( ४१६ )
अथ दक्षिणानिलस्य कामोद्दीपकत्वाद्विरहिणीनां दयनीयां दशां वर्णयति कविः-
देया शिलापट्टकपाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु ।
वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञ॥९॥
अन्वयः
श्रीखण्डशैलस्य दरीगृहेषु शिलापट्टकपाटमुद्रा देया । ( येन ) विनियोगिनीकण्टक एषः वायु: कारागृहस्य चिरात् अभिज्ञ अस्तु ।
व्याख्या
श्रीखण्डशैलस्य चन्दनाद्रैर्मैलयाचलस्य दरीगृहेषु कन्दरागुहेषु ‘दरी तु कन्दरो यास्त्री' इत्यमरः । शिलापट्टाः प्रस्तरखण्डपट्टा एव कपाटानि तेषा मुद्रा प्रावरणं देया निवेश्या येन कारणेन शिलामुद्रणरूवेण वियोगिनकण्टको विरहिणीनां हृदि कण्टकवच्छल्यवद्वघथाजनक एष प्रसिद्धो वापुर्दक्षिणानिलः कारागृहस्य बन्धनाल- यस्य ‘प्रग्रहोपग्रहौ बन्द्यां कारास्याद्बंधनालये' इत्यमरः । चिराच्चिराय बहुकाल पर्यन्तमित्यर्थः । अभिज्ञस्तन्निवासजन्यदुःखानुभविताऽस्तु जायताम्। परपीडकः कारागृहनिवासयोग्य इति भावः ।
भाषा
मलयाचल के कन्दरा रूपी धरो को पत्थरों की चट्टान रूपी किंवाड़ों से बन्द कर देना चाहिये । जिससे (उन कन्दराओं में रहने वाला ) विरहिणियों के हृदय में काँटे गडाने के समान पीडा देने वाला यह दक्षिणानिल चिरकाल तक कैदखाने में रहने के दुख का अनुभव करे । क्योकि जो दूसरो को व्यर्थ दुख देता है वह कैदखाने में जाने योग्य है ।
विरूक्षणीयः सखि दाक्षिणात्यस्त्वया न वायुः परुषैर्वचोभिः।
यकोपनिश्वासपरम्पराभिः पीनत्वमायात्ययमुष्णताश्च ॥६॥
अन्वय:
हे सखि! त्वया परुषैः वचोभिः दाक्षिणात्यो वायुः न विरूक्षणीयः। यत् अयं कोपनिःश्वासपरम्पराभिः पीनत्वम् उष्णतां च आयाति ।