लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७२

विकिस्रोतः तः
← अध्यायः २७१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७२
[[लेखकः :|]]
अध्यायः २७३ →

श्रीनारायण उवाच-
वार्षिकसप्तमीनां वै व्रतानि कथयामि ते ।
यानि कृत्वा व्रती लक्ष्मि! भुक्तिं मुक्तिमवाप्नुयात् ।। १ ।।
चैत्रस्य शुक्लसप्तम्यां तीर्थे स्नानं समाचरेत् ।
स्थण्डिलं गोमयालिप्तं गौरमृत्तिकयाऽन्वितम् ।। २ ।।
कृत्वा तत्राऽष्टदलकं कमलं कर्णिकोपरि ।
विभावसुं स्थापयित्वा पूर्वपत्रे रविं हरिम् ।। ३ ।।
आग्नेये चानलं शुक्रं दक्षिणे मंगलं यमम् ।
नैर्ऋत्ये निर्ऋतं राहुं केतुं विन्यस्य वै ततः ।। ४ ।।
प्रतीच्यां शनिवरुणौ वायव्येऽनिलचन्द्रकौ ।
उदीच्यां बुधकुबेरौ ऐशान्यां च गुरुं हरम् ।। ५ ।।
स्थापयित्वाऽर्चयेत् सर्वान् गन्धमाल्यानुलेपनैः ।
धूपदीपसुनैवेद्यताम्बूलफलचर्वणैः ।। ६ ।।
अष्टोत्तरशतं होमं घृतेन कारयेद् व्रती ।
अष्टाष्ट चाहुतीर्दद्यात्प्रत्येकं नाममन्त्रतः ।। ७ ।।
ततः पूर्णाहुतिं कुर्याद् दद्याच्च दक्षिणां शुभाम् ।
एवं वै दिक्प्रपालानां कुर्यात्तु पूजनं व्रतम् ।। ८ ।।
व्रतं कृत्वा त्वेकभुक्तं सर्वं सौख्यमवाप्नुयात् ।
देहान्ते मण्डलं भानोर्भित्त्वा याति परं पदम् ।। ९ ।।
वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा ।
पीता त्यक्ता पुनश्चैव गंगाव्रतमिदं मतम् ।। 1.272.१० ।।
गंगां तु जाह्नवी स्नात्वा पूजयेदुपचारकैः ।
घटसाहस्रदानं वै कर्तव्यं भूतिमिच्छता । । ११ ।।
सप्तकुलं नयेत्स्वर्गं गंगाव्रतमिदं शुभम् ।
अत्र तिथौ तथा बोध्यं कमलव्रतमित्यपि । । १२ ।।
तिलमात्रसुवर्णस्य कर्तव्यं कमलं शुभम् ।
वस्त्रयुग्मावृतं कृत्वा गन्धधूपादिनाऽर्चयेत् । । १३ ।।
सायं सूर्याय नत्वाऽथ पद्मं द्विजाय चार्पयेत् ।
उदकुंभं च तत्पद्मं कपिलां गां द्विजेऽर्पयेत् । । १ ४।।
उपवासं प्रकुर्याच्च पारणां तु परेऽहनि ।
ब्राह्मणान् भोजयेद्भक्त्या साधून् साध्वीः सतीस्तथा । । १५ । ।
एवं व्रतं प्रकर्तव्यं दानं देयं गवां तथा ।
भुक्तिं मुक्तिं व्रजेन्नारी व्रतकर्त्री धनं लसेत् । । १६ । ।
अत्रैव तिथौ कार्यं निम्बव्रतं शुभावहम् ।
सूर्यपूजा प्रकर्तव्या निम्बपत्रैर्विशेषतः ।। १ ७।।
निम्बपत्रं तथाऽश्नीयाद् भूशायी स्याद्विनाऽशनम् ।
परेऽह्नि ब्राह्मणान् भोजयित्वा भुञ्जीत बन्धुभिः । । १८ ।।
शर्करासप्तमी त्वेषा भूमौ सर्वरसप्रदा ।
कर्तव्यं शर्करायास्तु व्रतं रसार्थिभिर्यतः ।। १९ । ।
अमृतं पिबतो हस्तात्सूर्यस्याऽमृतबिन्दवः ।
निपेतुर्भुवि चोत्पन्ना शालिमुद्गयवेक्षवः । । 1.272.२० । ।
शर्करा चेक्षुतो जाता रवेरिष्टा सदा शुभा ।
हव्ये कव्ये पवित्रा सा दातव्या देवतुष्टये ।। २१ । ।
अत्र वै शर्करादानं शर्कराभोजनं तथा ।
कर्तव्यं व्रतिना सम्यक् पुत्रसन्ततिवर्धनम् । । २२ । ।
सर्वदुःखोपशमनं वाजिमेधफलप्रदम् ।
दानं चान्यत्प्रकर्तव्यं भोजनीयाश्च साधवः ।। २३ ।।
ज्येष्ठे वै शुक्लसप्तम्यां सूर्यं इन्द्रोऽभवत् स्वयम् ।
सोपवासं व्रतं कार्यं पूज्य इन्द्रो विधानत ।। २४।।।
दानमिन्द्रस्य कर्तव्यं सौवर्णस्य द्विजातिके ।
साधून् बालान् भोजयित्वा ततौ भुञ्जीत वै व्रती । । १५ ।।
अषाढशुक्लसप्तम्यां विवस्वान्नामभास्करः ।
राज्याभिषेक सम्प्राप्तः पूजा तस्य मता व्रते ।। २६ ।।
विवस्वन्तं तु सौवर्ण प्रपूज्य कुसुमादिभिः ।
लभते रर्हसायुज्य दिव्यं सुख च शाश्वतम् । । २७ । ।
श्रावणे शुक्लसप्तम्याम् अर्व्यगाख्यं व्रतं स्मृतम् ।
कार्पासं वस्त्रभेवात्र दाने देयं विशेषतः ।। २८ ।।
हस्तर्क्षसहिता चेत्स्यात् सप्तमी पुण्यदायिनी ।
अस्यां दानं जपो होमः सर्वं त्वक्षयतां व्रजेत् ।। २९ ।।
शीतलासप्तमी चेयं इज्या वै पार्वती सती ।
शीतलायै प्रदातव्या शाटी पिष्टादिभोजनम् ।। 1.272.३० ।।
आरोग्यं तेन व्रतिनो भवेद्वै सर्वदा कुले ।
उपवासः प्रकर्तव्यो देयं दानं फलादिकम् ।। ३१ ।।
भाद्रे तु शुक्लसप्तम्याम् अमुक्ताभरणं व्रतम् ।
चन्द्रो धृतो ललाटे वै शंभुनाऽऽभूषणात्मकः ।। ३२।।
सोमस्य च महेशस्य पूजनं षोडशादिभिः ।
प्रकुर्याद् विसृजेन्नत्वा सर्वकामसमृद्धये ।। ३२ ।।
फलसप्तमी चैवेयं फलसप्तात्मिकी मता ।
नालिकेरं च वृन्ताकं नारंगं बीजपूरकम् ।। ३४।।
कूष्माण्डं ब्रुहतीपूगं फलान्येतानि चार्पयेत् ।
सप्ततन्तुकृतं चात्र सप्तग्रन्थिसुदोरकम् ।। ३५ ।।
समर्प्य शंकरायाथ बध्नीयाद् वामहस्तके ।
नारी वामे नरो दक्षे हस्ते वर्षं सुरक्षयेत् ।। ३६ ।।
व्रतांते बालकान् सप्त भोजयित्वा ततो व्रती ।
स्वयं भुञ्जीत निजयुग् व्रतसम्पूर्तिहेतवे ।। ३ ७।।
फलानि तु द्विजेभ्यो वै दद्यात् सन्तुष्टिहेतवे ।
एवं. सप्त तु वर्षाणि व्रतं कृत्वा यथाविधि ।। ३८।।
सायुज्यं लभते लक्ष्मि! महादेवस्य तद्वती ।
पूजनं तद्व्रते कार्ये यथाविधि यथाधनम् ।। ३९ ।।
आश्विने शुक्लपक्षे तु पञ्चगव्यव्रतं स्मृतम् ।
शुभसप्तमी संप्रोक्ता शुद्धिदा पुण्यदा तथा ।।1.272.४० ।।
स्नात्वा देवं हरिं सूर्य पूजयित्वा व्रती ततः ।
कपिलां गां पूजयित्वा प्रार्थयेत्तां शृणु प्रिये ।। ४१ ।।
ददेऽहं त्वां सुकल्याणि! प्रीयतामर्यमा स्वयम् ।
पालय त्वं जगत्कृत्स्नं धर्मपुण्यप्रभावतः ।।४२।।
एवमुच्चार्य नत्वा च द्रवा द्विजाय विसृजेत् ।
मतेऽऽभभीयात्पञ्चगव्यं परेऽहि पारणा चरेत् ।। ४३ ।।
द्विजोत्तमान् भोजयित्वा गृह्णीयाच्छिष्टकं व्रती ।
स ३ इरिप्रसादेन भुक्तिं मुक्तिमवाप्नुयात् ।।४४।।
अथ कार्तिकशुक्लायां शाकाख्यसप्तमीव्रतम् ।
शाकाहारो व्रती तिष्ठेत् सप्तशाकानि साधवे ।।४ ५ ।।
द्विजाय सप्तकायाथ दद्यादन्नं च दक्षिणाम् ।
द्वितीयेऽह्नि पारणां च कुर्यात्पापहरं व्रतम् ।।४६ ।।
मार्गस्य शुक्लसप्तम्यां मित्रव्रतमुदाहृतम् ।
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः ।।४७।।
तस्य व्रतं सोपवासं सोत्सवं कार्यमुत्तमम् ।
पूजनं विधिना कार्य मधुरं भोजयेत् सतः ।। ४८ ।।
सुवर्णदक्षिणां दत्वा विसृजेच्च ततो व्रती ।
पारणां तु परे प्रातः कुर्यान्नत्वा रविं पुनः ।।४९।।
कृत्वैवं व्रतमेवात्र सूर्यलोकं प्रयाति वै ।
यः कोपि व्रतकर्ताऽत्र सत्कुले जन्मवान् भवेत् ।।1.272.५० ।।
पौषशुक्लस्य सप्तम्यां व्रतं चाभयनामकम् ।
धरास्थितो व्रती सूर्यं त्रिकालं पूजयेत्तथा ।।५ १ ।।
सोपवासो भवेच्चान्यान् ब्राह्मणान् सप्त भोजयेत् ।
क्षीरान्नं मोदकान् प्रस्थमितान् दद्याद् द्विजातये ।।५२।।
दक्षिणां भूयसीं पृथ्वीं सुवर्णं वाऽर्पयेद् व्रती ।
विप्राश्चाशिष एवाऽस्मै दद्युरभयदास्तथा ।।५३ ।।
अभयाख्यं व्रतं त्वेतत् सर्वस्याऽभयदं स्मृतम् ।
मार्तण्डाख्यं व्रतं चैतन्मार्तण्डं पूजयेद् व्रती ।।५४।।
माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिनामकम् ।
आदित्यपूजनं तत्र कर्तव्यं समुपोषणम् ।।५५।।
रात्रौ जागरणं कार्यं भोज्या: सन्तः प्रगे ततः ।
पायसान्नैस्तोषणीया दक्षिणाभिः फलादिभिः ।।५६ ।।
विसृज्य च ततोऽद्यात् स व्रती चेयादभीप्सितम् ।
एतत्सर्वाप्तिदं नाम व्रतं वै सार्वकामिकम् ।।५७।।
माघशुक्लस्य सप्तम्यामचलाख्यं व्रतं मतम् ।
उपोषणं विधेयं यत्पुण्यं स्यादचलं ध्रुवम् ।।५८ ।।
त्रिलोचनः पूजनीयस्त्रिलोचनान्वितो हरः ।
त्रिलोचनाजयन्तीयं सर्वपापहरा कृता ।।५९।।
रथीयसप्तमीयं वै चक्रवर्तित्वदायिनी ।
हस्तियुक्तरथस्थं श्रीसूर्यं सौवर्णमर्चयेत् ।।1.272.६० ।।
भास्करीसप्तमी चेयं प्रातश्चात्र व्रती स्वयम् ।
अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै ।।६ १ ।।
निधाय मस्तके स्नायात् सप्तजन्माद्यशान्तये ।
पुत्रप्रदव्रतं त्वेतत्कर्तव्यं पुत्रमिच्छता ।। ६२।।
तस्य सूर्यो भवेत्पुत्रः स्वांशेन भृशतोषितः ।
परे दिने समुपोष्य प्रातर्होमं समाचरेत् ।।६ ३ ।।
दध्योदनं पयश्चापि भोजयेत्पूजयेत् सतः ।
एवं कृत्वा व्रतं पुत्रं प्राप्नुयाद्वै चिरायुषम् ।। ६४।।
फाल्गुनशुक्लसप्तम्यां व्रतमर्कपुटं चरेत् ।
अर्कपत्रैर्यजेत् सूर्यमर्कपत्राणि भक्षयेत्। ।।६५।।
अर्कनाम जपेच्छश्वदर्कव्रतमिदं मतम् ।
धनपुत्रसुतास्मृद्धिपतिपत्नीप्रदं शुभम् ।।६६।।
धर्मार्थकामदं सर्वपापनाशकमित्यतः ।
कार्यं यज्ञव्रतं त्वेतत्सर्वसौख्यसुलब्धये ।।६७।।
भास्कराराधनं सर्वकामनासम्प्रदं भवेत् ।
तस्मात्सर्वासु सप्तमीतिथिष्वर्कं प्रपूजयेत् ।। ६८ । ।
मण्डलं सर्वतोभद्रं कलशारोपणं तथा ।
पञ्चामृतैः स्नपन चावाहनाद्युपचारकम् । । ६९ ।।
नैवेद्यं तण्डुलपुष्पांजलिविसर्जनान्तकम् ।
सर्वं यथाविधं कुर्याद् व्रते वै व्रतकृत् सदा । । 1.272.७० । ।
उद्यापनं महत्कुर्याद् भोजयेद् बालकान्सतः ।
दानं होमो जपो भक्तिः श्रीहरेश्चेति वै ध्रुवम् । ।७ १ ।।
कर्तव्यं व्रतिना येन हरेस्तोषो भवेद् बहुः ।
भुक्तिर्मुक्तिर्भवेच्चापि व्रतपूर्णफलं भवेत् । । ७२ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकसप्तमीव्रतेषु दिक्पालव्रतजाह्नवीव्रतनिम्बसूर्यव्रतेन्द्र-
सूर्यव्रतविवस्वदभिषेकव्रताऽव्यंगशीतलासप्तमीचन्द्राभरणव्रतशुभफलसप्तमीशाकव्रतमित्रार्कजयन्तीमार्तंडाभयव्रतसार्वकामिकाप्तिव्रतत्रिलोचना
जयन्तीभास्करीसप्तमीपुत्रप्रदाऽर्कपुटव्रतादिनिदर्शननामा द्वासप्तत्यधिकद्विशततमोऽध्यायः । । २७२ । ।