न्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते न चास्य विविक्तः कश्चिदस्ति विषयः । यत्र लब्धावकाशो नेतरं बाधेत । तथाहि-- अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति प्रकृताप्रकृतयोस्तु दीपकम् । तदनुमोदिता उपमादयश्च । न च--
देव त्वमेव पाताऽलमाशानां त्वं निबन्धनम् । |
इत्यादिकाव्यप्रकाशोक्तौ विवक्तो विषय इति वाच्यं, रूपकस्यैवात्र स्फुटत्वात् । श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात् । कथं तर्हि ‘नदीनां संपदं बिभ्रद्राजाऽयं सागरो यथा' इत्यादावुपमायाः प्रत्ययः । कथं वा तत्रैव यथाशब्दस्थाने किमुशब्ददाने उत्प्रेक्षायाः । अपर इति कृते च रूपकस्येति चेन्न । अत्र हि उपमादीनां प्रतिभानमात्रं, न तु वास्तवी स्थितिः । न हि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतुश्श्लेष एव स्वविषये सर्वत्रालंकार इति ॥
एतच्चापरे न क्षमन्ते, तथाहि-- यत्तावदुच्यते येननाप्राप्ते इत्यादि तत्र ‘सर्वदोमाधवः पायात्स योऽगङ्गामदीधरत्' इत्यादिपरकीयपद्ये,
गौरविताऽऽसच्छ्रीरिह नित्यं हृद्याहितासुहृल्लेखा । |
इति प्रागुदाहृतेऽस्मदीयपद्ये च श्लेषातिरिक्तः कोऽलंकारः ? न तावत्तुल्ययोगिता, विशेष्ययोः पृथगनुपादानात् औपम्यस्य च
गम्यत्वाभावात् । सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययाः पृथगुपादाने सादृश्यप्रत्ययनियमे च लब्धपदा भवति ।