आलोक्य सुन्दरि मुख तव मन्दहास |
आलोक्येति । मिलिन्दा भ्रमराः । अमन्दं नन्दन्तीति संबन्धः । असितेति साभिप्रायम् । अत एव । मृगेति । त्वत्कान्यमृतप्राशनार्थमित्यार्थिकम् । चटु- लयन्ति विकासयन्ति । एवं च मुखे प्रसादातिरेकः सूचितः । इह प्रसन्ना नायिका । प्रीतो नायकः । उक्त एव शृङ्गारः । भ्रान्तिरलंकारः ॥
स्मितं नैतत्किंत्तु प्रकृतिरमणीयं विकसितं |
स्मितमिति । एतन्मुखमिति को वा ब्रूत इत्यन्वयः । एतेनापि प्रसादोत्कर्ष- स्तस्यां पद्मिनीत्वं च व्यज्यते । भ्रमरेति । एतेन कबरीसौन्दर्यातिशयः सूचितः । अत एव सेयं प्राक्कोपितापीदानीं सुप्रसन्नत्वेन प्रत्यक्षेत्यर्थः । रम्या लता । कल्प- वहयेवेति यावत् । शिष्टं तु स्पष्टमेव इहोपह्नुतिरलंकारः । अन्यत्प्राग्वदेव ॥
एवं स्तवनोत्तरं यथेच्छं तद्रात्रौ रति विलासं संपाद्य द्वितीयदिवस आसायं विरहवशेन व्याकुलमनाः श्रीरामः श्रीकृष्णो वा चन्द्रोदयं निरीक्ष्य तत्र सूर्यत्वमुत्प्रेक्षते-
संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर- |
संग्रामेति । संग्रामः संगरस्तस्याङ्गणं स्थलं तत्रापि संमुखं न तु पृष्ठत आहताः समन्तात्खङ्गधारया निहता एतादृशः कियन्तस्तादृशां दुर्लभवात्कविचिदेव ये विवंभरा पृथ्वी तस्या अधीश्वराः पृथ्वीपतयः । क्षत्रिया इति यावत् । तेषामेव रणादौ मुख्याधिकारात् । तैयदीर्गीकृतो विदारितः । तदुक्तम्-‘द्वावेव पुरुषौ