इतश्चाव्यक्तमस्तीत्यत आह-"शक्तितः प्रवृत्तश्च"
इन । कारणशक्तितः कार्यं प्रवर्तत इति सिद्धं, अश-
क्तात् कारणात् कार्यस्यानुत्पत्तेः, शक्तिश्च कारणगता
ने कार्यस्याब्यक्तत्वादन्या । न हि सत्कार्यपक्ष कार्यस्या-
नबुद्ध्यहङ्काराणं रूपादिमत्वाङ्गीकारे बाह्येन्द्रियग्राह्यजातीयावशेष- गुणवत्तस्यैव भूतलक्षणत्वेन तेषामपि भूतत्वापत्त्या स्वस्य स्वका- रणत्वानुपपत्तेः ॥
नन्वेचं कारणद्रव्येषु रूपाद्यभावेन तन्मात्रारूपादेः किङ्कार- णमिति चेत् , शृणु, स्वकारणद्रव्याणां न्यूनाधिकभावेनान्योन्यसं- योग एव । न च कारणगुणाः स्वजातीय कार्यगुणानारम्भते इति नियमः । त्रसरेणुमहत्वादाववबहुत्वादेरेव त्वयापि हेतुत्वा- भ्युपगमेन नियमभङ्गावश्यकत्वात् । नच रूपादिचतुष्टयस्यैव नियम इति वाच्यम् । परस्परविरुद्धरूपवतां दुष्याणां मेलनेऽपि नीलपी-- तादिरूपदर्शनेन सत्र व्यभिचारस्योक्तत्वात् । शक्तेः (कस्य कुत्रेति) शक्तशक्यनिरूपणाधीननिरूपणत्वात्-------
कस्य कुत्र शक्तिरित्याक्षाङ्क्षायां हेतुं व्याचष्टे-कारणशक्ति- त इति । ननु कारणतः कार्य प्रवर्ततां किं शक्तत्वविशेषणेने- त्यत आह-अशक्तादिति । तथा चाशक्तात्सिक्तातस्तैलोप्तत्त्यदर्श- नेन तथैव कल्पनादियर्थः । शक्तिः पदार्थान्तरमिति मीमांसकम- तं दूषयितुमाह-शक्तिश्चेति । नचाव्यक्तत्वस्य कार्यगतत्वात्कथं कारणगततेति वाच्यम् । धर्मधर्मिणोर भेदेनानाभव्यक्तकार्यस्यैव शक्ति- पदार्थत्वेन सत्कार्यवादे तस्याःकारणनिष्ठत्वोपपत्तेः । तथात्रानाभि- व्यक्तकायेणैव निर्वाहेऽतिरिक्तशक्तिकल्पने मानाभावो गैरवं चेति भावः ॥
ननु कार्यप्रागभावाभावेनैवाशक्तकारणात्कार्यानुत्पत्तिनिर्वाहे