उपकारमेव तनुते विपद्तः सङ्गणो नितराम् । |
उपकारमेवेति । सद्गुणः सन्तः शुभा गुणा अस्येति तथा । सुजन इत्यर्थः। नितरामितिपदं सर्वत्र संबध्यते । एवंच साद्गुण्यस्य त्रैकालिकत्वं व्यज्यते । विप• दिति । अतिविपद्भरतोऽपीति यावत् । उपकारमेव नितरां तनुते विपुलं विस्तारय तीति संबन्धः । अत्रास्मिन्नुक्तविषये केनचिद्युकिविशेषेण स्तम्भित इति यावत् । वाथवा मृतो भस्मीभूत इत्यर्थः । एतादृशः पारद एतन्नामको रसो रसायनविशेषः । एवं च न रसपदेन पौनरु क्यम् । निदर्शनमुदाहरणमस्तीत्यन्वयः । पारदो हि मूच्
- पुनर्निर्दिष्टम् लक्ष्यपृष्ठस्य नाम
र्छिछतो वा भस्मीभूतो वा रोगपरिहारादीष्टं संपादयत्येवेति लोके दृष्टमेव । अतः सङ्गणः पुरुषो नितरां विष दूतोऽप्युपकारमेव तनुत इति निर्णीयत इति तात्पर्यम् । इह ललितो नायकः । दृष्टान्तोऽलंकारः । उपगीतिर्धत्तम् । तदुक्तं वृत्तरत्नाकरे-‘आर्याद्वितीयकेऽर्थे यद् दितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्द्धते ॥’ इति ॥
ननु दुःसङ्गाहुर्मार्गप्रवृत्तिस्ततः पापोत्पत्तिस्तस्माद्रुद्धेरेव यदि सर्वदा दुःसङ्गः कर्तुमनुचितः किल तर्हि ‘धर्मेण पापमपनुदति’ इति श्रुतेरैवर्यसाध्येन धर्मेण निरुक्तपापं पराकरिष्यामस्ततः का नः क्षतिदुर्जनसङ्गतोऽपीत्याशयैश्वर्यस्य क्षणि कत्वान्मैवमिति सीतावृत्तान्तकथनेन ध्वनयति—-
वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता |
वनान्त इति । या वनान्ते दण्डकारण्यप्रान्ते । गोदावरीतीरादावित्यर्थः । ‘वनान्तःइति पाठे तु वनमध्य इति यावत् । खेलन्ती क्रीडन्ती सती । शश केति । शशशावकमालोक्य चकिता सती भयहर्तुः सर्वेश्वरत्वेन यावद्भयभङ्गदक्ष स्येत्यर्थः । एतादृशस्य । भुजेति । बाहेकदेशम्। सपदि तत्कालं नतु विलम्बेन । एतेन भीत्यतिशयो व्यज्यते । भजतीष्टसाधनताधिया सेवत इत्यर्थः । अहो इत्या श्चर्यं सा निरुकगुणेयं वर्ण्यत्वेन बुद्धिस्थतया प्रत्यक्षा । दशामिति । अतएव-- हलेति । हलानीव लाङ्गलानीव रदा दन्ता येषां तैः । एतादृशे रक्षोभिः संरक्षक