शङ्क्याह-अमेयायेति । वृत्तिरूपसाक्षात्कारविषयत्वेऽपि स्वव्य- वहारः इतरानपेक्षचैतन्यविषयत्वरूपस्वप्रकाशत्वस्य न क्षतिरिति भावः इति स्मृत्यर्थः (इत्याहुः) ॥
यद्यपि तस्मात् षोडशकादेतदन्य तरग्रहणेनैव सामञ्जस्ये त- दुभयग्रहणं व्यर्थं तथापि तदुभयग्रहणस्प पादपूरणार्थत्वेनादोषात् । अहङ्कारस्य कार्याणि पञ्चतन्मात्राणि तानि शान्तघोरमोहाख्य- स्थूलगतशब्दादिविशेषशून्यशब्दादिमद्रव्याणि, नतु वैशेषिका गु- णाः । अन्यथा ऽकाशादिद्रव्याप्तत्तिर्न स्यात् । गुणाद्द्रव्योप्ततेः प्रेक्षावद्भिरनङ्गीकारात् ॥
तत्र पञ्चीकृतपञ्चतन्मात्रेभ्यः भूतोत्पत्तिं केचन सङ्गिरन्ते । केवन त्रिवृत्कुतेभ्यः । तदुक्तं कल्पतरुकूद्भिः ।
सम्प्रदायाध्वना पश्चीकरणं यद्यपि स्थितम् ।
तथापि युक्तिदृष्टत्वाद्वाचस्पतिमतं शुभम् ।
पृथिव्यनलात्मत्वं गगने पवनेऽपि चेत् ।
रूपवत्वमहत्वाभ्यां चाक्षुषत्वं प्रसज्यते ।
अर्द्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने।
व्यवहारयथाप्राप्ता मुधा पञ्चीकृतिर्भवेत् ।
अनपेक्ष्य फलं वेदसिद्धेत्येवेष्यते यदि ।
त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता ॥
तस्मात्सुष्ठूच्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विवाक्ष-
तत्वादिति ।।
यत्तु सम्प्रदायविदः । विद्युत्कृतिपक्षेऽपि तेजसो गन्धादिमत्व: व्यवहाराभावेन दोषमाम्येऽपि व्यवहार प्राप्तपञ्चीकृतिपक्ष इति न ब्रूमः, किन्तु पञ्चीकृतौ अंशसद्भावात् त्रिवृत्कृति श्रुतेः पञ्चीकृति- निवृत्तिपरत्वे एकस्य वाक्यस्य व्यापारद्वयकल्पने वाक्य भेदापत्या- पञ्चीकृतिनिवृत्तिपरत्वत्भावाञ्च स पक्षः श्रौत एवेति । तन्न ।