वक्राम्बुजं ययेति । अत एव । निःश्वासेति। निःश्वासैर्विरहजन्यदाहोष्णश्वासैग्लपितो ग्लानिं प्रापितः । शुष्कता नीत इति यावत् । तादृशोऽधरोऽधरोष्ठो यस्मिन्कर्मणि यथा भवति तथेत्यर्थः । परीति । परितः समन्तान्न त्वेकदेशे। तेन तत्प्राचुर्य कुच- काठिन्यं च सूच्यते । कठिने हि स्थले पतितोऽम्बुबिन्दुस्तकालमेवोड्डीय सहस्रधा परितः प्रसरतीति प्रसिद्धमेव । तथा पतन्ति च तानि बाष्पाणि चेति तथा । निपत दश्रूदकानीत्यर्थः । एतेन प्रिय वियोगशोकातिशयो द्योत्यते । तैरा क्लिन्नौ वक्षो- रुही स्तनै यस्याः सा तथा । न तूदरम् । तेन स्तनयोरतुलौन्नत्यात्तस्यास्वारुण्या- धिक्यं ध्वन्यते । एतादृशी बाला कैशोरमा पञ्चदशम्' इति वचनाद्वादशाब्दाधिक- वयोवती काचिन्नायिकेत्यर्थः । एतेनास्यास्तादृक्प्रागल्भ्यायोग्यत्वे तद्दर्शनं प्रेमैकनि बन्धन मिति ध्वनितम् । लोलेति । चपललोचना सतीत्यर्थः । एतेन तचेतसोऽति- स्मरशरसंत्रस्तत्वं व्यज्यते । एतादृशी सती प्राणेशं न तु पतिम् । तेन तद्विरहे कथं मत्प्राणाः स्थास्यन्तीति चिन्ताकुलवत्त्वं सूच्यते । आलोकते। पश्यतीत्यर्थः । याव- त्तद्रथधूल्यादिदर्शनं तत्रैव तटस्थीभवतीति भावः । त्वं तु तदधिकवयस्काप्येतादृशी कोपनैवेयाश्चर्यमित्यद्यापि तर्हि प्रसादः कार्य एवेति तात्पर्यम् । इह विरहिणी स्वकीयादिरेव नायिका नायकश्च । विप्रलम्भः शृङ्गारः । लुप्तोपमादिरलंकारः ॥
एवं सोपालम्भीकूतवचसा किंचित्तत्कोपमालक्ष्य सैव पुनस्तां स्तुवन्ती सखीप्रसा- दव्यञ्जकं तत्स्मितं याचते-
दारिद्यं भजते कलानिधिरयं राकाधुना म्लायति |
दारिद्यमिति । हे काञ्चनाङ्गि काञ्चनवदङ्गं यस्यास्तत्संबुद्धौ । अयि सुवर्णवर्ण- शरीरे मत्सखि,सीते राधिके वेत्यर्थः । एतेन परमगौरवलावण्यत्वे तत्काये द्योत्येते। गूढाभिसंधिनान्तः काठिन्यमपि । त्वम्। वदनेति । मुखकमल इत्यर्थः । विकासेति । विकासपदविवक्षितस्मेरलक्ष्मीमिति यावत्। एतेनास्यां पद्मिनीत्वं व्यज्यते। चेयदि।। एतेन तद्दालभ्यं व्यज्यते । अञ्चसि । स्वीकरोषीत्यर्थः । तद्ययं प्रत्यक्षः । एतेनोद्दी- पनसामग्री सृचिता । कलेति । एवं चैतच्चतुर्गुणितकलानन्दजनकत्वमुक्तभावत्कमुख एवेति योयते । अधुनेदानीमेव न तु कालान्तरे। तेन तादृशे तन्मुखे लोकोत्तर-