सामग्री पर जाएँ

शिवगीता/तृतीयोऽध्यायः

विकिस्रोतः तः
               




   

 

तृतीयोऽध्यायः ३
अगस्त्य उवाच ।


न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः ॥
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १ ॥
मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २ ॥ ,
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
किंच चामरधारिण्यो यस्य सन्ति सुराङ्गनाः ॥ ३ ॥
भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ॥
निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥ ४ ॥


श्रीरामं निमित्तीकृत्य परमपुरुषार्थसाधन उपदिष्टेऽपि तद्विमुखो बहिर्मुखो लोको नान्तर्मुखतां लभत इति लोकस्थितिरौत्सर्गिक्येवमेवेत्याशयेनागस्त्य उवाच-न गृह्णातीति । कामक्रोधादिभिर्बहिर्मुखो गुरूपदिष्टं वचः पथ्यमपि परिणामेऽमृतमपि । अतएव हितमिष्टकारि न गृह्णाति । दैववशाद्गृहीतमपि तस्य तस्मा इत्यर्थः । न रोचते । दृष्टान्तमाह-मुमूर्षोरिति ॥ १ ॥ ननु ज्ञाने महाप्रयासोऽस्तीति मां प्रतिभाति ।। "त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः स मोक्षकैः" इत्यमरः । त्रिवर्गस्तु संपादनीय इति रावणं हत्वा सीतां प्राप्य त्रिवर्ग एवानुष्ठेय इतिचेत्तत्र ततोऽप्यधिकः प्रयासोऽस्तीति प्रतिपादयन्नाह-मध्येसमुद्रमिति । "पारेमध्ये षष्ठ्या वा” इत्यव्ययीभावः । दैत्येन रक्षसा मायिना कपटिना ॥२॥ तस्य प्रतापमाह-बध्यन्त इति । ताड्यन्ते । किंचेति स्त्रीसौख्यमपि तादृशमिति भावः ॥ ३ ॥ निष्कण्टकं निःसपत्नम् । अभेदविवक्षया शंभुर्ब्रह्मा शिवश्च तयोर्वरेण दर्पितो गर्वितः । तस्य रावणस्य त्वत्कर्तृकस्तत्कर्मको जय

 

इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः ॥
तस्याग्रे सङ्गरे देवा बहुवारं पलायिताः ॥ ५ ॥
कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ।
अन्यो दिव्यास्त्रसंयुक्तश्चिरंजीवी विभीषणः ॥ ६ ॥
दुर्गं यस्यास्ति लङ्काख्यं दुर्जयं देवदानवैः ।
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७ ॥
एकाकिना त्वया जेयः स कथं नृपनन्दन ।
आकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा ॥ ८ ॥
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ९ ॥
  श्रीराम उवाच ।
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥१०॥


इत्यर्थः ॥ ४ ॥ इन्द्रजिदिति । ईशवरेणोद्धतो गर्वितः । पलायिताः पलायनं कृतवन्त इत्यर्थ: ॥ ५ ॥ कुम्भकर्णेति। सुरसूदनो देवानां क्षोभकः । अन्यः कुम्भकर्णादपरो विभीषणः। चिरंजीवीति भाविवरदानेनोक्तम् ॥ ६ ॥ दुर्गमिति। दुर्गं जले विषमस्थानम्। दुर्जयं जेतुमशक्यम्। चत्वारि अङ्गानि हस्त्यश्वरथपदातिरूपाणि यस्य तत्तथा बलं सैन्यं कोटिसंख्यया उपलक्षितं सद्वर्तते । कोट्य इत्येव गणनीयं नतु कोटिमात्रेण परिच्छेद्यमित्यर्थः ॥७॥ एकाकिनेति । असहायेन स प्रतिपक्षो रावणः ससहायः कथं केन प्रकारेण जेयः त्वदुद्योगस्त्वकिंचित्कर इत्याह-आकाङ्क्षत इति । यथा बालश्चन्द्रमसं करे धर्तुमाकाङ्कते तथा त्वं काममोहेन । कामप्रयुक्ताविवेकेनेत्यर्थः ॥८॥ तस्य रावणस्य ॥९॥ नाहं ज्ञानाधिकारी वैराग्याभावादिति लोकरीतिं विडम्बयन् श्रीराम उवाच । अन्येनान्यस्य बलाद्धार्यापहृता चेत्तं दस्युं हत्वा तस्य भार्या विमोक्षणीया किमुत स्वस्य । यतः क्षत्रियोऽहं क्षतात्रायत इति क्षत्रियः । यदि तं रावणमाशु शीघ्रं

 
अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ।
कामक्रोधादयः सर्वे दह्यते तैस्तनुर्मम ॥ ११ ॥
अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ॥ १२ ॥
हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ।।
यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः ॥ १३ ॥
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥१४॥
  अगस्त्य उवाच ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रयच्छति ॥ १५ ॥


न हन्मि तदा मम जीवने किं फलमस्ति । स वा हन्तव्यो मया वा मर्तव्यमिति भावः ॥ १० ॥ अत इति । ते तत्त्वबोधेन । त्वया क्रियमाणेनोपदेशेनेत्यर्थः । मे किमपि प्रयोजनं नास्ति । कामक्रोधादयो ये सर्वे रजस्तमोविकारास्तैः । तनुर्देहः ॥ ११ ॥ किंच ॥ अहंकार इति । क्षत्रियोऽहमित्यादि गर्वोऽपि मे मम जीवनं प्राणधारणं हन्तुमुद्यतस्तस्मादलं श्रवणादिनेति भावः ॥ १२ ॥ ननु विषयदोषदर्शनेन विरक्तः सन् श्रवणादि कुर्यात् । विरक्तस्यैव तत्त्वबुभुत्सायामधिकार इति चेन्नेत्याह-हृतायामिति । निजकान्तायां शत्रुणा हृतायां सत्यां वा शत्रुणा अवमतस्य तिरस्कृतस्य यस्य तत्त्वबुभुत्सा तत्त्वं बोद्धुमिच्छा स्यात्स लोके पुरुषाधमः । देहादिष्वनित्याशुचिदुःखरूपत्वादिबुद्ध्या वैराग्यवत एव मोक्षशास्त्रेऽधिकारः । अन्ये तु प्रतिष्ठार्थं तच्छास्त्रं पठन्तीति रामोक्त्या सूचितम् ॥ १३ ॥ तस्मादिति । अम्बुधिं लङ्घयित्वा रणे तस्य रावणस्य वधे उपायं त्वत्त्तः त्वां विनेत्यर्थः ॥ १४ ॥ यस्य तत्त्वज्ञानमुपदेष्टव्यमेवेति निश्चयस्तेन गुरुणापि तच्छन्दानुरोधेन वर्तितव्यमिति लौकिकीं रीति

 
देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा ।
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥ १६ ॥
अतस्त्वां दीक्षयिष्यामि विरजागममाश्रितः ।
तेन मार्गेण मर्त्यत्वं हित्वा तेजोमयो भव ॥ १७ ॥
येन हत्वा रणे शत्रून्सर्वान्कामानवाप्स्यति ।
भुक्त्वा भूमण्डलं चान्ते शिवसायुज्यमाप्स्यसि ॥ १८ ॥
   सूत उवाच ।
अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ।
उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना ॥ १९ ॥
   श्रीराम उवाच ।
कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ॥
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ।
अतस्त्वं विरजादीक्षां ब्रूहि मे मुनिसत्तम ॥ २० ॥


मनुसरन्नगस्त्य उवाच-एवमिति । एवं चेच्छत्रुवध एवावश्यं कर्तव्यश्चेत्तर्हि अव्ययमविनाशं पार्वतीपतिं शरणं याहि । स प्रसन्नश्चेत्तर्हि ॥१५॥ त्वयैव प्रसादः क्रियतामिति चेत्तत्राह-देवैरिति । ते त्वया वध्यः हन्तुं शक्यः कथं केन प्रकारेण ॥१६॥ अतः इति । विरजागमं विरजादीक्षाप्रतिपादकं शास्त्रमाश्रितः सन् दीक्षयिष्यामि । दीक्षावन्तं करिष्यामीत्यर्थः । तेन मार्गेणोपायेन मर्त्यत्वमितरसाधारण्यं हित्वा । तेजोमयः शुद्धदेहो भव । आशिषि लोट् ॥ १७ ॥ येनेति । येन दीक्षासंस्कारेण शत्रून्हत्वा सर्वान्कामानवाप्स्यसि । किंच भूमण्डलं भुक्त्वाऽनुभूयान्ते शिवसायुज्यमपरमुक्त्तिं प्राप्स्यसि । उपासनाभिर्मुक्तयस्तु सारूप्यादय एव भवन्ति ज्ञानेन कैवल्यरूपा मुक्त्तिरिति भावः ॥ १८ ॥ सूत उवाच-अथेति । अगस्त्यवाक्यश्रवणानन्तरम् ॥ १९ ॥ कृतार्थ इति । आगतः सिद्धः । तस्य मा
 

अगस्त्य उवाच ।


शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥ २१ ॥
यं वाममाहुर्यं रुद्रं शाश्वतं परमेश्वरम् ।
परात्परं परं चाहुः परात्परतरं शिवम् ।
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥ २२ ॥
ध्यात्वाग्निनावसथ्याग्निं विशोध्य च पृथक्पृथक् ।
पञ्चभूतानि संयम्य दग्ध्वा गुणविधिक्रमात् ॥ २३ ॥


हात्म्यमाह-पीताम्बुधिरिति । चुलकितसिन्धुः । तवानुग्रहे सति सिन्धुतरणादिकं सर्वं मदिष्टं शेत्स्यतीति भावः । अत इति । यतः शिवप्रसादहेतुर्दीक्षा अतः कारणादित्यर्थः ॥ २० ॥ अगस्त्य उचाच-शुक्लपक्ष इति । यस्मिन्कस्मिन्वा मासे शुक्लपक्षे चतुर्दश्याद्युक्त्ततिथिषु आर्द्रायुक्तसोमवारे वा दीक्षां समारभेत् । परस्मैपदमार्षम् ॥२१॥ यमिति । यं देवमित्थमाहुस्तं ध्यात्वा व्रतं चरेदिति वक्ष्यमाणेनान्वयः । वामं सुन्दरं श्रेष्ठं वा । रुद्रं रुदन्तीति रुदः संसारिणस्तान् राति कृपयानुगृह्णातीति रुद्रस्तं परात्परं जगन्नियन्तारम् । परात्परतरं ब्रह्मादिवन्द्यम् । ब्रह्मविष्ण्वादिवाच्यानां सकललीलाविग्रहाणां मूलभूतमित्यर्थः । ‘‘इन्द्रो मायाभिः पुरुरूप ईयते” इत्यादिश्रुतेः । अतएव सदाशिवं पूर्णानन्दात्मना व्यवस्थितम् ॥ २२ ॥ ध्यात्वेति । एवंविधं शिवं ध्यात्वेति पूर्वागमनेनोक्तं भवति । भूतशुद्धिप्रकारमाह-ध्यात्वेत्यादिना । अग्निनाग्निबीजेनेत्यर्थः । आवसथ्याग्निं ध्यात्वा पञ्चभूतानि स्वदेहारम्भकाणि पृथक्पृथक् वायुबीजेन विशोध्य विशोषयित्वा तानि पञ्चभूतानि संयम्यावसथ्याग्निना गुणविधिक्रमाच्छब्दादिगुणपूर्वकं तेन क्रमेणेत्यर्थः । दुग्ध्वा ध्यात्वा स्वस्वगुणपूर्वकं तानि भूतानि दग्धानीति भावयित्वेत्यर्थः ॥ २३ ॥

 
मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम् ।
एकमात्रममात्रं च द्वादशान्तव्यवस्थितम् ॥ २४ ॥
स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥ २५॥
इदं व्रतं पाशुपतं कथयिष्ये समासतः ।
प्रातरेव तु संकल्प्य निधायाग्निं स्वशाखया ॥ २६ ॥
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥ २७ ॥
जुहुयाद्विरजोमन्त्रैः प्राणापानादिभिस्ततः ॥
अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक् ॥ २८ ॥


तमेव क्रमं स्फुटमाह-मात्रा इति । रूपरसगन्धस्पर्शशब्दतन्मात्रा इत्यर्थः । अयं भावः । पृथिवी पञ्चमात्रा । आपश्चतुर्मात्राः । तेजस्त्रिमात्रम् । वायुर्द्विमात्रः। आकाश एकमात्र इति । तथाच पूर्वपूर्वस्योत्तरोत्तरं प्रत्युपादानतया तदीयानां गुणानामप्युत्तरोत्तरमन्वयादिति भावः । अमात्रमिति । अहंकारमहत्तत्त्वमायानामेकतत्वेन ग्रहणं तच्चामात्रम् । अव्यक्तगुणभेदत्वाद्रूपादितन्मात्ररहितमित्यर्थः । तत्कीदृशम् । द्वादशान्तव्यवस्थितं पञ्चतन्मात्ररूपाः शब्दादयः पञ्चमहाभूतानि अहंकारमहत्तत्त्वमायाख्यमेकं एवमेकादश तत्त्वानि । एषामाधारः परमात्मा द्वादशः । स एवान्तो लयावधिरिति द्वादशान्तस्तस्मिन् व्यवस्थितं प्रविलापेनावस्थितं ध्यात्वेत्यर्थः ॥ २४ ॥ स्थित्यां स्थाप्येति । तदनन्तरममृतबीजेन तद्ध्यानपूर्वकं पुनः सर्वलयाधाराद्ब्रह्मणः सृष्टिक्रमेण पञ्चीकरणपूर्वकं पूर्ववद्देहस्थित्यां तानि तत्त्वान्यवस्थाप्य अमृतो भूत्वा । दिव्यदेहो भूत्वेत्यर्थः । पाशुपतं व्रतं चरेदिति भूतशुद्धिप्रकार उदाहृतः ॥२५॥ इदं व्रतमिति । समासतः संक्षेपेण संकल्प्य संकल्पं कृत्वा स्वशाखया स्वशाखोक्तविधिनाग्निं प्रतिष्ठाप्येत्यर्थः ॥ २६ ॥ उपोषित इति । स्पष्टम् ॥ २७ ॥ जुहुयादिति । त

आत्मन्यग्निं समारोप्य याते अग्नेति मन्त्रतः ॥
भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९ ॥
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥
पाषैर्विमुच्यते नित्यं मुच्यते न च संशयः ॥ ३० ॥
अग्निवीर्यं यतो भस्म वीर्यवान्भस्मसंयुतः ॥
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥ ३१ ॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्।
एवं कुरु महाराज शिवनामसहस्रकम् ॥ ३२ ॥
इदं तु संप्रदास्यामि तेन सर्वमवाप्स्यसि ॥ ३३ ॥


तस्तदनन्तरं एकाग्रः स्वस्थः सन् समिदाज्यचरूनिति द्रव्यत्रयं पृथक्पृथगनुवाकान्तं अनुवाकसमाप्तिपर्यन्तं जुहुयात्। ‘प्राणापानव्यानोदानसमाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँस्स्वाहा" ' इत्यादयो विरजामन्त्रा अनुसंधेयाः ॥ २८ ॥ आत्मनीति । ‘या ते अग्ने यज्ञिया तनूः” इत्यादिमन्त्रेणाग्निमात्मनि समारोप्य । ततो हुतस्याग्नेर्भस्मादाय गृहीत्वा "अग्निरिति भस्म” इत्यादिमन्त्रैर्विमृज्य अभिमन्त्र्य तेन भस्मनाङ्गानि ललाटादीनि संस्पृशेत् । तेषु भस्मधारयेदित्यर्थः । अग्न इति वक्तव्ये अग्नेतीति संधिरार्षः । "अग्निरित्यादिभिर्मन्त्रैः शुद्धं भस्माभिमन्त्रितम् । शिवमन्त्रेण वा धार्यं गायत्र्या प्रणवेन वा ” एतञ्च भस्मधारणं सर्वकर्माङ्गम् ।। "न तद्ध्यानं न तद्दानं न तज्ज्ञानं जपो न सः । त्रिपुण्ड्रेण विना येन विप्रेण यदनुष्ठितम्” इति । विस्तरस्त्वाकरे द्रष्टव्यः ॥ २९ ॥ भस्मेति । छन्नो लिप्ताङ्ग आदौ पापैर्विमुच्यते ततो ज्ञानेन संसारादपि मुच्यते । न संशय इति महापापेभ्यः कथं प्रमुच्यत इति संशयो न कार्यः । भस्मसामर्थ्यं वाचामगोचरमिति भावः ॥ ३० ॥ ३१ ॥ एवं कुर्विति । एवं प्रागुक्तरीत्या भस्मधारणं कुर्वित्यर्थः ॥ ३२ ॥ इदमिति । इदं बु

   सूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥
वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् ॥ ३४ ॥
उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ।
ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् ।
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाप्स्यसि प्रियाम् ॥ ३५॥
तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ।
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥ ३६ ॥
तदलाभे दानवानां जयस्तव सुदुर्लभः ॥
तस्माल्लब्धुं तदेवास्त्रं शरणं याहि शंकरम् ॥ ३७ ॥


इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
अगस्तिराघवसंवादे विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥




द्धिस्थं सर्वं सर्वार्थप्रयोजनम् ॥ ३३ ॥ सूत उवाच-इत्युक्त्वेति । वेदसार इत्याख्या नामास्येति ॥ ३४ ॥ उक्तं चेति । तेनागस्त्येन उक्तं च। किमुक्तं तदेवाह। हे राम, दिवानिशं इदं जप। तदपि न कस्मिंश्चिदहोरात्रे किंतु सर्वेष्वित्याह नित्यमिति । ततः सहस्रनामजपात्पाशुपतसंज्ञकमस्त्रं तेनास्त्रेण रावणादीन्हत्वा प्रियां भार्यामवाप्स्यसि ॥३५॥ तस्यैवेति । संहारेति । संहारे तदेवास्त्रं प्रायेणार्हमित्यर्थः ॥३६॥ तदलाभ इति । कर्तुः शेषत्वविवक्षायां तवेति षष्ठी तेन 'न लोक-' इति न निषेधः । उपसंहरति-तस्मादिति ॥३७॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां तृतीयोऽध्यायः ॥ ३ ॥