूर्तस्य । इष्टं श्रुतिविहितं यागादि कर्म । पूर्तं स्मृतिविहितं वापीकूपतटाकादिनिर्माणलक्षणं कर्म । तस्य उभयविधस्य कर्मणः षोडशम् षोडशसंख्यापूरकं यत् पापं विभजन्ते पुण्यराशेर्विभक्तं कुर्वन्ति । अयम् अर्थः-श्रुतिस्मृतिविहितकर्मसु अनुष्ठीयमानेषु प्रमादालस्यादिना कियानपि पापस्य षोडश्या कलया अंशः समुपजायत एव तद् यमस्य सभ्याः परिशोधयन्तीति । षोडशम् इति । षोडशसंख्यायाः पूरकः । 'तस्य पूरणे डट्' (पा ५,२,४८) । 'षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च' (पावा ६,३,१०९) इति उत्वष्टुत्वे । तस्मात् राजभिर्विभज्य गृहीतात् पापात् अस्मिन् सवयज्ञे दत्तः अविः अस्मान् प्रमुञ्चतु। यद्वा इष्टापूर्तस्य साधकं षोडशम् । षोडशकलो वै पुरुषः' (तैब्रा १,७,५,५) इति श्रुतेः षोडशकलम् आत्मानं यमस्य सभासदः अमी राजानः यत् विभजन्ते पशुशरीराद् विभक्तं कुर्वन्ति अविः अविशरीराभिमानी आत्मा तस्मात् शरीरवियोगजनिताद् दुःखात् प्रमुञ्चतु प्रमुक्तो भवतु । शितिपात् श्वेतपात् स दत्तोऽविः स्वधा । अन्ननामैतत् । यमसंबन्धिभ्यः सभासद्भ्यः अन्नं भवतु । यद्वा स्वधेति पितॄणां हविर्दाने । 'स्वधाकारो हि पितॄणाम्' ( तैब्रा ३,३,६,४ ) इति श्रुतेः । हविष्ट्वेन दत्तो भवतु।

सर्वान् कामान् पूरयत्याभवन प्रभवन भवन् ।
आकूतिप्रोविर्दत्तः शितपान्नोप दस्यति ॥ २॥
सर्वान् । कामान् । पूरयति । आऽभवन् । प्रऽभवन् । भवन् ।
आकूतिऽप्रः । अविः । दत्तः। शितिऽपात् । न । उप । दस्यति ॥२॥
आभवन् आ समन्ताद् भवन् व्याप्नुवन् प्रभवन् फलदानाय समर्थो भवन् भवन् वर्धिष्णुः सन् क्रियमाणोयं यज्ञः अस्मदीयान् सर्वान् कामान् पुत्रपश्वादिविषयान् पूरयति संपूर्णान् करोति । आकूतिप्रः इदं मे स्याद् इदं मे स्याद् इति ये संकल्पास्ता आकूतयः । तान् पूरयतीति आकूतिप्रः शितिपात् श्वेतपाद् दत्तः अस्मिन् यज्ञे प्रार्पितोयम् अविः नोप दस्यति नोपक्षीयते । अपि तु यथाभिलाषं वर्धत इत्यर्थः। दसु उपक्षये इति धातुः।

यो ददाति शितिपादमविं लोकेन संमितम् ।।
स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥ ३॥
यः । ददाति । शितिऽपादम् । अविम् । लोकेन । सम्ऽमितम् ।
सः । नाकम् । अभिऽआरोहति । यत्र । शुल्कः । न । क्रियते । अबलेन । बलीयसे ॥ ३ ॥
यो यजमानः शितिपादम् श्वेतपादं लोकेन लोक्यमानेन फलेन संमितम् सम्यक्परिच्छिन्नम् अमोघफलम् । यद्वा अनेन भूलोकेन संमितम् सदृशम् । भूलोकवत् सर्वफलप्रदम् इत्यर्थः। ईदृशम् अविं ददाति प्रयच्छति स दाता नाकम् । कम् सुखम् तद्विपरीतम् अकं दुःखम् । न विद्यतेस्मिन् अकम् इति नाकः स्वर्गः। 'नभ्राण्नपात्' (पा ६,३,७५ ) इत्यादिना नञः प्रकृतिभावः । उक्तं हि -
'दुःखेन यन्न संभिन्नं न च ग्रस्तम् अनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥
ईदृशं लोकम् अभ्यारोहति अभिप्राप्नोति । तं लोकं विशिनष्टि - यत्रेति । यत्र यस्मिन् लोके अबलेन अपर्याप्तबलेन पुरुषेण बलीयसे बलवत्तराय । बलवच्छब्दाद् ईयसुनि ‘विन्मतोर्लुक्' (पा ५,३,६५ ) इति मतोर्लुक् । तादृशाय शुल्को न क्रियते । शुल्को नाम अधिकबलस्य राज्ञो न्यूनबलेन परिसरवर्तिना अन्येन राज्ञा देयः करविशेषः। स नास्ति यस्मिन् लोक इत्यर्थः।

पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
प्रदातोप जीवति पितॄणां लोकेक्षितम् ॥ ४ ॥
पञ्चऽअपूपम् । शितिऽपादम् । अविम् । लोकेन । सम्ऽमितम् ।
प्रऽदाता । उप । जीवति । पितॄणाम् । लोके । अक्षितम् ॥४ ॥
पञ्चसंख्याका अपूपा यस्य पशोश्चतुर्षु पादेषु नाभ्यां च निहिता वर्तन्ते तं पञ्चापूपं शितिपादम् श्वेतपादं लोकेन पृथिव्यादिकेन संमितम् सदृशम् अवस्थितम् अविं प्रदाता प्रकर्षेण ददत् पितॄणाम् वस्वादिरूपं प्राप्तानां लोके सोमलोकाख्ये स्थाने अक्षितम् क्षयरहितं फलम् उप जीवति उपभुङ्क्ते । संमितं प्रदातेति । तृन्नन्तत्वात् 'न लोकाव्यय (पा २,३,६९) इति कर्मणि षष्ठ्या निषेधे द्वितीयैव भवति । अक्षितम् इति । क्षि क्षये । भावे निष्ठा । 'निष्ठायामण्यदर्थे (पा ६,४,६०) इति पर्युदस्तत्वाद् दीर्घाभावात् 'क्षियो दीर्घात्' (पा ८,२,४६ ) इति दीर्घोपजीविनो नत्वस्यापि अभावः ।।

पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥ ५ ॥
पञ्चऽअपूपम्। शितिऽपादम् । अविम् । लोकेन । सम्ऽमितम् ।
प्रऽदाता । उप । जीवति । सूर्यामासयोः । अक्षितम् ॥ ५ ॥
पादत्रयस्य स एवार्थः । [सूर्यामासयोः] मस्यते क्षयवृद्धिभ्यां परिमीयत इति मासः चन्द्रमाः । मसी परिणामे इत्यस्मात् कर्मणि घञ् । सूर्यश्च मासश्च सूर्यामासौ । ‘देवताद्वन्द्वे च' ( पा ६,३,२६ ) इति पूर्वपदस्य आनङ् । सूर्याचन्द्रमसोर्लोके अक्षितम् क्षयरहितं फलम् उपभुङ्क्त इत्यर्थः। अनयोश्चतुर्थीपञ्चम्योरीषद्भेदत्वाद् एकत्वाभिप्रायेण पञ्चर्चेनेत्युक्तम् ।

इरेव नोप दस्यति समुद्र इव पयो महत् ।
देवौ सवासिनाविव शितिपान्नोप दस्यति ॥ ६॥
इराऽइव । न । उप। दस्यति । समुद्रःऽइव । पयः । महत् ।
देवौ । सवासिनौऽइव । शितिऽपात् । न । उप । दस्यति ॥६॥
 शितिपात् श्वेतपादः सवयज्ञे दत्तः अविः इरेव भूमिरिव नोप दस्यति नोपक्षीयते । समुद्र इव समुद्रो यथा न क्षीयते एवं महत् अधिकं पयः क्षीरम् । तदात्मना परिणतो भवतीत्यर्थः । तथा सवासिनौ समानं निवसन्तौ अश्विनौ देवाविव नोप दस्यति । तौ यथा खलु अश्विनौ देवौ सर्वफलप्रदत्वेन उपजीव्येते तथा अयम् अविरपि सर्वफलप्रदत्वेन नोपक्षीयत इत्यर्थः।

क इदं कस्मा अदात् कामः कामायादात् ।
कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत् ते॥ ७॥
कः । इदम् । कस्मै । अदात् । कामः । कामाय । अदात् ।
कामः । दाता । कामः । प्रतिऽग्रहीता। कामः । समुद्रम् । आ । विवेश ।
कामेन । त्वा । प्रति । गृह्णामि । काम । ए॒तत् । ते ॥
-इदम् ईदृग् इति अनिरुक्तरूपः प्रजापतिः कशब्देनोच्यते । अर्थसामान्यात् किंशब्दोपि तस्यैव वाचकः। कशब्दाभिधेयः प्रजापतिः कस्मै प्रजापतये इदम् दक्षिणात्वेन देयं द्रव्यम् अदात् दत्तवान् । दाता च प्रतिग्रहीता च प्रजापतिरेव । एवम् अनुसंधानस्य प्रतिग्रहदोषो न जायत इत्यर्थः। तथा च तैत्तिरीयकम् - ‘क इदं कस्मा अदाद् इत्याह । प्रजापतिर्वै कः स प्रजापतये ददाति' (तैब्रा २,२,५,५) इति । तथा कामः फलविषयोभिलाषः। आमुष्मिकफलाभिलाषी दाता। ऐहिकफलाभिलाषी प्रतिग्रहीता। अतः उभावपि कामात्मानौ । तथा च काम एव कामाय अदात् दत्तवान् नाहं प्रतिगृह्णामीति आत्मानं व्यावृत्य प्रतिग्रहे कृते तद्दोषो न संस्पृशतीत्यर्थः । तथा च तैत्तिरीयकम् – 'य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति। नैनं दक्षिणा व्लीनाति' ( तैब्रा २,२,५,१) इति । उक्तम् अर्थम् उपपादयति - कामो दाता कामः प्रतिग्रहीता इति । व्याख्यातप्रायम् एतत् । उक्तो देवतारूपः कामः समुद्रम् समुद्रवन्निरवधिकं रूपम् आ विवेश प्राप्तवान् । 'समुद्र इव हि कामः नेव हि कामस्यान्तोस्ति' (तैब्रा २,२,५,६ ) इति हि तैत्तिरीयकम् । तादृशेन कामेन हे दक्षिणाद्रव्य त्वा त्वां प्रतिगृह्णामि। नात्मनेत्यर्थः। हे काम एतत् प्रतिगृहीतं द्रव्यं ते तुभ्यं त्वदर्थमेव ।

भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत् ।
माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥ ८ ॥
भूमिः । त्वा । प्रति । गृह्णातु । अन्तरिक्षम् । इदम् । महत् ।
मा । अहम् । प्राणेन । मा । आत्मना । मा । प्रऽजया । प्रतिऽगृह्य । वि । राधिषि ॥८॥
हे देयद्रव्य त्वा त्वां भूमिः भूदेवता प्रति गृह्णातु । तथा महत् अधिकं विस्तीर्णम् इदम् अन्तरिक्षं च त्वा त्वां प्रति गृह्णातु । अतः अहं प्रतिगृह्य प्रतिग्रहं कृत्वा तज्जनितदोषात् प्राणेन मुखनासिकाभ्यां संचरता जीवावस्थितिलिङ्गेन मा वि राधिषि विराद्धो वर्जितो मा भूवम् । तथा आत्मना जीवेन तद्विशिष्टशरीरेण वा मा वि राधिषि । तथा प्रजया पुत्रपौत्रादिलक्षणया मा वि राधिषि । माङि लुङि उत्तमैकवचने रूपम्।
इति षष्ठेऽनुवाके चतुर्थं सूक्तम् ।

टिप्पणी