ननु तत्राप्यसावुदासीन एव द चेत्तत्र स्वानुरागजनिक बकव्यां भ्रमरान्यो तिमाह
अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य । |
अमरेति । सुरद्रुमपुष्पसौगन्ध्यास्वादनपर्याप्तसर्वमनोरथस्येत्यर्थः । एतादृशस्य भ्रमरस्य पुष्पान्तरसेवेयं महती बिडम्बना अनौचिती भवतीति योजना । तस्माद स्मदादरोऽवश्यं निरन्तरं विधेय एवेति भावः । इह नायकरसौ कावेव । परिकरोऽप्यलंकारः॥
एवं संपद्विपीत्युपदेशश्रवणेन तुष्टः शिष्यः शिष्टतरं स्खोपदेष्टारं स्तौति-पृष्टा इत्यादित्रिभिः। तत्र निरुपमत्वं प्रथममाघ्रान्योक्त्या व्यनकि --
पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे । |
पृष्टा इति । हे माकन्द । ‘आम्रचूतो रखालोऽसौ सहकारोऽतिसौरभः । कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥' इत्यमरादय्यानेत्यर्थः । पक्षे मा लक्ष्मीः, ब्रह्मविषयका प्रमा च तस्यास्तयोर्वा कन्द इव मूलकारणं तत्संबुद्धौ । तथा । भोः चतुर्वर्गप्रद, सदुरो इति यावत् । मधुपेनातिनीचेनापि भ्रमरेण । पक्षे बाई दारण्यकमधुब्राह्मणोतमधुशब्दितं ब्रह्म पिबति बुभुत्सुत्वेनास्वादयतीति तथा तेन । क्रममुमुक्षुणेत्यर्थः । यद्यपि । परेति । परैलोकैः स्वैहिकादिफलार्थं पोषिता इत्यर्थः। एतेन मुख्यत्वं सूचितम् । एतादृशः सर्वेऽपि विटपिनो वृक्षाः । अत्र शाखिपदं चेत्पूर्णः श्लेषः। दृष्टाः प्रश्नविषयीकृताः। ततो दृष्टा अनुभूताश्च । यद्वा परपुष्टः कोकिलाः । पक्षे परेण परमात्मना पुष्टाः पूर्णाः। पृा विटपिनो दृष्टावेति। तथापि जगति तवोपमा त्वदृष्टान्तो न प्रपेदे नैव लब्ध इति संबन्धः । इह निरुपमो नायकः। शान्त एव रसः। गुरुविषयकरतिभावो वा।श्लेषोऽप्यनन्वयश्चलंकारः॥
ननु मया यकिंचिदेव नीतिजातमुपदिष्टं तकिमितिं निरुपमवेन मां स्तैषी त्याशक ‘किंचानर्थे यदवसरे दत्तम्’ इति प्रश्नोत्तररत्नमालिकायां श्रीमद्विमला चार्यचरणारविन्दवचनात्ममयेऽनुशास्तुत्वेन सुरगुरुप्रभृतिभ्योऽपि भवदाधिक्यमेव भवतीति मालाकारान्योक्त्या द्योतयति