'कुडा’ इति महाराष्ट्रभाषाप्रसिद्धो वर्षाकालविकासी कश्चित्तिक्ततमो वृक्षविशेषः कुटजस्तत्संबुद्धौ । एतेनातिनिन्द्यत्वं ध्वनितम्। दैवात्प्रारब्धाद्धेतोः समुपागतवति सादरं समीपमभिसर्पति । एतेनावश्यादरणीयत्वं व्यज्यते । तत्रापि मधुकरे मधुसंपादके त्वयि तदाविर्भावाभावेऽपि स्वसांनिध्येन तज्जनके भृङ्गविषये, न तु भ्रमरे । एवं च व्ययहेतुत्वेऽव्ययकारणत्वान्नित्यसंग्राह्ययत्वं सूचितम् । अवहेलामवज्ञां मा गाः । माकार्षीरित्यर्थः। एवमप्यनास्थायामाह-— मकरन्देत्युत्तरार्धेन । तस्मात्त्वयायं सर्वथा सेव्य एवेत्याशयः । इह पूज्यो नायकः । करुणो रसः । काव्यलिङ्गमप्यलंकारः ॥
अस्त्वेवं सति विभवे नीत्युपदेशः कस्यचिद्दैवाद्विपत्तौ सत्यां कथं कार्यं तेनेत्यत्र धैर्यमेव । उक्तं हि भर्तृहरिणा—‘विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥' इतीति कोकिलान्योक्त्या व्यनक्ति तावदित्यार्यया--
तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन् । |
तावदिति । हे कोकिल, त्वं तावद्वनान्तरेऽन्यारण्यमध्ये । एतेन धैर्यभङ्गहेतुः विषयिसङ्गव्युदासः सूचितः । निवसन्नितरां तिष्ठन्सन्नित्यर्थः, न तु क्षणमात्रं विहरन् । एवं च तत्संभवाभावो व्यज्यते । विरसान्दिवसान्यापय । नयेत्यर्थः तावत्पदापेक्षितं पूरयति--यावदित्युत्तरार्धेन । रसाल आम्रः। ‘आम्रश्चूतो रसालोऽसौ' इत्यमरः । मिलदिति । मिलन्त्याश्लिष्यन्ति मिलन्त्योऽभिसमालिङ्गन्त्यो वालिमाला भ्रमरपङ्क्तयो यस्मिन्स तथेत्यर्थः । तस्मात्स्वाभीष्टदविकासपर्यन्तं धैर्यमेवावलम्ब्य विपन्नेन वन एव विहर्तव्यमिति तात्पर्यम् । इह करुणो नायकः । शान्त रसः । लोकोक्तिरप्यलंकारः । तदुकम — ‘लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते । सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ।’ इति ॥
ननु भवता भूर्युपदेशे क्रियमाणेऽपि मम संशयः पुनः पुनर्नवो नव एवाविर्भवतीति धिङ् मामतिनीचामिति स्वमनसि खिन्नमिव शिष्यमालक्ष्य गुरुस्तं कूपान्योक्त्या प्रोत्साहयति--
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः । |
नितरामिति । हे कूप, अहं नितरामत्यन्तं नीचो निम्नः । पक्षे हीनः । कुता