पेक्षया प्रवृत्तिविषयविशेष्यकम्य गुरुत्वाञ्च ।
एतेन स्वप्रकारकस्वविशेष्यविशेष्यकज्ञानसाध्येति साध्यमि- ति परास्तम् । किञ्च स्वत्वस्य तत्तद्व्यक्ति विश्रान्तया स्वपदस्य प्रकृतपक्षपरत्वे साध्याप्रसिद्धेः । दृष्टान्तपरत्वे बाधापत्तेः । सा- धनविशेषितत्वादित्यस्येष्टविषयक प्रवृत्तित्वरूपस्य विशिष्टात्मक स्य साधनेन प्रवृत्तित्वेन विशेषणीभूय विशेषितत्वादित्यर्थों वा- व्यः स च न सम्भवति साधनस्य विशेषणत्वभावात् । साध नेन विशेष्यीभूतेन घटितत्वादियुकेऽपि पर्वतो धूमवान् वह्नेरि- त्यदावार्द्रेन्धनप्रभवह्न्यादेः साधनविशेधिनत्वेऽपि सदुपाधि- त्ववदस्यापि सदुपाधित्वानपायात् । अन्यथा आर्द्रेन्धनप्रभवव- ह्न्यादेरपि सदुपधित्वं स्यात् ।
न च विषयविशेषितेच्छानुव्यवसायादौ प्रवृत्तित्वघटितस्य तस्य साध्याव्यापकत्वान्नोपाधित्वमिति वाच्यम् । साध्याव्याप- कत्वेनैव तस्यानुपाधित्वे तदप्रयोजकसाधनावशेषितवादित्यस्य वैयर्थ्यांपत्तेः । प्रवृत्तित्वरूपसाधनावच्छिन्नसाध्यव्यापकत्वाञ्च ।
मथुरानाथभट्टाचार्यास्तु लाघवेन तद्विशेष्यकतत्प्रकारकप्रव्रुत्तिं प्रति तद्विशेष्यकतत्प्रकारकत्यक्षत्वेन हेतुत्वात् पक्ष एवं साध्याव्या- पकतया ऽस्य वस्तुगत्योपाधित्वविरहादित्येव दूषणं सारम् ।
एतेन प्रवृत्तिवाविशेषतं स्वजनकेच्छापकाराश्रयाविशेष्यकत्वं स्वप्रकाराश्रयविशेष्यकत्वं च शुद्धसाध्यव्यापकतयोपाधिरित्यपि निरस्तमित्याहुस्तन्न। ब्यधिकरणप्रकारकज्ञानकारणबाधेन पक्षे सा- ध्यव्यापकत्वासम्भवात् ।
यदांपे रजतेच्छाजन्यशुक्तिनिष्ठप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञानं शुक्तिविशेष्यकं शुक्तिप्रवृत्ति प्रयोजकज्ञानत्वात् श्रुत्यर्थिशु- क्तिप्रवृत्तिजनकज्ञानवत् इति तन्न । पक्षे जन्यान्तवैयर्थ्यात् । ज्ञा- नलक्षणासन्निकर्षविधया न्यायमते शुक्तिनिष्टप्रवृत्तिप्रयोजके रजत- - 1