एवमुपायेनाभिसृतां राधिका प्रति श्रीकृष्णः स्तौति-
किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति । |
किमिति । हे राधे, त्वम् । हन्तेति खेदे। ममाङ्गं सुवर्णवर्णमिति मुग्धतया मौढ्येन किं जल्पसीयन्वयः । तत्र हेतुः- तदिति । तेति । हता नष्टाशा उकोपमाभिलाषो यस्यास्तत्संबुद्धौ । तत्सुवर्ण यदि हुताशेऽग्नौ पतति तदा तव । अङ्गस्येति शेषः । तुलामारोहेदिति संबन्धः । एवं च तप्तमेव काञ्चनं त्वदङ्गसमं न त्वन्यदित्याकूतम् । 'न वारेहेत्' इति पाठे तु तदापि तुलामारोहेन वेति संशय एव । हुताशपदेन तत्र तपो व्यज्यते । इह परकीयाभिसारिका मध्या नायिका । अनुकुलो नायकः । प्रतीपविशेषोऽलंकारः। संभोगारम्भः शृङ्गारश्च ॥
एवं महाप्रयत्नेन संपन्नसङ्गयोः श्रीकृष्णराधिकयोः परस्परावलोकनोत्सवं कविः स्तौति-
औत्सुक्यात्परिमिलतां त्रपया संकोचमञ्चतां च मुहुः । |
औत्सुक्यादिति । नवेति । भूरिकालोत्तरसंपन्नत्वेन नूतनः संगमो ययोस्तौ । तयोरित्यर्थः । अल्पकालेऽपि तत्त्वं तु परस्परविरहपरितापातिशयादेव बोध्यम् ।। एतादृशयोयूंनोस्तरुणयोः । राधाकृष्णयोरित्यर्थः । सरल एव चरमचरणः । बहुत्वं तूभयसंबन्धित्वादेव । जये हेतुः औत्सुक्यादित्यादिविशेषणाभ्याम् । कदा रहः सङ्गः स्यादित्यन्योन्यौत्कण्ठ्याद्धेतोरिति यावत् । परिमिलतां परितः सकलकिरणप्रेर- णेन समन्ततो मिलन्ति संश्लिष्टीभवन्तीति तथा। तेषामित्यर्थः । तथा नवत्वादेव। त्रपया हिया संकोचमञ्चताम् । स्वीकुर्वतामित्यर्थः । मुहुरित्युभयत्रापि योज्यम् ।। एवं चोकावलोकने लोकोत्तरत्वं व्यज्यते । इह काव्यलिङ्गादिरलंकार एवापरः । इतरतु सर्व पूर्ववदेव ॥
अथ राधिका स्वसौन्दर्याद्युत्कर्ष द्योतयन्ती सामान्ययुवनिदर्शनतः श्रीकृष्णवि- नोदं व्यनकि-
गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदृशाम् । |
भा० वि० ७