अश्वत्थामा--
महाप्रलयमारुतक्षुभितपुष्करावर्तक- |
( विचिन्य ।) ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथाहि ।
यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे |
( पृष्ठतो विलोक्य । ) तत्कोऽत्र स्थमुपनयतु ? अथवालमिदानीं मम रथप्रतीक्षया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि । ( परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा । )
अये ! ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु । गच्छामि । ( सावष्टम्भं परिक्रम्याग्रतो विलोक्य ।) कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरङ्गमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानाम् । ( निरूप्य । ) हा धिक्कष्टम् । कथमेते महारथाः कर्णादयोऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः ! कृतं कृतममुना समरपरित्यागसाहसेन ।
यदि समरमपास्य नास्ति मृत्यो- |