पातञ्जलयोगसूत्रभाष्यविवरणम्/विभूतिपादः
श्रीः
॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥
॥ तृतीयः विभूतिपादः ॥
[ व्यासभाष्यम् ]
उक्तानि पञ्च बहिरङ्गसाधनानि ! धारणा वक्तव्या--
[ पातञ्जलयोगसूत्रम् ]
देशबन्धश्चित्तस्य धारणा ॥ १ ॥
[ भाष्यम् ]
नाभिचक्रे, हृदयपुण्डरीके, मूर्धज्योतिषि, नासिकाग्रे, जिह्वाग्र इत्येवमादिषु देशेषु, बाह्येषु च विषयेषु, चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥
[ विवरणम् ]
{{bold|उक्तानि पञ्च बहिरङ्गानेि साधनानि सम्प्रज्ञातस्य योगस्य । अधुना अन्तरङ्गं धारणाध्यानसमाधिसमाख्यं साधनत्रयं तस्यैवामिधीयते । बहिरङ्गान्तरङ्गत्वभेदादेव हि बहिरङ्गसाधनव्याख्यानेनैव पादः परिसमापितः । संहत्यकारित्वाश्च साधनत्रयस्य पृथग्वचनम् । बहिरङ्गसाधनाभिधानानन्तरपर्युपस्थापितान्तरङ्ग-साधनप्रतिपादनेन पादसम्बन्धो व्याख्यातः । अस्मिंश्च पादे विभूतयः प्राधान्येन प्रदर्श्यन्त इति च पृथक्(क्त्वादा)पादरम्भः । एतदेव हि समाख्यालाभे कारणमवादिष्म ।
{{bold|धारणा वक्तव्या । प्रत्याहारानन्तरं क्रमोपनीतसन्निधाना धारणा अभिधानीया । देशबन्धश्चित्तस्य धारणा । देशबन्धनं देशबन्धः । कस्य चित्तस्य ॥
स्वयमेव च सर्वं व्याचष्टे--नाभिचक्रे नाभिप्रदेशश्वक्रमिव । सर्वे (वायव)अवयवास्तत्र चक्रीभूता इति नाभिचक्रम् । हृदयं पुण्डरीकाकारम् । मूर्धज्योतिषि । मूर्धनाडीद्वारं प्रभास्वरत्वाज्ज्योतिरित्याख्यायते । नासिकाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु बाह्येषु च विषयेषु चन्द्रादित्यादिषु चित्तं बध्यते ॥
1. बहिरङ्गाणि सा, 2. मूर्ध्नि ज्यो. 3. बाह्ये वा विषये
30 [ सूत्रम् ]
तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥
[ भाष्यम् ]
तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य एकतानता सदृशप्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥ २ ॥
[ सूत्रम् ]
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥
[ भाष्यम् ]
तदेव ध्यानं ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात् , तदा समाधिरित्युच्यते ॥ ३ ॥
[ विवरणम् ]
तस्य चित्तस्य इत्येवमदिष्वप्रचलितरूपेण या वृत्तिः सा धारणेत्युच्यते । वृत्तिमात्रेणेति । तद्देशप्रत्ययमात्रेण विक्षेपशून्यतया वर्तत इति ॥ १ ॥
{{gap}}तत्र प्रत्ययैकतानता ध्यानम् । तस्मिन् देशे धारणावृत्तिविषये नाभिचक्रादौ । ध्येयालम्बनस्य ध्येयो देशादिः, तदालम्बनस्य । प्रत्ययस्य [एकतानतI]] सदृशप्रवाहः, तुल्यप्रत्ययानां प्रवाह एकाकारः प्रत्ययसन्तानः प्रत्ययान्तरेण विजातीयेन अपरामृष्टः अनाकीर्णः। तत् ध्यानम् ॥
धारणा तु तस्मिन्नेव ध्येये तदवस्थस्यैव चित्तस्य तद्विषयविकल्पितैः प्रत्ययान्तरैः परामृष्टाऽपि । यथा सूर्ये धार्यमाणस्य तद्गतपरिमण्डलतीव्रतरदीधितित्वादिप्रत्ययेष्वपि धारणैव । वृत्तिमात्रेण तत्रैव वर्तमानत्वाच्चित्तस्य । ध्यानं पुनः न तु तथा । भिन्नजातीयप्रत्ययान्तरापरामृष्टैकप्रत्ययप्रवाह एव हि ध्यानम् ।।२।।
तदेवाथैमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । तदेव ध्यानं तुल्यप्रत्ययप्रवाहरूपं स्वामेकप्रत्ययसन्तानतामित्र हित्वा ध्येयाकारनिर्भासं ध्येयाकारवदवभासते । प्रत्ययात्मकेन स्वेन ग्रहणात्मना स्वरूपेण शून्यमिव । यथा स्फटिकद्रव्यमुपधानावभासं स्वरूपशून्यमित्र । यदा भवति ध्येयस्वभावावेशात् कारणात् चितस्य, तदा तदेव ध्यानं समाधिरित्युच्यते ॥
ननु च योगः समाधिरित्यङ्गी पूर्वमुक्तः । इहाङ्गो योगस्य समाधेिरित्याख्यायते । कः पुनरत्राङ्गाङ्गिनोर्भेद इति ? उच्यते--योगः समाधिरिति चित्तस्थितिविशेषो विवक्षितः । इह तु प्रत्ययसन्तानस्यैव ध्येयस्वभावावेशात् ध्येयाकारत्वमङ्गमिति विशेषः ॥ ३ ॥
1. सदृशः प्र. 2. ध्यानमेव ध्ये.
[ सूत्रम् ]
त्रयमेकत्र संयमः ॥ ४ ॥
[ भाष्यम् ]
तदेतत् धारणाध्यानसमाधित्रयं एकत्र, संयमः । एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा 'संयमः' इति ॥ ४ ॥
[ सूत्रम् ]
तज्जयात् प्रज्ञाऽऽलोकः ॥ ५ ॥
[ भाष्यम् ]
तस्य संयमस्य जयात् समाधिप्रज्ञाया भवत्यालोकः । यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा 'स्थिरपदी भवति ॥५॥
[ सूत्रम् ]
तस्य भूमिषु विनियोगः ॥ ६ ॥
[ विवरणम् ]
तदेतद्धारणाध्यानसमाधित्रयं यद्याख्यातं तत् एकत्र एकस्मिन् देशे परिनिष्पन्नं सत् संयम इत्युच्यते । तदाह--एकाविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य इत्थंक्रमेणाभिनिष्पन्नस्य तान्त्रिकी तन्त्रप्रयोजना परिभाषा । जिज्ञासितार्थसाक्षादापादनाय यत्र यत्र संयमः श्रूयते जेतव्यजयाय वा, तत्र तत्र त्रयमेतत् प्रवेदितव्यमित्येवमर्थमेतस्य त्रयत्यास्मिन् शाखे परिभाषेयं संयम इति ।
वक्ष्यति च-'परिणामत्रयसंयमादतीतानागतज्ञानम्' ‘स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः' इति च ॥ ४ ॥
तञ्जयात् प्रज्ञाऽऽलोकः । तस्य संयमस्य जयात् स्थिरत्वापादनात् अभीप्सितार्थाभिव्यञ्जनसमर्थः प्रदीपालोकदेशीयः समाधिप्रज्ञाया भवत्यालोकः।
यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा स्थिरपदी भवति । येन समाधिप्रज्ञाऽऽलोकेन व्यवहितविप्रकृष्टादिवस्तुनिर्भासनसमर्थेन योगिनः करतलकलितमिवाभिमतमर्थमवलोकयन्ति ॥ ५ ॥
तस्य भूमिषु विनियोगः । तस्य संयमस्य भूमिषु बाह्याध्यात्मिकेषु ध्यानालम्बनभूतासु वक्ष्यमाणासु परिणामत्रयादिषु विनियोगः प्रयोगः कर्तव्यः|
1. विशारदी भवति 2. यो. सू. 3. 16, 3. यो. सू. 3, 44. २ं३६पातञ्जलयोगसूत्रभाष्यविवरणे
[ भाष्यम् ]
तस्य संयमस्य, जितभूमेः या अनन्तरा भूमिः तत्र, विनियोगः । न ह्यजिताधरभूमिः अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच्च ‘कुतस्तत्र प्रज्ञाऽऽलोकः ? °जितोत्तरभूमिकस्य° नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात् ? तदर्थस्य
[ विवरणम् ]
तद्भूमिजयसाक्षात्प्रयोजनार्थिना तस्य संयमस्य, जितभूमेः जिताया भूमेः, यत्र भूमौ योगिनः संयतायां संयमो लब्धः, तस्या जिताया भूमेः अनन्तरा या भूमिस्तत्र संयमस्य पूर्वभूमिजयानन्तरं विनियोगः करणीयः ॥
तद्यथा--पृथिव्यादीनां स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वभूमिषु क्रमेण जेतव्यासु, स्थूलायां भूमौ संयमं कृत्वा, तज्जयानन्तरं स्वरूप एवानन्तरे संयमो विनियोजनीयः । नानन्तरं स्वरूपं व्यतिलङ्घ्य सूक्ष्मादिभूमिषु संविदधीत ।
कस्मादेवम् ? न ह्यजिताधरभूमिरनन्तरां भूमिं विलङ्घय प्रान्तभूमिषु उपरितनीषु भूमिषु संयमं लभते ।। यदि चानन्तरां भूमिमजित्वा प्रान्तभूमिषु संयमं विनियुङ्क्षेत, तमेव संयमं न लभते । ततश्च तदलाभ एव दोषः । तदलाभाच्च संयमाभावाच्च कुतस्तत्र संयमविषये प्रान्तभूमावित्यर्थः । प्रज्ञाऽऽलोकः । निमित्ताभावात् । न ह्यसति तैलवर्तिज्वलनाभिसन्निपाते प्रदीपालोकः ॥
जितोत्तरभूमिकस्य जितोत्तरात्मादिभूमिकस्य योगिनः नाधरभूमेिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्? तदर्थस्य आत्मादेः उत्तरभूमेरपकृष्टपरचित्तज्ञानादिभूमिवैपरीत्येन अन्यथैवाधिगतत्वात् । परचित्तज्ञानादिभिः संकीर्णं असमाधिगतविवेकात्मकत्वात् । तत्र हि जितोत्तरभूमिसंयमस्य परकीयचित्तालम्बनत्वे संकीर्णचित्ताकारता योगेिचित्तस्यापि स्यादिति न युक्तः । तत्रात्मादेरर्थस्यान्यथैव विविक्ततयाऽधिगतत्वात् ॥
1. कुतस्तस्य 2. ईश्वरप्रसादात् जितो
3. स्य चविभूतिपादः तृतीयः २३७
[ भाष्यम् ]
'अन्यैथवाधिगतत्वात् । भूमेरस्या इयमनन्तरा भूमिः इत्यत्र योग एव उपाध्यायः । कथम्? । एवं ह्युक्तम्--- “ योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । अप्रमत्तस्तु योगेन योगेषु रमते चिरम् ॥” इति ॥ ६ ॥
[ सूत्रम् ]
त्रयमन्तरङ्गं पूर्वभ्यः ॥ ७ ॥
[ भाष्यम् ]
तदेतत् धारणाध्यानसमाधित्रयम् अन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥
[ विवरणम् ]
अन्येषां व्याख्यानम्-अर्थस्य परचित्तज्ञानादेः। अन्यथैवाधिगतत्वात् आत्माद्युत्तरभूमिसमधिगमनेनैव अधरपरचित्तज्ञानादिभूमेरर्थस्य अधिगतत्वात् इति ॥
अस्मिन् पक्षे ‘अधरभूमिषु संयमोऽनथैक' इति वदितव्यमभविष्यत्, न 'न युक्तः' इति । ‘न युक्त' इत्येतदसमीचीनमिव दृश्यते ॥
{{gap}}भूमेरस्या इयमनन्तरा भूमिः इयमनन्तरं जयनीयेति कथमवभोत्स्यत इत्याह--तत्र योग एवोपाध्यायः । योगः पूर्वभूमौ संयमलाभः । तेनैवानन्तर्यमवगम्यते ॥
कथम् ? एवं ह्युक्तम्-योगेन योगो ज्ञातव्यः । पूर्वसंयमलाभेन योगेन अनन्तरो योगविषयः प्रज्ञानीयः । स च योगः संयमः, योगात् एव पूर्वसंयमलाभादेव प्रवर्तते विविच्यते ॥
यथैव जनुषा अन्धकस्य सोपानपङ्क्तमारुरुक्षतः प्रथमसोपानप्रति लब्धपदस्पर्शप्रत्ययेनानन्तरसोपानज्ञानमुप्लोष्यते तथा योगो योगात् प्रवर्तते ॥
यत एवं तस्मात् स इत्थं जानन् अप्रमत्तस्तु योगी योगेन युक्तः सन् योगेषु योगैश्वर्यफलेषु रमते, चिरम् इति । ६ ।
त्रयमन्तरङ्गं पूर्वेभ्यः । धारणाध्यानसमाधत्रयम् अन्तरङ्गं पूर्वेभ्यः पञ्चभ्यः साधनेभ्यः यमादिभ्यः सम्प्रज्ञातस्य योगस्य । तत्रान्तरङ्गग्रहणं पूर्वसाधनासम्पत्तावप्यत्र त्रये आदरः करणीय इत्येवमर्थम् ॥
1. अन्यत एवाधि
2. योSप्रमत्तस्तु योगेन स योगे रमते चिरम्। २३८पातञ्जलयोगसूत्रभाष्याववरणे
[ सूत्रम् ]
तदपि बहिरङ्ग निर्बीजस्य ॥ ८ ॥
[ भाष्यम् ]
तदपि अन्तरङ्गं साधनत्रयं, निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात् ? । तदभावे भावात् इति ॥ ८ ॥
अथ निरोधचित्तक्षणेषु, चलं गुणवृत्तम् इति कीदृशस्तदा। 'निरोधपरिणामः ? --
[ विवरणम् ]
विनापि हि यमादिसाधनपञ्चतयसम्पादनेन जन्मान्तरविहितसंस्कारा वेशवशादेव विदेहप्रकृतिलयानामिव धारणादित्रयसम्पत्या योग उपकल्प्यते। धारणादित्रयेण विना न योगः संभवति कस्यचित् | तव्द्यापारनैरन्तर्यसंवादात्मकत्वाद्धारणादित्रयस्य । योगस्य चित्तसम्पतिरूपत्वातू ॥'
यदा तु ज्ञानवैराग्यसम्पतिः, तदा न किंचिदन्यद्धारणाद्यप्यपेक्ष्यते। तथा च मङ्किपिङ्गलाप्रभृतीनामनुश्रूयते वैराग्यादेव समस्तसिद्धिः । तथा। चोक्तम्-*स्थानासनविधानानि’ इति पूर्वत्र श्लोकद्वयम् ॥ ७ ॥
तदपि बहिरङ्गं निर्बीजस्य । तदपि एतत् अन्तरङ्गमपि सबीजस्य योगस्य, बहिरङ्ग भवति निर्बीजस्य योगस्य । कस्मात् ? तदभावे भावात्। तस्य सबीजान्तरङ्गसाधनत्रयस्याभावेऽपि पुरुषसत्त्वविशेषापेक्षया निबीजयोगस्य भावात् बहिरङ्गत्वम् ॥
केचिदतिसमीचीनदर्शना जन्मनैव संस्कारादपरक्ताः । तेषां परवैराग्यविरामप्रत्ययसंशीलनदिसमीक्षया निर्बीजः समाधिरुपजनिष्यत एव । न हि तेषां धारणादिसमीक्षणम् । तथा चोक्तम्-'उक्त्तः समाहितचित्तस्य योगः । व्युत्थितचित्तोऽपि कथं योगयुक्तः स्यादित्यत इदमारभ्यते' इति । तथा 'भवप्रत्ययो विदेहप्रकृतिलयानामू' इति ॥ ८ ॥
अथ निरोधचित्तक्षणेषु निरोधयुक्तं निरुध्यमानं चित्तं येषु' क्षणेषु निरुध्यते ते निरोधचित्तक्षणाः तेषु निरोधकाले इत्यर्थः । क्षणेष्विति बहुवचनं अतीतानागतवर्तमानवृत्तित्वप्रदर्शनार्थम् ॥
1. चित्तपारिणाम:
2. यो. 4 • पा. 2. सू. 1.
3. यो. सू. पा. 1. सू. 19. विभूतिपादः तृतीयः
[ सूत्रम् ]
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयी निरोधपरिणामः॥ ९ ॥
[ भाष्यम् ]
'व्युत्थानसंस्कारः चित्तधर्मो न स प्रत्ययात्मक इति प्रत्ययनिरोधे न निरुद्धः ।निरोधसंस्कारोऽपि चित्तधर्मः ।तयोरभिभवप्रादुर्भावौ। व्युत्थान संस्कारा हीयन्ते निरोधसंस्कारा अधीयन्ते । निरोधक्षणं चित्तमन्वेति । तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः ।
[ विवरणम् ]
निरोधस्य (त्रिक्षणं)क्षणे हि निरोधधर्ममन्वीयमानं चित्तं निरुध्यते । चलं गुणवृत्तं गौणं चित्तं गुणवृत्तं चलम् इति अवश्यंभावी तस्य बाह्यवृत्तिभ्यो निरुध्यमानचित्तस्य परिणामः । न ह्यपरिणममानस्य चित्तस्य पुरुषवत् कौटस्ध्ये निरोध उपकल्पते ! ततश्वाह-कीदृशस्तदा निरोधपरिणाम इति ॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । व्युत्थानं विविधमुत्थाने चलने प्रत्ययाकारेण चित्तस्य । तदुपजनितः संस्कारश्चित्तस्य धर्मिणो धर्मः | न स प्रत्ययात्मकः ॥
तथा निरोधजन्मा संस्कारः अप्रत्ययात्मकः चित्तस्यैव धर्मः । स च व्युत्थानसंस्कारोऽप्रत्ययात्मक इति स प्रत्ययनिरोधे न निरुध्यते । व्युत्थानप्रत्ययानिरोधे नाभिभूतः॥
प्रत्ययनिरोधाच्च निरोधजः संस्कारः सञ्जायते । तयोः व्युत्थाननिरोधसंस्कारयोः धर्मिणि चित्ते वर्तमानयोः अभिभवप्रादुर्भावौ भवतः ॥
किं तावाविभवतिरोभावौ अनियमेन भवतः ? न । कथं तहिं। 'व्युत्थानसंस्कारा हीयन्ते स्वकार्यक्षमत्वमुपाश्नुवते । निरोधसंस्कारा आधीयन्ते । तौ चाभिभवप्रादुर्भावौ निरोधक्षणं चित्तं धर्मित्वेन अन्वेति ?' स तयोरभिभवप्रादुर्भावयोश्चित्तेनानुगमो निरोधपरिणामश्चित्तस्य ॥
तत् एतदभिहत भवति--एकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं व्युत्थानसंस्काराभिभवेन निरोधसंस्कारप्रादुर्भावेन संस्कारान्यथात्वम्| व्युत्थानसंस्काराणामपि हीयमानतया सत्यपि सम्बन्धे प्रादुर्भावता निरोधेनैव बलवत्त्वात् निरोधपरिणाम इति समाख्यातम् ।
1. व्युत्थानसस्काराः चित्तधर्मा: न ते प्रत्ययात्मका: इर्ति प्रत्ययनिरोधे न निरुद्धाः । निरोधसंस्कारा अपि चित्तधर्माः | २४०पातञ्जलयोगसूत्रभाष्यविवरणे
[ भाष्यम् ]
तदा संस्कारशेषं चित्तम् इति निरोधसमाधौ व्याख्यातम् ॥ ९ ॥
[ सूत्रम् ]
तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥
[ भाष्यम् ]
निरोधसंस्कारपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तं संस्कारमारभ्य यावत् व्युत्थानधर्मिणा संस्कारेण निरोधधर्भसंस्कारो' नाभिभूयत इति॥ १० ॥
[ सूत्रमू ]
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११॥
[ विवरणम् ]
[तदा] निरोध्यमानं बाह्येभ्यः प्रत्ययेभ्यः संस्कारशेषं चित्तमिति व्याख्यातम् 'विरामप्रत्ययाभ्यासपूर्वे: संस्कारशेषोऽन्यः'इति||
किमेतेन, आह--निरोधावसानत्वात् प्रत्ययाभावावसानतया परिणामस्य निरोधपरिणाम इति ॥
सम्प्रज्ञातावस्थायां सन्तोऽपि प्रत्यया न विवक्षिताः । किं तु प्रतिक्षण संस्कारान्यथात्वमेव विवक्ष्यते । 'यथा निरुद्धभूमिनि चेतसि विद्यमानोऽपि समाधिः न विवक्ष्यते ।निरोधमात्रस्य विवक्षितत्वात् | तथा सबीजावस्थायामपि संस्कारान्यथात्वमात्रमेव विवक्षितम् । न प्रत्ययाः समाधिरेकाग्रता चेति॥९
तस्य चित्तस्य निरोधपरिणाममनुगच्छतः प्रशान्तवाहिता संस्कारात् |निरोधसंस्कारपाटवापेक्षा निरोधसंस्कारस्य पाटवं द्रढिमा तदपेक्षा प्रशान्तवाहिता प्रसन्नता चित्तस्य भवति ॥
सा प्रशान्तवाहिता कियन्तं कालमित्याह--तं संस्कारं निरोधसंस्कार आरभ्य यावत् व्युत्थानधर्मिणा व्युत्थानं धर्मेी व्युत्थानजनितत्वाद्यस्य तेन संस्कारेण निरोधधर्मसंस्कारो नाभिभूयते,तावन्तं कालमस्य प्रशान्तवाहिता| निरोधसंस्कारसमुदयादिति ॥ १० ॥
1. निरोधसंस्काराभ्यासपाट-
2. तत्संस्कारमान्द्ये व्युत्था-
3. रोऽभिभूयते
4. यो. स. पा. 1. सू. 18. विभूतिपादः तृतीयः
[ भाष्यम् ]
सर्वार्थता चित्तघर्मः । एकाग्रताऽपि चित्तधर्मः । सर्वार्थतायाः क्षयः, तिरोभाव इत्यर्थः । एकाग्रताथा उदयः, आविर्भाव इत्यर्थः । तयोः धर्मित्वेन अनुगतं चित्तम् । तदिदं चित्तं अपायोपजनयोः स्वात्मभूतयोर्धर्मयोः 'अनुगमात् समाधीयते । स चित्तस्य समाधिपरिणामः॥ ११ ॥
[ सूत्रम् ]
तत्र पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥
[ भाष्यम् ]
समाहितचित्तस्य पूर्वः प्रत्ययः शान्तः । उत्तरः तत्सदृश उदितः ।
[ विवरणम् ]
सर्वार्थतैकाग्रतयोः क्षयोदयौं चित्तस्य समाधिपरिणामः । सर्वार्थता भोगापवर्गार्थयोग्यताविचित्रता चितधर्मः। वक्ष्यति-'द्रष्ट्रइश्योपरक्तं चित्तं सर्वार्थम्’ इति । एकाग्रताऽपि चित्तस्य धर्मः शुान्तोदितप्रत्यययोः साम्यं समाधीयमानस्य चित्तस्य सर्वर्थतायाः क्षयः भवति । तिरोभावः इत्यर्थः । न हि किंचिद्विद्यमानं विनङ्क्ष्यति | एकाग्रताया उदयः भवति । आविर्भाव इत्यर्थः । नाविद्यमानमुत्पद्यते ॥
{{gap}}तयोः क्षयोदययोः धर्मित्वेनानुगतं चित्तम् । पूर्वसूत्रादन्वयग्रहणमिहापि सनिधीयते । सर्वार्थतायाः क्षयमेकाग्रतायाश्वोदयं नियमेनान्वीयमान चितं समाधिप्राधान्येन परिणमते । योऽसौ चित्तेन सर्वार्थतैकाग्रताक्षयोदययोरनुगमः स समाधिपरिणामः । समाधेश्व प्राधान्यमेकाग्रताभूमौ व्याख्यातम् 'यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति’ इति ॥
तदेवाह--तदिदं चित्तम्, अपायोपजनैौ स्वात्मभूतौ अव्यतिरिक्तौ तयोर्धर्मयोः सर्वोर्थतैकाग्रतयोः अनु(भवा) गमात् समाधीयते । स चित्तस्य समाधिप्राधान्यात् समाधिपरिणामः ॥ ११ ॥
तत्र पुनः समाधिकाले शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः । समाहितचित्तस्य निरुद्धबाह्यवृत्तेः पूर्वः प्रत्ययः शान्तः तिरोभूतः । उत्तरस्तत्सदृशू उदितः प्रादुर्भूतः | समाधिचित्तं समाधानविशिष्टं समाध्यवस्थम् । समाधिचित्तमुभयोः शान्तोदितयोः प्रत्यययोः अनुगतम्॥
1. अनुगतं. 2. ततः पुनः 3. , यो, स्. पा. 4.-सू. 23.
31[ भाष्यम् ]
समाधिचित्तं उभयोरनुगतम् । पुनस्तथैव आ समाधिभ्रेषात् इति । स खल्वयं धर्मिण: चित्तस्य एकाग्रतापरिणामः ॥ १२ ।
[ सूत्रम् ]
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥
[ भाष्यम् ]
एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्च उक्तो वेदितव्यः ।
[ विवरणम् ]
पुनस्तथैव यथा प्रत्यय आद्यः शान्त उत्तरस्तत्सदृश उपजातः, स च शान्तः पुनरन्य उदितः, स शान्तः पुनश्चान्य उदितः, इत्येवं आ समाधिभ्रेषात् व्युत्थानसंस्कारेण यावत् समाधिः विभ्रंशते ॥
{{gap}}स खल्वयं धर्मिणः चित्तस्य प्रतिक्षणं सदृशशान्तोदितप्रत्यययोरनुगमः एकाग्रतापरिणामः ॥
तत्र यावत् बाह्मवृत्तिनिरोधादारभ्य चित्तस्य संस्कारपरिशेषता, तावत् निरोधपरिणामः ॥
तथा बाह्यप्रत्ययनिरोधात् प्रभृति आ प्राक् अशेषप्रत्ययनिरोधात्, अशेषप्रत्ययनिरोधोत्तरकालं च एकाग्रतोदयाभावात्,तावत् समाधिपरिणामः॥
तथा समाधिपरिणामकाल एव शान्तोदितयोस्तुल्ययो: संभवादेकाग्रतापरिणामः । पूर्वपरेिणा(मान)मनान्तरीयकत्वमुत्तरोत्तरपरिणामस्येति क्रमेण त्रयोऽपि परिणामा व्याख्याता:॥
किमनेन परिणामान्वाख्यानेन प्रयोजनम् ? उच्यते-चलं गुणवृत्तं, गौणं च समस्तं परिणामधर्मकमनवस्थितमिति वैराग्यभावनार्थम् । तथा परिणामत्रयसंयमादतीतानागतज्ञानार्थं च एतदन्वाख्यानम् ॥ १२ ॥
{{gap}}एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । एतेन पूर्वोक्तेन चित्तपरिणामेन । किंविशिष्टेन ? धर्मलक्षणावस्थारूपेण धर्मरूपेण लक्षणरूपेण अवस्थारूपेण च । भूतेन्द्रियेषु भूतेषु पृथिवीप्रभृतिषु स्थूलेषु, इन्द्रियेषु च श्रोत्रादिषु, येषा तत्त्वान्तरपरिणामो नास्ति । धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः ॥
[ भाष्यम् ]
तत्र व्युत्थाननिरेधयोः अभिमवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपारीणामो[१] निरोधस्त्रिलक्षणः त्रिभिरध्वभिर्युक्तः । स खलु अनागतलक्षणमध्वानं [२]हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः यत्रास्य स्वरूपेण अभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा ।
[ विवरणम् ]
चित्तस्यानवस्थितत्वेन गम्यमानेन परिणामेन भूतेन्द्रियाणां परिणामस्य प्रकारत्रययोगिनः चित्तपरिणतिवत् असुविज्ञानत्वात् अतिदेशः क्रियते ॥
ननु च निरोधसमाध्येकाग्रतापरिणामाश्चित्तस्याभिहिताः । न तु धर्मलक्षणावस्थापरिणामाः । कुतस्तत्रातिदेश इति, अभिहितत्वमेषां दर्शयति--तत्र व्युत्थाननिरोधयोः धर्मयोः अभिभवप्रादुर्भावौ धर्मिणि चित्ते धर्मपरिणामः ॥
एतस्माद्धि धर्मभेदवचनात् धर्मभेदमवादिष्म । तयोश्च धर्मपरिणामयोः व्युत्थाननिरोधयोरभिभवप्रादुर्भाववचनात् लक्ष्णावस्थापरिणामावपि च अवादिष्मैव ॥
कथम् ? .वर्तमानलक्षणादतीतलक्षणमभिसम्पद्यमानो धर्मोऽभिभूयते । यश्व अनागतलक्षणात् वर्तमानलक्षणमभिसम्पद्यमानः स प्रादुरस्ति । तदभिभवप्रादुर्भाववचनाच्च प्रतिक्षणं दुर्बलरूपोऽवस्थापरिणाम उक्तो भवतीत्याह--लक्षणपरिणामो निरोधस्त्रिलक्षण इति ॥ चित्ते लक्षणपरिणामः त्रिलक्षणत्वेन त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तः प्रतिपाद्यते परिणामिनो ह्येकैकस्य त्रयेऽप्यध्वान एतेऽवश्यंभाविनः । यस्य त्वेते न सन्ति सोऽपरिणामी कूटस्थ इत्युच्यते ॥
फलकम्:Gap'''स खलु निरोधः अनागतलक्षणमध्वानं हित्वा धर्मत्वं निरोधधर्मत्वं अनतिक्रान्तः असत्कार्यारम्भाभावात् । असत्कार्यारम्भे हि त्रिकालत्वमेकस्य वस्तुनो नोपपद्यते (नापि) कालत्रयपरिच्छेद्यस्य विलक्षणस्याभावात् । अत उच्यते--धर्मत्वमनतिक्रामन्नेव वर्तमानं लक्षणं प्रतिपन्नः यत्र यस्मिन् वर्तमाने लक्षणे अस्य स्वरूपेणाभिव्यक्तिः एषोऽस्य निरोधस्य अनागताध्वसमीक्षया द्वितीयोऽध्वा ॥ [भाष्यम् ]
न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनातिक्रान्तं अतीतलक्षणं प्रतिपन्नम् । एषोऽस्य [३]द्वितीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् ।। [४]पुनः व्युथानमुपसम्पद्यमानं अनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तं इति । एवं पुनर्निरोधः, एवं पुनर्व्युत्थानं इति ।
[ विवरणम् ]
यदा तु व्युत्थानं वर्तमानं लक्षणमारोक्ष्यति, तदा निरोधोऽतीतलक्षणमध्वानं तृतीयं प्राप्स्यतीति स तृतीयोऽध्वा भविष्यत्येव ।
स्यादेतत्-वर्तमानलक्षणप्रतिपत्तौ निरोधस्य त्र्यध्वत्वं नास्तीति, अत आह-न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । कुतः ? येन स एवानागतो वर्तमानोऽतीतश्चेति ॥
तथा व्युत्थाने त्रिलक्षणं त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तं यथा व्याख्यातं निरोधे निरोधिनि धर्मे वर्तमानमध्वानमभिसम्पद्यमाने अतीतलक्षणं अध्वानं प्रतिपन्नम् ॥ एषोऽस्य व्युत्थानस्य वर्तमानं प्रथममध्वानमभिसमीक्ष्य द्वितीयोऽध्वा । द्वितीये तु पर्याये तृतीय एवाध्वा द्वितीयो भविष्यति । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् ॥
पुनर्व्युत्थानं निरोधसंस्कारेण उपसम्पद्यमानम् अनागतलक्षणं अध्वानं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपेणाभिव्यक्तौ सत्यां व्यापारः स्वकार्यापादनसामर्थ्यम् । एषोऽस्य अनागताभिसमीक्षया द्वितीयोऽध्वा । न चातीतानागताम्यां लक्षणाभ्यां वियुक्तम् ॥ यथा चित्तं व्युत्थाननिरोधधर्माभ्यां न युज्यते । एवं पुनर्निरोधः एवं पुनः व्युत्थानमिति एष लक्षणपरिणामश्चित्तधर्मयोर्व्युत्थाननिरोधयोः ॥
[भाष्यम् ]
तथा अवस्थापरिणामः । [५]निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति, दुर्बला व्युत्थानसंस्काराः, इत्येवं (ष) धर्माणामवस्थापरिणामः ।
[६]धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामपि अवस्थाभिः परिणाम इत्येवं धर्मलक्षणावस्थापरिणामैः[७] अशून्यलक्षणं गुणवृत्तमवतिष्ठते । चलं[८] गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणागाम् इति ।
एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः पूरिणामो वेदितव्यः
[ विवरणम् ]
तथा अवस्थापरिणामः परिदृश्यते । कथम् ? निरोधक्षणेषु निरोधे वर्तमाने निरोधसंस्कारा बलवन्तो भवन्ति। संस्कारबलवलत्त्वेन निरोधबलवत्त्वमपि । दुर्बला व्युत्थानसंस्काराः, तत एव व्युत्थानदुर्बलत्वमपि । तथा व्युत्थानलक्षणे व्युत्थानसंस्कारबलीयस्त्वं निरोधसंस्कारदुर्बलत्वम्, इत्येवं प्रतिक्षणं दृढदुर्बलावत्थाभ्यां युज्यमानानां धर्माणां अवस्थापरिणामः ॥
तत्र केन रूपेण कस्य परिणाम इति दर्शयति-धर्मिणो धर्मैः परिणामः । यथा चित्तस्य धर्मिणो निरोधव्युत्थानादिधर्मैः । धर्माणां त्र्यध्वनां लक्षणैः परिणामः । यथा निरोधादिचित्तधर्माणां अनागतादिलक्षणैः। लक्षणानामप्यवस्थाभिः परिणामः । यथा वर्तमानादिलक्षणानां दृढदुर्बलत्वाद्यवस्थाभिः । इत्येवं धर्मलक्षणावस्थापरिणामैः अशून्यलक्षणम् अशून्यरूपं गुणवृत्तमवतिष्ठते ॥
चलं गुणवृतम् । एतदेव तु गुणस्वाभाव्यं प्रवृतिकारणं सकलव्यापारकारणं उक्तं गुणानां सत्त्वादीनाम् इति । एतेन चेतसि प्रसिद्धेन धर्मलक्षणावस्थापरिणामत्रितयेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः ॥
[ भाष्यम् ]
परमार्थतस्तु एक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मः । धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्भस्य धर्मिणि वर्तमानस्यैव अध्वसु अतीतानागतवर्तमानेषु भावान्यथात्वं भवति, न[९] द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वा अन्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति ।
अपर आह-[१०]धर्माभ्यधिको धर्मी । पूर्वतत्त्वात् अनतिक्रामन् पूर्वापरावस्थाभेदं अनुपतितः कौटस्थ्येनापि परिवर्तेत यद्यन्वयी स्यात् इति ॥
[ विवरणम् ]
परमार्थतस्त्वेक एव परिणामः । कथम् ? धर्मिस्वरूपमात्रो हि धर्मः। न हि धर्मिपरिहारेण धर्मों नाम पृथगस्ति । नापि धर्मपरित्यागेन लक्षणं नाम पृथक् भाव्यते । नापि लक्षणव्यतिरेकेण अवस्थानां पृथक्त्वं भवति । तेन धर्मिविक्रियैवैषा धर्मद्वारा धर्मभेदद्वारेण त्रिधा प्रपञ्च्यते ॥
कथं पुनर्धर्मिविक्रियैवैषा । न पुनरत्यन्तापूर्वोत्पत्तिविनाशाविति ? तत आह-तत्र धर्मस्य घटादे: धर्मिणि मृदाख्ये वर्तमानस्य अध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वमेव प्रत्ययान्यथात्वम्, अतीतो घटः, वर्तते, अनागतः, इति च धर्मिणि वर्तमानस्यैव । स एव धर्मस्याविर्भावतिरोभावान्यथात्वम् । न द्रव्यान्यथात्वं तदेव मृदूद्रव्ये धर्मि रूपान्तरं च ॥
उदाहरणं परिदर्शयति-यथा सुवर्णभाजनस्य भित्त्वा अन्यथा कुण्डलादिभावेन क्रियमाणस्य भावान्यथात्वं स्वस्तिककुण्डलादिसंस्थानान्यत्वम् । न सुवर्णद्रव्यान्यथात्वमिति ॥
{{gap}}अपर आह असत्कार्यसमारम्भाभिमानी-धर्माभ्यधिको धर्मव्यतिरिक्तो धर्मी, धर्मश्चाविद्यमानोऽन्यश्चान्यश्च समुदायिष्यते । न पुनरेको धर्मी धर्मेषु भूतभविष्यद्वर्तमानेषु धर्माव्यतिरिक्तोऽन्वयीति ॥
यद्यन्वयी धर्मानभ्यधिको धर्माव्यतिरिक्तः पूर्वतत्त्वात् पूर्वपूर्वद्रव्यस्वरूपात् अनतिक्रामन् पूर्वापरावस्थाभेदम् अतीताद्यवस्थाभेदम् अनुपतितः अनुगतः स्यात् , ततश्च एष दोषः प्रसजति-स धर्मी तवाभिमतः कौटस्थ्येनापेि परिवर्तेत अपरिणामित्वे वर्तेत ॥
[ भाष्यम् ]
अयमदोषः । कस्मात् १ [११]एकान्तानभ्युपगमात् । तदेतत् त्रैलोक्यं व्यक्तेरपैति । नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् ।
[ विवरणम् ]
अत्राह-अयमदोषः । कस्मात् ? एकान्तानभ्युपगमात् अत्यन्तकौटस्थ्यविनाशयोः धर्मिणोऽनभ्युपगमात् । यद्यत्यन्तं कूटस्थो धर्मी स्यात् आत्मवत्, ततश्च अस्माद्धर्मिणो धर्माणामभेदात् कौटस्थ्यं प्रसज्येतेति दोषः स्यात् । न तु धर्मिणां गुणानामत्यन्तकौटस्थ्यमभ्युपगम्यते । परिणामिनित्यत्वं हि गुणानां वदिष्यति ॥
अथ वा, धर्मधर्मिणोः एकान्तभेदाभेदानभ्युपगमात् । एकान्तेन हि धर्मिभ्योऽन्वयिभ्यो धर्माणां[अ]भेदे कौटस्थ्यं प्राप्नुयात् । अत्यन्तभेदे वा धर्माणां अत्यन्तविनाशः स्यात् । न त्वत्यन्तभेदाभेदावभ्युपायिष्येते । तस्मात् न कौटस्थ्यदोष इति ॥
कथं कौटस्थ्याभाव इत्याह--तदेतत् त्रैलोक्यं व्यक्तेरपैति, न कूटस्थम् । कस्मात् ? नित्यत्वप्रतिषेधात् । कार्यत्वादेव हि नित्यत्वं प्रतिषिद्धम् । अथात्यन्तविनष्टमिति चेदाह---अपेतमप्यस्ति, विनाशप्रतिषेधात् । कारणस्य नित्यत्वात् तदभेदाच्च कार्यस्य अत्यन्तविनाशः प्रतिषिद्ध एव ॥
ततश्च यदुच्यते कैश्चित्-विरुद्धहेत्वाभासोदाहरणमेतदिति, कथं ? यथा--'असौ विकारो व्यक्तेरपैति, नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति, विनाशप्रतिषधोत्' इत्यत्र नित्यत्वप्रतिषेधात् इत्ययं हेतुः 'अपेतोऽपि विकारोऽस्ति इत्यनेन सिद्धान्तेन विरुध्यते ॥
कथम् । व्यक्तिरात्मलाभः, अपायः प्रच्युतिः, यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्येत । यत्तु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति ॥
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतिः । यदात्मलाभात्, प्रच्यवते तदनित्यम् । यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं च आत्मलाभात् प्रच्युतिश्चेति विरुद्धावेतौ धर्मौ सह न सम्भवतः । सोऽयं हेतुः ये सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति विरुद्धो हेतुरिति ॥
नायं दोषः । वस्तूनां व्यक्ताव्यक्तधर्मकत्वाभ्युपगमात् । यथा हि घटादिर्विद्यमानोऽपि सन् अगारे नोपलभ्यते । न च तावता असौ नास्तीति शक्यं प्रतिज्ञातुम् । आलोकोपायेन हि व्यज्यते । तथा इदं त्रैलोक्यं कारणे संसृष्टं विद्यमानमेव अनभिव्यक्तात्मकगुणस्वभावतया, पुरुषार्थनिमित्तेनाविष्क्रियते ॥
तथैव च गतिसंस्कारक्षये स्थितिसंस्काराभिव्यक्तौ कारणं प्रति संसृज्यमानं व्यक्तेरपैति । यथा दीपालोकतिरोधाने विद्यमानोऽपि घटादिः सन्तमसावष्टम्भात् व्यक्त्तेरपसरति, तथा अत्रापि महदादयो धर्माः त्र्यध्वानः संसर्गविसर्गधर्माणः, न तु सत्त्वादयो धर्मिणः ॥
ततस्त्रैलोक्यं महदादिस्तम्बपर्यवसानं सत्त्वादीनां धर्मभूतम[न]भिव्यक्तिधर्मकं सत् अत्यन्तनिरुद्धसूक्ष्मधर्मसमुदयात् व्यक्तिस्थूलधर्मरूपेण न गृह्मत इत्युच्यते-तदेतत् त्रैलोक्यं व्यक्तेरपैति इति । न पुनः धर्मिस्वरूपेणापायः । तथा च धर्मिरूपेण नित्यत्वादुच्यते-तदपेतमप्यस्ति इति ॥
तदेवं व्यक्तिरूपश्च शक्तिरूपश्चैको धर्मी, व्यक्तिरूपेण च तस्यानित्यत्वं, शक्तिरूपेण च नित्यत्वमिति कथमेष विरोधः स्यात् । न हि देवदत्तश्चलनादिव्यापारेण सर्वदा गृह्यमाणश्चलनादिविरामे विरंस्यति । चलनमेव हि तिरोधीयते । तस्मादव्यक्तावस्थायामप्यस्ति धर्मी, व्यक्तावस्थायामुपलभ्यमानत्वात्, अन्धतमसावस्थितघटादिवत् ॥
व्यक्तिरपि स्वकीयधर्मान्तरसमीक्षया धर्मिणी । सा च धर्मिरूपेण नित्या, धर्मरूपेणानित्या अभ्युपेयते । एवं विकारेषु धर्मधर्मिभेदोऽनवस्थित इत्यनवस्थाऽपि इष्यत एव ॥
तत्र व्यक्तेरपैति इत्यनेन न विरुध्यते, नित्यत्वप्रतिषेधात् इत्ययं हेतुः । नापि अपतेमप्यस्ति इत्यनेन विरोधः । उभयोर्भिन्नविषयत्वात् । नापि विनाशप्रतिषेधात् इत्ययं अपेतमप्यस्ति इत्यनेन विरुध्यते । यथा बाह्यादपेतोऽप्यस्ति देवदत्त इति ॥
अथ मन्वीथाः-अस्ति इति नित्यत्वमुच्यते, तेन नित्यत्वप्रतिषेधात् इत्ययं नित्यत्वेन विरोधमालिङ्गतीति । न- अनभ्युपगमात् । न हि व्यक्तेर्नित्यत्वमभ्युपगच्छेम, तस्या एव नित्यत्वं प्रतिषेधेम । शक्तिव्यक्तिधर्मकत्वाभ्युपगमादिति हि प्रतिपादितम् ॥ तदेतदनिर्ज्ञाय पराभिप्रायं विरोधोदाहरणत्वापादानम् अन्धदर्पणीयवृत्तान्तमुद्भावयति । यथा किल कश्चिदन्ध: स्वां अदर्शनशक्तिं अनवधार्य स्वार्थमादर्शमुपार्जयति तद्वदेतदाभाति ॥
अपि च यद्यप्येकत्रैव व्यक्तौ शक्तौ वा नित्यत्वमनित्यत्वं च अध्यारोप्य त्वं पक्षसिषाधयिषया ब्रवीथाः, एवमपि विरुद्धोदाहरणत्वं न संभवति, विपरीता(त)साधनात् । कथम् ? अपेतोऽप्यस्ति इति नित्यत्वप्रतिषेधात् इत्युच्यते । नित्यत्वप्रतिषेधात् इति अनित्यत्वादित्युक्तं भवति । अपेतस्याप्यस्तित्वं नित्यत्वमुच्यते । नित्यत्वस्य विपरीतमनित्यत्वम् । न च पक्षस्यानित्यत्वस्य अनित्यत्वं हेतुर्भवति, यो विपरीतं साधयन् नित्यत्वं विरुन्धीत । न ह्यनिष्टमसाधयन् विरुद्धतामियात् ॥
अथापि नित्यत्वप्रतिषेधो नाम आत्मलाभात् प्रच्युतिरिति विक(ल्पस्य)ल्प्यं वावद्येथाः--एवमपि शब्दभेदमात्रं(त्रात्) नार्थभेदः । आत्मलाभात् प्रच्युतिः, अनित्यत्वं, इत्येकोऽर्थः ॥
अथापि नित्यत्वोपपत्त्यभावादित्यवलम्बेथाः-एवमपि नित्यत्वप्रतिषेधात् इत्ययं शब्दः (एकस्यां शुक्तिकायां) नित्यत्वोपपत्त्यभावादित्यस्यार्थस्य [अ]वाचकः ॥
अथापि वाचक इत्यारोप्य प्रतिभाषेत--एवमपि शक्तिव्यक्तिधर्मधर्मिभे(दरूपेण)दे न नित्यत्वमनित्यत्वं(त्यरूपं) चेत्युक्तमेव समाधानम् ॥
एतेन व्यक्तेः अपेतोऽप्यस्ति, विनाशप्रतिषेधात् इति विरोधोद्भावनं प्रत्याख्यातम् ॥
एवमवस्थिते व्यक्तेरपेतस्य प्रत्यक्षेणानुपलभ्यमानस्य कथमस्तित्वम् ? यावता, नास्ति, अनुपलभ्यमानत्वात्, नभःकुसुमवत् इति ॥
अत्रोच्यते--अनुपलब्धिरसिद्धो हेतुः । अनुमानागमाभ्यामुपलब्धे: । यदेतत् व्यक्तं एतत् प्रागुत्पत्तेरप्यस्ति, यत उत्पद्यते । असच्चेन्नोत्पद्येत, शशविषाणवदेव ।
किं च-असतः सत्त्वे सतश्चासत्त्वे सर्वत्र न आश्वस्युः । किं च--अनुपलब्धेश्चेदसत्वं मुक्तात्मकारणादीनां च प्रागुपलम्भादूर्ध्वं च अस्तित्वं केन लभ्यते ? तथा [ भाष्यमू ]
[१२]संसर्गादस्य सौक्ष्म्यम् । [१३]अतोऽनुपलब्धिः इति ।
लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतः, अतीतलक्षणयुक्तः, अनागतवर्तमानाभ्यां लक्षणाभ्यां अवियुक्तः । तथा वर्तमानः, वर्तमानलक्षणयुक्तः, अतीतानागताभ्यां लक्षणाभ्यां अवियुक्तः । तथा अनागतः, अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यां अवियुक्तः इति ॥ यथा पुरुषः एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति इति ॥
[ विवरणम् ]
[१४]'नासतो विद्यते भावो नाभावो विद्यते सतः ।'
इति आगमः । प्रत्यक्षानुपलब्धिश्च नासत्त्वस्य कारणम् । अथ व्यक्तेरेव विकारो विद्यमानश्चेत्, कुतो नोपलभ्यत इति ? आह-साक्षात् कारणे संसर्गादस्य सौक्ष्म्यम्, अतोऽनुपब्धिः । न असत्वात् ॥
इदानीं भूतेन्द्रियाणां लक्षणपरिणाम इदमुच्यते-लक्षणपरिणामो धर्मो यथा मृदो घटादिः अध्वसु अतीतादिषु वर्तमानोऽतीतो धर्मः । किमुक्तं भवति ? अतीतलक्षणयुक्तः, न पुनरसत्वमापन्नः । इतराभ्यां च अनागतवर्तमानाभ्यामवियुक्तः । कारणस्य मृदो वर्तमानत्वात् तत्र संसृष्टस्य घटस्य [अ]विद्यमानत्वेऽपि(नस्यापि) युक्तो वर्तमानेन लक्षणेन घटः | तथा भविष्यन्नपि घटो मृद एवानागतः सन् भविष्यतीत्यनागतलक्षणेनाप्यवियुक्तः तथा वर्तमानः, वर्तमानलक्षणयुक्त:, अतीतानागताभ्यां लक्षणाभ्यामवियुक्तः ॥
{{gap}}तथा अनागतः अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः अतीतानागतलक्षणयोः मृदात्मकत्वात् घटस्य व्यवहितेनाप्यतीतलक्षणेनावियोगः ।
कथमेकलक्षणयुक्तो धर्मो लक्षणाभ्यामपराभ्यामवियुक्त इत्यवियोगस्य दृष्टान्तमाह-यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति । शेषासु तु भूतभविष्यलक्षणयुक्तो राग: । सतश्चाविनाशादसतश्चानुत्पत्तेरिति हि प्रतिपादितम् ॥
[ भाष्यम् ]
किं च, त्रयाणां लक्षणानां युगपदेकस्यां[१५] वृत्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेत् इति । [१६]उक्तं च 'रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि तु अतिशयैः सह प्रवर्तन्ते' । तस्मात् असंकरः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीं अन्यत्राभावः । किं तु, केवलं सामान्येन समन्वागत इति अस्ति तदा[१७] तस्य भाव: । तथा लक्षणस्य इति ।
[ विवरणम्]
न हि क्रोधकाले रागः स्वकाल इव समुदाचरति । क्रोधकाले हि रागः अतीतोऽनागतो वा । तथा क्रोधोऽपि रागकाले । यदि हि वर्तमानसमय एवैकं लक्षणं अभविष्यत्, क्रोधकालेऽपि रागः समुदाचरिष्यत् । नापि वा समुदाचरिष्यत् । नापि क्रोधकाले नास्ति ॥
किं च-त्रयाणां लुक्षणानां युगपदेकस्यां लक्षणस्य वृत्तौ विरोधात् नास्ति सम्भवः । क्रमेण लक्षणानां क्रमेण स्वव्यञ्जकाञ्जनस्य घटादिस्वव्यञ्जकाञ्जनस्य अन्यतमस्य लक्षणस्य भवेत् सम्भवः ॥ {{gap}}उक्तं च- रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । वर्तमानरूपवृत्त्यतिशयैर्युक्ते घटे च पिण्डादिव्यक्तिरूपातिशया विरोधात् न संभवन्ति । अत एव अतीतानागतरूपा धर्मिसामान्यानुगतत्वेनाविरोधात् अतिशयैः सह वर्तन्ते ।
तस्मात् अध्वनाम् असंकरः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीमन्यत्र स्त्रीषु अभावो रागस्य । किन्तु केवलं सामान्येन चित्तरूपेण समन्वागतः अतीतोऽनागतोऽपि सन् इत्यस्ति तदा तस्य रागस्य भावः । तथा लक्षणस्येति । ननु च पिण्डकपालयोरतीतानागतत्वात् घटावस्थायामभावाच्च ताभ्य मृदाख्यस्य धर्मिणोऽपि अतीतानागतत्वमिति धर्मिणि पिण्डकपालयोरभाव इति कृत्वा धर्माणां पिण्डकपालादीनामध्वत्रयानुपपत्तिरिति परिशङ्कमानः
[भाष्यम् ]
न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानः । ते लक्षिताः तां तां अवस्थां प्राप्नुवन्तः अन्यत्वेन प्रतिनिर्दिश्यन्ते अवस्थान्तरतः, न द्रव्यान्तरतः । यथा एका रेखा शतस्थाने शतं, दशस्थाने दश, एका च एकस्थाने । यथा °वा एकत्वेऽपि स्री, माता चोच्यते दुहिता च स्वसा च इति ।
अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चित् उक्तः । कथम् ? *अध्वानः स्वव्यापारेण व्यवहिताः । यदा धर्मः स्वव्यापारं न करोति तदा अनागतः, यदा करोति तदा वर्तमानः, यदा कृत्वा निवृत्तः
[विवरणम् ]
कथयति--न धर्मी त्र्यध्वा । मृदाख्यो हि धर्मी पिण्डकपालातीतानागतत्वेन नातीतोऽन गतो वा । सर्वधर्मेषु मृदभिज्ञानानु(प्र)वृत्तेः । किं तर्हि ? धर्माः पिण्डादयः त्र्यध्वानः घटकाले पिण्डकपालयोरदर्शनात् । तस्मादध्वत्रयायोगो न धर्माणां परिशङ्कनीयः ।
ते धर्मा लक्षिताः पिण्डादयः त्र्यध्वत्वेनाभिलक्षिताः तां तामवस्थां दृढदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन नवो घटः पुराणश्चेत्यनेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतः । न द्रव्यान्तरतः मृदतिरिक्तात् ॥
{{gap}}यथा एका रेखा शतस्थाने शून्यद्वयेन तृतीयस्थाने शतं भवति । सैव च दशस्थाने एकेन शून्येन द्वितीयस्थाने दश । सैव प्रथमस्थाने एका ॥
{{gap}}यथा वा एकत्वेऽपि स्त्री माता चोच्यते दुहिता च, सैव अन्यापेक्षया स्वसा च । तदेवम् अवस्थान्तरादेव शब्दप्रत्ययादिभेदाः ! न धर्मधर्मिभेदेन । तस्मात् यदुच्यते परैः शब्दप्रत्ययलक्षणधर्मकालादिभेदो हेतुः कार्यकारणभेदे इति, सोऽनेनानैकान्तिकीकृतः ॥
अवस्थापरिणामे तृतीयेऽस्मिन् कौटस्थ्यप्रसङ्गदोषः [कैश्चित्] उक्तः । कथं कौटस्थ्यप्रसङ्गः ? अध्वानः वर्तमानादयः स्वव्यापारेण व्यवहि(स्थि)ताः । कथम् ? यदा धर्मो घटः पिण्डावस्थायां स्वव्यापारं न करोति तदा अनागतः । यदा करोति तदा वर्तमानः अयम् । यदा कृत्वा निवृत्तः
1. -ताः अलक्षिताः । तत्र लक्षिताः
2. -था च ए
3. अध्वनः व्यापारेण व्यवहितत्वात् [ भाष्यम् ]
तदा अतीतः, इत्येवं 'धर्मिणां नित्यत्वात् धर्मलक्षणाऽवस्थानां कौटस्थ्यं प्राप्नोति इति परैः दोष उच्यते ॥
नासौ दोषः ? कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्रयात् ॥
यथा संस्थानं आदिमत् धर्ममात्रं शब्दादीनां ‘विनाशि अविनाशिनाम् , एवं लिङ्गं आदिमत् धर्ममात्रं सत्त्वादीनां गुणानां विनाशि अविनाशिनाम् । तस्मिन् विकारसंज्ञा इति ॥
*तत्रोदाहरणम्। मृत् धर्मी पिण्डाकारात्* आकारान्तरं उपसम्पद्यमानः धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा
[विवरणम् ]
तदा अतीतः । तत्र स एव धर्मः कृतः क्रियमाणः करिष्यमाणः निजव्यापारोपारूढः धर्मिस्वात्मभूत एवावस्थापितः । न व्यतिरिक्तरूपः । तेन धर्मिणां गुणानां नित्यत्वात् नित्यत्वाव्यतिरेकात् धर्मलक्षणावस्थनां कौटस्थ्यं प्रामोतीति दोष उच्यते ॥
नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् उद्भवाभिभवत्वविचित्रतया पुरुषवदेकान्तकूटस्थता नेष्यते गुणानाम् । परिणामाभ्युपगमात् । न चानवरतपरिणतीनामपि परस्परविमर्दातिरेकेण द्रव्यान्तरभावापत्तिरिति न कौटस्थ्यम् ॥
कथं विमर्दवैचित्र्यमित्याह-यथा संस्थानं शरीरादिकं [आदिमत् कारणवत् धर्ममात्रं कारणस्यात्मभूतमव्यतिरिक्तं विनाशि तिरोभावधर्मकं धर्मान्तरसमुदये । केषां संस्थानमित्या(मा)ह-शब्दादीनामविनाशिनाम्। एवं लिङ्गं महदाख्यं आदिमत् कारणवत् धर्ममात्रं विनाशि गुणानामविनाशिनाम् आत्मभूतम् । तस्मिन् महदादिधर्ममात्रे विकारसंज्ञा न गुणानां विमर्दविचित्रतया विनाशित्वं गुणस्वरूपेण नित्यत्वं इति ॥
तत्रोदाहरणम्-मृत् धर्मी पिण्डाकारा पिण्डाकारात् आकारान्तरं घटं उपसम्पद्यमानो धर्मः परिणमते ॥
1. धर्मधर्मिणोः लक्षणानामवस्थानां च को-
2. -नां गुणानां वि-
3. तत्रेदसुदाहरणम्
4. -त् धर्मात् धर्मान्तरं[ भाष्यम् ]
वर्तमानं लक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरं अवस्था, धर्मस्यापि लक्षणान्तरं अवस्था, इत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामाः धर्मिस्वरूपमनतिक्रान्ताः इत्येक एव परिणामः सर्वानमून् विशेषान् अभिप्लवते । 1अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति ॥ १३ ॥
तत्र一
[सूत्रम्]
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥
[विवरणम्]
[घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ॥ ]
तथा घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि मृदादेः धर्मान्तरं पिण्डादिकं अवस्था । धर्मी पिण्डकपालादिरूपावस्थामासीदति ।
धर्मस्यापि घटादे: लक्षणान्तरं अतीतादिकं अवस्था । स एव हि घटो धर्मोऽतीतानागतवर्तमानावस्थामुपारोहति ॥
तत एक एव परिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वि मृदः अन्येष्वपि शरीरेन्द्रियादिषु योज्यम् । त एते धर्मलक्षणावस्थापारीणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव धर्मिणः परिणामः सर्वान् धर्मलक्षणावस्थापरिणामान् विशेषानभिप्लवते । कुतः ? येन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति धर्मी परिणाम एवेति शक्यं प्रतिपत्तुम् ॥ १३ ॥
कः पुनरसौ धर्मी? यस्मिन् अवस्थिते धर्मान्तरविरामे धर्मान्तरोदयः परिणाम इति । तत्र शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । शान्तोदितान् अव्यपदेश्यांश्च धर्माननुपतितुं शीलं यस्य सोऽन्वयी भिन्नेष्वभिन्नात्मा धर्मीति व्यपदिश्यते । धर्मः नाम योग्यतावच्छिन्ना शक्नोति रशनाकुण्डलादिभावमापत्तुमिति या सुवर्णस्य धर्मिणः कुण्डलत्वादिका शक्तिः स एव धर्मः ॥
1. अथ कोऽयं परिणामः? अवस्थितस्य
[भाष्यम ]
योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च 'फलप्रसवभेदानुमितसद्भावः एकस्य 2अन्यश्चान्यश्च । दृष्टः तत्र वर्तमानः स्वं व्यापारं अनुभवन् धर्मीं धर्मान्तरेभ्यः शान्तेभ्यश्च अव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति, तदा धर्मिस्वरूपमात्रत्वात् कोऽसौ केन भिद्येत ||
3ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारम्4 उपरताः । सव्यापाराः उदिताः । ते च 5अनागतलक्षणस्य समनन्तराः । वर्तमानस्य अनन्तरा अतीताः । किमर्थं अतीतस्य अनन्तरा न भवन्ति वर्तमानाः ? 6पूर्वपश्चिमाभावात् ।
[विवरणम्]
स च अव्यक्तोऽपि सन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । यथा देशान्तरे कालान्तरे च ताटङ्कादिक फलं कनकपिण्डः प्रसूयते । तत्फलप्रसवभेददर्शनेनान्यानन्यानपि प्रकारानयं प्रसवितु विभवतीति तस्मिन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । एकस्य धर्मिणः अन्यश्चान्यश्च धर्म इत्यननैकस्य धर्मिणो धर्मासंख्यत्वमाह ॥
{{gap}}तत्र यो दृष्टः स वर्तमानः स्वं व्यापारमुदकाहरणादिक्रं अनुभवन् धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते ॥
{{gap}}यदा तु सामान्येन धर्मिरूपेण समन्वागतो भवति, अथ तदा धर्मिस्वरूपमात्रत्वात् धर्मिस्वरूपात्मभूतत्वात् कोऽसौ विशेषतः केन वा भिद्येत । ध्यापाराधिरूढरूपाणामेव भेदो, न कारणसमनुगमनिरीक्षितात्मनामित्यर्थः ॥
के पुनः शान्ता उदिता अव्यपदेश्या वा ? ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारमुपरताः । सव्यापारा उदिताः । ते चानागतलक्षणस्य समनन्तराः । तथा वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति । न सन्तीत्यर्थ: । पूर्वपश्चिमाभावात् । यो यस्य पश्चाद्भवति स तस्य
1. फलप्रसवभेदानुमित: ए-
2. अन्योऽन्यश्च परिदृष्ट: । तत्र
3. तत्र ये खलु धर्मिणो धर्माः शान्ताः उदिताः अव्यपदेश्याश्चेति, तत्र शान्ताः
4. -रान् उ-
5. अनागतस्य ल-
б. पूर्वपश्चिमताया अभावात् [ भाष्यम् ]
यथा अनागतवर्तमानयोः पूर्वपश्चिमता, नैवं अतीतस्य । तस्मात् नातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्य इति ॥
अथ अव्यपदेश्या: के ?
सर्वं सर्वात्मकम् इति । 1तत्रोक्तम्---जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु इत्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति ॥
[ विवरणम् ]
पश्चिमोऽनन्तरः । इतरश्च तदपेक्षया पूर्वः । तदिह पश्चिमाभावात् एष स्वयमपि पूर्वो न भवतीति पूर्वपश्चिमाभावादतीतस्यानन्तरा न सन्ति । यथा अनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मात् न[नाती]तस्यास्ति समनन्तरः ॥ यस्त्वयं पाठः । तदनागत एव समनन्तरीभवति वर्तमानस्य इति, न तस्य प्रकृतेन सम्बन्धः । तस्मात् तदनागत एव समनन्तरो भवत्यतीतस्य इत्ययमेव पाठः । अर्थोपपत्तेः । कथम् ? यदा व्युत्थानसंस्कारो निरोधसंस्कारेण आद्योऽभिभूयते, तदा वर्तमानमध्वानं हित्वा व्युत्थानसंस्कारोऽतीतमध्वानमुपसम्पद्य पुनरनागतः सन् वर्तमानीभवतीत्यसमनन्तरोऽप्यनागत एव समनन्तरीभवत्यतीतस्येप्युच्यते । अतीतानागतयोर्लक्षणयोर्धर्माणां धर्मिस्वरूपमात्राविशेषात् ॥
अथ अव्यपदेश्या: के? तदव्यपदेश्याभिप्रदर्शनार्थमाह---सर्वं सर्वात्मकं इति । कथम् ? तत्रोक्तम्---जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । यथा रस एक एव इक्षुश्रृङ्गिबेरकादिषु मधुरकटुकत्वादि वैश्वरूप्यं प्रतिपद्यते । तथा, रूपस्य शुक्लकृष्णत्वादिविचित्ररूपत्वम् । एवं गन्धादिष्वपि । तथा स्थावराणां जङ्गमेषु रसादिवैश्वरूप्यम् । स्थावराणामुपयुक्तानां जङ्गमेषु रसलोहितादिविश्वभेदः । तथा जङ्गमानां स्थावरेषु उपयुक्तानाम् वृक्षायुर्वेदप्रसिद्धं रसादिवैश्वरूप्यम् ॥
एवं स्थावराणां स्थावेरेषु, जङ्गमानां च जङ्गमेषु, इत्येवं जात्यनुच्छेदेन सत्त्वाद्यविनाशेन सर्वं सर्वात्मकम् । अङ्गुलिशिखरे लोकत्रयमप्यस्ति | तथा च 'अङ्गुष्ठादसृजत् ब्रह्मा रोमकूपेभ्यः' इत्यादिश्रुतिस्मृतिशतप्रस्थानम् ॥
1. यत्रोक्तम्,
33 [ भाष्यमू ]
देशकालाकारनिमित्तापबन्धात् न खलु समानकालम् आत्मनाम् अभिव्यक्तिः इति । य एतेषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणः अन्यत् कर्थं भोक्तृत्वेन अधिक्रियेत ? । 1स्मृत्यभावश्च, नान्यदृष्टस्य स्मरणम् अन्यस्यास्ति इति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी, यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मात् नेदं धर्ममात्रं निरन्वयम् इति ॥ १४ ॥
[ विवरणम् ]
यदि सर्वं सर्वात्मर्कं, तदा सर्वं सर्वत्रोपलभ्येत, सम्मतविप्रयोगजन्मा च शोको मा प्र(ति)वर्तिष्टेत्यादेरुत्तरं पठति--देशकालाकारनिमित्तापबन्धात् देशादीनामपबन्धः अवबन्धः तस्मात्, न समानकालं आत्मनां सर्ववस्तूनां अभिव्यक्तिः । कस्य चित् क्वचिदेव देशे काले च केन चिदेवाकरेण तनुभृतां च धर्मादिनिमित्ताभिसमीक्षया क्वञ्चिदेवाभिव्यक्त्तिः, यथा राहुप्रभृतीनाम् । एतेनैव सम्मतविप्रयोगनिमित्तशोकाद्युपपत्तिः । अत एकैकस्मिन् अतिलङ्घितसंख्यागोचरत्वात् धर्मा न शक्या व्यपदेष्टुम् ॥
य एतेषु शान्तोदिताव्यपदेश्येषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सत्त्वादिशब्दादिरूपेण सोऽन्वयी धर्मी । यस्य तु वादिनः धर्ममात्रमेवेदं निरन्वयं बाह्यमाध्यात्मिकं च, यस्य च ज्ञानमात्रमेव, तस्य धर्माणां क्षणप्रणाशित्वादतीतानागतवर्तमानपथारोहिणां समानकालानां च भोक्तृभोग्यत्वादिसंबन्धानुपपत्तेः भोगाभावः ॥
सम्बन्धाभावं दर्शयति--कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् विज्ञानमकर्तृ भविष्यत् कथं भोक्तृत्वेनाधिक्रियेत । कर्तुश्च फलाभिप्रवृत्तेः फलेन संबन्धो युज्यते । अन्यः कर्ता फलेन चान्यः सम्बध्यत इति विरुध्यते ॥
स्मृत्यभावश्च । कृतकरणीयादिविषयस्मृत्यभावश्च । अन्यदृष्टस्य स्मरणमन्यस्य नास्तीति । न हि चैत्रदृष्टस्य वसुमित्रः स्मरति । [वस्तु]प्रत्यभिज्ञानाच्च, यस्मात् तदेवेदमिति वस्तु प्रत्यभिजानीमः, तस्मात् स्थितोऽन्वयी धर्मीं धर्मान्यथात्वं धर्मैरन्यथात्वं अभ्युपगतः प्रतिपन्नः । न तु स्वरूपेणान्यथात्वम्। यथा रुचकादिभेदानुगतमपि कनकमेवेति प्रत्यभिजानीमः । तस्मात् नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥
1. तत्स्मृत्यभावश्च.
[सूत्रम् ]
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥
[ भाष्यम् ]
एकस्य धर्मिणः एक एव परिणाम इति प्रसक्तेः,1 क्रमान्यत्वं परिणामान्यत्वे हेतुः भवति इति ॥
तद्यथा-चूर्णमृत्, पिण्डमृत्, घटमृत् , कपालमृत् , कणमृत् इति2 क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः, स तस्य क्रमः ।
पिण्डो3 घट उपजायत इति धर्मपरिणामक्रमः ।
[ विवरणम् ]
इदानीं परिणामभेदे हेतुरुच्यते-सिद्धे हि भेदे परिणामत्रयसंयमः प्रयोक्तुरुपकल्पेत । यत: कयाचिल्लिङ्गद्वारा अतीतादिषु मतिरुपजनयितुं शक्यते, नान्यथा इति, क्रमान्यत्वं परिणामान्यत्वे हेतुः । एकस्य धर्मिणः चित्तादेः एक एव परिणाम इति प्रसक्तेः धर्मादीनां धर्म्यभेदादिति, परिणामभेदसिद्धये हेतुरेष उच्यते--क्रमान्यत्वम् । क्रमः अनन्तरभावः तस्यान्यत्वं भेदः ॥
त्रयो हि क्रमा अन्योन्यविघर्मण उपलक्ष्यन्ते । लक्षणावस्थाक्रमाभ्यामन्यो धर्मक्रमः । धर्मावस्थाक्रमाभ्यामन्यो लक्षणक्रमः । धर्मलक्षणक्रमाभ्यामन्योऽवस्थाक्रमः । यच्च तेषामन्यत्वं प्रसिद्धमार्गमधिरूढं तत् क्रमकार्याणां परिणामानामनुमापकं अन्यत्वे हेतुः ॥
तद्यथा मृत् धर्मी चूर्णमृत् इति चूर्णादिभिर्धर्मैरयुगपत्कालजन्मभिः क्रमवर्तिभिः परिणमते । सर्वत्र मृद्ग्रहणेन धर्मिणो मृदाख्यस्य परस्परलक्ष्यमाणभेदचूर्णपिण्डघटकपालकणादिधर्मानुगमं प्रतिपादयति ॥
चूर्णस्यानन्तरः पिण्डः, पिण्डस्यानन्तरो घटः, घटस्यानन्तराणि कपालानि, कपालानां कणा अनन्तरा इति धर्म एव चूर्णमृत्, पिण्डमृत्, घटमृत्, कपालमृत्, कणमृत्, इति क्रमः, धर्मान्तरस्य क्रमः । न लक्षणं, नाप्यवस्था । यथा-यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । कथम् ? पिण्डो घट उपजायत इति पिण्डरूपा मृत् घटीभवतीत्यर्थः । अभेदोपचारेण पिण्डो घट उपजायत इत्युच्यते । न पुनः पिण्डो धर्मो धर्मोन्तरात्मतां
1. --क्त्ते क्र.
2. --ति च
3. --ण्डः प्रच्यवते घट[ भाष्यम् ]
लक्षणपरिणामक्रमः, घटस्य 1अनागतात् वर्तमानभावः क्रमः । तथा पिण्डस्य 2वर्तमानादतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् ? 3पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा तु नास्ति अतीतस्य । तस्मात् द्वयोरेव लक्षणयोः क्रमः ॥
तथा अवस्थापरिणामक्रमोऽपि घटस्य अभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेण 4अभ्यूह्यमाना
[ विवरणम् ]
प्रतिपद्यते । पिण्डधर्मविमर्दनेन तद्विरोधी तदनन्तरं घटाख्यो धर्म उपजायते ॥
धर्मपरिणामश्च द्विविधः, तुल्यपरिणामश्चातुल्यपरिणामश्च । यथा पिण्डो घट उपजायत इत्यतुल्यपिण्डस्य, घटादिधर्मैर्मृदाख्यो धर्मी परिणमते, सः अतुल्यधर्मपरिणामः । यावच्च घटस्य जन्मनः प्रभृति आ कपालापत्तेः तावत् घटरूपेणैव परिणमते मृदिति स तुल्यधर्मपरिणामः ।
तथा चित्तमपि निरुद्धवृत्तिकमेकाग्रतावस्थायां तुल्याभ्यां धर्माभ्यां शान्तोदितप्रत्याभ्यां परिणमते, व्युत्थाननिरोधाभ्यां धर्माभ्याम् अतुल्याभ्यां परिणमते, तथा म्युत्थानवेलायां शान्तघोरमूढैः प्रत्ययैर्धर्मैरतुल्यैः परिणामं प्रतिपद्यते । सोऽयं धर्मपरिणाक्रम उक्तः ॥ इदानीं लक्षणपरिणामक्रम उच्यते---लक्षणपरिणामक्रम: घटस्यानागतात् लक्षणात् वर्तमानभावः । तथा पिण्डस्य विरोधिधर्मोदये वर्तमानादतीत[भाव]ः क्रमः । नातीतस्यास्ति क्रमः । धर्मे हि वर्तमानलक्षणस्य समनन्तरं यल्लक्षणं स लक्षणक्रमः । न चातीतलक्षणस्य समनन्तरं लक्षणमस्ति ॥
{{gap}}कस्मात् ? पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा चातीतस्य नास्ति । तस्मात् द्वयोरेव अनागतवर्तमानयोः लक्षणयोः क्रमः । अतीतस्य क्रमाभावप्रतिपादनेन प्रयोजनम् 5'क्षणतत्क्रमयोः संयमात्’ इत्यत्र भविष्यति ॥
{{gap}}तथा अवस्थापरिणामक्रमः घटस्याभिनवस्य प्रान्ते अवसानावस्थायां पुराणाता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेणाभ्यूह्यमाना प्रति-
- 1.अनागतभावात्
- 2.वर्तमानभावात्
- 3.पूर्वपरतायां सत्यां
- 4.अभिव्यज्यमाना
- 5.यो. सू. पा. 3. सू. 52.
[ भाष्यम् ]
परां व्यक्तिम् 1आपादिता इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति ॥
त एते क्रमाः धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवति 2अन्यधर्मापेक्षया इति । यदा तु परमार्थतो धर्मिणि3 अभेदोपचारद्वारेणाभिधीयते धर्मः, तदा अयम् एकत्वेनैव क्रमः प्रत्यवभासते ॥
चित्तस्य द्वये धर्माः परिदृष्टाश्च अपरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः, वस्तुमात्राः4 अपरिदृष्टाः ।
[ विवरणम् ]
क्षणमभिनवभावपरिमर्दनेन पुराणता सञ्जनिष्यते । सा च प्रान्तेषु परां व्यक्तिमापादिता । मध्ये तु सूक्ष्मतया न विभाव्यते । तेन मध्यावस्थायां सन्नपि क्रमो न लक्ष्यते । प्रान्तकालाभिव्यक्तिलिङ्गेनानुमायिष्यते-येन इयं पुराणता परां व्यक्तिमुपप्रापिता सोऽयं क्रम इति । न हि घटे परिनिष्पन्नमात्रे प्रतिक्षणजन्माऽपि पुराणता गृह्यते ॥
तथा च वदिष्यति-5“क्षणप्रतियागी परिणामापरान्तनिर्ग्राह्यः क्रमः" इति । तस्मात् धर्मलक्षणक्रमाभ्यामवस्थाक्रमस्यान्यत्वात् धर्मलक्षणपरिणामाभ्यां विशिष्टोऽयं तृतीयः परिणामः ॥
त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । विवक्षिते तु धर्मधर्मिणोरभेदे तत्र क्रमभेदो न लभ्यते । धर्मोऽपि धर्मी भवत्यन्यधर्मापेक्षया । गुणेभ्योऽन्यत्र धर्मधर्मित्वं नाम न व्यवस्थितम् । महदादीनामप्यविशेषापेक्षया धर्मित्वम् । अविशेषाणां च विशेषापेक्षया, विशेषाणां च शान्तोदितापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारद्वारेणाभिधीयते धर्मः, तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते ॥
तत्र चित्तस्य द्वये द्विविधाः धर्माः परिदृष्टाश्चापरिदृष्टाश्च उपलब्धाश्चानुपलब्धाश्च । के ते इत्याह---तत्र प्रत्ययात्मका: रागद्वेषमोहादयः परिदृष्टाः । वस्तुमात्राः स्वरूपेण विद्यमानाः कार्ययोगिनः अपरिदृष्टाः ।
- 1. आपद्यते.
- 2. अन्यधर्मस्वरूपापेक्षया.
- 3. अभेदोपचारः, तद्द्वारेण स एवाभिधीयते
- 4. -त्रात्मकाः अ-
- 5. यो. सू. पा. 4- सू. 33.
[ भाष्यम् ]
ते च सप्तैव भवन्ति अनुमानेन प्रापितवस्तुमात्रसद्भावाः ।
निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् ।
चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥
1एते योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते
[ सूत्रम् ]
परिणामत्रयसंयमात् अतीतानागतज्ञानम् । १६ ॥
[ विवरणम् ]
[ते च]2 स्वविषयवृत्तिसद्भावैः सप्तैव भवन्ति । ते कथमवगम्यन्त इति ? अनुमानेन प्रापितवस्तुमात्रसद्भावाः कार्यलिङ्गेनावगतसद्भावाः । स्वरूपेण तु नानीश्वरैरुपलभ्यन्ते । ततश्चैकैकवेनोच्यन्ते ॥
निरोधधर्मसंस्काराः । निरोधः उक्तः । धर्मः इति, धर्माधर्मौ । संस्काराः वासनारूपाः । परिणामः उक्तलक्षणः । अथ जीवनम् इति, धर्माद्यपेक्षया सकलकरणवृत्तिः प्राणलक्षणा येन चित्तधर्मेण भवति, स जीवनम् इत्युच्यते । चेष्टा व्यापारः । शक्तिः सामर्थ्यं, चित्तस्य धर्माः । दर्शनवर्जिताः अप्रत्यक्षाः । इति एते सप्त निरोधादयश्चित्तधर्मा अपरिदृष्टा उच्यन्ते ॥ १५ ॥
एते त्रयः परिणामा धर्मलक्षणावस्थारूपाः योगिनः उपात्तसर्वसाधनस्य समासादितयमादिसकलसाधनस्य स्थिरतरसंयमस्य, अतीतानागतप्रत्युपस्थितबुभुत्सितार्थप्रतिपत्तये संयमस्य विषयः उपक्षिप्यते । त्रयोऽप्येको विषयः संयमस्य ॥
परिणामत्रयसंयमादतीतानागतज्ञानम् । परिणामत्रये तावत् संयमः करणीयः, यावत् समाधिप्रज्ञाऽऽलोकः । स च यद्विषय उपस्थितः, तं विषयं यथाभूतं प्रत्यक्षतामापादयति । सूक्ष्मं व्यवहितमतीतमनागतं विप्रकृष्टं वा यमुद्दिश्य प्रापणाभिप्रायेण सूक्ष्मादिषु संयमः क्रियते, तदा सोऽर्थो
1. अतो यो.
2. अत्र आदर्शकोशे इत उपरेि 'लक्ष्यमाण' इत्यादिः, अत्र (178) पुटे प्राक् मुद्रितः ग्रन्थः दृश्यते । तस्यानन्वयात् आदर्शकोशे (14) पुटेभ्यः उपरि लिखितः ‘स्वविषयवृत्ति' इत्यादिः ग्रन्थः योजितः ॥
[ भाष्यम् ]
धर्मलक्षणावस्थापरिणामेषु संयमात् योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयं एकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रियमाणम् अतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥
[ सूत्रम् ]
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् सङ्करः, तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ १७ ॥
[ भाष्यम् ]
तत्र वाक् वर्णेष्वेव अर्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् ।
[ विवरणम ]
वश्यतां योगिन उपयाति । धर्मलक्षणावस्थापरिणामेषु संयमात् योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन संयमेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु परिणामेषु सम्पादयति । सकलपदार्थानां परिणामित्वात् तेषां चातीतादियोगात् कालत्रययुक्तसमस्तपदार्थविषयपरिणामत्रयसंयमेन सर्वं प्रत्यक्षीभवति । तथा प्रतिक्षणपरिणामधर्मकमनवस्थितं विश्वमीक्षमाणस्य वैराग्यं जायते ॥ १६ ॥
अयमन्यः संयमविषयः उपक्षिप्यते सर्वशब्दार्थप्रतिपत्त्यर्थः शब्दार्थप्रत्ययानामितरेतराध्यासात् संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानं सम्पद्यते । तत्र कः शब्दः, कोवा अर्थः, प्रत्ययो वा, संकरश्च किन्निमित्तः, कथं च तेषां प्रविभागः ? इति ॥
{{gap}}तत्र किं वागुच्चार्यः श्रोत्रग्राह्यः (स) शब्दः, उतार्थान्तरं, किं वागेव,तद्व्यतिरिक्तो वा, इति तावद्विचार्यते-वाक् तावन्न शब्दः । कस्मात् ? वाक् वर्णेष्वेवार्थवती । वागिति वर्णाभिव्यञ्जकमष्टसु स्थानेषु विषक्तमिन्द्रियं वर्णाभिव्यक्तिमात्रप्रयोजनोपक्षयं, न तावदर्थाभिव्यक्तौ शब्दाभिव्यक्तौ वा व्यापारं करोति ।
तथा श्रोत्रं च न स्वयं शब्दः, नापि शब्दविषयम् । कस्मात् ? ध्वनिपरिणाममात्रविषयं हि तत् । ध्वनिरिति सामान्यं वर्णावर्णरूपम् । तस्य विशेषः परिणामः अकारादिवर्णात्मकः, काकादिवाशितात्मकश्च मूढकरणव्यङ्गयः । तत् ध्वनिपरिणाममात्रप्रकाशावसानं श्रोत्रं नार्थशब्दयोर्व्याप्रियते ॥
[ भाष्यम् ]
पदं पुनः नादानुसंहारबुद्धिनिर्ग्राह्यम् इति । वर्णाः एकसमयासम्भवित्वात् परस्परनिरनुग्रहात्मानः । ते पदम् 'अनुपसंस्पृश्य अनुपस्थाप्य आविभूताः तिरोभूताश्च इति प्रत्येकम् अपदस्वरूपा उच्यन्ते ॥
[ विवरणम् ]
{{gap}}ननु च श्रोत्रग्राह्य एव शब्दः । न—अर्थप्रत्यायकत्वात् । अर्थ यः सम्प्रत्याययति स शब्दः । कः पुनरसौ ? पदम् । तत् पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यं नादानां ध्वनीनां श्रेोत्रविषयभूतानां प्रत्येकं प्रत्ययिनि संस्कारमाधाय निवर्तमानानाम् अन्त्येन ध्वनिना या समुपस्थापिता बुद्धिः सानादानुसंहारबुद्धिः प्रथमध्वनिक्रमानुसंहारासादितसंस्कारस्य प्रत्ययिनश्चित्तस्य जायते, तयैकया बुद्धया अयं निर्गृह्यते । तत् पदम् । तच्च प्रत्यक्षत्वात् रूपादिवन्नान्यप्रमाणापेक्षम् ॥
ननु च गकारौकारविसर्जनीयाः इति भगवानुपवर्षः । तन्न-अवाचकत्वात् । कथम् ? समुदायासम्भवात् । समुदायासम्भवश्च एकसमयासम्भवित्वात् । न हि गकारोच्चारणकाले औकारविसर्जनीयौ । नाप्यौकारोच्चारणकाले गकारविसर्जनीयौ । नापि विसर्जनीयप्रवृत्तिवेलायामितरयोः समवस्थानमिति वर्णसमुदायासम्भवादवाचकत्वम् ॥
यथैव वर्णानां युगपत्समयानवस्थानम् , एवं संस्काराणाम् स्मृतीनां च तज्जनितानामयुगपत्कालत्वादवाचकत्वम् । स्मृत्युपयोगार्थत्वाच्च संस्कारस्यानुभूतविषय एवोपयोगात्, प्रत्याय्यस्य चापूर्वत्वात् ॥
अपि च संस्काराणां वाचकवाभ्युपगमे, 'शब्दादर्थप्रतिपत्तिः' 'पूर्वीपरीभूतं भावमाख्यातेनाचष्टे’ ‘धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्? इति प्रसिद्धिरपहूयेत ।
अथापि वर्णभावभावित्वेन स्मृतिसंस्कारयोरपि शब्दत्वमुपचर्येत । नैतदपि--तद्भावभावित्वं नाम तस्मिन्नेव सति भवत्यसत्यभाव एव यत्र, तत्र स्यात् । (न च) तच्च वर्णानां शब्दत्वे सिद्धे भवेत् । लोकस्तु शरीरादावात्माभिमानादविवेकादतस्मिन्नपि तद्बुद्धिं करोतीति न सर्वत्र वस्तुनिर्णये । हेतुर्भवति ॥
1. असंस्पृश्य अपि च, वाक्श्रोत्रव्यापार एव सत्यर्थप्रतिपत्तिरिति तस्याव्यभिचारात् तद्भावभावित्वे शब्दत्वं प्राप्नोति । तस्मादन्त्यो वर्णो न वाचकः, वर्णत्वात् आद्यवर्णवत् । तथा, तत्स्मृतिसंस्कारा न वाचकाः, स्मृतिसंस्कारत्वात्, आद्यवर्णस्मृतिसंस्कारवत् ॥
यदि चान्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः वाचक इत्युच्यते-- नैतदेवम् । कस्मात् ? अन्त्यवर्णोच्चारणमात्रादेवार्थप्रत्ययप्रसङ्गात् । कथम् ? अतीतदिवसोच्चरितगकारादिवर्णाहितसंस्कारो हि समस्तः श्रोता । तत्रान्त्यवर्णोच्चारणमात्रादर्थ: प्रतीयेत । अथापि नियमार्थमाद्यवर्णोच्चारणमिति चेत् न-पूर्ववर्णानां पश्चिमवर्णेनातुल्यकालत्वात् साहायकाभावे नियमानुपपत्तिः ॥
तवापि वर्णानां पदव्यञ्जकत्वे नियमार्थ पूर्ववर्णा उच्चारयितव्या इति । दोष एवेति, पदव्यञ्जकत्वकल्पनातो वर्णानामेव वाचकत्वं युक्तमिति चेत्, न-वर्णानां बुद्धौ स्वकीयसंस्काराधानमात्राभ्युपगमात् । उच्चरितप्रध्वंसमानवर्णसंस्कारपरंपरोपचितायां हि बुद्धौ पदं निर्भासते । एतदेव हि वर्णानां पदव्यञ्जकत्वम् । न पदं प्रति दीपवत् साक्षात् प्रवर्तते ॥
न बुद्धौ धर्मिद्वारेण संस्काराणामेकाश्रयावस्थानादव्योन्योपकार्योपकारकभावः समीचीनतरः । इष्टानिष्टविषयोपलब्धिस्मृतीच्छाद्वेषादिवत् । न कदाचिदन्येन वर्णेन पूर्ववर्णानां तदीयस्मृतिसंस्काराणां वा सम्बन्ध उपकल्पते ॥
अथ ममापि नियतक्रमवर्णसम्पादितसंस्कारपरम्परोपचितबुद्ध्युत्पादकत्वेनैव वर्णानां वाचकत्वमिति चेत्-न-अभ्युपेतपरिवर्जनात् । यदि तावद्वर्णानेकसंस्कारविशिष्टा बुद्धिः अर्थविषया वा पदविषया वा ? यद्यर्थविषया, सैव शब्दः प्राप्नोति । अर्थप्रत्यायकत्वात् । अथ पदविषया, तथाऽपि पदादर्थप्रतिपत्तिरिति बाध्येत ॥
तस्मादेकबुद्धिविषयो वर्णव्यतिरिक्तः शब्दोऽभ्युपगन्तव्यः । तेन पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः, तत्स्मृतिः, संस्कारो वा, न वाचकः । संस्कारसाहायकापेक्षत्वात्, बुद्धिवत् ।
एवं गते कथं वर्णानामर्थविषयः पदविषयो वा व्यापारो नास्तीत्याह-वर्णाः एकसमयासम्भवित्वात् । एककालासम्भवित्वं च वाचः क्रमवर्तित्वात् । अतः परस्परनिरनुग्रहात्मानः कस्यचिदभिसम्बन्धस्याभावादितेरतरनिरुपकाराः । ते पदमनुपसस्पृश्यानुपस्थाप्य कञ्चन पदे व्यापारमविधाय आविर्भुताश्च तिरोभूताश्च व्यस्ता वा समस्ता वा न पदात्मानमपाङ्गविक्षेपेणापि परामृशन्ति । प्रत्येकमपदस्वरूपाः युगपदनवस्थानात् समुदायात्मनाऽप्यपदस्वरूपा एव । किमङ्ग पुनः प्रत्येकमनर्थकानामवस्थितानामिति ।
[ भाष्यम् ]
वर्णः पुनः एकैकः सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वात् वैश्चरूप्यमिवापन्नः उत्तरश्च पूर्वेण पूर्वश्चोत्तरेण विशेषेऽवस्थापितः, इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेन अवच्छिन्नाः इयन्त एते सर्वाभिधानशक्तिपरिच्युताः गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्ति इति ॥
तदेषाम् अर्थसङ्केतेन अवच्छिन्नानाम् *अनुगृहीतध्वनिक्रमाणां य एको बुद्धिनिर्भासः तत् पदं वाचकं वाच्यस्य सङ्केत्यते । तदेकं पदम् एकबुद्धिविषयम् एकप्रयत्नाक्षिप्तं अविभागम् अक्रमम् अवर्णात्मकम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेव अभिधीयमानैः श्रूयमाणैश्च श्रोतृभिः अनादिवाग्व्यवहारवासनाऽनुविद्धया लोकबुद्धया सिद्धवत् सम्प्रतिपत्या प्रतीयते ॥
[ विवरणम् ]
वर्णः पुनरेकैकः सर्वाभिधानशक्तिप्रचितः । अभिधीयते यैः तान्यभिधानानि पदानि, तेषां सर्वेषामभिधानानां पदानामभिव्यञ्चिकाभिः शक्तिभिः प्रचितः, अराणामेकैक इव नाभौ। तद्यथा--गकारः गोवर्गाग्निगगनादिसर्वपदाभिद्योतनसामर्थ्यप्रचितः ॥
सहकारिवर्णान्तरप्रतियोगित्वात् । यथा गौरिति गकारैकारविसर्जनीयसहकारिसव्यपेक्षः अग्निरितीकारप्रतियोगी । तस्मादनेकवर्णान्तरोपाधिसम्बन्धात् प्रतिपदं वैश्वरूप्यमिवापन्नः । उत्तरश्च वर्णः पूर्वेण विशेषे पदविशेषप्रद्योतने अवस्थापितः । पूर्वश्चोत्तरेण, मध्यमोऽपि पूर्वोत्तराभ्याम् ॥
एवं बहवो वर्णाः क्रमानुरोधिनः विशिष्टक्रमं, आनुपूर्वीम् अनुरुध्यमानाः॥ अर्थसङ्केतेन अमी अस्मिन्नर्थे एतत्क्रमावलम्बिनः इयन्त इति सङ्केतः समय’, तेन अर्थसङ्केतेन अवच्छिन्नाः ॥
वर्णसङ्केतद्वारेण पदं सङ्केत्यते । वर्णाव्यभिचरितचारित्रम् असाधारणवर्णक्रमापेक्षितसङ्केतसमयं हि पदम् । वर्णसङ्केत एव तस्य सङ्केतः । इयन्त एते वर्णाः सर्वाभिधानशक्तिपरिच्युता: विशिष्टसास्नादिमदर्थप्रतिपादकासाधारण
1. क: पदात्म स- 4. अभागं
2. साभिधानशक्तिपरिवृताः 5. अवर्ण बौद्धम् अन्त्य
3. उपसंहृतध्वनि
पदावभासनव्यापारपरत्वादेव अपरपदान्तरप्रतिपादकशक्त्यन्तरेभ्यः परिच्युता: निवृत्ता: इतरेतरविशेषविनियोगपरवशावेशादुदासीनपदान्तरप्रकाशनशक्तयःगकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्ति पदमभिव्यञ्जयन्तः ॥
{{gap}}तदेषामर्थसङ्केतेनावच्छिन्नानाम् अभिहितेन न्यायमार्गेण अनुगृहीतध्वनिक्रमाणां विशिष्टानुपरिपटिसमायोगिनाम् इत्थंक्रमविशेषक्रमलब्धजन्मनां वर्णानां सम्बन्धः य एको बुद्विनिर्भासः बुद्धेर्निर्भासः तत् पदं भूमिः (भूमिषुमेव) भूमिकेव वाचकं वाच्यस्य न वर्णाः । वर्णद्वोरण तु सङ्केत्यते ॥
तत् पदमेकम् एकमपि, यद्वस्तु सावयवं घटादि तदनेकबुद्धिविषयं दृष्टं, न तु पदं तथा । तत् एकबुद्धिविषयं सर्वलेोकप्रत्यक्षम् । वर्णाः पुनरनेकत्वादयुगपत्कालजन्मानः एकबुद्विविषयतां न समुपाश्नुवते । यस्वेवमेकबुद्विनिर्ग्राह्यमनुमानेन
निराचिकीर्षति, तस्य प्रत्यक्षाविरोधिनी प्रतिज्ञा स्यात् ॥
एवम् एकप्रयत्नाक्षिप्तं वर्णक्रमजन्मप्रत्युपनीतसंस्कारनिमित्तबुद्धिपरिपाकाभिसमीक्षया पश्चिमबुद्धौ झटति परिस्फुरितं, अविभागं अवयवशून्यं, अत एव अक्रममवर्णात्मकमन्त्यवर्णप्रत्ययव्यापारोपस्थापितम् आद्यवर्णव्यापारपरम्परानुगृहीतपश्चिमवर्णग्रहणमात्रप्रत्युद्भासितम् ॥
{{gap}}परत्र परबुद्धिप्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः अभिधातृभिः, श्रूयमाणैश्च श्रोतृभिः, अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्धया सिद्धवत् संप्रतिपत्त्या प्रतीयते । (नापि) अनादिसंसारचक्रमण्डले परिवर्तते । शब्दादेवार्थप्रतिपतिपूर्वको व्यवहारः, तद्वासनावासितया लोकधिया सिद्धवतू प्रतीयत इति, लौकिकानां सम्मुग्धाकारप्रवर्तितव्यवहारमात्रचरितप्रयोजनानां आत्मनीव पदे विप्रतिपत्तिः ।
तस्मात् [पदं] वर्णव्यतिरिक्तम्, एकबुद्धिनिर्ग्राह्यत्वे सति प्रत्यायकत्वात्, प्रदीपवत् । अर्थप्रतिपत्तौ च कारणत्वात्, प्रदीपवत्, बुद्धिवश्च । न वर्णाः पदम्, एकेन कर्त्रा क्रमेण प्रयुज्यमानत्वात्, करणत्वाच्च, वासीवृक्षादानादिवत् ॥
अत्र 'कश्चित् आह--
1. कुमारिलभट्टः श्लोकवार्तिके स्फोटवाद 131-x136-श्लाकैः वर्णा वा ध्वनयो वापि स्फोटं न "पदवाक्ययोः ।
व्यञ्जन्तिं व्यञ्जकत्वेन यथा दीपप्रभादयः ॥
सत्त्वात् घटादिवच्चेति साधनानि यथारुचि ।
लौकिकव्यतिरेकेण कल्पितेऽर्थ भवन्ति हि ॥
नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः ।
घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः ॥
प्रतिषेधेतु यो वर्णास्तज्ज्ञानानन्तरोद्भवात् ।
दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥
वणोंत्था वाऽर्थधीरेषा तज्ज्ञानानन्तरोद्भवात्।
यादृशी सा तदुत्था हि धूमादेरिव वह्निधीः ॥
दीपवद्वा गकाराादिर्गवादेः प्रतिपादक: ।
धुवं प्रतीयमानत्वातत्पूर्वं प्रतिपादनात् ॥” इति ।
अत्रोच्यते--वर्णा वा ध्वनयो वाऽपि स्फोटं न पदवाक्ययोः इति, पदं वाक्यं वा स्वतस्तावत् न प्रसिद्धम् । तत्रासति वर्णव्यतिरिक्ते पदे वाक्ये वा, पदवाक्ययोः स्फोटं न व्यञ्जयन्तीति कथं चेतस्विनां वचनावकाशः स्यात् । एवं च सति, उद्दिश्य पदवाक्ययोः स्फोटं प्रतिषेधता पदं वाक्यं चाभ्युपगतं भवेत् ।
अथापि_पराभिप्रायेणोच्येत, तथाऽपि सिद्धसाध्यता |न परस्य पदवाक्ययोरन्यः स्फोटो विद्यते, यः प्रतिषिध्येत । पदवाक्ये एव हि तस्य स्फोटः ।
अथापि बूयात्-अर्थावच्छेदका विशिष्टक्रमोपनिवेशिनो वर्णाः पदं वाक्यं च प्रतिषिध्यते इति । तच्च न युक्तम्, स्वतो विरोधात् ॥
अथाऽपि ब्रूयात्-वर्णव्यतिरिक्तं पदं वाक्यं वा प्रतिषिध्यते इति । तथाऽपि व्यतिरिक्तमुद्दिश्य तस्य व्यञ्जनप्रतिषेधात् व्यतिरिक्तपदवाक्याभ्युपगमः प्रसक्तः ।
f. ‘ध्वनिमात्रोंपादाने शङ्कादिध्वनीनां स्फोटाभव्यजकत्वस्य परैरनिष्टत्वादंशे सिद्वसाध्यत्वं स्यात्। तन्मा भूदिति पदवाक्ययोरिति विशेषणम्, पदवाक्ययोर्वर्तमाना वर्णा ध्वनयो वा स्फेाटं नाभिव्यञ्जयन्तीत्यन्वयः ” इति श्लोकवार्तिकव्याख्यायां न्यायरत्नाकरे पार्थसाराथमिश्राः ॥
अथाऽपि परकल्पितपदवाक्यप्रतिषेधः, एवमपि व्यञ्जकत्वादित्यसिद्धो हेतुः । कथम् ? स्वात्मव्यतिरिक्तस्य वा पदस्य व्यञ्जकत्वं, अव्यतिरिक्तस्य वा व्यञ्जकत्वं, अर्थस्य वा व्यञ्जकत्वं वर्णानामिति त्रयी विकल्पना । यदि व्यतिरिक्तस्य व्यञ्जकत्वं, तदा स्वतोऽसिद्धः स्यात् ॥
अथाव्यतिरिक्तस्य, तथाऽपि परस्यासिद्धः । किं च, व्यञ्जकत्वाच्च व्यतिरिक्तस्यैव व्यञ्जकत्वं, नाव्यातिरिक्तस्य, प्रदीपादेरिव । अन्यव्यञ्जनार्थं हि व्यञ्जकः प्रदीपादिरुपादीयते, न स्वात्मव्यञ्जनाय । स्वात्मव्यक्त्यर्थं चेदुपादास्यते, जनुषाऽन्धस्यापि व्यज्येत |
अथ व्यतिरिक्तव्यञ्जकत्वे सिद्धे, पदस्य व्यञ्जका भवेयुः, अर्थस्य वा । तत्रानेकसाध्यं यथा शिबिकोद्वहनादि, तत् अन्यतमेन न शक्यं अनुष्ठातुं, एवमन्यतमेन वर्णानामर्थस्य प्रतिपादनमनेकसाध्यत्वादशक्यमिति प्रतिपादितम् ॥
न च कूपखानकन्यायेनापि कंचित् कंचित् व्यङ्गये संस्कारमाधाय वर्णा निवर्तन्ते इति शक्यं वक्तुम् । अभिधेयस्यैकबुद्धिविषयत्वात् ॥
यथा च सुगतकृतान्ते प्रध्वंसमानं विज्ञानमुत्पत्स्यमानस्य विज्ञानस्य संस्कारमाधातुमपर्याप्तं, स्थितस्य धर्मिणः कस्यचिदभावात् । एवमन्योन्यसंबन्धाभावादयुगपत्समयजन्मनां वर्णनां पूर्वस्य पूर्वस्य विनश्यत उत्तरस्योत्तरस्य चोपजनिष्यमाणस्य बलाधानानुपपत्तिरिति नार्थस्य व्यञ्जका वर्णाः ॥
परिशेषात् पदस्यैव व्यतिरिक्तस्याभिव्यङ्जितारः इति स्थितधर्मः । अस्माकं तु स्थिते धर्मिणि चेतसि पूर्वपूर्ववर्णप्रत्युपस्थितसंस्कारपरम्परापरिपाकविशारदे पश्चिमवर्णजन्मवेलायां निरवयवमेकबुद्विनिर्ग्राह्मबुद्धिनिर्भासात्मकं झटिति समुन्मिषतीति न संस्काराधानासामर्थ्यदोषप्रसङ्गः ॥
किं च, यद्यपि वर्णाः स्वबुद्धिं व्यञ्जयन्ति । सा बुद्धिरर्थप्रतीतिं प्रति करणभूतैवाभिव्यज्यते, न तु फलं प्रति वर्णाः करणत्वेन व्याप्रियन्ते । करणभूतबुद्धद्युत्पादनोपक्षयत्वात् । बुद्धेरेव हि फलं प्रति व्यापारः । यस्य हि फलं प्रति व्यापारः तत् प्रमाणं, स शब्दः । ततश्च अर्थप्रतीतिं प्रति कारणभूतबुद्धिव्यवहितत्वात् न वर्णानां वाचकत्वम् । परम्परया तु पदं प्रत्युपायत्वं न वर्णानां प्रतिषिध्यते ॥
तस्मादेवमयं श्लोकः पठितव्यः
वर्णा वा ध्वनयो वाऽपि भिन्नमेवार्थमात्मनः ॥
व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥
तथा, घटादीनामप्यर्थोन्तरप्रत्युपस्थानमात्रत्वमभ्युपगम्यत एव । घटादयो हि दर्शनमात्रेण पचनाहरणधारणादियोग्यताबुद्धिम् अन्यद्वा किंचित् उपस्थापयन्त्येव । तथा वर्णानां पारम्पर्येण आत्मव्यतिरिक्तपदप्रत्युपस्थापकत्व सत्त्वात् घटादिवदिष्यत एवेति तुल्यमेतदपि |
सत्त्वाद्घटादिवच्चेति साधनानि यथारुचि ।
लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥
सर्वथा जातिर्वा बुद्धिर्वी भवतु, यतो वा कुतश्चित् उचारितप्रध्वस्तवर्णानसंभविनो वर्णव्यतिरिक्तात् अर्थप्रतिपत्तिः, स स्फोटः । स च अवश्यं वर्णासंभावित्वात् कार्येस्याभ्युपगमनीयः । तथा च-
‘नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः'
इति ब्रुवतोऽभ्युपगमविरोधः स्यात् । अपि च, वर्णेभ्यो व्यतिरेकतः इत्यन्यतरासिद्धः । स्वतो व्यतिरेकेस्यसिद्धत्वात् ॥
किं च, नामाख्यातोपसर्गानिपातपदजातिचतुष्टयमभ्युपगच्छता जातिव्यञ्जकं वर्णव्यतिरिक्तम् अन्यदभ्युपगन्तव्यम् । न वर्णाः पदजातिमभिव्यञ्जितुमुत्सहन्ते । वर्णा हि वर्णजातिमभिव्यञ्जयन्ति । न चावयवेषु भिन्नकालजन्मविनाशेष्ववयविजातिव्यञ्जनमुपपद्यते । व्यवस्थितेष्वपि नाम तावदवयवषु न पाणिपादादयः शरीरदृते शरीरत्वमभिव्यञ्जयन्ति । किं पुनरनवस्थितेषु ।
किं च, अश्वः अयातमयातमक्षः भवति, तेन मम वायुर्वायुः, इत्यादिषु तुल्यस्वरूपेषु नामत्वाख्यातत्वे परस्परविरुद्धजातीये नैक एव वर्णोऽभिव्यनक्ति ॥
यदि वा अश्वः इति नामज्जात्या अभिव्यञ्जकाः अकारशकारवकाराकारविसर्जनीयाः आख्यातजाल्यभिव्यञ्जकेभ्यो भिन्ना भवेयुः, तदा उपपद्यते भिन्नानां भिन्नजात्यभिव्यञ्जकत्वम् । तदेकत्वे नोपपद्यते ॥
यद्यपि अर्थप्रकरणशब्दान्तरसन्निधानादिभिः इदं नाम इदमाख्यातं इति परिकल्प्येत, तथाऽपि नामाख्यातजात्यभिव्यक्तिम् अर्थप्रकरणादिभिरेक एव वर्णो न शक्नोति कर्तुम् । न हि ब्राह्मण एव ब्राह्मणत्वं क्षत्रियत्वं चाभिव्यनक्ति ॥
तस्मात् भिन्ना अकाराः शकारा वकारादयश्च बहव एषितव्याः । एवं गोशब्दादयोऽपि भिन्ना एव । तथा गोशब्दत्वमश्वशब्दत्वं च सिद्धम्। एवं मत्वमात्वमित्वमीत्वं च सिद्धम् । एवं च सति अकारादयो वर्णा अत्वादीन्येव सामान्यान्यभिव्यञ्जयन्ति । नाश्चादीन् नामाख्यातजातिभेदानिति ।
तस्मात् वर्णव्यतिरिक्तं पदत्वसामान्याभिव्यञ्जकं पदमभ्युपगन्तव्यम् । एवं च सत्येष श्लोक एवं पठितव्य:-
प्रतिषेधेतु यः स्फोटं वर्णधीसमनन्तरम् ।
दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥
वर्णोत्थाऽवर्णधीरेषा तज्ज्ञानानन्तरोद्भवा ।। इति ॥
करणबुद्धिव्यवहितत्वादनन्तरोद्भवत्वमसिद्धम् । पारम्पर्येण चेत्। सिद्धसाध्यता । धूमस्यापि न वह्निधियं प्रति कारणत्वम् । धूमधियः कारणत्वात् । धूमादीनां पारम्पर्यवत् वर्णादीनामपि पारम्पर्येणोपकारकत्वमिष्यत इत्युक्तम् ॥
तस्मादयमपि श्लोक एवं पठितव्यः---
वर्णोत्था नार्थधीरेषा तज्ज्ञानानन्तरोद्भवा ।
येदृशी सा तदुत्था न धूमोदरिव वह्निधीः ॥
न च दीपवत् सन्निपत्य गकारौकारौं सास्नादिमदर्थव्यञ्जकौ। अर्थव्यक्तिकालानवस्थानादनयेार्दृष्टो व्यभिचार: विसर्जनीयविषयेऽपि समुन्नीयते निरवस्थानादि । वर्णा नार्थव्यक्तिसमानकालावस्थायिनः, प्रदीपस्तु व्यङ्गयकालेन तुल्यकालावस्थानः कारणत्वं प्रतिलभते ॥
तस्मादयमप्येवं श्लोकः पठितव्यः
दीपवद्वा गकारादिर्गवादीनामवाचक:
ध्रुवं प्रतीयमानत्वात् तत्पूर्वं प्रतिपादनात् ॥
प्रमाणं चात्र भवति-अर्थस्य न वाचकाः, नाप्यर्थं प्रति प्रमाणं वर्णाः, साक्षात् सङ्केतापेक्षत्वात्, अङ्कप्रतिमादिवत् । यथा शताद्यङ्का विष्णुप्रतिमाश्च सङ्केतापेक्षा आगममेवावद्योतयन्ति । न विष्णुशताद्यर्थं प्रति प्रमाणत्वमुपयान्ति ॥
यत्तु नापेक्षते सङ्केतं, तत् प्रमाणम्, यथा वाक्यं, दीपादिजाल्यन्तरं च । न तथा वर्ण इति प्रतिमावदेषां अप्रामाण्यमापातितम् । तथा, वर्णा अर्थप्रतिपादकमात्मव्यतिरिक्तमभिव्यञ्जयन्ति , साक्षात् सङ्केतापेक्षत्वात्, अङ्कविष्णुप्रतिमादिवत्। स्फोटः तत्सङ्केतं न साक्षादपेक्षते इत्यवादिष्म ॥
[ भाष्यम् ]
तस्य सङ्केतबुद्वितः प्रविभागः, एतावतामेवंजातीयकोऽनुसंहारः एतस्यार्थस्य वाचक इति । सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः *स्मृत्यात्मा योऽयं शब्दः सोऽयमर्थः, योऽयमर्थः सोऽयं शब्दः, यश्च प्रत्ययः सोऽर्थः शब्दश्चेति ॥
एवमितरेतराध्यासरूपः सङ्केतो भवतीति । एवमेते शब्दार्थप्रत्ययाः इतरतराध्यासात् सङ्कीर्णाः, गौरिति शब्दो, गौरित्यर्थो, गौरिति ज्ञानम् । य एषां प्रविभागज्ञः, स सर्ववित् ॥
[ विवरणम् ]
तस्मादेवम् अनेकयुक्तिपरिवारप्रत्युपानीतबलाधानं कः स्फोटम् अपाकर्तुं शक्नोति ।
तदेवं गते भाष्यमिदानीमुच्यते-तस्य पदस्य सङ्केतबुद्वितः प्रविभागः । शब्दार्थज्ञानव्यतिभिन्नरूपा हि सङ्केतबुद्धिः । तस्याः सकाशात् पदस्य प्रविभागः करणीय: ।}
सङ्केतरूपं दर्शयति-एतावतां वर्णानाम् एवंजातीयकेऽनुसंहार एतस्यार्थस्य वाचकः इति । यथा अयमङ्कः शतं सहस्रं, विष्णुरेषा प्रतिमा इति च ।}
{{gap}}संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मा, न प्रमाणभूतः । यथा विष्णुरेषा प्रतिमा, एष एव चतुर्भुज इति, तथा प्रत्यय उभयमिदं उभयं नु प्रत्यय इत्यन्योन्याध्यस्तरूपा विष्णुप्रतिमाप्रत्ययाः ।}
तथा योऽयं शब्दः सोऽयमर्थः, योऽयमर्थः स शब्दः, यश्च प्रत्ययः सोऽर्थः शब्दश्चेति, एवमितरेतराध्यासरूपः संकेतो भवति । एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णाः । तद्यथा गौरिति शब्दो, गौरित्यर्थो, गौरीति ज्ञानम् इति ॥}
{{gap}}य एषां शब्दार्थप्रत्ययानां प्रविभागज्ञः, स सर्वज्ञः । कस्मात् ? अशक्यत्वात् प्रविभागज्ञानस्य । न ह्यसर्वज्ञः शक्नोति प्रविभागेन तानवगन्तुम् ॥}
1. स्मृत्यात्मक:}
[ भाष्यम् ]
सर्वपदेषु चास्ति वाक्यशक्तिः, वृक्ष इत्युक्ते अस्तीति गम्यते ।
न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्यसाधना क्रिया अस्ति इति ।
[ विवरणम् ]
{{gap}}सर्वपदेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्ते अस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति ॥
किमर्थमेतदुच्यते ? इह सर्वभूतरुतज्ञानोपायः प्रतिपिपादयिषितः । सर्वभूतरुतं च वाक्यार्थविषयमेव, न पदार्थविषयम् । पदानां केवलानां वर्णानामिवानर्थकत्वात् , संव्यवहाराभावाच्च । यथैव वर्णानां वर्णान्तराभिसमीक्षया पदावद्योतनप्रयोजनवत्त्वम्, एवं पदानामपि पदान्तरापेक्षया वाक्योपस्थापनोपायत्वम् । एवं सति वाक्यस्यैव प्रामाण्यं, केवलपदप्रयोगेऽर्थाप्रतीतेः ॥
किं च, केवलं पदमप्रमाणं, तावता निर्णयाभावात्, एकैकवर्णवत् । नापि पदं वाचकम्, सङ्केतार्थापेक्षत्वात्, शताद्यङ्कवत् । नामाख्याते केवले न वाचके, केवलाप्रयोगात् , उपसर्गवत् । यत्रापि केवलं पदं प्रयुयुक्षितं तत्राप्यवश्यम् , अस्ति तिष्ठति देवदत्त इत्यादिपदं बुद्धौ विपरिवर्तत इति न केवलाप्रयोगसिद्धिः ।
प्रलम्बते, पर्यागच्छति, अभ्यागच्छति, इत्यादिषु उपसर्गकर्मप्रवचनीयानां न कश्चिदर्थः । तथा अभिमनायते, सुमनायते, दुर्मनायते, इत्यादिषु च उपसर्गाणां द्योतकत्वं सिद्धम् । तथा, प्रतिष्ठते, अधीत इत्यादिष्वप्युपसर्गाणां द्योतकत्वमेव न वाचकत्वमिति । तथा न ह्यसाधना क्रिया अस्ति ! केवलकर्मप्रयोगे किमपि साधनं द्रव्यं गुणो वावगम्यते ॥
किं च, प्रकृतिप्रत्ययानामनवस्थितावधिकत्वात् व्यभिचारादवाचकत्वम् । तद्यथा-दरिद्रातिः केषाञ्चित् द्रव्यमात्र एव पठ्यते । दरिद्रशब्दस्तु निपातोपसर्गस्थानीयः पुनरागच्छति, द्रति, निद्राति, दरिद्राति, इति । तत्र का प्रकृतिरिति वक्तव्यम् । किं (द्राक्त्विदं) द्रा, इति, किं वा दरिद्रेति । केषाञ्चित्तु दरिद्रेत्येतावत् पठ्यते । तथा द्राशब्दोऽपि पृथगाम्नायते ॥
एवमस्ति सकारमात्रं पठन्ति । वीति च प्रत्यये कारमागमं कुर्वन्ति । केचित्तु सह कारेण पठित्वा (अविति) वीति च प्रत्यये लोपं कारस्य कुर्वन्ति । तत्र का प्रकृतिरिति वक्तव्यम् । न निर्ज्ञायते । प्रकृत्यवधौ प्रत्ययावधौ वा
प्रकृतिप्रत्ययार्थौ शक्यौ विवेक्तुम् ॥
35 क्व
चिदुपसर्गोऽपि 'असंग्रामयत शूर' इत्यादिषु प्रकृत्येकदेशतामापन्नः । तथा, अततेर्नः, अः, अस्यापत्यमिः, इयान् , अधुना, इत्यादौ कः प्रकृत्यर्थभागम् असत्यां प्रकृतौ ब्रूयात् । अग्निचित्, सोमसुत्, भिदा, छिदा, अथो, कति, अमा, पच, पठ, इत्यादिषु प्रत्ययार्थमसति प्रत्यये को ब्रूयात् ॥
एवमादिषु लक्षितापचाराणां प्रकृतिप्रत्ययनां कः शक्नुयादर्थवत्वं कल्पयितुम्। अत्र भवतु नान्यत्रेति नार्धजरतीयं लभ्यम् । उद्दालकपुष्पभञ्जिकापारं न पुष्पप्रचायिका, इत्यत्र कः पूर्वपदोत्तरपदार्थः ? प्रज्ञः, संज्ञ, इत्यादिषु प्रत्यन्वयोऽपि नास्तीति कस्य कोऽर्थः ? इति ॥
ऋषभो, वृषभो, वृषः, उदकं, उदकुम्भः, क्षीरोदः, यावो, यावकः, कूपः, सूपः, यूपः, इत्यादिषु कस्य कोऽर्थः इतिवक्तव्यम् । दध्यशान, मध्वत्र, इत्यादिषु, किमवधि केिं पदं वाचकम् ? ॥
तस्मात् सर्वत्र दृष्टापचाराणां वर्णप्रकृतिप्रत्ययपदानाम् अनर्थकानाम् अदृष्टापचारनिरवयववाक्योपायत्वमेव । तानि निःसन्धिबन्धनात् निरवयवात् मिथ्याभूतवर्णपदध्वनिकृतचित्रीभावाद्वाक्यादपोद्धत्य व्याकरणीयानि ॥
तानि च वाक्यस्यानवयवभूतानि, उपायत्वात् वाक्यावयववदवभासमानानि, यावत्फलम् असत्त्वात् शताद्यङ्कवदेव मिथ्याभूतानि, अनुच्चार्यमाणवाक्यावद्योतनार्थं करणसन्निपाते विशेषेणोपादाय परिहीयमाणानि, स्वकीयक्रमनिष्पत्तिविनिवृत्तिकालादिभेदविचित्रतया वाक्यात्मानं क्रमवन्तमिव, निष्पद्यमानमिव, निवर्तमानमिव, द्राघीयांसमिव, कालवन्तमिव,भेदवन्तमिव, विचित्राकारतामापादयन्ति ॥
एवं च सति, यदुच्यते शशविषाणादपोद्धृत्य खरविषाणस्य, किं तदिति एतदलीकं, यथैव मृगतृष्णिकातोयमलीकमपि सत्यादूषरादपोद्धियते, यथा च स्थाणोः पुरुषः, पुरुषाच्च स्थाणुः, शुक्तिकातश्च रजतमपोद्धियते, यथैव च मृगतोयादयो यथाभूतोषरादिवस्तुप्रतिपत्तिहेतवः, तथा वर्णपदप्रकृतिप्रत्यया यथाभूतवाक्यार्थप्रतिपत्तिकारणे तत्प्रतिपत्तौ चापोद्धियन्ते ॥
क्वचिदर्थप्राप्तमपोद्धियते, यथा मृगतोयादिकम् । क्वचित्तु प्रयोजनत्वेन विवक्षितं, यथा शतादिसङ्ख्यातः शताद्यङ्कापोद्धारः क्रियते, यथा च लिप्यक्षराणि सङ्केतापेक्षत्वात् कृतसमयरूपाणि अकारादिवर्णादपोद्ध्रियन्ते । अथ च सर्वाण्यतानि यथाभूतार्थप्रतिपादनोपायत्वं प्रतिपद्यन्ते । न च तावता मिथ्यात्वमेषां नास्ति । तथा पदादीन्यपि ॥
यो हि प्रकृतिप्रत्ययपदवर्णानां संकेतद्वारेणान्योपायानां मिथ्याभूतलिप्यक्षरकल्पानां स्वयमपि स्वसंकेतेन वाक्यार्थप्रतिपत्युपायमनेकधा निर्माय व्यवहरमाणः सत्यत्वमेषां मन्यते, नूनमसावभ्रे चन्द्र,सं दिदृक्षमाणः चन्द्रदर्शनोपायभूतमभ्रमपि चन्द्रत्वेन प्रतिपद्यत इति ॥
यथा च वाक्यमेव सत्यं,तथा वाक्यार्थस्यैव सत्यत्वं, न पदानि, पदार्था वा केवलाः, सत्यत्वमुपयान्ति । सर्वमेव सामान्याविशेषात्मकं वस्तु । न हि सामान्यव्यावृत्तो विशेष:, विशेषव्यावृत्तं वा सामान्यमस्ति । गौरित्युक्ते अस्तीतेि गम्यते । तेन केवलपदप्रयोगेऽप्यन्तर्नीतपदान्तरार्थों वाक्यार्थ एव प्रतीयते, न केवलपदार्थ: ॥
एवं च सति
पदार्था गमयन्त्येतं प्रत्येकं संशये सति ll सामस्त्ये निर्णयोत्पदात् स्थाणुमूर्धस्थकाकवत् ॥
इत्यसिद्धमस्माकम् । न हि स्थाणुर्नाम वाक्यार्थः पृथक्पदार्थत्वेन प्रसिद्धः । यस्मात् वृक्षः सन् स्थाणुः सन् मूर्धा सन् काकः सन् मूर्धनि स्थाणोः इत्यन्तर्नीतप्रतीयमानपदान्तरास्थानपेक्षायां स्थाणुमूर्धस्थकाकबुद्धिरेव न स्यात् । सत्स्वपि तेषु सद्बुद्धिसमुत्पत्तेः सत्पदार्थान्तरबुद्धिरवश्यंभाविनी ॥
तस्मात् वाक्यार्थ एव प्रत्येकमपि संशयात्मक इति कुतः पदार्थाः प्रत्येकमसन्तो वाक्यार्थं गमयेयुः । तस्मादेवमयं श्लोकः पठितव्यः---
वाक्यं तु गमयत्येनं प्रत्येकं संशये सति ।। सामस्त्ये निर्णयोत्पादात् स्थाणुमूर्धस्थकाकवत् ॥
एवम्---
वाक्येनैवोच्यते तस्मात् वाक्यार्थोऽन्यैररूपणात् ।
अन्ते चास्तीति बोधाच्च वृक्षेणैव च वृक्षता ॥
यत्तु-पलाशशब्देन वृक्षता नोच्यते इति, सत्यमेवमेतत् । न हि पलाशवाक्येन वृक्षवाक्यार्थस्याभिधानम् । भिन्नविषयत्वात् । अन्यो हि पलाशवाक्यार्थः पलाशोऽस्ति तिष्ठतीति वा । अन्यो वृक्षवाक्यार्थः । यदा च पदवर्णानां निरवयवानां पृथगस्तित्वमभ्युपगम्यते, तदा निरवयववर्णपदोपादानं वाक्यं सावयवं कथमवकल्पेत । न हि क्रियाकाशादिभिः सावयवं शक्यमारब्धुम् । अथ सावयवत्वमभ्युपायिष्यते, तत्रापि दोष एव प्रसज्येत ॥
1. श्लोकवार्तिके वाक्याधिकरणे श्लो. 363.
[भाष्यम्]
1नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति । दृष्टं च वाक्यार्थे 2पदम् । श्रोत्रियः छन्दोऽधीते, जीवति प्राणान् धारयति3 इति वाक्ये पदार्थाभिव्यक्तिः । ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा भवति, अश्वः, अजापयः, इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेत इति ॥
[विवरणम्]
सद्भावे4 पदवर्णानां भेदो यः परमाणुवत् ।
सर्वाभावस्ततश्चेति सेयं बालविभीषिका ॥
परमाणूनां सत्वादिधर्ममात्रत्वाभ्युपगमातू विवृत्य सुष्टु भाषामहे-सेयं वृद्धविभीषिकेति ॥
अथ केवलपदप्रयोगे पदार्थान्तरस्यापि संग्रहात् किमनेकपदप्रयोगेणेति चेत्, नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानां क्रियाववचनात् साधनानि विद्यन्त इत्यर्थप्राप्तानां नियमः, चैत्र एव कर्ता, अग्निनैव करणेन, तण्डुलानेव कर्म, इति ॥
अपि च नियमार्थमात्रे(मन्तरे)णानुवादः । दृष्टं च वाक्यार्थे केवलं पदम् । यथा श्रोत्रियः छन्दोऽधीते इति । साधनवचनमेव केवलश्रोत्रियपदं छन्दोऽधीते इत्यस्मिन् क्रियासाधनसमुदाये वर्तते । तथा जीवति इति क्रियापदमाक्षिप्तक्रियासाधनविशेषम् । (छत्रं) छन्दोऽधीते, प्राणान् धारयति, इति वाक्ये श्रेत्रियो जीवतीति च पदार्थाभिव्यक्तिः । सर्वथा सर्वपदेषु वाक्यशक्तिरित्यङ्गीकृतपदान्तरार्थान्येव सर्वाणि पदानीत्येतदुच्यते ॥
तस्मात् क्वचित् क्रियापदेनैव साधनमुपक्षिप्तम् ।। क्वचिच्च नामपदेनैव क्रिया अभिहिता । तस्मात् तेषां विभागो दुरवबोध इति । ततः वाक्यात् प्रविभज्य {पदं] व्याकरणीयं क्रियावाचकं वा जीवतीत्यादि, कारकवाचकं वा श्रोत्रियः क्षत्रियः इत्यादि
अन्यथा यदि वाक्यात् प्रविभज्य न व्याक्रियेत, तदा ततो भवत्यश्वोऽजापयः इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्या[क्रि]प्रियेत । भवति निधेहीति सर्वनाम्नः शत्रन्तस्य वा सप्तम्यां रूपम् । भवति बीजादङ्कुर इत्याख्यातम् ।
1. तथा च पचतीत्युक्ते सर्वकारकाणामाक्षेपः । नि - 2. पदरचनम् । 3. -ति तत्र वाक्ये 4. श्लोकवार्तिके वाक्याधिकरणे श्लो. 150.
[भाष्यम्]
तेषां शब्दार्थप्रत्ययानां विभागः । तद्यथा-श्वेतते प्रासाद इति क्रियाऽर्थः । श्वेतः प्रासाद इति कारकार्थः1 । क्रियाकारकात्मा तदर्थः प्रत्ययश्च ! कस्मात् ? सोऽयमित्यभिसम्बन्धात् 2अभेदाकारप्रत्ययः सङ्केत इति ॥
यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालभ्बनीभूतः । स हि स्वाभिरवस्थाभिः विक्रियमाणः न शब्दसहगतो न बुद्विसहगतः ।
[विवरणम्]
अश्वश्चरतीति जातिवाचकम् । अश्वस्त्वं ग्राममिति श्वयतेर्लुङन्तस्य मध्यमपुरुषैकवचनान्तस्य प्रयोगः । अजापयः पीयतामिति नामपदम् । अजापयस्त्वं राजानमिति जपतेर्णिजन्तस्य लङ्मध्यमपुरुषैकवचनान्तस्य रूपम्,॥ तेषां शब्दार्थप्रत्ययानां सङ्करं प्रदर्श्य विभाग: प्रतिपाद्यते- श्वेतते प्रासाद इति क्रियार्थः । श्वेतः प्रासाद इति कारकार्थः । क्रियाकारकत्वाद्वस्तुनः श्वेतते श्वेत इति च क्रियार्थेन च कारकार्थेन चाभिधानम्
यथा शब्दः क्रियाकारकात्मा, यः श्वेतः स श्वेतते यः श्वेतते स श्वेतः इत्येवं क्रियाकारकाध्यतिरिक्तः एकः शब्दः, तथा अर्थः तद्वाच्यः क्रियाकारकात्मा । तथा तद्विषयः प्रत्ययः क्रियाकारकात्मा । तथा अर्थः शब्दप्रत्ययात्मा । प्रत्ययोऽपि शब्दार्थात्मा । कस्मात् ? सोऽयमित्यभिसम्बन्धात् । योऽर्थः स शब्दः, यः शब्दः सोऽर्थः प्रत्ययश्च, यः प्रत्ययः सोऽर्थः शब्दश्च, इत्येवं अभेदाकारप्रत्ययः स्मृत्यात्मा सङ्केतः इति । एवं सङ्कररूपतः प्रविभागः कार्यः॥
{{bold|कथम् ? यस्तु श्वेतोऽर्थः श्वेतगुणः प्रासादादिरर्थः स शब्दप्रत्यययोः आलम्बनीभूतः वाच्यत्वेन विषयत्वेन च । स हि स्वाभिरवस्थाभिः नवपुराणत्वादिभिः विक्रयमाणः न शब्दसहगतो न अपि बुद्धिसहगतः । शब्द-
1. -र्थः शब्दः { 2. एकाकार एव
[भाष्यम्]
एवं प्रत्ययः एवं शब्दः नेतरेतरसहगत इति, अन्यथा शब्दः, अन्यथा अर्थः, अन्यथा प्रत्ययः, इति प्रविभागः । एवं तत्प्रविभागसंयमात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥
[ सूत्रम् ]
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।। १८ ॥
[भाष्यम्]
द्वये खल्वमी संस्कारा:-स्मृतिक्लेशहेतवो वासना1ऽभिधाना:, विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मा2 अपरिदृष्टः चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः
[विवरणम्]
प्रत्ययाभावेऽपि भावात् । एवं प्रत्यय: न शब्दसहगतो नाप्यर्थसहगतः । इतराभावेऽपि भावात् । तथा शब्दः अपि, अर्थप्रत्ययव्यभिचारात्, इतेि एवम् अन्यथा अर्थः अन्यथा शब्दः अन्यथा प्रत्ययः इति प्रविभागः ! एवं च [तत्] प्रविभागसंयमात् इदं वर्णैः सङ्केतितैः वाक्यात्मकम् अभिव्यज्यमानम् 'अयमर्थ: प्रत्ययश्चायं' इति प्रविभागेन संयमात् प्रविभक्तपदपदार्थप्रत्ययानां स्वेन रूपेण साक्षात्करणात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यते ॥ १७ ॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् । द्वये खल्वमी संस्काराः वासनाऽभिधानाः परिदृष्टाः अपरिदृष्टाश्च स्मृतिक्लेशहेतवः । परिदृष्टाः (उभयेऽपि) क्लेशकर्मविपाकानुभवनिर्वर्तिताः चित्तधर्माः धर्माधर्मरूपाः धर्माधर्मनिमित्ताः पूर्वभवाभिसंस्कृताः (ता)अतिक्रान्तानन्तजन्मनिष्पादिताः परिणामचेष्टानिरोधशक्तिजीवनधर्माः पूर्वव्याख्याताः अपरिदृष्टाः । तेषु द्वयेषु संस्कारेषु संयमः क्रियमाणः संस्कारसाक्षात्क्रियायै समर्थः भवति।
1. -रूपाः 2. -र्मवद
[भाष्यम्]
न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात् परजातिसंवेदनम् ॥
अत्रेदमाख्यानं श्रूयते-भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणाम1 मनुपश्यतः विवेकजं ज्ञानं प्रादुरभूत् । अथ भगवान् आवट्यः तनु [तन्त्र} धरः तमुवाच-दशसु महासर्गेषु भव्यत्वात् अनाभिभूतबुद्विसत्त्वेन त्वया नरकतिर्यग्ग-2 मनदुःखं3 अनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन सुखदुःखयोः केिमधिकमुपलब्धम् इति ।
[विवरणम्]
ते च देशकालनिमित्तानुभवविशिष्टतया निर्वर्तितत्वात् साक्षात्करणकालेऽपि देशादिविशेषणविशेष्टा एव प्रत्यक्षीभवन्ति . . . तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्रापि प्राणिषु एवमेव येषां जातिं बुभुत्सते तदीयसंस्कारेषु संयमात् [संस्कारसाक्षात्करणात्] तत्पूर्वजातिज्ञानमुत्पद्यते ॥ .م ,
तत्न संस्कारसाक्षात्करणफलव्यञ्जनार्थम् इदमाख्यानमुपक्षिप्यते— भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामं अनुपश्यतो विवेकजं वैराग्यानिमित्तं ज्ञानं प्रादुरभूत् ॥
अथ भगवान् आवटयः तन्त्रधरः तमुवाच--दशसु महासर्गेषु [ भव्यत्वात्] अनभिभूतबुद्धिसत्वेन त्वया नरकतिर्यग्गमनदुःखमनुपश्यता देवमनुष्येषु पुनःपुनः उत्पद्यमानेन सुखदुःखयोः किमुपलब्धमधिकमिति ॥
1.मक्रम
2.र्भसम्भवं
3.संप-
[भाष्यम्]
भगवन्तमावट्यं जैगीषव्य उवाच-दशसु महासर्गेषु भव्यत्वात् अनभिभूतबुद्धिसत्वेन मया नरकतिर्यग्गमनं अनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन यत्किञ्चिदनुभूतं तत् सर्वं दुःखमेव प्रत्यवैमि ॥ भगवान् आवट्य उवाच-यदिदमायुष्मतः प्रधानवशित्वम् अनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति ॥
भगवान् जैगीषव्य उवाच-विषयसुखापेक्षयैवेदमनुत्तमं सन्तेषसुखं [प्रधानवशित्वसुखं च] उक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः । त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखरूपः तृष्णातन्तुः
[सूत्रम्]
प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥
[भाष्यम्]
प्रत्यये संयमात् प्रत्ययस्य 3साक्षात्करणम् । ततः परचित्तज्ञानम् ॥ १९ ॥
[विवरणम्]
भगवानावट्य उवाच-यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं [ किमिदमपि दु:खपक्षे निक्षिप्तमिति । भगवान् जैगीषव्य उवाच--विषयसुखापेक्षयैवेमनुत्तमं सन्तोषसुखं [प्रधानवशित्वसुखं च] उक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः ।] त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । किमपेक्षया पुनरेतत् द्वयं सुखं भवतीत्याह-दुःखरूपस्तृष्णातन्तुः । तृष्णासन्तानदुःखोपशमरूपं तु प्रसन्नमनाबाधं सर्वानुकूलं सुखमिदमुक्तं सन्तोषसुखं प्रधानजयसुखं च ॥ १८ ॥
प्रत्ययस्य परचित्तज्ञानम् । परप्रत्यये संयमात् परप्रत्ययस्य साक्षात्करणम् । तत्साक्षात्करणे तत्संबन्धिनः परचित्तस्य ज्ञानं भवति । १९ ॥
1. तृष्णादुःखसन्तापापगमातु
2. अबाधं
3. साक्षात्करणात् ततः
[सूत्रम्]
न च 1सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥
[भाष्यम्]
रक्तं प्रत्ययं जानाति । अमुष्मिन् आलम्बने रक्त इति न जानाति । परप्रत्ययस्य यदालम्बनं तत् योगिचित्तेन न आलम्बनीकृतम् । परप्रत्ययमात्रं तु योगिचित्तस्य आलम्बनीभूतम् इति ॥ २० ।।
[सूत्रम्]
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगे अन्तर्धानम् ॥ २१ ॥
[भाष्यम्]
कायस्य रूपे संयमात् रूपस्य या ग्राह्या शक्तिः तां2 प्रतिबध्नाति ।
[विवरणम्]
तत्र परप्रत्ययसाक्षात्करणात् तद्दु:खे दु:खित्वं, तत्सुखे सुखित्वं च प्राप्नोतीत्याशङ्कयाह-न च सालम्बनं तस्य अविषयीभूतत्वात् । रक्तं प्रत्ययं जानाति योगी । परस्य अमुष्मिन् आलम्बने रक्तः प्रत्यय इति न जानाति । परप्रत्ययस्य यदालम्बनं सुखरूपं दुःखरूपं वा, येन सुखी दुःखी वा भवेत् ॥
ननु चालम्बनमसञ्जानानः कथममुष्मिन् रक्त इति सञ्जानीत इति ? उच्यते-रक्तममुष्मिन्निति सामान्यं विजानाति । न पुनः सुखविशेषं सुखिनः प्रत्ययस्यालम्बनीभूतमालम्बते । परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् ॥ २० ॥
1. न च तत् सा
2.प्रतिष्टभ्नाति । ग्राह्मशक्तिस्तम्भे सति चक्षुष्प्रकाशासम्प्रयोगे अन्तर्धानमुत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्धानम् उक्तं वेदितव्यम् ॥ २१ ॥
[सूत्रम्]
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञान मरिष्टेभ्यो वा ॥ २२ ।।
[भाष्यम्]
आयुर्विपाकं कर्म द्विधा'१-सोपक्रमं निरुपक्रमं च । तत्र यथाऽऽर्द्रं वस्त्रं वितानितं क्षेपीयसा'२ कालेन शुष्येत् तथा सोपक्रमम् । यथा च तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा वा अग्निः शुष्के कक्षे 'युक्तवाते संमन्ततो नियुक्त:४ क्षेपीयसा कालेन दहेत् तथा
[विवरणम्]
निरुणद्धि । ततः परेषां चक्षुःप्रकाशो योगिकायरूपेण न सम्प्रयुज्यते । ततश्व अन्तर्धानम् । एतेन शब्दाद्यन्तर्धानमुक्तम् । योगिशब्दस्य या ग्राह्यशक्तिः तस्यां संयमे सति 'या शब्दस्य ग्राह्यशक्तिः सा प्रतिष्टभ्यते । तेन योगिशब्दं न परः शृणोति । तथा स्पर्शादिष्वपि द्रष्टव्यम् ॥ २१ ॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ! आयुर्विपाकं कर्म द्विधा । कथम् ? त्वरितं निमित्तमादाय फलप्रदं सोपक्रमम् उच्यते । यत्तु मन्दप्रसरं चिरेण फलं दास्यति तत् निरुपक्रमम् ॥
यथा आर्द्रं वस्त्र वितानितं विस्तारितं क्षेपीयसा क्षिप्रतरेण कालेन शुष्येत्, तथा सोपक्रमंकर्म क्षिप्रमायुर्विपाकं कृत्वा क्षीयते ॥
तदेव वस्त्रं सम्पिण्डितं अवितानितम् चिरेण शुष्येदेवं निरुपक्रमं चिरेण आयुः करोति ।
यथा वा अग्निः शुष्के कक्षे युक्तवाते अनुकूलमातरिश्वनि समन्ततो नियुक्तः क्षेपीयसा कालेन दहेत्, तथा सोपक्रमं कर्म क्षेपीयसा कालेन आयुर्धक्ष्यति ।
१ द्विविधं
२ लघीयसा
३ मुक्तो वातेन
४ युक्तः
[भाष्यम]
सोपक्रमम् । यथा वा स एवाग्निस्तृणराशौ क्रमेण'१ न्यस्तश्चिरेण दहेत् तथा निरुपक्रमम् । तदैकभविकमायुष्करं कर्म द्विविधम्-सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम् ।
अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राऽऽध्यात्मिकं, घोषं स्वदेहे पिहितकर्णो न शृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति । तथाऽऽधिभौतिकं, यमपुरुषान् पश्यति, पितॄनतीतानागतानकस्मात् वेत्ति'२ । तथाऽऽधिदैविकं,३* अकस्मात् ४‘सिद्धादीन् पश्यति । विपरीतं वा सर्वामेति । अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥
[सूत्रम्]
मैत्र्यादिषु बलानि ॥ २३ ॥
[विवरणम्]
अरिष्टेभ्यो वा प्रायणज्ञानम् ! त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राध्यात्मिकस्योदाहरणम्- घोषं स्वदेहे पिहितकर्णो न श्रृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति । तथा आधिभौतिकं-यमपुरुषान् पश्यति । पितृनतीतानागतानकस्माद्वेत्ति ! आधिदैविकम्--अकस्मादेव सिद्धादीन् पश्यति । विपरीतं वा सर्वं पश्यति करोति च । तत्रारिष्टमिति लौकिकी वाचोयुक्तिः । एवं ह्माह--विपरीतदर्शनं ममासीदरिष्टांमति । २ ॥
१ क्रमशोऽवयवेषु
२ पश्यति
३ स्वर्गं अ
४ सिद्धान् वा
[भाष्यम्]
मैत्री करुणा मुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते । दुखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः । ततो बलान्यवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातः तत्र संयमाभावादिति ॥ २३ ॥
[सूत्रम्]
बलेषु हस्तिबलादीनि ॥ २४ ॥
[भाष्यम्]
हस्तिबले संयमाद्धस्तिबलो भवति। वैनतेयबले संयमाद्वैनतेयबलो भवति । वायुबले संयमाद्वायुबलो भवति इत्येवमादि ॥ २४ ॥
[सूत्रम्]
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥
[विवरणम्]
मैत्र्यादिषु बलानि । मैत्री करुणा मुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते । दु:खितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते ॥
भावनातः मैत्र्यादिभावनातः समाधिर्यः संजायते स, संयमः मैत्र्यादिभावनास्थैर्यनिमित्तः । ततः संयमात् मैत्र्यादिगतात् योगिनो बलान्यवन्ध्यवीर्याणि जायन्ते ॥
पापशीलेषु तु अस्य उपेक्षा, न तु भावना । ततश्व भावनाया अभावात् तस्याम् उपेक्षायां नास्ति समाधिरित्यतो न बलमुपेक्षातः । तत्र संयमाभावादिति ॥ २३ ॥
बलेषु हस्तिबलादीनि। एतैर्मैत्र्यादिनिमित्तैर्बलैर्बलवान् योगी हस्त्यादीन बलेषु संयमं कृत्वा हस्त्यादिबलो भवति ।। २४ ॥ प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । या असौ ज्योतिष्मती प्रवृत्तिरुक्ता, तस्यां प्रकाशः आलोकः तं प्रकाशं योगी
[भाष्यम्]
ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्यां य आलोकः तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य १तमधिगच्छति ॥ २५ ॥
[ सूत्रम् ]
भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥
[ भाष्यम् ]
तत्प्रस्तारः सप्त लोकाः । तत्रावीचेः प्रभृति मेरुपृष्टं यावदित्येवं भूलोंकः । मेरुपृष्ठादारभ्य-आ ध्रुवात् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महोलोकः । त्रिविधो ब्राह्मः । तद्यथा -जनलोकस्तपोलोकः सत्यलोक इति ॥ ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् । माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ।। इति संग्रहश्लोकः ॥
तत्नावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि । भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिकहेममणिमयानि श्रृङ्गाणि । तत्र वैदूर्यप्रभाऽनुरागात् नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः । श्वेतः पूर्वः । स्वच्छः पश्चिमः । कुरण्टकाभ उत्तरः ! दक्षिणपार्श्वे चास्य जम्बू ; यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचारात् रात्रिंदिवं लग्नमिव वर्तते । तस्य नीलश्वेतश्रृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षीणि नव नव योजनसाहस्रणि रमणकं हिरण्मयमुत्तराः कुरव इति ।
निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः ।
(विवरणम्)
सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वा अर्थे विन्यस्य स्थापयत्वा तमधिगच्छति ॥ २५ ॥ 1. तमर्थमू
[भाष्यम्]
तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतमिति । सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः ! प्रतीचीनाः केतुमाला गन्धमादनसीमानः । मध्ये वर्षमिलावृतम् | तदेतद्योजनशतसाहस्रं सुमेरोर्दिशि दिशि तदर्धेन व्यूढम् ॥
स खल्वयं शतसाहस्रायामो जम्बूद्वीप:, ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः । ततश्च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष)पुष्करद्वीपा, समुद्राश्व सर्षपराशिकल्पाः सविचित्रशैलावतंसा इशुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः । सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवारा: पञ्चाशद्योजनकोटिपरिसङ्ख्याताः । तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणुरवयवो यथाऽऽकाशे खद्योत इति ॥
तत्र पाताले जलधौ पर्वतेष्वेतेषु देवानिकाया असुरगन्धर्वकिंनरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायका:प्रतिवसन्ति । सर्वेषु द्विपेषु पुण्यात्मानो देवमनुष्याः ।
सुमेरुः त्रिदशानामुद्यानभूमिः । तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमेित्युद्यानानि । सुधर्मा देवसभा । सुदर्शनं पुरम् ! वैजयन्तः प्रासादः । ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि संनिविष्टा दिवि विपरिवर्तन्ते ।
माहेन्द्रनिवासिनः षड्देवनिकायाः-त्रिदशा अग्रिष्वात्ता यामघास्तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति । सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः ॥
महति लोके प्राजापत्ये पञ्चविधो देवनिकायः-कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति । एते महाभूतवशिनो ध्यानाहारा: कल्पसहस्रायुषः । प्रथम ब्रह्मणो जनलोके चतुर्विधो देवनिकायः ब्रह्मपुरोहिताः ब्रह्मकायिकाः ब्रह्ममहाकायिकाः अमरा इति । ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः ॥
[भाष्यम्]
द्वितीये तपसि लोके त्रिविधो देवनिकायः-आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्वेिगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः । तृतीये ब्रह्मणः सत्यलोके चत्वारो देवानिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरि स्थिताः प्रश्चानवशिनो यावत्सर्गायुषः ॥
तत्राच्युताः सवितर्कश्ध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संझासंज्ञिनश्वास्मितामात्रध्यानसुखाः । तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त एते सप्त लोकाः संर्व एव ब्रह्मलोकाः । विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति, न लोकमध्ये न्यस्ता इति । एतत् योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा । ततोऽन्यत्रापि एवं तावदभ्यसेत् यावदिदं सर्वं दृष्टमिति ॥ २६ ॥
[सूत्रम्]
चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥
[भाष्यम्]
चन्द्र संयमं कृत्वा ताराणां ब्यूहं विजानीयात् ॥ २८ ॥
[सूत्रम्]
ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥}}
[विवरणम्]
भुवनज्ञानं सूर्ये संयमात् ।। सूर्ये संयमं कृत्वा समस्तं भुवनप्रस्तारं प्रत्यक्षीकुर्वीत । भाष्यं तु गतार्थं, सर्वपुराणप्रसिद्धत्वात् ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् | सूर्ये संयमनाद्भुवनप्रस्तारं विदित्वा, तदनन्तरे चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात्। सूर्यसंयमाद्भुवनप्रस्तारमात्रं प्रज्ञातम्--एवं प्रस्तीर्णाः लोका नद्यः समुद्रा गिरयश्चेति । न तु तारा इत्थं व्यूहिता अनेन सम्बद्धा इति । चन्द्रसंयमात्तु ताराव्यूहप्रकारावगतिरिति ॥ २७ ॥}}
ध्रुवे तद्गतिज्ञानम् । ततश्च समनन्तरं ध्रुवे संयमं कृत्वा ताराणां गर्ति विजानीयात्-अनेन प्रकोरण सञ्चरमाणा अनेन विशिष्टा इति। अस्मिन् कालेऽनेन ग्रहेण अयं ग्रहो विरुध्यते, इत्थमस्तमयः । इत्थमुदयः, तद्द्वारेण प्राणभूतां शुभमशुभं चेत्यादि विजानीयात् ॥}} (भाष्यम्) ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्ध्वंविमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥
[सूत्रम्]
नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥
[भाष्यम्]
नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणञ्त्रयो दोषाः । धातवः सप्त त्वग्लोहित'१मांसास्थिमेदोमञ्जाशुक्राणि । पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ॥ २९ ॥
{c|[सूत्रम्]}} कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥
[भाष्यम्]
जिह्वाया अधस्तात्तन्तुः, तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न°२ प्रतिबाधेते ॥ ३० ॥
[सूत्रम्] कूर्मनाड्यां स्थैर्यम्॥ ३१ ॥
[विवरणम्]
एवमन्येषु चोर्ध्वं विमानेषु संयमं कृत्वा तानि विमानानीत्थंप्रकाराण्येवंगतानीत्येवमादि सर्वं विजानीयात् ॥ २८ ॥
नाभिचक्रे कायव्यूहज्ञानम् । नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः एतावत्प्रमाणा एतत्प्रतिष्ठा इत्यादि ज्ञेयम् ।}}
तथा धातवः सप्त बाह्याभ्यन्तरभावेनावस्थिताः । (रसः)त्वक् बाह्या सर्वेषाम् । ततोऽभ्यन्तरं लोहितं, ततो मांसं, ततोऽस्थि, ततो मेदः, ततो मञ्जा, ततः शुक्लं सर्वाभ्यन्तरमित्येवं पूर्वं पूर्वमेषां बाह्यम् इत्येष विन्यासः । तथा नाडीनां च व्यूहं विजानीयात् ॥ २९ ॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः । जिह्वाया अधस्तात्तन्तुः उन्नामिकायां जिह्वायां दृश्यते । तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न प्रतिबाधेते ॥ ३० ॥ • -तस्नय्वस्थि 2. बाधेते
[भाष्यम्]
यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, तत्र विज्ञानं, तस्मिन् संयमाच्चित्तसंवित् ॥ ३४ ॥
[सूत्रम्]
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥
[भाष्यम्]
बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच्च सत्त्वात् परिणामिनोडत्यन्तविधर्मा विशुध्धोडन्यश्चि१न्मात्ररूपः। पुरूषः।
|[विवरणम्]
हृदये चित्तसंवित् । यदिदमस्मिन् ब्रह्मपुरे शरीरे दहरम् अल्पं पुण्डरीकं पुण्डरीकाकारो मांसपिण्डोऽधोमुखः, वेश्मवदनेकनाडीसुषिरयोगात् वेश्म । तत्र विज्ञानं चित, तस्मिन् उरस्सरोविलग्ननाले प्राणवेश्मनि पुण्डरीके संयमाच्चित्ते सत्त्वे संवित् भवति ॥ ३४ ॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् । सत्त्वं चित्तं, पुरुषो भोक्ता, तयओः अत्यन्तासङ्कीर्णयोः अंत्यन्तविलक्षणयोरतीव पृथग्भूतयोः वृत्तिसारूप्यं प्रत्ययाविशेषः, स भोगः पुरुषस्य । परार्थात् सत्त्वात् पुरुषप्रत्ययेन सङ्कीर्णाभासात् विविध्य स्वार्थे चितिमात्रस्वरूपे संयमात् पुरुषज्ञानं भवति।। कीदृशं तत् परार्थं चित्तसत्त्वम् ? यतो विविध्य स्वार्थे पुरुषे संयमः
क्रियत इति । बुद्धिसत्त्वं प्रख्याशीलं समानं सत्वं वस्तुकार्यं पुरुषार्थकर्तव्यतया समवस्थानम् उपनिबन्धनं ययोस्ते समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य न्यग्भावमापाद्य सत्त्वपुरुषान्यताप्रत्ययेन योगिनः परिणतम् ॥
तस्माच्च सत्त्वात् परिणामिनः त्रिगुणादनित्यादशुद्धात् परार्थादचेतनात् अत्यन्तविधर्मा विशुद्धोऽन्यः अपरिणामी स्वार्थो नित्यः चिन्मात्ररूपः पुरुषः॥ 1. तिम ।
[भाष्यम्]
तयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः, पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः ॥
यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, तत्र सेयमात्पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं १'स्वालम्बनं पश्यति । तथा ह्युक्तम्- विज्ञातारमरे केन विजानीयात् ” [बृह० २ । ४ ।। १४] इति ॥ ३५॥
[विवरणम्]
तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः । नापरिणामित्वे सति दर्शितविषयत्वादन्यो भोगः सम्भवति । सत्त्वस्य परार्थत्वात् अविशिष्ठो भोगप्रत्ययो दृश्यः पुरुषेण ।
यस्तु तस्मात् गौणप्रत्ययात् प्रत्ययिनश्च विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, स्वार्थः पुरुष एव परिणामानुपपत्तेः प्रत्ययः । तत्र संयमात् पुरुषविषया प्रज्ञा जायते ॥
ननु च यदि पुरुषः प्रत्ययस्य विषयीक्रियते, तेन चेत् पुरुषो गृह्यते, परार्थः पुरुषः प्राप्नोति । नैष दोषः । न च पुरुषप्रत्ययेन पुरुषविषयेण प्रत्ययेन बुद्धिसत्त्वात्मना बुद्धिसत्त्वधर्मेण पुरुषो दृश्यते बुद्धेरचेतनत्वात् ॥
पुरुष एव तं प्रत्ययं स्वालम्बनं पुरुषाभासं पश्यति पुरुषाभासत्वमेव प्रत्ययस्य पुरुषालम्बनत्वम् । न प्रत्ययस्य पुरुषालम्बनत्वम् । यथा मुखसन्निधौ दर्पणो मुखाकारेण परिणमते, तथा चित्तं पुरुषाकारेण परिणतं पुरुषाभासं पुरुषेण गृह्यते ॥
तथा चोक्त्तम्-‘विज्ञातारमरे केन विजानीयात्' इति। न कस्यचित् पुरुषः कर्मतां प्रतिपद्यत इत्यर्थः ॥
ननु चक्षुरादर्शतलप्रतिहतं प्रतिनिवृत्य यथा मुखस्य ग्राहकं, एवं पुरुषोऽपि चित्तसत्त्वप्रतिहतः प्रतिनिवृत्य स्वात्मानं गृह्णीयात्-न-परिणामानुपपत्तेः पुरुषस्य । न ह्यपरिणामिनश्चित्तं प्रति प्रवृत्तिः प्रतिनिवृत्तिर्वा साधिमानमुपाश्नुवीत ।
न चापि चक्षुः प्रतिनिवृत्य मुखं ग्राहयति । मुखस्य दर्पणमण्डलाधिकरणत्वेन अनुभूयमानत्वात् । न हि स्वमुखं दर्पणाधिकरणस्थम् । किं च, 1. स्वात्माबल
{{c [ सूत्रम् ]}}
ततः प्रातिभश्रावणवेदनादर्शास्वाद्वार्ता जायन्ते ॥ ३६ ॥ [ भाष्यम् ]
प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणाद्दिव्यशब्दश्रवणम् । वेदनाद्दिव्यस्पर्शाधिगभः । आदर्शाद्देिव्यरूपसंवित् । आस्वादाद्दिव्यरससंवेित् । वार्तातः संव्यवहारतत्त्वरूपं यथावत् अधिगच्छति (दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते) ॥ ३६ ॥
(सूत्रम् )
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥
[ भाष्यम्] ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः, तद्दर्शन-
प्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥ ३७ ॥
[ सूत्रम्] 'बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ [ विवरणम् ] आदर्शानुविधानाच्च । यथा खड्गे दीर्घं मुखं दृश्यते । न स्वमुखं दीर्घम्। प्रतिहतेन चेदुपलभ्येत चक्षुषा निजमुखं, तत्र आदर्शानुविधानमयुक्तम् ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते । ततः स्वार्थे समाधानात् , प्रातिभात् आत्मसंयमजनितात् मानसात् ज्ञानात्, सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानं सम्पद्यते । श्रावणात् दिव्यशब्दानां श्रवणम् । वेदनात् स्पर्शज्ञानात् सिद्धादीनां स्पर्शं जानाति । आदर्शात् चाक्षुषात् ज्ञानात्१ दिव्यं रूपम् अवगच्छति । आस्वादात् रसनेन्द्रियज्ञानात् दिव्यरससंवेदनं भवति । वृत्तौ भवं वार्तं लोकसंव्यवहारज्ञानं, तस्मादेष संव्यवहारतत्त्वरूपं यथावदधिगच्छति ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः । ते प्रातिभादयः पुरुषे समाहितचित्तस्य उ(स्य समु)त्पद्यमाना उपसर्गाः पुरुषदर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः । यद्यपि पुरुषे संयमादुत्पद्यन्ते, तथापि न विरक्तस्य समाहितचित्तस्य जायन्ते ॥ ३७ ॥
--- -1:-- -अत्र-आदर्शकोशे इत उपरेि ‘तद्द्रव्यान्यथात्वेन? इति लिखितमस्ति । तस्यानन्वयात्, 4. पुटेभ्यः पश्चात् लिखितं *दिव्यं? इत्यादि वाक्यं योजितम् । r विभूतिपादः तृतीयः . २९३
( भाष्यम्) लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माश'१याद्बन्धः प्रतिष्ठेत्यर्थः।। तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात्खचित्तप्रचारसवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते, तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्त इति ॥ ३८ ॥ [ सूत्रमू ]
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥
[-भाष्यम् ] . समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रियाः पञ्चतयी [. विवरणम् ] बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । लोलीभूतस्य घण्टाभिघाततुल्यस्य देदीप्यमानाङ्गारराशिद्युतिचञ्चलस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयाद्बन्धः प्रतिष्ठेत्यर्थः । शरीरमात्रसंकोचावस्थानम् ॥ तस्य बन्धस्य कर्मं कारणम् । कारणशैथिल्यं , कर्माशयशिथिलत्वं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात् स्वचित्तप्रचारसंवेदनाच्च ‘अस्मिन्निमित्ते हृष्यति मुह्यति लुभ्यति चानेन कारणेन' इत्येवमादिस्वचित्तसञ्चरणसतत्त्ववेदनाच्च योगी चितं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति ॥ . . " . . .
" चित्तम् अस्य उत्पतत् इन्द्रियाणि अनूत्पतन्ति । तस्मादिन्द्रियवृत्तिलाभात् परशरीरेषु प्राणादिवृत्तय उत्पद्यन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते, तथेन्द्रियाणेि परशरीरावेशे चित्तमनु विधीयन्ते ॥ ३८ ॥ · · · · می उदानजयात् जलपङ्ककण्टकादिष्वसङ्ग उत्कान्तिश्च । समस्तेन्द्रियवृत्तिः जीवनं सर्वेषामेकादशानामिन्द्रियाणां वर्तनं जीवनम् । ... यथा पञ्जरगतशकुनिसञ्चलनेन पञ्जरचलनम् , एवम अशेषकरणानामेकेन संमूर्छितेन व्यापारेण येन शरीरं ध्रियते तज्जीवनम् । तस्य जीवनस्य पुरुषार्थकर्तव्यतानियमात् पञ्चतयी क्रिया प्राणापानव्यानोदानसमानभेदेन प्रस्तीर्यते ॥ ? --- 1. यवशाद्व २९४ पातञ्जलयोगसूत्रभाष्यविवरणे
[ भाष्यम् 1 प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः । उन्नयनादुदान आशिरोवृत्तिः । व्यापी व्यान इति । एषां प्रधानः प्राणः । उदानजयाञ्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति । तां १'वशीकृत्य प्रतिपद्यते ॥ ३९ ॥ [ सूत्रम् ] समानजयाज्वलनम् ॥ ४० ॥ [ भाष्यम् ] जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥ (सूत्रम्] श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ [ भाष्यम् ]
सर्वश्रोत्राणामाकार्श प्रतिष्ठा २शब्दानां च ।
[ विवरणम् ] तत्र प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात् समान: आनाभिवृत्तिः आनाभिदेशं वर्तते । मूत्रपुरीषादीनाम् अपनयनादपानः, स च नाभिप्रभृति आपादतलं वर्तते । ऊर्ध्वं शरीरस्य नयनादुदानः, स च पादतलादारभ्य आमस्तकवृत्तिः । समस्तशरीरव्यापी व्यान इति ॥
एतेषां प्रधानः प्राणः । तज्जयाच्च सर्वेषामपानादीनां तु जयो भवति । तेषां तु जयोपायो विस्तरेण हैरण्यगर्भे व्याख्यातः । इह तु मनोजयानुजितत्वात् तेषां जयोपायो न पृथगभिहितः। प्राणायामजयात्तु जीयन्त एव । न पृथगेषां जयोपायप्रतिपादनमादृत्यमिति फलमात्रमुदानजितेरुच्यते- उदानजयात् जलपङ्ककण्टकादिषु, आदिना कृपाणधारादिषु असङ्गः । किं च, उत्क्रान्तिश्च प्रायणकाले भवति। तां प्रायणकाले भवन्तीमुत्क्रान्तिमुदानजयात् वशीकृत्य स्वतन्त्रतया प्रतिपद्यते ॥ ३९ ॥ ` समानजयात् ज्वलनम् । जितसमानः तेजस उपध्मानं कृत्वा समानवाय्वाश्रयत्वात् उदानतेजसोः तदुपध्मानकर्मकारकस्तावद्योगी। जाठरं ज्वलयति॥४०॥
श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् । कः पुनरसौ संबन्धो यत्र संयम इत्याह-सर्वश्रोत्राणामाकाशं प्रतिष्ठा। शब्दानां चाकाशगुणत्वादाकाशमेव प्रतिष्ठा । ग्राह्यं शब्दं प्रति श्रोत्रस्य व्यवधानाभावः श्रोत्राकाशयोः सम्बन्धः ॥
!. वशित्वेन -2 ت. -- چ------------۰ •س. सर्व विभूतिपादः तृतीयः ጻቔዒ
] भाष्यम् [ ܣ १'तथा चोक्तम्- तुल्यदेशश्रवणानामे२कश्रुतित्वं सर्वेषां भवतीति। तच्चैतदाकाशस्य लिङ्गम् । अनावर३णात्मकं चोक्तम् । तथा'४ मूर्तस्यान्यत्राकाशादावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य । शब्दग्रहणानुमितं तु श्रोत्रम् । बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति । तस्माच्छ्रोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रंं
प्रवर्तते ॥ ४१ ॥
[ सूत्रम् ]
कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽ काशगमनम् ।। ४२
[ भाष्यम् ] यत्र कायस्तत्राऽऽकाशं, तस्यावकाशदानात्कायस्य तेन संवन्धः°५ ।। तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु तूलादिष्वा परमाणुभ्यः समापत्तेः°६ ( विवरणम् ]
तथा चोक्तम्--तुल्यदेशश्रवणानाम् । श्रूयतेऽनेनेति श्रवणम् । तुल्यदेशानि श्रवणानि येषां ते तुल्यदेशश्रवणाः । तेषाम् एकश्रुतित्वं सर्वेषां भवति ! तदेकस्मिन्नवकाशदायिनि निरावरणात्मके वस्तुनि सति · युज्यते । तचैतदाकाशस्य सत्त्वे लिङ्गम् ॥ तथा अनावरणात्मकं चोक्तम्। (कुतः) तथा मूर्तस्यान्यत्राकाशात् आकाशविलक्षणस्य घटादेः आवरणदर्शनात्। अतो यस्य मणिवज्रादिमध्येष्वप्यावरणं नास्ति, तदाकाशम् । अत एव विभुत्वमपि प्रख्यातमाकाशस्य ॥ श्रोत्रस्य लिङ्गमाह-शब्दग्रहणानुर्मितं तु श्रोत्रम् । यस्मात् बधिराबधिरयोरेकः शब्दं गृह्णाति अपरो न गृह्णाति । यन्निमित्तमबधिरस्य शब्दग्रहणमितरस्य चाग्रहणं तच्छ्रोत्रम् । तस्माच्छ्रोत्रमेव शब्दविषयम् । बधिरेणाश्रवणात् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनः दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥
कायाकाशयोः सम्बन्धसंयमात् लधुतूलसमापत्तेश्च आकाशगमनम् । यत्र कायः तत्र आकाशम् ! तस्य अवकाशदानात् कायस्य अविनाभावलक्षणः सम्बन्धः तेन आकाशेन । तत्र कायाकाशयोः इतरेतराविनाभावप्राप्ति-
1. यथोक्तम्- 3. -र्ण चोक्तम् 5. प्राप्तिस्तत्र-2. कदेशश्रु- 4. -ऽमूर्तस्यानाव- 6. त्तिं लब्ध्वाع २९६ पातञ्जलयोगसूत्रभाष्यविवरणे
[ भाष्यम् } जितसंबन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तु ऊर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥ [ सूत्रम् ] बहिरकल्पिता वृतिर्महाविदेहा ततः प्रकाशावरणक्षयः॥ ४३ ॥ [ भाष्यम् ] शरीराद्बहिर्मनसो'१ या वृत्ति', सा विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव भनसो बहिर्वृतिमात्रेण भवति, सा कल्पितेत्युच्यते ! या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामिति । [ विवरणम् ] लक्षणसम्बन्धे कृतसंयमो योगी जित्वा तत्सम्बन्धं ततो लघुषु तूलादिषु आ परमाणुभ्यः समापत्तेः जितसम्बन्धः तूलादिवत् लाघवं प्रतिपद्यते ॥ जितकायाकाशसम्बन्धः समापन्न: तुलादितुल्यलाघवशीलनार्थं जले पादाभ्यां विहरति । ततः ऊर्ध्वम् ऊर्णनाभितन्तुमात्रे विहरति । तत्र सञ्जातकोकिलतन्तुसमानलाघवः पुनः रश्मिषु विहरति । ततो मातरिश्वनि । ततो यथेष्टम् आकाशे गतिरस्य भवति ॥ ४२ ॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ! शरीरात्२ बहिः देशान्तरे विषयविशेषे स्वयमेव समाधिबलात् उपजायते या मनसो वृत्तिः सा महाविदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव मनसो वृत्तिमात्रेण बहिः विषये भवति, तदानी कल्पिता उच्यते । शरीरस्थमनस्सङ्कल्पपूर्वकत्वात्। या तु समाधिबलनिमित्तात् शरीरे बन्धकारणशैथिल्यात् शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः, सा खलु अकल्पिता इत्युच्यते । यथैव कल्पितायां शरीरावधिक एव बहिर्वृत्तिलाभः, एवं नाकाल्पतायां शरीराधिष्ठानावधिसमीक्षा ॥ सा चोभय्यपि विदेहैव बहिरुपकल्पितत्वात् । तत्र या इयमकल्पिता महाविदेहेति समाख्यायते । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामू ! कल्पनासंशीलनसाध्यत्वादकल्पितायाः कल्पितया च संसाधयन्ति । 1. वृत्तिलाभो 2. अत्र आदर्शकोशे इत उपरि **विवेकजं?° इत्यादिः ग्रन्थः लिखितः । तस्यानन्वयात्, 18. पुटेभ्यः पश्चात् लिखितः **बहिः” इत्यादिः ग्रन्थः योजितः ॥ विभूतिपादः तृतीयः २९७
[ भाष्यम् ] यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३ ॥ [ सूत्रम् | स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ [ भाष्यम् ]
। तत्र पार्थिवाः'१ शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्धूलशब्देन परिभाषिताः । एतद्भूतानां प्रथमं रूपम् ।
[ विवरणम् ] यया महाविदेहया परशरीराण्याविशन्ति योगिनः ।। ततश्च धारणातः महा
विदेहातः प्रकाशात्मनो बुद्धिसत्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमो-
मूलं तस्य च क्षयो भवति ॥ ४३ ॥}
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेत्येवमेकैकं भूतं पञ्चात्मकम् । तत्र पार्थिवाः शब्दादयः शब्दस्पर्शरूपरसगन्धाः विशेषाः पञ्चलक्षणतन्मात्रारब्धत्वात् पृथिव्याः । सह आकारादिभिः । पृथिव्यास्तावदाकारादयः--- आकारो गौरवं रौक्ष्यं चेरणं स्थैर्यमेव च ।
स्थितिर्भेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता ॥ इति ॥
तथा-स्नेहप्रभासौक्ष्म्यमार्दवगौरवरक्षापवित्रत्वसन्धानादय औदका गुणाः ॥ तथा-तैजसाः ऊर्ध्वभाक्त्वपावनतादग्धृत्वपाचकत्वलाघवभास्वरत्वादयः ॥ तथा-वायवीयाः तिर्यग्यानपवित्रत्वाक्षेपबलनोदनत्वादयः ॥ तथा-नाभसाः सर्वगत्यव्यूहविष्टम्भाः ॥ तदेतैः आकारादिभिः सह शब्दादयो विशेषाः स्थूलब्देन संव्यवहारार्थं शास्त्रे परिभाषिताः । एवमाप्याश्चत्वारो रसादयो विशेषाः सौक्ष्म्यादिभिः । सह, एवं तैजसा रूपादयस्त्रयो विशेषा ऊर्ध्वभाक्त्वादिभिः सह स्थूला उच्यन्ते । तथा वायवीयाः शब्दस्पर्शतिर्यक्पातादयः स्थूला विशेषाः । एवमाकाशस्य सर्वगतत्वादयः स्थूला विशेषाः । तत् एतत् भूतानां प्रथमं स्थूलं रूपं उक्तम् ॥ 1. वाद्याः 38 २९८ पातञ्जलयोगसूत्रभाष्यविवरणे
[ भाष्यम् ] द्वितीयं रूपं १'सामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः *२प्रणामित्वं सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते ॥
- ३तस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति ॥
सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवः*४ शरीरं वृक्षो यूथं वनमिति ॥ शब्देनोपात्तभेदावयवानुगत: समूह उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूह: ॥
[ विवरणम् ] द्वितीयम् अधुना स्वरूपम् उच्यते । तच्च सामान्यं पर्थिवेषु भिन्नेष्वभिन्नमनुगतं मूर्तिरेव भूमिः इति । तथा रसादिष्वाप्येष्वनुगतं सामान्यं स्नेह एव जलम् इति । तथैवाग्नयेषु रूपादिष्वनुगतं सामान्यं वह्निरुष्णत्वमेव ! तथा स्पर्शतिर्यक्पातादिष्वनुगतं सामान्यं प्रणामित्व५मेव वायु । तथा शब्दादिष्वनुगतम् सामान्यं सर्वतोगतिरेव आकाशः, इत्येतत् स्वरूपशब्देनोक्तं द्वितीयं रूपम् ॥ तस्य सामान्यस्य रूपस्य शब्दादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानां सत्त्वादिगुणसमनुगतानाम् एषां भूतानां पृथिव्यादीन सामान्यानां शब्दादिधर्ममात्रं व्यावर्तते ॥
सामान्यविशेषसमुदायो द्रव्यम् । कस्मात् ? द्विष्ठो हि समूहः द्वाभ्यां प्रकाराभ्यां स्थितो द्विष्ठः प्रत्यस्तमितभेदावयवः व्यावृत्तप्रत्ययशून्य इत्यर्थः । यथा शरीरं वृक्षो यूथं वनमिति ॥ उपात्तभेदावयवानुगतः आगृहीतभेदावयवानुगतः समूहः उभयशब्देनोपादीयते । उभये देवमनुष्या इति । तद्यथा-समूहस्य देवा एको भागः, मनुष्या एको भागः ! ताभ्यामेव भागाभ्यामागृहीतयथास्वभेदानुगताभ्याम् अभिधीयते समूहः उभये इति ॥ १ स्वसा २ प्रणामी ३ अस्य ४-वानुगतः' । ५ अत्र आदर्शकोशे इत उपरि **गुणाः शुक्लत्वादयः?? इत्यादिग्रन्थः लिखितः । तस्यानन्वयात्।। 15. पुटेभ्यः प्राक् लिखितः **मेव वायुः°° इत्यादिः ग्रन्थः योजितः ॥ विभूतिपादः तृतीयः *२९९
(भाष्यम् ] १भेदाभेदो विवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति ॥
स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च ! युतसिद्धावयवः समूहो वनं संघ इति । अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमेित्युक्तम् ॥ अथ किमेषां सूक्ष्मरूपम् ? तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम् । N [ विवरणम् ] तयोः भेदाभेदो विवक्षितः आम्राणां वनम् इति । आम्राणामिति भेदेन विवक्षा । वनमेित्यभेदेन । ताभ्यां द्वाभ्यां भेदाभेदाभ्याम्। आम्राणां वनमिति षष्ठी प्रथमा । तद्द्वयोर्विवक्षित एकः समूह इति । स पुनर्द्विविधः समूहः--युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः पृथक्सिद्धावयवः समूहो वनं सङ्घ इति । अयुतसिद्धावयवः अपृथक्सिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति ॥ परमाणूनामपि सावयवत्वं सत्त्वादिकार्यत्वात् मूर्तत्वाच्च घटादिवदेव । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तं सामान्यविशेषात्मकम् । अथ किमेषां सूक्ष्मं रूपम् इति । तन्मात्रं भूतकारणम् । अनेकपरमाणुप्रारब्धत्वात् तस्य तन्मात्रस्य एकोऽवयवः परमाणुः । सोऽपि सामान्यविशेषात्मा अयुतसिद्धावयवभेदानुगतः समुदाय इति । एवं सर्वतन्मात्राणि । ततश्च तन्मात्राणि विशेषविनिर्मुक्तानि तदवयवाश्च परमाणव इति एतत् भूतानां तृतीयं सूक्ष्माख्यं रूपं संयमस्य विषय इति । तन्मात्रारब्धत्वाच्च सावयवमाकाशमनित्यं च । न च शब्दव्यतिरेकेण आकाशं नाम द्रव्यम् उपलब्धुं शक्यम् । धर्मधर्मिणोरभेदात् ॥
!, स चं भेदाभेद[ भाष्यम् ]
अथ भूतानां चतुर्थं रूपं-ख्यातिक्रियास्थितिशीला गुणाः कार्य स्वरूपानुपातिनोऽन्वयशब्देनोक्ताः ।
[ विवरणम् ]
ननु च केशादीनां कृष्णिमाडप्यपैति, शुक्लिमा समुपजायते । तथा च अपायोपजनधर्माणः कृष्णिमादयः ते गुणाः ! यतु न कृष्णिमानमनु विनश्यति, शुक्लिमानमन्वेति, तत् द्रव्यम् ! एवम् आकाशादीनामपि गुणव्यतिरेकेण सद्भावः, शब्दप्रत्ययादिभेदात् इति ॥
न--दृष्टान्ताभावात् । ते एव कृष्णाः शुक्लाश्च केशाः कृष्णशुक्लत्वादिधर्मैः परिणमन्ते । सर्व हि सर्वात्मकमित्युक्तम् । न खलु क्वचिदपि कूटस्थे आश्रये २2गुणाः शुक्लत्वादयः अपायोपजनवन्त उपलभ्यन्ते । न च कृष्णत्वादिव्यपनयनेन द्रव्यस्वरूपम् । यदपि--दर्शनस्पर्शनाभ्यां यदुपलभ्यते तत् द्रव्यम् इति, तदप्ययुतसिद्धरूपस्पर्शसमुदायत्वादुभाभ्यां दर्शनस्पर्शनाभ्यां गृह्यत इत्यदोषः॥
ननु च न रूपं स्पर्शनेन गृह्यते, नापि दर्शनेन स्पर्शः, यदुभाभ्यां गृह्यते 'यत् पश्यामि तदेव स्पृशामी’ति तद्द्रव्यम् । यत्तु चक्षुषैव गृह्यते स्पर्शनेनैव च गृह्यते स गुण इति ॥
न--माषतिलयवादिभिन्नजातिविमिश्रराशावनैकन्तिकत्वात् । गृह्यते च दर्शनस्पर्शनाभ्यां राशिः । किं च-दर्शनस्पर्शने गुणस्यैव ग्राहके, बाह्येन्द्रियत्वात्, श्रोत्रवत् । न हि जातिरपि गुणव्यतिरिक्ता विद्यते भेदेनाग्रहणात् ॥
किं च, घटादादावपि परस्पराध्यासेन दर्शनस्पर्शनाभ्यां रूपस्पर्शयोरेव ग्रहणम् । यथेदं रूपं दुर्गन्धि सुरभिगन्धि चेति । तस्मादाकाशमपि तन्मात्रारब्धं शब्दव्यतिरेकेणाशक्यं प्रतिपत्तुमिति सावयवमनित्यं च ॥
अथ भूतानां चतुर्थं रूपम् । ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वरूपानुपातिनः कार्यधर्मानुयायिनः अन्वयशब्देनोक्ताः । अनुगमात् । तदेतद्भूतानां चतुर्थं रूपं संयमस्य गुणान्वयाख्यो विषयः ॥
1. स्वभावानु- ya XV
ܐ سه 2. अत्र आदर्शकोशे इत उपरि “मनाशयंं" इत्यादिवाक्यं लिखितम् । तस्यानन्वयात्, 14. पुटेभ्यः पश्चात् लिखितं "**गुणाः? इत्यादि वाक्यं योजितम्"॥ [ भाष्यम् ]
अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता, गुणेष्वन्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तञ्जयाद्वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥
[ सूत्रम् ]
ततोडणिमादिप्रादुर्भावः कायसपत्तद्धर्मानभिघातश्च ॥ ४५ ॥
[ भाष्यम् ]
तत्राणिमा-भवत्यणुः । लधिमा-लघुर्भवति । महिमा-महान्भवति ।
[ विवरणम् ]
अथैषां पञ्चमं रूपमर्थवत्त्वम् । अस्य व्याख्यानं भोगापवर्गार्थता। सा च गुणेष्वन्वयिनी । तत्र या गुणेष्वनुवृत्ता भोगापवर्गार्थता तदिदं भूतानां पञ्चमं रूपं संयमस्यार्थवत्त्वाख्यो विषयः ॥
गुणास्तन्मात्रेषु भूतेषु भूतविकारेषु चान्वयिनः । एवं तन्मात्रं सूक्ष्मरूपं भूतभूतविकारेष्वनुगुतम् । भूतस्वरूपं च स्थूलेषु भूतविकारेष्वनुगतमिति सर्वमर्थवत् । गुणानां भोगापवर्गार्थवत्वात् तेषां च सर्वान्वयित्वात् तदर्थवत्त्वेन सर्वं भूताविकाराादिकम् अर्थवत् ॥
तेष्विदानी भूतेषु पञ्चसु पञ्चरूपेषु स्थूलादिपञ्चरूपेषु यथाक्रमं संयमात् पूर्वं स्थूलेन संयमं कृत्वा तज्जयसाक्षात्करणानन्तरं स्वरूप संयमं कुर्वीत । पूनः सूक्ष्मे, पुनश्चान्वये, पुनश्चार्थवत्त्वे इत्येवं यथाक्रमं संयमात्तस्य तस्य स्थूलादिकस्य दर्शनं जयश्च यथावत् प्रादुर्भवति । तत्र भूतस्वरूपाणि जित्वा योगी भूतजयी मवति । तज्जयात् वत्सानुसारिण्य इव गावः (यथा प्रकृतिभूता गावः) अस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥
(स्व)संयमफलमिदानीमाह-ततोऽणिप्रादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च । तत्राणिमा को भवति इत्याह-अणुः इति । सूक्ष्मादपि सूक्ष्मतरो भवतीच्छातः । तेनाणिम्ना सर्वमनुप्रविशति वज्रमपि । तथा सर्वस्यादृश्यो भवति ॥
लघिमा-लघुः लघुभ्यः तूलादिभ्योऽपि लघुतरः भवति । तेन निरालम्बनः सर्वतो गन्तुं पर्याप्नोति । महिमा-महान् भवति । आकाशभपि [ भाष्यम् ]
प्राप्तिः-अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राक्काम्यम्-इच्छानभिघातः ।
भूमाबुन्मञ्जति निमञ्जति यथोदके । वशित्वम्र-भूतभौति१'कवशी भवत्यवश्यश्चान्येषाम् । ईशत्वम्-तेषां प्रभवाप्ययव्यूहानामीष्टे। यत्रकामावसायित्वम्सत्यसंकल्पता, यथा संकल्पस्तथा भूतप्रकृतीनामवस्थानम् । न च शक्तोऽपेि पदार्थविपर्यार्स करोति । कस्मात् ? अन्यस्य यत्रकामावसायेिनः पूर्वसिद्धस्य तथा°२ तेषु संकल्पादिति | एतान्नष्टावैश्वर्याणि ॥
कायसंपद्वक्ष्यमाणा । तद्धर्भानभिघातश्च-पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति । नाऽऽपः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायुः प्रणामी [
[विवरणम् ]
व्याप्नोति । प्राप्तिः--इहस्थ एव अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यं-- प्रचुरकामो यथेष्टकामो भवति इच्छानभिघातः । भूमावुन्मज्जति निमञ्जति च। यथाकामत्वात् यथोदके ॥
वशित्वम्-सर्वलोकवशित्वम् । अस्य व्याख्यानं भूतभौतिकवशी भवति अवश्यश्चान्येषाम् । ईशित्वम्-तेषां भूतानां प्रभवव्यूहाप्ययानाम् उत्पत्तिस्थितिप्रलयानाम् ईष्टे । यत्रकामावसायित्वम्-यस्मिन् कामस्तत्रैव तदवसानं तदन्तं गच्छति । सत्यसंकल्पाद्धेतोः यथा संकल्पः तथा भूतप्रकृतीनामवस्थान भवति ।
शक्तोऽपि स योगी न पदार्थविपर्यासं करोति । नाग्निं शीतीकरेति । कस्मात् ? अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य परमेश्वरस्य तथा तेषु पदार्थेषु विपर्यासेन संकल्पात् । न हि पदार्थविपर्यासं चिकीर्षमाणस्य पूर्वसिद्धं प्रति विना द्वेषेण तद्विपर्यासो भवति । तदशुद्धयभावादेव न पदार्थविपर्यासं करोति । कल्याणतराचरणो हि स इति । एतान्यष्टौ अणिमाद्यैश्वर्याणि भूतजयाद्भवन्ति ॥
कायसम्पद्वक्ष्यमाणा । तद्धर्मानभिघातः तेषा भूतानां धर्मैः न योगिनोऽभिघातो भवति । पृथिवी स्वेन धर्मेण मूर्त्या न विरुणद्धि योगिनः शरीरादिक्रियाम् ! कथम् ? शिलामप्यनुप्रविशति । नापः स्निग्धा योगिनं क्लेदयन्ति वर्षसहस्रमप्युदके तिष्ठन्तम् । नाग्निरुष्णे दहति । न वायुः प्रणामी
१ केषु व २भूतेषु
[ भाष्यम् ]
वहति । अनावरणात्मकेऽप्याकाशे भवत्यावृतः1ः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥
[ सूत्रम् ]
रूपलावण्यबलवज्रसंहननत्वानि कार्यसंपत् ॥ ४६ ॥
[ भाष्यम् ]
दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ॥ ४६ ॥
[ सूत्रम् ]
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥
[ भाष्यम् ]
सामान्यविशेषात्मा शब्दा2दिर्विषयः । तेष्विन्द्रियाणां वृतिर्ग्रहणम्। न च तत्सामान्यमात्रे ग्रहणाकारः । कथमनालोचितः 3स्वविषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति ।
[ विवरणम् ]
वहति । अनावरणात्मकेऽपि प्रकटरूपेऽपि भवत्यावृतः प्रकटो न भवति । सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥
रूपलावण्यबलवज्रसंहननत्वानेि कायसम्पत् । रूपवान् दर्शनीयः । लावण्यवान् कान्तिमानातिशयबलो वज्रसंहननश्च भवति ॥ ४६ ॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रयजयः । सर्वमेतद्भतसूत्रेण तुल्यव्याख्यानम् । अस्मितामात्रं तु विशेषो भूतानामिव तन्मात्राणि । सामान्यविशेषात्मा शब्दादिर्विषयः । तेष्विन्द्रियाणां या वृत्तिः विषयविशेषावलोकनात्मिका तत् ग्रहणम् । न च तत्सामान्यमात्रे शब्दादिसामान्याभासनमात्रे मनसि ग्रहणाकारः उपपद्यते । कथम् ? अनालोचितः स्वविषयविशेष इन्द्रियेण अनिगृहीतो निजो विषयविशेषो मनसा कथं नु नाम अनुव्यवसीयेत । न कथंचिदनुव्यवसीयेत तैमिरिकातैमिरिकयारेनुव्यवसायाननुव्यवसायाभ्याम् । तस्मान्नेन्द्रियेणानालोचिते विषये मनसा। अनुव्यवसायः । तत्रास्यां विशेषात्मिकायां वृत्तौ प्रथमं संयमः कर्तव्यः ।
1. -तकाय: 2. -दिर्ग्राह्यः ।
3. स वि[ भाष्यम् ]
स्वरूपं पुनः प्रकाशात्मनोः"१ सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतं*२ द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्षणोऽहंकारः तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः, येषामिन्द्रियाणि साहंकाराणि परिणामः । पञ्चमं रूपं गुणेपु यदनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमः, तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥
[ विवरणम् ]
अथ स्वरूपं पुनः इन्द्रियाणां द्वितीयं रूपम् । प्रकाशात्मनोः सामान्यविशेषयोः विषयविशेषालोचनमिन्द्रियाणां विशेषः । यथा प्रदीपस्य घटादिविशेषाकारालोको विशेषः । प्रकाशमात्रं सामान्यम् । अतः सामान्यविशेषात्मकम् अयुतसिद्वावयवभेदानुगतं द्रव्यमिन्द्रियं प्रदीपवत् । यथा सामान्यमूर्तिधर्मः स्थूलादिष्वनुप्रवर्तते, तथेन्द्रियं प्रकाशात्मकं द्रव्यविशेषात्मिकायां ग्रहणवृत्तावनुप्रवर्तते । तदेतस्मिन् द्वितीये इन्द्रियाणां स्वरूपे संयमः क्रियेत ।
तेषां इन्द्रियाणां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः । तस्य अहङ्कारस्य सामान्यस्येन्द्रियाणि अयुतसिद्धावयवभेदानुगतानि ग्रहणरूपान्वयीनि विशेषाः । तत्र अस्मितायां संयमः करणीयः ॥
चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः । येषामिन्द्रियाणि साहङ्काराणि परिणामः । तत्र गुणानुगमे संयमः कर्तव्यः ॥
पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वम् । अतः सर्वेषामर्थवत्वमनुगमश्च पूर्ववत् ॥
एवं एषु पञ्चस्विन्द्रियरूपेषु यथाक्रमं क्रमानतिक्रमेण संयमः । तत्र प्रत्येकं पञ्चसु जयं कृत्वा पञ्चस्वरूपजयं लभते । तस्मात् पञ्चस्वरूपजयादिन्द्रिय(Iादि)जयो वक्ष्यमाणफलाय प्रादुर्भवति योगिनः । यतु *३ततः परमा वश्यतेन्द्रियाणाम् ? इति, तद्विषयग्रहणवृत्तर्वेशित्वमात्रं विषयाप्रतिपत्तिरूपम् ॥ ४७ ॥
1. -नो बुद्धिसत्वस्य 2. -तः समूहो द्र 3. યો, સૂ. 2-55
[ सूत्रम् ]
ततो '१मनोजवत्वं विकरणभावः प्रधानजयश्च॥ ४८ ॥
[ भाष्यम् ]
कायस्यानुत्तमो गतिलाभो मनोजवत्वम् । विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानञ्जयः, इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करणपञ्च°२ स्वरूपजयादधिगम्यन्ते ॥ ४८ ॥
[ सूत्रम् ]
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्र्वं सर्वज्ञातृत्वं च ॥ ४९ ॥
[ भाष्यम् ]
निर्धूतरजस्तमोमलस्य बुद्धिसत्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् ।
[ विवरणम् ]
ततो मनोजवत्वं विकरणभावः प्रधानजयश्च । तत इन्द्रियजयात् • कायस्यानुत्तमः न विद्यतेऽस्मादुत्तम इत्यनुत्तमः गतिलाभो मनोजवत्वम् । विदेहानां शरीरनिरपेक्षाणां इन्द्रियाणां अभिप्रेतदेशापेक्षोऽभिप्रेतकालापेक्षोऽभिप्रेतशब्दादिविषयापेक्षश्च वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं अष्टानां प्रकृतीनां तद्विकाराणां च वशित्व प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीकाः इति उच्यन्ते । ताश्च पञ्चस्वरूपजयादधिगम्यन्ते ॥ ४ ८ ॥
सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । सर्वप्रकारेण सर्वसाधनेन निर्धूतरजस्तमोमलस्य सत्वस्य परे वैशारद्ये स्वच्छे स्थितिप्रवाहे परे वर्तमानस्य परस्यां वशीकारसंज्ञायां ज्ञानप्रसादमात्रे निरतिशये वर्तमानस्य सत्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वस्य वस्तुजातस्येष्टे ॥
1. -जवित्वं 2. -रूप
39[ भाष्यम् ]
सर्वा1त्मना 2“गुणाध्यवसायात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मकानां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानामित्यर्थः । इत्येषा विशोका नाम सिद्विर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥
[ सूत्रम् ]
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥
[ भाष्यम् ]
यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं 3विवकी प्रत्ययो धर्म: सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामो शुद्धोऽन्यः सत्त्वादितिं । एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानेि दग्धशालिबीजकल्पनेि प्रसवासमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते ।
[ विवरणम् ]
सर्वात्मना सकलप्रकृतिविकारात्मना गुणाध्यवसायात्मकाः बुद्धयादिकारणभावपरिणताध्यवसायात्मकाः शान्तोदिताव्यपदेश्यधर्मानुप्रसर्पिणः स्वामिनं क्षेत्रज्ञं दृशिमात्रं अशेषगुणाः दृश्यत्वेन भोग्यत्वेन अवस्थिताः लभ्यन्ते इत्यर्थः ॥
सर्वज्ञातृत्वं सर्वात्मकानां शान्तोदिताव्यपदेश्यधर्मत्वेनावस्थितानां गुणानां अक्रमोपारूढमू एककालभावि विवेकजं ज्ञानमित्यर्थः । इत्येषा सर्ववशित्वसर्वज्ञातृत्वलक्षणा विशोका नाम सिद्धिः । यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो विहरति वशी ॥ ४९ ॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदा अस्यैवं भवति सर्वज्ञस्य सर्वभावानधितिष्ठतः क्लेशकर्मक्षये विवेकी सत्वस्य प्रत्ययः । कीदृश इत्याह--सत्वं च हेयपक्ष न्यस्तं परिणामित्वाशुद्धत्वत्रिगुणत्वादिभिः ।
पुरुषश्च सत्वविधर्मा अपरिणामी शुद्धोऽन्यः सत्वात् इत्यनेन प्रकारेण ॥
ततः अपि सर्वज्ञसर्वभावाध्यक्षत्वात् विरज्यमानस्य यानि क्लेशबीजानि अविद्यावासनारूपाणि दग्धशालिबीजकल्पानेि प्रसवासमर्थानेि तानि चरितार्थेन प्रलीयमानेन सह आश्रयेण मनसा प्र यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं आध्यात्मिकादिलक्षणं न भुङ्क्ते ॥
1. -त्मानो 2. गुणा व्यवसायव्यवंसयात्मका: 3. विवेक
[ भाष्यम् ]
तदेषां गुणानां मनसेि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥
[ सूत्रम् ]
स्थान्युप(नि)मन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
[ भाष्यम् ]
चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी' प्रवृत्तज्योतिः प्रथमः । ऋतंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्त२°व्यतासाधनवान् ।
[ विवरणम् ]
तदेषां गुणानां मनसि क्लेशकर्मविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे प्रलये पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिेरेव पुरुषः । तद्वैराग्यादपि इत्यापिशब्दादप्राप्तयोगैश्वर्यस्यापि सम्यग्दर्शनात् कैवल्यमिति ॥ ५० ॥
स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्। स्थानं स्वर्गादिकं येषान्ते स्थानिनो देवा इन्द्रादयः । तै: उपमन्त्रणं भो भो इहोष्यताम् इत्यादि । तस्मिन् सत्यात्मनो हीनत्वं स्मरतः प्राप्नुतः सङ्गस्मयौ। (अर्थादिति) तौ च न कर्तव्यो । सङ्गस्मयकरणेऽनिष्टं प्रसज्येत ।। *
चत्वारः खल्वमी योगिनः-प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिः अतिक्रान्तभावनीयश्व । तान् क्रमेण व्याचष्टे-तत्राभ्यासी अभ्यसनशील: प्रवृत्तज्योतिः ज्योतिष्मत्यादीनामन्यतमा प्रवृत्तिः प्रवृत्ता यस्य स प्रवृत्तज्योतिः प्रथमः ॥
ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । स तु सर्वेषु भावितेषु भावनीयेषु साक्षात्कृतेषु जितेषु च कृतरक्षाबन्धः, उपात्तस्य हि रक्षा विधानीयां, भावनीयेषु साक्षात्करणीयेषु कर्तव्यतासाधनवांश्च । कर्तव्यतायाः साधनानि कर्तव्यतासाधनानि अभ्यासवैराग्यादीनि यस्य सः कर्तव्यतासाधनवान् ॥
1. प्रवृत्तमात्रज्यो- 2. व्यसाधनादिमान्
[ भाष्यम् ]
चतुर्थो यस्त्वतिक्रान्तभावनीयः तस्य चित्तप्रतिसर्ग एव एकोऽर्थः । सप्तविधा तस्य प्रान्तभूमिप्रज्ञा ॥
तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वाविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते ‘भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियम्’ इति । एवमभिधीयमानः सङ्गदोषान् भावयेद्धोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादित: क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समार्धि भावयेत् ॥
सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थितमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति । ततः पुनरनिष्टप्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढीभविष्यति । भावनीयश्चार्थोऽभिमुखीभविष्यतीति ॥ ५१ ॥
[ विवरणम् ]
[ सूत्रम् ]
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ।.
[ भाष्यम् ]
यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं १'अपकर्षपर्यन्तः कालः क्षणः । यावता वा समयेन विचलितः परमाणु: पूर्वेदेशं जह्यादुत्तरदेशम'२भिसंपधेत स कालः क्षणः ।। *३तस्य प्रवाहाविच्छेदभाविनः आनन्तर्यं क्रमः ।। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति । बुद्धिसमाहारात् मुहूर्ताहोरात्रादयः ।
[ विवरणम् ]
क्षणतत्क्रमयो- संयमाद्विवेकजं ज्ञानम् ।। क्षणं क्रमं च स्वयमेव विस्तरेणाचष्टे--तत्र अपकर्षपर्यन्तं यतः परमपकर्षो न शक्यते कर्तुं तद्द्रव्यं परमाणुः । एवं लोकबुद्धिविकल्पितादहोरात्रलक्षणादपकृष्यमाणात् कालादल्पीयःपरिजिघृक्षया यतः परम् अपक्रष्टुं न शक्यते सः अपकर्षपर्यन्तः कालः क्षणः वस्तुभूतः ॥
यद्वा, यावता समयेन विचलितः परमाणुः पूर्वं देशं जह्मादुत्तरमभिसंपद्येत स*४ कालः क्षणः । सर्वथाऽप्यस्ति (सूक्ष्म)क्षण इत्यर्थः ॥
तस्य प्रवाहाविच्छेदभाविनः तस्य क्षणस्य प्रवाहः प्रबन्धः अविच्छेदो नैरन्तर्यं तथा भवितुं शीलं यस्य क्षणस्य प्रवाहाविच्छेदभाविनः क्षणस्य यत् आनन्तर्यं सः क्षणस्य क्रमः । तयोश्च क्षणतत्क्रमयोर्नास्ति वस्तुसमाहारः क्षणक्रमस्यावस्तुत्वात् क्षणस्य चैकत्वात् नास्ति तयोः समाहारः समूहः ॥
ननु चासति क्षणतत्क्रमसमाहारे कथं माससंवत्सरादयः प्रवर्तेरन्निति, तदर्थमाह-बुद्धिसमाहारात् बुद्धिपरिकल्पितात् क्षणतत्क्रमयोः समाहारादादित्यादिदेशान्तरसंबन्धावबन्धबुद्विसमुद्भावितात् मुहूर्ताहोरात्रादयः । ततश्च बुद्धिस्थित एष भेदः ।
यो हि प्रसन्नसमानप्रत्ययप्रवाहिमानसः एकाग्रभूमिप्रतिष्ठिचित्तसत्वः, तस्य सत्यपि कालानुभवे क्षणयुगसहस्रयोस्तुल्यता । नैवं व्युत्थितचित्तस्य । तथा स्वप्नेऽपि घटिकामात्रेण बुद्धिपरिकल्पितं योजनसहस्रनमनेकं संवत्सरेणैव [गन्तव्यं] गच्छति । तस्माद्बुद्धिवैचित्र्यानिर्मित एव कालसमाहारः ।
1. परमाप- 2. मुपसंपद्येत 3. तत्प्रवाहाविच्छेदस्तु क्र 4. अत्र आदर्शकोशे इत उपरि ‘ग्राह्योपरक्त:” इत्यादि वाक्यं लिखितम्। तस्यानन्वयात्, 13. पुटेभ्यः पूर्वे लिखितं ‘‘कालः क्षणः सर्वथा?’ इत्यादिवाक्यं योजितम्॥
[ भाष्यमू ]
स खल्वयं कालो वस्तुशून्यो१' बुद्धिनिर्माणः शब्द°धर्मानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते ॥
क्षणस्तु वस्तुरूपः3 क्रमावलम्बी । क्रमश्च क्षणानंन्तर्यात्मा ।
[ विवरणम् ]
यस्य तु क्रियाव्यतिरिक्तः कालः नित्यो विभुः, तस्य चिरक्षिप्रत्वाद्यपि क्रियामात्रे पर्यवसितत्वात् पृथक्कालास्तित्वे न लिङ्गं घटते । नियतपरिमाणा हि क्रिया अनवगतपरिमाणायाः क्रियाया लक्षणमू । यथा आ गोदोहनं स्वपति । आ ओदनपाकमधीते इति । स एव च कालः । न हि नित्यस्य विभोः तस्य कूटस्थस्य असम्बन्धत्वात् वस्त्वन्तरपरिच्छेदकत्वं प्रस्थादिवदुपपद्यते ॥
क्रियावान् कालः परिव्छेदकः प्रस्थादिवदिति चेत्, तस्यापि क्रियावत्वात् क्रियावतश्च परिच्छेदनीयत्वादन्येन क्रियावता परिच्छेदकेन कालेन भवितव्यम् । तस्याप्यन्येनेत्यनवस्थाप्रसङ्गः क्रियावत्त्वाच्चानित्यत्वमपि प्रसज्येत ॥
अथ स्वव्यापारेणैव काल: परिच्छेदनीयकं यायादिति चेत्। अन्येऽपि स्वव्यापारेणैव परिच्छेद्या इति कालपृथक्त्वकल्पना निरर्थिका । तथा च क्रियैवास्तु कालः ।
अथापि सद्भावमात्रेण कालः परिच्छेदक इति, सर्वेषामपि सद्भावाविशषादेवं प्रसक्त्तम् ।
क्रियाकालपक्षेडप्येष विकल्पः प्राप्त इति चेत्-न, क्रियायाः सर्वप्रसिद्धत्वात् । परिच्छेदकत्वस्य च आ गोदोहमास्ते इत्यादिषु सिद्धत्वात् क्रियैव परिच्छेदिका लभ्यते, नापरः काल: परिच्छेदक इति । चिरं क्षिप्रमिति च प्रयत्नमन्दिमपाटवकृतः प्रत्ययो न व्यतिरिक्तकालनिबन्धन इत्याह-स खल्वयं कालः संवत्सरादिरूपो वस्तुशून्यो बुद्विनिर्माणः बुद्धया निर्मापिष्यते ॥
शब्दधर्मानुपाती त्रुटिनिमेषाहोरात्रादिशब्दविकल्पानुप्रवर्ती । लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते । क्षणस्तु वस्तुरूपः वास्तविकः'४ तदूद्रव्यान्यथात्वेनानुमीयमानः क्रमावलम्बी | क्रमश्च क्षणानन्तर्यात्मा क्षण-- प्रवाहविच्छेदबुद्विनिमित्तः ॥
1, -न्योऽपि 2. ज्ञानानु- 3. वस्तुपतित: 4. अत्र आदर्शकोशे इत उपरि ‘अन्तराभाव:” इत्यादि वाक्यं लिखितम् । तस्यानन्वयात्, 20. पुटेभ्यःपूर्वे लिखितं **तद्द्रव्यान्यथात्वेन?? इत्यादिवाक्यं योजितम्॥
[ भाष्यम् ]
तं कालविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः, सहभुवोरसंभवात् । पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मान्नास्ति तत्समाहारः । ये तु भूतभाविनः क्षणास्ते परिणा'मास्तितया व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः ! तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥
[ विवरणम् ]
तं क्षणं कालाविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः, ययोः समाहारः कल्प्येत । एकस्मिन् धर्मिणि सहजन्मनोः क्षणयोरसंभवात् । जायमानो हि चैत्र एकस्मिन् क्षणे जायते । न तत्र द्वौ क्षणौ सह भवतः क्रमश्च न द्वयोः । कस्मात् ? द्वयोः क्षणयोः सहभुवोरसम्भवात् ॥
पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । यथा पिण्डादुत्तरभाविनो घटस्य यदानन्तर्यं स क्रमः । न हि चक्रान्तरस्थस्य मृत्पिण्डस्य चक्रान्तरस्थमृत्पिण्डजनितो घटः क्रमे वर्तते ! तस्माद्वर्तमान एवैकः क्षणः । न पूर्वोत्तरावतीतानागतौ स्तः पूर्वोत्तरयोर्धर्मिस्वरूपमात्रत्वात् । धर्मी च वर्तमानक्षणारूढ एव । तस्मान्नास्ति तत्समाहारः क्षणतत्क्रमसमाहारः ॥
ये तु भूतभविनः अतीतभविष्यन्तः क्षणाः ते धर्मिणः परिणामास्तितया धर्मेिपरिणामापेक्षया व्याख्येयाः: | तनैकेन क्षणेन कृत्स्नो लोक: परिणाममनुभवति । तत्क्षणेापारूढाः वर्तमानक्षणोपारूढाः खल्वमी सर्वे धर्माः सर्वपदार्थाः ॥
यदुक्तमतीतक्षणस्य नास्ति क्रम इति, तस्यैतत् प्रयोजनं, तत्क्रमक्रमप्रतिषेधः । क्षणक्रमक्रमे हि सति क्षणक्रमस्य वस्तुत्वं प्रसज्येत । वस्तुनो हि क्रम इति । ततश्च क्रमतत्क्षणयोः संयमादिति नोपकल्पेत । तस्मात् एतयोः क्षण[तत्]क्रमयोः संयमात् तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानम्। क्षणतत्क्रमाङ्किता एव हि सर्वे पदार्था इति तानशेषान् विवेच्य विजानाति ॥ ५२ ॥
1. -मान्विता
[ भाष्यम् ]
तस्य विषयविशेष उपक्षिप्यते --
[ सूत्रम् ]
जातिलक्षणदेशैरन्यताऽनवच्छेदात् । तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥
[ भाष्यम् ]
तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति । तुल्यदेशजातित्वे लक्षणमन्य१'त्वावच्छेदकरं, कालाक्षी गौः स्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः, इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्तते, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागानुपपत्तिः । असंदिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं, ततः प्रतिपत्तिर्विवेकजज्ञानादिति ॥
[ विवरणम् ]
तस्य विवेकजस्य ज्ञानस्य कीदृशं ज्ञेयमिति तस्य विषयविशषः उपक्षिप्यते-जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः । [तुल्ययोर्देशलक्षणसारूप्ये] जातिभेदः पदार्थानाम् अन्यतायाः अन्यत्वावच्छेदस्य हेतुः । यथा-गौरियं बडवेयमिति ॥ यत्र जातिभेदो नास्त्येकैव जातिः, तत्र तुल्यजातित्वे लक्षणं लिङ्गम् अन्यत्वावच्छेदकरम्-कालाक्षी गौः, स्वस्तिमती गौरिति ।
यत्र न जातिभेदो नापि लक्षणभेदस्तत्र देशभेदोऽन्यत्वावच्छेदहेतुः । यथा-द्वयोरामलकयोजातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः इदं पूर्वम् आमलकम् इदमुत्तरमिति ॥
यदा तु पूर्वमामलकम् अन्यव्यग्रस्य समाकुलितचित्तस्य ज्ञातुरुत्तरदेश उपावर्तते पूर्वदेशे चोत्तरं, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति तुल्ययोः प्रविभागानुपपत्तिः | असन्दिग्धेन तत्त्वज्ञानेन भवितव्यं, ज्ञेयस्य विद्यमानत्वादेकरूपस्य इत्यत इदमुक्तं ततः प्रातिपत्तिर्विवेकज्ञानादिति । क्षणतत्क्रमसंयमापादितविवेकजन्मनो ज्ञानात् प्रतिपत्तिरिति ॥
1. -त्वकरं
[ भाष्यम् ]
कथं ? पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशात् भिन्नः । ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने ।
अन्यदेशक्षणानुभवस्तयोरन्यत्वे हेतुरिति । एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरपरमाणोस्तद्दे१शापवृतावुत्तरस्य तद्देशानुभव*२भिन्नः ३*क्षणः ।। क्षणभेदात्तयोरीश्चरस्यत्भवतीति ॥
अपरे तु वर्णयन्ति--येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति । तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः ।। क्षणभेदस्तु
[ विवरणम् ]
तत् कथम्? पूर्वामलकसह(ल)क्षणो देशः पूर्वामलकसहचरो देशः उत्तरामलकसह(ल)क्षणात् उत्तरामलकसहचरात् देशात् भिन्नः । ते चामलके पूर्वोत्तर(ल)क्षणसहचरिते स्वदेश(ल)क्षणानुभवभिन्ने स्वदेशचिह्वभूते यः क्षणः तदनुभवभिन्ने स्वेदेश(ल)क्षणानुभवचिह्निते अन्यदेश(ल)क्षणानुभवस्तयोरन्यत्वे हेतुरिति ॥
अनेन दृष्टान्तेन परमाणोरतुल्यजातिलक्षणभेद(देश)स्य पूर्वपरमाणुदेशसह(ल)क्षणसाक्षात्करणात् पूर्वपरमाणुदेशेन सहभूतस्य (ल)क्षणस्य साक्षात्करणात् उत्तरपरमाणोस्तद्देशापवृतौ पूर्वदेशगतावपि उत्तरस्य तद्देशानुभवभिन्नः क्षणः ।। क्षणभेदात्तयोरीश्वरस्य योगिनोऽन्य(था)त्वप्रत्ययः भेदावच्छेदो भवति ॥
अत्रापरे वर्णयन्ति--ये अन्त्या विशेषाः परमाणुगता नित्याः, ते एव अन्यताप्रत्ययं कुर्वन्तीति किं तत्क्षणतत्क्रमसंयमेन । यथा घटादिगता विशेषा अन्यताप्रत्ययं कुर्वन्ति, तथा परमाणुगता ये विशेषाः त एव तद्भावप्रत्ययं स्वसद्भावप्रत्ययं च कुर्वीरन् । आश्रयभेदप्रत्ययमपि कुर्वन्ति ॥
अत्रोच्यते-देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः उक्त एव स्थूलेषु (न तु) ननु परमाणुषु प्रतिक्षणपरिणामित्वात् । अवस्थितेषु हि विशेषेष्वन्त्येषु स्यादन्यथाऽवधारणम् । न चानवरतपरिणामेषु घटते ।
1. -शानुपपत्ता- 2. -भवो 3. सहक्षणभेदा
[ भाष्यम् ]
योगिबुद्धिगम्य एवेति । अत उक्तं-मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥
[ सूत्रम् ]
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥
[ भाष्यम् ]
तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । सर्वविषयं, नास्य किंचिदविषयीभूतमित्यर्थः ॥
[ विवरणम् ]
यदा पूर्वः परमाणुरुत्तरपरमाणुरूपेण परिणमते, पूर्वपरमाणुरूपेण चोत्तरः, तत्रावस्थितान्त्यविशेषाभावाद्विवेकप्रतिपत्तिरनुपपन्ना । तत्रावश्यं
क्षणतत्क्रमसंयमजनितविवेकज्ञानादेव संप्रतिपत्तिः । अनित्याश्च परमाणव इति ह्युक्तम् । तस्मात् क्षणभेदस्तु योगिबुद्विगम्य एव ॥
तथा चानित्यत्वस्य परमाणूनामाचार्यान्तरमतप्रतिपादनद्वारेण प्रसिद्धिं दर्शयति--अत उक्तम्-मूर्तिव्यवधिजातिभेदाभावात् नास्ति मूल(जाति)- पृथक्त्वमेति वार्षगण्यः । यथा प्रतिक्षेत्रज्ञं प्रधानबुहुत्वं न्यायविरुद्धं मूर्तिव्यवधिजातिभेदाभावात् प्रधानाना पृथक्त्वम् एकपुरुषार्थदृश्यवत् अनुपपन्नम्, एवं परमाणूनामपि मूलत्वे पृथक्त्वं नोपकल्पते । ततश्च एकं मूलमिति प्राप्तम् । न परमाणुभेदो हि नित्यो युक्तः । परमाणूनां च मूर्तत्वात् रूपादिमत्त्वाच्च अनित्यत्वम् घटादिवदेवेति ॥ ५३ ॥
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् । काष्ठाप्राप्तं ज्ञानं देवर्षिगन्धर्वादीनाम्। १'तारकमिति। विवेकजमिदमुच्यते स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । नान्येनोपदेष्टुं शक्यं, नाप्युपदेशेन यथावत् ग्रहीतुं शक्यते । यस्मात् तत् सर्ववस्तुविषयम् । नास्य किंचिदविषयीभूतम् ।
1. अत्र आदर्शकोशे इत उपरि *दिव्यं रूपम्? इत्यादि वाक्यं
लिखितम् । तस्यानन्वयात्, 4. पुटेभ्यः पश्चात् लिखितं 'तारकमिति । विवेकजं” इत्यादि वाक्यं योजितम् ॥[ भाष्यम् ]
सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वंपर्यायैः सवेथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्वातीत्यर्थः ।
एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥
प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा ---
[ सूत्रम् ]
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥
इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः ॥
[ भाष्यम् ]
यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषान्यताप्रत्ययमात्रं' दग्धक्लेशबीजं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानी-
[ विवरणम् ]
सर्वथाविषयं च सर्वम् अतीतानागतप्रत्युत्पन्नं सर्वपर्यायैः सर्वविशेषणैः सर्वथा सर्वेण प्रकारेण जानाति । अक्रमम् एकक्षणोपारूढ़म् । एकस्मिन् क्षणे सर्वं सर्वथा गृह्णाति । नास्मदादिवत् क्रमेण ॥
तत् एतद्विवेकजं ज्ञानं परिपूर्णम्, अस्यैवांशो योगप्रदीपः । स एव ज्ञानांशो योगश्व प्रदीपश्च । योगस्य वा प्रदीपो योगप्रदीपः । मधुमतीं भूमिमुपादाय आरभ्य यावदस्य विवेकजस्य ज्ञानस्य परिसमाप्तिः तावत् । विवेकजज्ञानपरिसमाप्तिपर्यन्तानि ज्ञानानि मनोजवत्त्वादियुक्तानि अस्यैवांशः ||५४||
योगजे ज्ञानैश्चर्ये अतिक्रान्ते परिसमापिते च । नातः परं योगज्ञानमैश्वर्यं च । तद(दु)पक्रमणाच्च प्राप्तज्ञानैश्वर्यस्यैव तद्वैराग्यानन्तरं कैवल्यमिति प्राप्तमत आह-प्राप्तविवेकज्ञानस्य [अप्राप्तविवेकज्ञानस्य वा] बाह्यदर्शननिवृतौ कैवल्यम् । कथमिति ? सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ।
यदा निर्धूतरजस्तमोमलं पुरूषान्यताप्रत्ययमात्रम् अन्यतामात्रप्रत्ययवैभवयुक्तं दग्धक्लेशबीजं विनिवृत्ताविद्याप्रत्ययवासनारूपं बुद्धिसत्वं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नम् ॥
1. -त्राधिकारं
[ भाष्यम् ]
श्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्वशुद्धिद्वारेणेतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थतस्तु ज्ञानाददर्शनं निवर्तते, तस्मिन्निवृते न सन्त्युत्तरे क्लेशाः । क्लेशाभावात् कर्मविपाकाभावः । चरिताधिकारश्चितस्यामवस्थायां गुणा न पुरुषस्य पुनर्द्दश्यत्वेनातिष्ठन्ते । तत् पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवलीभवति ।। ५५ ॥
इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते
॥ विभूतिपादस्तृतीयः ॥
[ विवरणम् ]
यद्यपि त्रिगुणं पुरुषविलक्षणं, पुरुषश्च तद्विलक्षणः, तथाऽपि पुरुषान्यताप्रत्ययपरिणामित्वात् शुद्धिसारूप्यमिवापन्नम् इत्युच्यते । एतस्यामवस्यायां कैवल्यं भवतीश्चरस्यानीश्चरस्य वा, विवेकज्ञानभागिनः इतरस्य वा । यस्मादुभयोरविद्यानिवृत्तिरेव कारणं तस्मात्। नहि दग्धक्लेशबीजस्य ज्ञाने काचिदपेक्षा। यतः सम्यग्दर्शी सर्वं त्रिगुणमिति मन्यते, त्रिगुणश्च प्रत्ययो हेय इति, मधुमत्यादिज्ञाने तस्य न कदाचिदप्यपेक्षा ॥
यत्तु योगज्ञानमैश्वर्यं चोक्तं, तत् सम्यग्दर्शनार्थनुक्रान्तसत्त्वशुद्धिपदमार्गेण प्रक्रान्तमानुषङ्गिकम् । परमार्थतस्तु ज्ञानाददर्शनं विनिवर्तते ॥ तस्मिन् विनिवृत्ते न सन्त्युक्तक्लेशाः अस्मितादयः । तेषामविद्याक्षेत्रत्वात् । क्लेशाभावाच्च कर्मविपाकाभावः "क्लेशमूलः1 कर्माशयः" "सति मूले2 तद्विपाकः" इति हि प्रतिपादितम् ॥
तस्मात् सम्यग्दर्शनार्थमेवेदं शास्त्रम्, न ज्ञानैश्वर्यविभूतिप्रयोजनम् । चरिताधिकाराश्चैतस्यामवस्थायां गुणाः | न पुरुषस्य पुनर्द्दश्यत्वेनातिष्ठन्ते । तत् पुरुषस्य कैवल्यम् | तदा पुरुषः स्वरूपमात्रज्योतिः इति अमलः केवलीभवति इति । इतिशब्दः समाप्त्यर्थः ॥ ५५ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य
श्रीशङ्करभगवतः कृतौ
पातञ्जलयोगसूत्रभाष्यविवरणे
॥ विभूतिपादस्तृतीयः ॥
1. यो. सू. 2-12 2. યો, સू. 2-13
- ↑ -णामश्च नि
- ↑ -ध्वानं प्रथमं हित्वा
- ↑ -स्य तृ.
- ↑ एवं पुनः
- ↑ तत्र नि-
- ↑ तत्र ध-
- ↑ -मैः शून्यं न क्षणमपि गु-
- ↑ -लं च गु-
- ↑ न तु द्र-
- ↑ धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् । पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनाव परिवर्तेत यद्यन्वयी स्यात् इति ।
- ↑ एकान्तताऽनभ्युपगमात् ।
- ↑ संसर्गाच्चास्य
- ↑ सौक्ष्म्याच्चानुपलब्धि:
- ↑ भ- गी- 2. 16.
- ↑ स्यां व्यक्तौ
- ↑ पञ्चशिखाचार्येण
- ↑ -दा तत्र तस्य