नेत्यायेवं वदन्तमपि तं भ्रूभङ्गेनैवेक्षन्तीं पुनः प्रसादनाय तत्रापि तां विशि- नष्टि—सुध्रुव इति । शोभने स्मरकामुकाकारे ध्रुवौ यस्यास्तादृश्याः । तवेति यावत् । एवं च स्वस्यातिकामवैकल्यं व्यज्यते । अतः सद्यस्त्वं सप्रसादं सुरतं वितरेति तात्पर्यम् । अत्रोक्तैव रुष्टा नायिका । अनुनयी नायकः । उक्त एव शृङ्गारः । प्रतीपानन्वयावलंकारौ ॥
अथैवं स्तुवयपि श्रीरामेऽप्रसन्नायामेव सीतायां सत्यां सति मत्संनिधाने पर- मपतिव्रतात्वेनात्युत्तमनायिकाया अस्या मद्वयस्यायाः सुरतानुकूल्यसूचकचेष्टावि• शेषात्मकस्मितकटाक्षविक्षेपादिलक्षणप्रसादकरणानौचित्यान्मयैवेतःपरं रत्यागारा- दस्माद्वहिर्गन्तव्यमित्याशयेन तथा च रत्या तद्रहःसख्या काचिदन्या तादृश्येव तद्वयस्या सीतारामयोरैक्यमाकाङ्गन्ती तत एव परमोत्कण्ठया ‘भो सखि, किं जानकी प्रसन्ना वा न वा' इति पृच्छन्ती यत्र परकीयस्यापि रावणाख्यस्य नाय- कस्य केवलमस्याः सौन्दर्यश्रवणमात्रजन्यविरहाग्निनैतादृश्यवस्था बभूव । तत्र खकीयस्य संपादितबहुवारतदुपभोगस्य श्रीरामस्य तन्निकटवर्तिनस्तदप्रसादजनि- ततद्विरहान लेनातुलव्याकुलीभाव इति द्योतयन्त्या नैवाद्याप्यसौ प्रसीदतातिव्यञ्ज- नावृत्या प्रतिबोध्यते-
व्यत्यस्तं लपति क्षण क्षणमहो मौनं समालम्बते |
व्यत्यस्तमिति । लपति भाषते । अङ्गेषु स्मरशरनिकरपराघातसंजातकम्पि- तेष्ववयवेषु सत्स्वित्यर्थः। अत्र नायिका तुक्तैव । विरही स्वकीय एवं प्रतिपाद्यो नाय- कः । परकीयस्तु निदर्शनीय एव । विप्रलम्भः शृङ्गारः । काव्यापत्तिरलंकारः ॥
तदवसरे निरुक्तनायिकामानभङ्गार्थ भगवतः श्रीरामस्य प्रपूर्वपद्यस्तुतावप्य- प्रसन्नराधिकाविरहव्याकुलस्य श्रीकृष्णस्य चेच्छया संपन्नपूर्णचन्द्रोदयं कवि- वैर्णयवि--
उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । |