पृष्ठम्:Mudrarakshasa.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
मुद्राराक्षसे

 राक्षसः-भद्र [१], न खलु व्यापादितश्चन्दनदासः ।

 पुरुषः अज्ज दा[२]व वाबादीअदि। सो खु संपदं पुणो पुणो अमच्चरक्खसस्स घरअ[३]णं जाचीअदि । ण खु सो मित्तवत्सलदाए स[४]मप्पेदि ता एदिणा कालणेण ण करेमि मरणस्स कालहरणं । (क)

 राक्षसः--( सहर्षमात्मगतम् ।) साधु वयस्य चन्दनदास, सा[५]धु ।

शिवेरिव समुभ्दुतं शरणागतरक्षया[६]
निचीय[७]ते त्वया साधो यशोऽपि सुहदा विना ॥ १८ ॥

 (प्रकाशम् ।) भद्र, गच्छ[८] गच्छेदानीम् । शीघ्रं विष्णुदासं ज्वलनप्रवेशान्निवारय अहमपि चन्दनदसं मरणान्मोचयामि ।


 ( क ) अद्य तावद्वयापाद्यते । स खलु सांप्रतं पुनः पुनरमात्यराक्षसस्य गृहजनं याच्यते ,। न खलु स मित्रवत्सलतया समर्पयति । तदेतेन कारणेन न करोमि मरणस्य कालहरणम् ।


 शिबेरिति । शिबेरिवेतीवशब्दो भिन्नक्रमः यशसा संबध्यते । शरणागतरक्षया हेतुना समुद्रुतं समुत्पन्नं शिबेर्यश इव त्वया यशो निचीयते संपाद्यते । ‘शिबिनेव' इति तृतीयान्त: पाठः सुगमः। तेन हि शरणागतस्य सन्निधावेव स्वविनाशोऽभ्युपगतः । त्वया तु सुहृदा विनापि। अपिशब्दो भिन्नक्रमः। ममासंनिधान इदं यशो निचीयत इत्यहो शिबेरपि त्वमधिकगुणः श्लाघ्योऽसीति भावः ॥ १८ ॥


  1. भद्र भद्र G.;om. in B. N. R.
  2. ण before this B. E. N.;जाद P.वायदीयदि G. E.°दयादि R, (?)
  3. घरयणं B. N. G; धरयणं E. For जाची° ,M. R. read आची°, E. या°, M. आच°; B. E. N. om. खु; for वत्सल R. has अच्छले, G. reads °लदाये.
  4. Before this B. N. read जाचीअन्तोपि तं. For कालणेन E. has कारणेन. For करोमि B. N. read होदि से,E. H. भदि से; G होदि ; G. R. read मलणस्स and B. N. read हलणं.
  5. om.E.; before च...स.G.; twice here B.N.
  6. रक्षणात् N.E.
  7. नदीयते N.; चिचीयते B.;नन्नीयते (?) E; मया for विना H.
  8. B. N.read भद्र भद्र गच्छ शीघ्रमिदानीम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२७५&oldid=328605" इत्यस्माद् प्रतिप्राप्तम्