एवं मूर्धनिर्भत्सनं भूयः समाकर्यं स राजकुमारस्तावत् ‘अनृतं साहसं माया मूर्छवमतिलोभिता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः खभावजाः ॥’ इति वच नात्स्खकीयरमण्यामपि स्त्रीत्वेन तदवधार्य तजिहासुरभूदिति तदिङ्गितैः स पण्डितो निर्णेयाध्यवसिततत्पातिव्रत्यस्त्वया स्वरमण्यौदासीन्यं नैव विधेयमिति भ्रमरा न्योक्त्या व्यनक्ति--
मलिनेऽपि रागपूर्ण विकसितवदनाममन्दजल्पेऽपि । |
मलिनेऽपीति । रागपूर्ण रागबाहुल्यवतीमित्यर्थः । पक्षे नायके दुःसङ्गक्तौर्य र्स्वैरत्वैमालिन्यबहुभाषित्वचापल्यानि । नायिकायां तु रागः प्रेमा। ‘अनल्प जल्पेऽपि’ इति पाठः। शिष्टं तु स्पष्टमेव। तस्मानेयं सर्वगुणरमणीया रमणी’ हेयेत्याशयः । अत्र सरोजिनीपदेन तस्यां पद्मिनीत्वं ध्वन्यते । इहाविकी नायकः । करुणो रसः। निरुक एवालंकारः ॥
अथ तत्रैवावस्थितः प्रागुक्तः कश्चित्तटस्थः स्वमनसि यदयं पण्डितवरस्तावदिमं राजतनूजं स्वसुन्दरीत्यागानौचित्योपदेशान्यथानुपपत्त्या प्रागुक्तरीत्या चतुर्वर्गोप दिक्षुरपि नास्मान्प्रति करुणालेशेनेषपषदप्यगृह्यात्यतो धिङ्मामिति परमविषण्ण स्वेनानुकम्पया किमिति त्वं खिन्नोऽसीति पृष्टस्तदपलाप्यानुतापवशात्सत्त्वप्रधान चेताः सन् धनलोभलक्षणं स्वापराधमेव तत्र हेतु द्योतयन्सास्वेनातेनुकम्पया किमिति त्वं खिन्नोऽसीति पृष्टस्तदपलाष्यानुतापवशात्सत्त्वप्रधानमान्यतः स्वार्थ परार्थ वा धनार्थित्वावच्छेदेन मुखमालिन्यव्याप्तिं स्पष्टयति--
स्वार्थं धनानि धनिकात्प्रतिगृणतोऽपि |
स्वार्थमिति । प्रतिगृह्यतोऽपि, न तु स्तेयादिना हरतः। स्वास्यं स्वस्य प्रतिग्र हीतुरस्मदादेरास्यं वदनमित्यर्थः । शोभनं मुखं वा। ‘यदास्यम्’ इति पाठे तु यत्प- दमिदमा संबध्यते। ननु कुतो नेदं विचित्रं प्रत्युत धनलाभजन्यसंतोषात्प्रसादिनैव भाव्यमित्याशङ्कय कैमुतिकन्यायेन समादधत्तत्रार्थान्तरन्यासमुपन्यस्यति-गृह्यन्नित्युत्त्रर्धेन। सकलोपि संपूर्णोपि न त्वेकदेश एव। अयं बुद्धिस्थः सर्वलोक प्रत्यक्षो वा । मेघः परार्थमपि, न तु स्वार्थम् । वारिनिधेः सकाशात्पयोऽपि जल-