एकस्त्वं गहनेऽस्मिन्कोकिल न कलं कदाचिदपि कुर्याः । |
एकस्त्वमिति । हे कोकिल, यत एकस्त्वमस्मिन्नाहने । ‘गहनं काननं वनम्’ इत्यमरादरण्ये। अतः कदाचिदपि कलमव्यक्तमधुरध्वनिं न कुर्युः । मैव कुर्वि त्यर्थः । तत्र हेतुः साजत्येति ।
यतोऽमी निर्दयाः काकास्त्वां साजात्यशध्नङ्कया निजजातीयभ्रान्त्या न निघ्नन्तीत्यन्वयः ।
उक्त्ध्वनिरचने तु भ्रान्त्यपगमान्निर्दयत्वखाभाव्येनना मारयिष्यन्त्येवेति भावः । इह करुणादेव नायकरसौ । भ्रान्तिमानप्यलंकारः ||
अथ कदाचित्स राजा खगुणाकृष्टतयानुनेतुमायास्यति चेत्तत्र वक्तव्यां हिमा चलान्योक्तिमाह- तरुकुलसुषमापहरा जनयन्तीं जगति जीवजातार्तिम् । केन गुणेन भवानीतात हिमानीमिमां वहसि ॥ २४ ॥ तरुकुलेति। ‘सुषमा परमा शोभा', 'हिमानी हिमसंहतिः' इति चामरः । जातिर्जातं च सामान्यम्” इत्यपि। ‘आर्तिः पीडाधनुःकोट्योः' इति च । हे भवानी- तातेति महत्त्वसूचकम् । तेन तवेदमनुचितमिति तात्पर्यम् । अत्रोदात्तो नायकः । परिकरोऽप्यलंकारः ॥ | किमेवं दुर्जनतिरस्करणमेवोपदेशनीयं तावतैवं खादिसज्जनादरसंभवादिति चेन्न । सज्जनादरोपदेशस्याप्यपेक्षितत्वात् । न हि शोधनादिना निर्दोषमपि गोदुग्धं शर्कराप्रक्षेपादि न वाञ्छतीति तात्पर्येण तत्सूचिकां कलभान्योकिं वक्ति- कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवझासीः । अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ २५ ॥ कलमेति । यद्यप्येवंजातीयका सा समुपागतवति दैवात्' ( १॥५) इति प्रागुकैव तथापि तत्र कुटजपदस्यायन्तजाड्यव्यञ्जकत्वादिह तु राज्ञः खगुणपारव- श्येन तथात्वाभावादीषजडत्वविवक्षयैव करिशावकवाचिना कुलभपदेन ध्वननाना- मैडितत्वावकाशः।उपकण्ठान्तिकाभ्यर्णाभ्या अप्यभितोऽव्ययम्' इत्यमरादन्ति- के समीपम्। अवज्ञासीरवज्ञाविषयीकुर्या इत्यर्थः । तत्र हेतुः-अपि दानेति । दानं मदोदकम् । पझे वितरणम् । तेन सुन्दराः सुभगास्तेषाम् । अत एव द्विपेति । द्विपाः ‘द्विरदोऽनेकपो द्विपः' इत्यमराजास्तेषां धुर्याः। ‘धूर्वहे धुर्यधौरेयधुरीण सधुरंधराः' इत्यपि तदुतेः श्रेष्ठास्तेषामित्यर्थः । गजराजानामप्ययं शिरोधार्य इत्यन्वयः । इह पूज्यतरो नायकः । शान्तो रसः । काव्यलिङ्गमप्यलंकारः ॥