प्रालेयमिश्रमकरन्दकरालकोशैः |
राजा--( समन्तादवलोक्य । ) विनयंधर ! इदमपरममुष्मिन्नुषसि रमणीयतरम् । पश्य ।
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै-- |
कञ्चुकी–- देव नन्वेषा देवी सुवदनया तरलिकया च सहोपविष्टा तिष्ठति । तदुपसर्पतु देवः ।
राजा-- ( दृष्ट्वा । ) आर्य विनयंधर ! गच्छ त्वं साङ्ग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।
कञ्चुकी--यथाज्ञापयति देवः (इति निष्क्रान्तः ।)
सखी--पिअसही ! अवि सुमरिदं तुए ? ( प्रियसखि ! अपि स्मृतं त्वया ? )
भानुमती-- सहि ! सुमरिदम् । अज्ज किल पमदवणे आसीणाए मह अग्गदो एव्व दिव्वरूविणा णउलेण अहिसदं वावादिदम् ( सखि ! स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् । )
उभे--( आत्मगतम् ।) सन्तं पावम् । पडिहदं अमङ्गलम् । (प्रकाशम् ) तदो तदो । ( शान्तं पापम् । प्रतिहतममङ्गलम् । ततस्ततः ।)
भानुमती-- अदिसंदावोवग्गाहिअहिअआए विसुमरिदं मए । ता पुणोविसुमरिअ कहइस्सम् (अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । )
राजा--अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम् । ( इति तथा स्थितः )