अग्रादेरवच्छेद्याभावाधिकरणवृक्षादिसंबद्धत्वेनासंबद्धत्वरूपावच्छे- द्याभावासमानाधिकरणत्वासम्भवादिति वाच्यम् । अवयव भेदो- पाधिकस्यावयविन्यप्यवयविभेदस्य सम्भवात् ।।
यत्त्वत्र श्रीमहामहोपाध्यायनैयायिकचक्रचूडामणिश्रीमद्गङ्गे- श्वराचार्यः-नचान्योन्याभावस्याव्याप्यवृत्तित्वम् । अभेदस्या- बाधितप्रत्यभिज्ञानादित्याहुः ।
तदापाततः । कपिसंयोगिभेदाभावस्य कापसंयोगिभिन्नभेदस्य च कपिसंयोगरूपतया तस्याग्रावच्छेदेन कपिसंयोगवति वृक्षे व- र्त्तमानस्य मूळे वृक्षः कपिसंयोगवद्भिन्न इतिप्रतीतिविषयस्य मूला वच्छेदेन वृक्षे बाधात् उक्तप्रतीतेरवाधितत्वासिद्धेः । यद्युक्तदोष- भिया तत्राग्रे वृक्षः कपिसंयोग्यभिन्न इत्यङ्गीकुरुथ, तदा संयोगविष- यत्वेनाबाधितत्वेऽपि मूले वृक्षो न कपिसंयोगीत्यबाधितप्रतीयवि- रोधित्वेनान्योन्याभावस्याव्याप्यवृत्तित्वनिरसासम्भवात् ।
नचान्यवान्योन्याभावात्यन्ताभावस्यान्योन्याभाववद्वेदस्य च प्रतियोगितावच्छेदकरूपत्वेऽप्यच्याप्यवृत्तिस्थळे तद्वदन्योन्याभावा- भावस्य तद्वद्भिन्नभेदस्य चातिरिक्तस्य व्याप्यवृत्तिस्वभावस्योक्त प्रतीत्यन्यथानुपपत्याभ्युपगमान पूर्वोक्तदोष इति वाच्यम् । युक्त्या भ्रमत्वोपपत्तिभ्यां प्रतीत्यन्यथानुपपत्यभावात्कल्पनागौरवाच्च। कल्प्य मानोऽपि व्याप्यवृत्तिरव्याप्यवृत्तिर्वा । आद्ये मूलस्यानवच्छेदकतया तत्प्रतीतेभ्रमत्वापात्तः । चरमेऽविरोधित्वेनान्योन्याभावस्याव्याप्य- वृत्तित्वनिरासासम्भवः । एतेन कपिसंयोगिभेदाभावःकपि संयोगा- भिन्नभेदो वा नकपिसंयोगरूपो नाप्यतिरिक्तः किन्तु तत्तद्व्यक्ति- स्वरूपस्तादात्म्यसम्बन्धेन तत्तद्व्यक्तिस्वरूपो वेति परास्तम् । तस्य व्याप्यवृत्तेराद्यदोषानिवृत्तेः । नच वृक्षः कपिसंयोगभिन्न इति यथा- थेप्रतीतिरेवान्योन्याभावस्याव्याप्यत्तित्वे बाधिकेति वाच्यम् । वृक्षे कपिसंयोगिभदस्याव्याप्यवृत्तित्वे तद्भेदाभावस्य तद्भिन्नभेद-