पद्मिनीपरिणयः/प्रथमोऽङ्कः
॥श्रीवेङ्कटेशपरब्रह्मणे नमः ॥
॥ श्रीपद्मिनीपरिणयाख्यं प्रकरणम् ॥
श्रीसुन्दरराजमहाकविविरचितम्।
प्रथमोऽङ्कः
- गीर्वाणावलये सुधां वितरितुं दैत्यान् विमोह्याङ्गना-
- रूपं प्राप्तवतः पुराणपुरुषस्यालोकयन्त्या मुहुः ।
- सभ्रूभङ्गमपाङ्गवीक्षणभवानङ्गागमप्रक्रियं
- वक्त्रेन्दुं कलशाम्बुराशिदुहितुर्मन्दस्मितं पातु वः ॥
- गीर्वाणावलये सुधां वितरितुं दैत्यान् विमोह्याङ्गना-
दशवदननगर्यां स्निग्धगन्धद्रुक्लृप्तात्
भवनवलभिवर्गाद्वालसङ्क्रान्तवह्नेः ।
उदितसुरभिधूमौर्वासयन् व्योमभामा-
कचततिमतिवीरः पातु कश्चित्प्लवङ्गः ॥ २ ॥
(नान्द्यन्ते) सूत्रधारः-(पुरोऽवलोक्य) अहो ! भगवत्या गोदामिधायाः कैटभपरिपन्थिप्रणयिन्यः संमिलन्ति नानादिगन्तनिवासिनः सज्जनाः मज्जनमहोत्सवसिषेविषया विषयान्तरमुत्सृज्य । (सौत्सुक्यम् अञ्जलिं बद्ध्वा)
- श्री धन्विनव्यपुरवासिनि देवि गीदे!
- श्रीशार्ङ्गिदिव्यगुणसूक्तिधृतप्रमोदे ! ।
- त्वन्मज्जनोत्सवभवे विभवे न धत्ते
- कस्सज्जनः कुतुकमम्ब निलिम्पवन्द्ये ॥
- श्री धन्विनव्यपुरवासिनि देवि गीदे!
(आकाशे श्रोत्रं दत्त्वा) किमादिश्यते साधुपरिषदा ? रे रे! कुशीलव !
- हस्तविन्यस्तहौणोक्ति पुस्तकैरावृते जनैः ।
- इह सद्रूपकं प्रत्नं द्रष्टुमिच्छा वृथा हि नः ॥ इति ॥
न वृथा भवतामिच्छा । विद्यत एवाभिनवं सत्प्रकरणम् । किं ब्रूथ ! कुतूहलिनःस्मः तदवलोकन इति । (सहर्षम्) अचिरादभ्यस्तस्य अभिनवरूपकप्रयोगस्य सफलतासम्पादनाय रसिकपरिषदममिलषतो मम प्रतिपद्यते विधिरनुकूलताम् । (नेपथ्याभिमुखमालोक्य) इतस्तावत् भावः । (प्रविश्य)
मारिषः--एषोऽस्म ।
सूत्रधारः-भाव ! पश्यतु भवान् नानादेशेभ्यः समागतानिह महानुभावान् ।
मारिषः-आर्य! अदृष्टचरो भवत्येतावान् क्वचन साधुसमागमः ।
सूत्रधारः -भाव ! श्रूयतामत्र कारणम् ।
- पङ्क्त्याऽभियोज्य रमणीयतराण्यनांसि
- तन्वन्ति केऽपि पुरतोऽग्निजलप्रयोगम् ।
- आरुह्य तानि जनता घटिकाभिरेव
- काभिश्चिदद्य बहुयोजनदूरमेति ॥
- पङ्क्त्याऽभियोज्य रमणीयतराण्यनांसि
मारि-इतोऽपि किमपि विचित्रम् !
- एकः क्वचिद्वासि सद्मनि भाजनेषु
- सद्रावकेषु निहितामिह लोहतन्त्रीम् ।
- सन्ताडयत्यधिकदूरगतोऽपि सद्यः
- पुत्रप्रसूतिमवगम्य ददाति बीजम् ॥
- एकः क्वचिद्वासि सद्मनि भाजनेषु
सूत्र-भाव ! कृतमप्रकृतेन । अस्ति कुतूहलं परिषदो नूतनप्रयोगे ।
मारि-(स्मृतिमभिनयति)
सूत्र-किन्नावगाहते स्मृतिपथं नवं रूपकम् ?
मारि-अथ किम् ।
सूत्र-अस्ति किल ? दक्षिणकेरलेषु स्यानन्दूरपुरम्......
मारि-अहह ! तत् भगवत: पद्मनाभाभिख्यस्य परमात्मनः भोगशयनभूमिः खलु ? (सानुस्मरणमञ्जलिं बद्ध्वा)
- श्रीपद्मनाभ ! कमनीयतराञ्जनाभ !
- भक्तावनाभयरतेन्दुसमाननाभ ! ।
- न त्वां विना भवति मे शरणं भवन्तं
- नत्वा जनः किमिह वा शुचमेत्यमुत्र ॥ सूत्र-तत्र सञ्चितसुकृता वञ्चिमहीपतयः सुमतयः सन्ततं निवसन्ति खलु ?
- श्रीपद्मनाभ ! कमनीयतराञ्जनाभ !
मारि-अथ किम् ।
सूत्र-तत्र
- मत्या धृत्या शुभकवितया विद्यया देवभक्त्या
- लक्ष्म्या चोञ्चैरुपचिततया प्राप्य षाण्मातुरत्वम् ।
- शक्तिं विभ्रद्विमतविजये ख्यापयन्नाम नैजं
- राजोत्तंसो जयति धरणौ श्रीविशाखो यशस्वी ॥
- मत्या धृत्या शुभकवितया विद्यया देवभक्त्या
- तदीयं भुजमालम्ब्य वर्तते पाण्ड्यमण्डले ।
- इलत्तूराख्यनगरी कविरत्नावलीखनिः ॥
मारि-- विदितं तन्नगरम् । यत्र खलु श्रीवैखानसकुलतिलकायमानवरदराजनन्दन:, कृष्णाम्बिकागर्भशुक्तिमुक्तामणिः, सुन्दरराजशर्मा श्रीरामसन्देशहरप्रसादलब्धप्रतिभाभासुरः प्रकाशतेतराम् ।
सूत्र-स हि महितं श्रीरामभद्रविजयाभिख्य चम्पूप्रबन्धं वैदर्भीवासुदेव हनूमद्विजयाभिधाननाटकयुगलञ्च निर्माय पश्चादुत्पाद्येतिवृत्तं पद्मिनीपरिणयाभिधानं प्रकरणं ग्रथयन् अस्मासु न्यस्तवान् रसिकपरिषदि प्रयोक्तव्यमिति ।
मारि-स्मारितोऽस्मि भवता साधु । आर्य ! केऽपि नूतनान् प्रबन्धान् नाद्रियन्त इति शङ्का मामाकुलयति ।
सूत्र-अत्र विषये कविना तेन कश्चिदुपन्यासः कृतः ।
मारि-कथम् ?
सूत्र--
- " ये पूर्वासु च नूतनासु कृतिषु स्वारस्यमात्रं समं
- गृह्णीयू रसिका न तान् प्रति वचः किं[१] वाच्यमास्ते मम ।
- ईर्ष्यातोऽभिनवप्रबन्धविमुखा ये सन्ति ते नाधिकाः
- तादृक्षस्य च भाविनः कृतिरियं ग्राह्यैव पूर्वत्वतः ॥"
- " ये पूर्वासु च नूतनासु कृतिषु स्वारस्यमात्रं समं
मारि-उपपन्नम् । सूत्र-सम्प्रति सम्प्रतिपन्नं सर्वमस्माकं साधु । तथाहि--
“ तद्रूपकं मृदुपदग्रथितं गभीरं
प्रत्यग्रवस्तु निखिलैश्च रसैः समग्रम् ।
एषा च साधुपरिषद्विदुषी कवित्वे
तौर्यत्निके च भरतस्य वयं विवर्ताः" ।
तत् त्वर्यताम् ।
मारि-आर्य ! कयापि चिन्तया किञ्चिदस्वस्थमिव मे मनः ।
सूत्र-सा का सारविषया यदि, निगद्यताम् ।
मारि-सारविषयैव । सरसहृदयो नाम सखा मे विदितः खलु । तद्दुहितरं सुमनोभिख्यां द्युतिमन्नाम्नि तरुणे स्वयमनुरक्तां दुर्वृत्तः चरमवयसि वर्तमानोऽपि कश्चित्कामयते लब्धुं जलानुषङ्गी । तत्र सर्वां धुरं मयि न्यस्यति वयस्यः ।
सूत्र- अस्त्येव सुमनोद्युतिमतोस्सङ्घटने विधेरानुकूल्यम्, यतो भक्तं तत्र लग्नकीकृतवान् सरसहृदयः । भवांश्चावधत्ते ।
“प्रसन्नेनापि विधिना प्रत्यक्षीभूयते नहि ।
किन्तु तत्कार्यघटनानिपुणः प्रेर्यते जनः ॥
(नेपथ्ये)
साधु कुशीलव ! साधु ।
नियुङ्क्ते मां न चेद्धाता पद्मिन्या भास्करस्य च ।
संयोजने सदा चिन्ता किं भवेदीदृशी मम ॥
मारि-- कोऽयमेवं ब्रवीति ?
सूत्र-किं तन्न जानासि । मम वैमात्रेयः कनीयान् शारदानन्दयोगीन्द्रस्य भूमिकां धारयन् व्याहरन्नेवं प्रविशति रङ्गभुवम् । तदावां पद्मिनी भास्करश्च भूत्वा प्रविश्य दर्शयावः स्वचातुरीमभिनयकलायाम् । (इति निष्क्रान्तौ)
॥ प्रस्तावना ॥
(ततः प्रविशति सशिष्यः शारदानन्दः)
शार– वत्स ! काशस्तम्ब ।
- "यावन्निगृह्य करणं विषयप्रवृत्ते-
- श्चेतः समाहितमहं कलये कथञ्चित् ।
- तावत्क्वचित्प्रविशति श्रमसाधनीये
- कार्ये सुहृत्प्रणयसंभृतमेतदाशु" ॥
- "यावन्निगृह्य करणं विषयप्रवृत्ते-
काश- किं नाम तत् ?
शार- अस्ति उदयधरो नाम महीभृत्प्रवरः ।
काश- स प्रथते खलु !
- [२]यःसूर्याकलनेन लोकविदितख्यातिः समस्तोन्नतो
- धीरो नोज्झितपूर्वकल्पितपदः स्वान्तर्गुहायां हरिम् ।
- बिभ्राणादुदितो यतो नयनयोः श्रीभास्कराख्यस्सुत-
- स्साफल्यं तनुते श्रिया तनुभृतां भाग्यं यथा मूर्तिमत्" ॥
- [२]यःसूर्याकलनेन लोकविदितख्यातिः समस्तोन्नतो
शार- तस्य महानुभावस्य सदृशी भार्या सम्पादयितव्येति ।
काश- तस्य सदृशी क्व लभ्येत ?
शार – अस्त्येव ।
काश- जिज्ञासे तादृशीम्
शार- [३]वर्तते कासारो नाम विमलान्तःकमलतया श्रिततापहारी प्रजापालकः । तदात्मभवा । पद्मिनीति विनीतिमतिसौन्दर्यवसतिः ।
काश- यद्येवं कोऽत्र विचारहेतुः ?
शार- विद्यते तयोस्सङ्घटने प्रत्यूहबाहुल्यम् ।
काश- कथमिव ?
शार-
- "जीमूतो नाम दुर्दान्तो वपुषा समलीमसः ।
- अपि विच्युततारुण्यस्तरुणीं तामभीप्सति" ॥
काश- तत्र कासारः कीद्दशः । शार-अनभिमततदपेक्षोऽपि कृतज्ञतया पुरा तत्कलितमुपकारं स्मरन् दाक्षिण्यमवलम्बते तस्मिन् ।
काश-किमियदेव ।
शार-किञ्च, मत्तेभको नाम कश्चिन्निर्निमितबद्धवैरः पद्मिनीमपहर्तुं काङ्क्षति कासारमाविलीकृत्य । अपि च, तस्य सुहृदस्मद्विरामं प्रतीक्षमाणः स्वोदयाय तुहिनमण्डलो नाम कापालिकः सहचर्या हिमान्या सदा निसर्गसिद्धपद्मिनीप्रतीपशीलः प्रथते ।
काश- अहो चिन्तानिमित्तमदभ्रमार्यस्य । कयापि विधया सङ्घटयितुं तौ प्रवर्तते भवान् ।
शार – सर्वथाऽस्माभिः लक्ष्मीं सन्निधाप्य तस्या मनोरथस्साध्यः ।
काश –
- भवत्प्रसादसम्प्राप्तलक्ष्मीसान्निध्यनिर्मला ।
- पद्मिनी भास्करं प्राप्य चिरं विजयतां भुवि ॥
शार - अन्यदिदमाकर्ण्यताम् । कासारस्यात्मजः कुमुदाकरः कामयते कौमुदीम्, भास्कराल्लब्धैर्वसुभिर्वर्धितस्य सुधाकरस्य राज्ञस्सुताम् ।
काश - किमस्ति तत्रापि विरोधः ।
शार - तामाकम्य वर्तते मत्तेभकः स्वपुत्रकृते ।
काश - भगवन्, अनयोः सदृशयोः पद्मिनीभास्करयोः कौमुदीकुमुदाकरयोश्च युगपत् कथं संयोजनसम्भव इति तर्कयामि ।
शार - सर्वं दुर्घटमपि घटेत देव्या दुग्धसिन्धुदुहितुः प्रसादात् । तत्कासारमुपसरावः । (इति निष्क्रान्तौ)।
॥ शुद्धविष्कम्भः ॥
(ततः प्रविशति अनुकूलनाम्ना सचिवेन सह कासारः)
कासारः - भोः मन्त्रिन् !
कन्यापितृत्वमिह सन्ततमातनोति
चिन्तां जनस्य महतीमिति यद्वदन्ति ।
जानामि सत्यमिदमद्य पतिं सदृक्षं
वत्साऽप्नुयात्कथमिति व्यथितो विचारात् ॥
- यदि सन्तं सुता लब्ध्वा भर्तारं नन्दति स्वयम् ।
- जनकस्य सुखं तादृक् न पुत्रशतवत्तया ॥
कासारः - असति जामातरि जायते पुरुषस्य या व्यथा सा न शक्यते परिच्छेत्तुम् । तथाहि ।
- जामाता यदि दुर्मतिः शुभवधूलाभावधि प्रश्रयं
- श्वश्र्वां च श्वशुरे प्रदर्श्य तदनु प्राप्तेप्सितो दर्पितः ।
- ताभ्यां स्वीयसुतातिवत्सलतया सम्भावितो मन्यते
- स्वं वित्ते धनदं मतौ सुरगुरुं रूपे प्रसूनायुधम्॥
- जामाता यदि दुर्मतिः शुभवधूलाभावधि प्रश्रयं
हन्त! दुर्मेधसो जामातरो मातरमिव सम्भावनीयां श्वश्रूं स्वभुजिष्यामिव पितरमिव पूज्यं पूज्यं क्रीतदासमिव ताभ्यां दुहितृप्रेम्णा दीयमानंयौतकमधमर्णगृहीतं धनमिवावजानते ।
(नेपथ्ये)
साहु साहु ! (साधु साधु) ।
कासा - सखा मम खलु समभिनन्दति अस्मद्वचः ।
(प्रविश्य विदूषकः) वअस्स, जं कहिदं तुंहेहिं तं सवं मए अणुहूदम् । (वयस्य यत्कथितं युष्माभिस्तत् सर्वं मया अनुभूतम् ।
कासा - सखे कथमिव ।
विदूषकः - विवाहपेज्जन्तं मह चरणेसु णिपतन्तो दुग्मई जामाआ तदो मह घरभोअणपीवरसरीरो वि मह पच्चख एव्व ‘अये भिखुअपुत्ति, दासीए पुत्ति, मूढजोणिजादे, किं तुए तादघरादो आणीदं रण्डेत्ति मह कण्णं अहिख्खिवइ । किं वित्थरेण, अण्णदो संपादेदुं अख्खमो मह घरादो एव सव्वं इत्थिआघणत्तणेण आणेदव्वं मणाइ । तस्स सव्वं वि दुण्णअं सहेमि वच्चाए को वि सुगुणो दोहित्तो होस्सदिति पच्चासाए ।
(विवाहपर्यन्तं मम चरणयोः निपतन् दुर्मतिः जामाता ततो मम गृहभोजनपीवरशरीरोपि मम प्रत्यक्षमेव, अये भिक्षुकपुत्रि, दास्याः पुत्रि, मूढयोनिजाते, किं त्वया तातगृहादानीतं, रण्डे इति मम कन्यामधिक्षिपति । किं विस्तरेण । अन्यतस्संपादयितुमक्षमः मम गृहादेव सर्वं स्त्रीधनत्वेनानेतव्यं मन्यते । तस्य सर्वमपि दुर्णयं सहे, वत्सायां कोऽपि सुगुणो दौहित्रो भविष्यतीति प्रत्याशया) । कासा- अलमप्रस्तुतेन । भो मन्त्रिन्! किं विसृष्टो निखिलनृपालबालप्रतिच्छन्दग्रहणाय चित्रशिल्पी ।
अनु- तस्य प्रत्यागमनसमयोऽपि अतिवर्तते (प्रविश्य दौवारिकः) जेदु देव्वो, ससिस्सो सारआणंदो पडिहारभूमिं गओ ।
- (जयतु देवः । सशिष्यश्शारदानन्दः प्रतिहारभूमिं गतः)।
कासा- प्रवेश्यतां सोपचारम् ।
दौवारिकः- तह (इति निष्क्रम्य पुनः प्रविश्य) इदो इदो महाजोई । (तथा । इत इतो महायोगी) ।
(प्रविशति सशिष्यश्शारदानन्द:)
कासारः - उत्थाय प्रणमति ।
शारदानन्दः- विजयस्व धर्मात्मन् !
कासा- उपविश्यताम् ।
शार- (उपविश्य) अपि कुशलम्?
कासा- भगवन् ! भवदाशीर्गोचरतया सर्वेऽत्र कुशलिनः स्मः ।
- चिन्तातपातपो[४]च्छुष्यदात्मनः पुरतो मम ।
- भवदीयप्रसादोऽसावमृतासारतां गतः ॥
- चिन्तातपातपो[४]च्छुष्यदात्मनः पुरतो मम ।
अनु- भगवन्! प्रतिपालयामहे किमपि विज्ञापयितुकामा भवद्दर्शनम्।
शार - प्रायो विदित एवास्माभिस्सर्वोऽप्युदन्तः । अधुना कीदृशी जीमूतदुश्चेष्टा ।
कासा - यादृश्यस्मान् अहर्दिवमाकुलयेत् ।
शार - किं साक्षादभ्यर्थितोऽसि तेन कन्याम् ।
कासा - तदेवावशिष्यते ।
अनु - तदपि श्वः परश्वो वा भविष्यतीति मन्ये, यतस्तदमात्यस्य पुरोवातस्य पत्रिका तादृशी मया लब्धा ।
शार - स्वयमेवागमिष्यति किं जीमूतः ? अनु- नहि । प्रथमं तन्नियुक्तः पुरोवातः ।
शार- कीदृशी मत्तेभः ?
कासा- हतकः सहानुगैः मामाकुलीकृत्य पद्मिनीमपहर्तुं प्रतीक्षते समयम् ।
शार-आस्तामेतत् । भद्रायाः पद्मिन्या हृदयं कुत्रानुषजति ।
कासा- स्फुटं तन्नावगम्यते । (प्रविश्य दौवारिकः) किअहत्थो णाम चित्तलेहओ समअं पडिवाळेदि । (कृतहस्तो नाम चित्रलेखकः समयं प्रतिपालयति)
कासा- प्रविशतु ।
दौवा- (निष्क्रान्तः)
शार- स को नाम ?
अनु–नृपतिकुमारप्रतिच्छन्दग्रहणाय नियुक्तपूर्वः । (प्रविशति कृतहस्तः स्वहस्तन्यस्तचित्रपटनिकरः । प्रणमति सर्वान् ) ।
अनु-किमाचरितनिदेशोऽसि ?
कृत-अथ किम् ।
शार- किं केवलं नृपाणां कुमारा गृहीतरूपाश्चित्रे । आहोस्वित् तत्स्वसारश्च ?
कृत– द्विविधान्यपि न्यस्तानि चित्रे नृपत्यपत्यानि ।
शार– राजन्! चित्रावलोकाय तव पुत्रावपि समानीयेताम् ।
कासा- (अनुकूलमुखं प्रेक्षते) ।
अनु-अयमहमेवानेष्यामि तौ । (इति निष्क्रम्य पुनस्ताभ्यां सह प्रविशति) ।
कुमुदाकरः- (स्वगतम्) अहो मम चेतः शारदानन्दसन्दर्शनेन प्रसीदति ।
पद्मिनी- (स्वगतम्) दीसइ चित्तपडणिअरो । (दृश्यते चित्रपटनिकरः)
(उभौ पितरं योगिनश्च प्रणमतः)
शारदा-–
- श्रेयांसमावुत्तमवाप्य भद्र भजस्व हर्ष कुमुदाकर त्वम् ।
- प्रजावतीमेत्य सुजातशोभां भद्रे प्रमोदस्व च पद्मिनि त्वम् ॥
- श्रेयांसमावुत्तमवाप्य भद्र भजस्व हर्ष कुमुदाकर त्वम् ।
कासा- (अपवार्य) भगवन् ।
- जामातुः प्रथमं प्रार्थ्यः स्नुषाया वा गुणो नृणाम् ।
- इति सन्तर्कयश्चित्ते .......... निश्चयम् ॥
- जामातुः प्रथमं प्रार्थ्यः स्नुषाया वा गुणो नृणाम् ।
शारदा- रे कृतहस्त ! नृपतिकुमारान् आरात् पद्मिनीनयन्नपथं प्रवेशय ।
कृत– भर्तृदारिके, दृश्यताम् ।
- अयं कलावान् सकलाभिनन्द्यो राजा मनोजोत्सवदानदक्षः ।
पद्मिनी- दस्सणिज्जो । दस्सेहि अवरं वि । (दर्शनीयः । दर्शयापरमपि) ।
कृत- अयं तु भौमो रिपुभावमेति यस्याधिमन्तर्विदधीत तस्य ।
पद्मिनी- एसो अह्माणं सआ मित्तभावं एव्व गच्छेउ ।
- (एषोऽस्माकं सदा मित्रभावमेव गच्छतु)
कृत-
- अयं बुधो नाम स राजपुत्रो यन्मित्रभावं लभते तनोति ।
- तस्यार्थलाभादिकमेष जीवो दृष्ट्यैव धत्ते शुभभावपुष्टिम् ॥
पद्मिनी- एदे महव्वाणं वरा । तदो । (एते महात्मनां वराः । ततः)
कृत-
- एष प्रतीतः कविनामधेयो यस्यानुकूल्यं भजतेऽत्र भावे ।
- तस्याखिलान्यातनुते सुखानि निहन्ति सर्व विपरीतभावे ॥
- एष प्रतीतः कविनामधेयो यस्यानुकूल्यं भजतेऽत्र भावे ।
- एष इव कलत्रसुखं दातुं नान्यः प्रभवति ।
पद्मिनी- को एसो अवरो ? (क एषोऽपरः)
कृत- एष सौरिर्नाम ।
- येषां दुःखे प्रवर्तेत तैस्सद्य.... ।
- आराधनीयः क्षेमाय व्यथयेत्तानपूजितः ॥
- येषां दुःखे प्रवर्तेत तैस्सद्य.... ।
पद्मिनी- किं अण्णो अथ्थि दट्टव्वो (किमन्योऽस्ति द्रष्टव्यः) ?
कृत- सन्ति बहवः ।
शार- (अपवार्य) अये कृतहस्त, अलमपरैः प्रदर्श्यतां भास्करः ।
कृत-
- उदयधरतनूजो दृश्यतां पद्मवक्त्रे
- हृदयरतिकरो यस्तेजसा नेत्रभाजाम्
- तरुणमपि तमांसि प्रेक्ष्य विध्वंसयन्तं ।
- यमिह दधति वृद्धाश्चाञ्जलिं शुद्धभावाः ॥
- उदयधरतनूजो दृश्यतां पद्मवक्त्रे
पद्मिनी- वीक्ष्य (स्वगतम्) किं मअणो एसो ? तस्स वि एआरिसी सोहा णो सुदा । अहवा तस्स वि तादो पुरिसोत्तमो अणेण रूपेण सम्पत्तो ? (किं मदन एषः । तस्याप्येतादृशी शोभा न श्रुता । अथवा तस्यापि तातः पुरुषोत्तमोऽनेन रूपेण संप्राप्तः) । (इति चिन्तयन्ती स्थिता )
कासा- (अपवार्य) स्वामिन्!
- अन्यान् निरीक्ष्य वदनं विनिवर्तयन्ती
- वत्साऽधुना तमिह भास्करमीक्षमाणा ।
- चित्रेऽपि हन्त विकसन्नयनारविन्दा
- साक्षाद्विलोक्य भगवन्नथ कीदृशी स्यात् ॥
- अन्यान् निरीक्ष्य वदनं विनिवर्तयन्ती
शार- स्पष्टोऽभूदाशयोऽस्याः ।
कृत- सन्ति बहवोऽन्ये नृपकुमाराः पटेषु ।
पद्मि- इदो वरं णिवकण्णिआओ दस्सणिज्जाओ । (इत परं नृपकन्यकाः दर्शनीयाः)
शार- (अपवार्य) राजन् !
- भास्करे सदृशे लग्नं पद्मिन्या हृदयं स्वयम् ।
- नेतुमन्यत्र कश्शक्तो जानक्या इव राघवे ॥
- भास्करे सदृशे लग्नं पद्मिन्या हृदयं स्वयम् ।
कासा– कृतहस्त ! दर्श्यन्तां नृपतिकुमार्यः ।
कृत- भद्र !
- कृतिकामेति विख्याता कृत्तिवासःप्रियाद्युतिः ।
- एषा पुरुषसिंहस्य शंसत्युदयमुच्चगा ।।
कुमुदाकरः- पश्यामि । ततः ।
कृत-
- दृश्यतां चारुरूपेयं विश्रुता रोहिणीच्छविः ।
- यथाऽस्यां राजहृदयं न तथाऽन्यत्र रज्यति ॥
कासु-रज्यतु नाम कामम् । कृत-(स्वगतम्) रोहिणीच्छविं दृष्ट्वापि समुल्लासममुपेयुषोऽस्य चित्तं किं लगेन्मृगशिरो द्युतौ वा परासु मनोहरासु अपि आर्द्राशोभाप्रभृतिषु वा । ततः कौमुदीमेव दर्शयामि । (प्रकाशम्)
- कल्याणी क्षीरवाराशिकन्यकासोदरी दृशः ।
- गोचरीक्रियतामेषा प्रकृत्या विमला त्वया ॥
- कल्याणी क्षीरवाराशिकन्यकासोदरी दृशः ।
कुमु-(वीक्ष्य) (स्वगतम्)
- सौन्दर्यदुग्धजलधिं कुतुकात् प्रमथ्य सारं तदीयमखिलं जलजासनः किम् ।
- गृह्णन्ससर्ज जगतां नयनोत्सवाय चित्तेन संप्रणिहितेन निकाममेताम् ? ॥
शार-(अपवार्य) राजन् !
- कौमुद्यालोकसंभृतविकासः कुमुदाकरः ।
- कै कोल्लासलालाक्षिभ्रमरो राजतेतराम् ॥
- कौमुद्यालोकसंभृतविकासः कुमुदाकरः ।
कासा-भगवन् !
- अभीप्सन् हरिणाक्रान्तसल्लकीपल्लवावलिम्।
- चलपत्रदलश्रेणीं सुलभां कलभोऽस्यति ॥
- अभीप्सन् हरिणाक्रान्तसल्लकीपल्लवावलिम्।
शार-(अपवार्य) राजन् !
दिष्ट्या भवदुक्त्या कुमुदाकरस्य कौमुदी सुलभैवेति ज्ञायते
<ref>श्लेषार्थः. हरिणाकान्त-सिंहाकान्त, हरिणेन-एणेन आक्रान्त, इति ।<ref>हरिणेनाक्रान्तायाः सल्लकीपल्लवावलेः प्राप्तिः सुशका खलु कलभस्य ।
कृत-विद्यन्ते परा राजकुमार्यः ।
कुसु-द्रष्टव्या एव यद्यवकाशः ।
कासा-दिष्ट्या लब्धोऽवकाशः कौमुदीदर्शनावधि ।
कुसु-(लज्जां नाटयति) ।
शार-भद्रे ! तव किमस्ति परेषामपि पार्थिवनन्दनानां दर्शनेऽवकाशः ?
पद्मिनी-अज्ज ! अहं किं अतणो पहवेमि ? (आर्याहं किमात्मनः प्रभवामि)
शार-तव कः पुनः प्रभवति ।
पद्मिनी-गुरुअणो । (गुरुजन:) ।
शार--उदयधरात्मजे हृदयप्रवर्तनं विना अन्यत्र तव गुरुजन एव प्रभवति ।
पद्मिनी-(मुखं नमयति)
शार--(अपवार्य) राजन् ! विदितौ भवत्तनुजयोः प्रणयभाजनजनौ ।
कासा--(अपवार्य) भगवन् !
- जीमूतकः प्रयतते स्वयमाप्तुमेतां
- मत्तेभकः स च जिहीर्षति निर्निमित्तम् ।
- सा कौमुदी त्वहह तस्य वशं गताऽऽसीत्
- पुत्रौ मनोरथमिमौ कथमाप्नुतां तम् ॥
- जीमूतकः प्रयतते स्वयमाप्तुमेतां
शार–
- यद्यानुकूल्यं विधिराप्नुयात् ते जीमूततः कश्चन वज्रपातः ।
- मत्तेभकं नाशयतु क्षणात् तं जीमूतकं हन्तु [५]हरिः प्रचण्डः ॥
कासा-सर्वस्य भव्यस्य निदानं भवदाशीर्नः ।
(नेपथ्ये)
- राजन्! विजयस्व, विजयस्व !
- जीमूतकस्य विगमादिह भास्करोऽय-
- मत्युन्नतं पदमवाप्य विराजमानः ।
- तां पद्मिनीं विकसितां कलयत्यमन्दं
- मत्तेभकोऽपि परिधावति तापतप्तः ॥
- जीमूतकस्य विगमादिह भास्करोऽय-
शार-कोऽयमस्मदनुकूलं व्याहरति ?
कासा-एष वन्दी विज्ञापयति माध्याह्निकसमयम् ।
शार-भद्रेयमुपश्रुतिः ।
कासा-सर्वं भवत्प्रसादात् ।
शार-भदौ, इह विहरतमव्याकुलौ । (तथेति तौ परिक्रामतः) ।
शार–राजन् ! पश्य पुत्रौ ।
- नेत्रं विकासि दुहितुस्तव भास्करेण
- कृष्टं पटस्थितिजुषा प्रतिकर्षतीव ।
- कृष्टं पटस्थितिजुषा प्रतिकर्षतीव ।
- लज्जा सुधाकरसुताकृतिलग्नमक्षि
- हीस्ते सुतस्य तु समुद्धरतीव यत्नात् ॥
- नेत्रं विकासि दुहितुस्तव भास्करेण
॥ उभौ निष्कान्तौ ॥
शार--रे कृतहस्त ! कौमुदीभास्करयोः प्रतिच्छन्द्वद्वयं शुद्धान्तं नीयताम् ।
कृत--तथा (इति निष्क्रान्तः) ।
शार--राजन् ! त्वरयति मां कश्चित् कार्यावेगः ।
कासा--यद्यर्हामि श्रोतुं, शुश्रूषे ।
शार--उदयधरश्चिरादधीतानेकविद्यं भास्करं भवान् अस्त्रकलाकुशलं कलयत्विति मां अभ्यर्थयते । ततस्तं निजान्तेवासिनं विधाय तत्प्रार्थनां सार्थीचिकीर्षामि ।
कासा–-स्वामिन् ! स महाभागः श्रीमान् भक्ता कथञ्चिदत्रानीतो यदि प्रतिच्छन्दालोकसफलीभूतयोर्लोचनयोर्विहितामसूयां श्रवणयुगस्य शमयितुकामोऽस्मि तत्सूक्तिमाधुरीप्रापणेन ।
शार--(स्वगतम्) अस्मदाशयमनुरुन्धे कासारप्रार्थना । (प्रकाशम्) पूरयिष्यते मनोरथस्ते ।
कासा--समागमिष्यति यदि पुरोवातः भणितव्यमुपदेष्टव्यमत्र भवता ।
शार--(कर्णे) (एवं वक्तव्यमिति कथयति ।)
कासा--(स्वगतम्) महान्तमुपायमन्तर्निधाय स्वयमेवमयं ब्रवीति । (प्रकाशम्) यथा रोचते गुरवे ।
शार--अनुकूल ! सज्जीकर्तव्या पुरोवातस्य सम्भावनासामग्री ।
अनु--यथाऽऽदिशति भवान् । (इति निष्कान्तास्सर्वे)
॥ इति श्रीपद्मिनीपरिणये प्रथमोऽङ्कः ॥