सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३)

विकिस्रोतः तः
सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३)
भट्टोजीदीक्षितः
१९११
४३०
[परस्मैपद्
सिध्दान्तकौमुदीसहिता


युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमपुरुषः। तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किं त्वेकवचनमेव । तस्यौत्सर्गिकत्वेन


मिति सिद्धान्तात् । एवञ्च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् । तदुत्तम् । व्यापारो भावना । सैवोत्पादना सेव क्रियेति । ननु उत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापारार्थकत्वन्तु न सम्भवति । एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह । सा च धातुत्वेन सकलधातुवाच्येति ॥ पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकां क्रियामाहुः । पचित्वादिविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकभेदाद्विक्लित्त्यादिफलविशेषस्य क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः । तथा च भट्टिराह । 'विभज्य सेनां परमार्थकर्मा सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून् ॥' इति । अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता आत्मभरणम् । तदनुकूलव्यापारस्तु जायते अस्ति विपरिणमते, वर्धते, अपक्षीयते, विनश्यति, इति वार्ष्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चितञ्च मञ्जूषायामित्यलम् । ननु उत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वे ल: कर्मणि च भावे च इति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह । भावार्थकलकारेणानूद्यते इति ॥ द्वौ त्रयः इत्यादौ द्विवचनबहुवचनवदिति भाव । युष्मदस्मद्भ्यामिति ॥ युष्मदि अस्मदीति च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिङ्सामानाधिकरण्यञ्च तिङ्वाच्यकारकवाचित्वमेव । लकारे तु आस्यते त्वया आस्यते मया इत्यादौ भाव एव लकारादेस्तिङ्वाच्यः । न तु युष्मदस्मदर्थौ । अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तु त्वं वन्द्यसे अहं वन्द्ये इत्यादौ लकारस्य युष्मदस्मदोश्च सामानाधिकरण्यसम्भवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते । तिङ्वाच्येति ॥ सत्त्वं द्रव्यं लिङ्गसङ्ख्यान्वययोग्यम् । तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा लिङ्गसङ्ख्यान्वयायोग्या । शब्दशक्तिस्वभावात् । ततश्च तस्याः तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेः युवाभ्यां युष्मद्भिर्वा आस्यते इत्यादौ न द्विवचनं बहुवचनञ्चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियायाः लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तम्भवति । तद्यथा । पाकौ पाकाः इत्यादि । तदुक्तम् । 'सार्वधातुके यक्' इति सूत्रे भाष्ये 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति द्रव्यवत् लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः । शब्दशक्तिस्वभावादिति भावः । ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विबहुवचनाभावे आस्यते इत्यादौ एकवचनञ्च न स्यादित्यत आह । किन्त्वेकवचनमेवेति ॥ तिङ्वाच्यभावलकारस्येति शेषः । तस्येति ॥ 'द्व्येकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इति सूत्रन्यासं भङ्क्त्वा एकवचनद्विबहुवचनेषु इति सूत्रन्यासः कर्त
प्रकरणम्]
४३१
बालमनोरमा ।


संख्यानपेक्षत्वाद्नभिहिते कर्तरि तृतीया । त्वया मया अन्यैश्च भूयते । बभूवे ।

२७५७ । स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झन

ग्रहदृशां वा चिण्वदिट् च । (६-४-६२)

उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसान्नि योगशिष्टत्वात्तदभावे न । इहार्धधातुके इत्यधिकृतं सीयुटो विशेषणं, नेतरेषा मव्यभिचारात् । चिण्वद्भावादृद्धिः । नित्यश्चायं वल्निमित्तो विघाती । भावि


व्यः । तत्र द्वित्वबहुत्वयोर्द्धिबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्य स्पष्टम् । एवञ्च एकवचनस्य एकत्वमुत्स्मृज्य द्विवहुवचनान्यविपये विहितत्वेन औत्सर्गि कतया एकत्वसङ्कयानपेक्षत्वात् भावलकारस्य असत्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति ॥ भावलकारे कर्तुस्तिड्वाच्यत्वाभावेन अनभिहितत्वात्तृतीयेत्यर्थ । त्व या मयेति ॥ त्वत्कर्तृक, मत्कर्तृकम्, अन्यकर्तृकं, भावनमित्यर्थः। स्यसिच् । अच्हन ग्रह दृशू एषान्द्वन्द्वात् षष्ठी । उपदेश इत्यच एव विशेपणम् । नेतरेषाम् । अव्यभिचारात् । तदाह । उपदेशे योऽजिति ॥ अजित्यस्य उपदेशान्वयित्वेऽपि सौत्रः समास । अजिति लुप्तषष्ठी कम् । वा चिण्वदिति सप्तम्यन्ताद्वतिः । स्यसिच्सीयुट्तासिष्वित्युपमेयतस्सप्तमीदर्शनात् । तदाह । चिवणीवेति ॥ अङ्गकार्यमिति ॥ अङ्गस्येत्यधिकृतत्वादिति भावः । भावकमेवाचिषु स्यादि ष्विति नार्थः । सयुटो लिडागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीना भावकर्मवाचित्वा भावात् । नापि भावकर्मवाचिनि प्रत्यये परे स्यादयस्तेष्वित्यर्थ. । स्यसिच्तासीनां भावकर्मवा चिप्रत्ययपरत्वसम्भवेऽपि सयुटस्तदसम्भवात् । सीयुडागमविशिष्टस्यैव लिडो भावकर्मवाचि तया केवलसीयुटे भावकर्मवाचिप्रत्ययपरकत्वमास्ति । अतो विषयसप्तमीति मत्वा आह । भा वकर्मणोर्गम्यमानयोरिति ॥ इड़िधौ स्यसिच्सीयुट्तासिषु, इति सप्तमी षष्ठया विपरिणम्यते इति मत्वा आह । स्यादीनामिडागमञ्चेति । अत्र अज्झनग्रहदृशां स्यादीनाञ्च न यथास ङ्खयम् । व्याख्यानात् । स्यादिषु परेषु अङ्गस्य इडिति नार्थ । 'आर्धधातुकस्येडुलादेः इत्यत्र ‘आर्धधातुके' इति योग विभज्य यावानिट् स आर्धधातुकस्यैवेति भाष्ये उक्तत्वात् ििणचि यदङ्गाधिकारविहित कार्यन्तस्यैवात्रातिदेशः नतु चिणि दृष्टमात्रस्य । तेन घानिष्यते इत्यत्र 'हनो वध लिडेि, लुडि च' इति विणि दृष्टो वधादेशश्चिण्वदिति नातिदृश्यते । तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाभावात् । तथा अयिष्यते इत्यत्र इणेो गादेशो न । अध्या यिष्यते इत्यत्र इडो गाडादेशो न । द्वैतीयीकत्वात् चिण्वत्वाभावे अयमिट् नेत्याह । अय मिडिति ॥ सेटकस्य वलदित्वलक्षण इट् तु स्यादेवेति भावः । ननु भूयेतेति विधिलिडि चिण्वत्व इट् च स्यातामित्यत आह । इहाधधातुके इति ॥ नेतरेषामिति ॥ स्यसिच्

तासीनां न विशेषणमित्यर्थः । अव्यभिचारादिति ॥ स्यसिच्तासीनां सर्वत्रार्धधातुकत्वनि
४३२
[परस्मैपद्
सिध्दान्तकौमुदीसहिता


ता-भविता । भविष्यते-भविष्यते । भूयताम् । अभूयत । भूयेत । भाविः षीष्ट-भविषीष्ट

२७५८ । चिण्भावकर्मणोः । (३-१-६६)

च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत अभविष्यत । तिडोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दचैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयेसे। अहमनुभूये । अन्वभावि । अन्वभाविषाताम्-अन्वभविषाताम् । णिलोपः । भाव्यते । भावयाचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि, इट एत्वे च, कृते


यमादिति भाव । अत्र वार्तिकम् । “चिण्वदृद्धिर्युक् च हन्तेश्च घत्व दीर्घश्चोक्तो यो मिता वा चिणिति इट्चासिद्धस्तेन मे लुग्यते णिर्नित्यश्वाय वल्लनिमित्तो विघाती” इति स्यसिच् सयुिडितिसूत्रस्य वृष्टद्यादिप्रयोजनमित्यर्थे । तत्र वृद्धि दर्शयति । चिण्वन्द्रावाद्वद्धिरिति ॥ लुटि भूता इति स्थिते चिण्वत्वात् 'अचोऽञ्णिति’ इति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलन्तु वक्ष्यत । तथा दाधातोर्लटि ‘आतेो युक् चिण्कृतो ' इति युक् । तथा लटि घानिष्यते इत्यत्र ‘होहन्तेर्डिणन्नेषु' इति घत्व शमेर्हतुमण्यन्ताल्लुटि शामिता, शमितल्यत्र 'विण्णमुलेो इति दीघ । तथा अनेनैवात्र इटि कृते तस्य आभीयत्वेनाििसद्धत्वात् अनिटीति निषेधाभावात् णिलोपः । तथा भाविष्यते इत्यत्र भू स्य इति स्थिते परमपि वलादिलक्षण इटं बाधित्वा नित्य त्वादनेन इट् । वलुनिमित्ते इटि कृते अकृते च चिण्वदिटः प्रवृत्त्या कृताकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विट् न नित्यः । चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षणस्य इट : अप्रवृत्तेः । निल्यश्चायमित्यस्य चिष्वदिडिति शेषः । वलूनामत्त इत्यनन्तर इडानत्य इति शष । अनित्यत्वे हेतुः । विघातीति । चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवञ्च सेटकत्वेऽ प्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम्। तदाह । भवितेति ॥ चिण्वदिडभावपक्षे वलादिलक्षण इडिति भाव । चिणु भावकर्मणोः ॥ च्लेरिति ॥ च्लेस्सिच्’ इत्यतस्तदनुवृत्तरिति भावः । तशब्दे परे इति ॥ ‘ते पदः' इत्यतस्त चवणू दनुवृत्तरिति भाव । अभावीति ॥ च्लोश्वणि कृते “विणो लुक्' इति तशब्दस्य लोपः । चिण्विधौ तशब्दे किम् । अभाविषाताम् । अथ अनुपूर्वीत् भूधातोरुपभोगार्थकात्सकर्मकेभ्य कर्मणेि लकारे विशेषमाह । तिङोक्तत्वादिति ॥ कर्तुस्त्वनभिहितत्वात् तृतीयैवेति भावः । तदाह । अनुभूयन् आनन्दश्चत्रण त्वया मया चात ॥ इहानन्दस्य तिडाभिहितत्वात् प्रथमेति भाव । युष्मदस्मदुपात्तयाः कत्रस्त्वनभिहितत्वात् तृतीया । अनुभूयेते इति ॥ सुखदुखे इति शेषः । अनुभूयन्ते इति ॥ सुखानीति शष . । णिलोपः इति ॥ भूधा ताणौ वृद्धो आवादेशे भावि इति ण्यन्तात् कर्मणि लटस्तादेशे याकं णिलेोप इत्यर्थः । भावया

मासे इति ॥ प्रथमपुरुषेकवचने उत्तमपुरुषेकवचने च रूपम् । इहति ॥ भावयामासे इत्यत्र
प्रकरणम्]
४३३
बालमनोरमा ।


ह एति' (सू २२५०) इति हृत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादैौ सार्वधातुके एति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट: आभी यत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते-भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट-भावयिषीष्ट । अभावि । अभा विषाताम्-अभावयिषाताम्। बुभूष्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूयते । यङ्लुगन्तात्तु । बोभूयते । बोभवाञ्चक्रे । बोभाविता-बोभविता । अकृत्सार्व—' (सू २२९८) इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता स्तोता । स्ताविष्यते-स्तोष्यते । अस्तावि । अस्ताविषाताम्-अस्तोषाताम् । गुणोऽति' (सू २३८०) इति गुणः । अर्यते । स्मर्यते । सस्मरे । परत्वा


प्रथमैकवचनतशब्दस्य ‘लिटस्तझयो.’ इति एशादेशे उत्तमपुरुषेकवचनस्य इटश्च ‘टित आत्मनेपदा नाम्' इत्येत्वे च कृते भावयामास् ए इति स्थिते ‘ह एति’ इति सकारस्य हकारः प्राप्तो न भवती त्यर्थः । कुत इत्यत आह । तासीति ॥ “ह एति ’ इत्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधि ताहे इत्यादौ तासेस्सस्य सार्वधातुक एव एति परे हकार इति निर्विवादः । तथाविधतासिसाह चर्यादस्तेरपि सकारस्य व्यतिहे इत्यादौ सार्वधातुक एव पर प्रवृत्तिः । अतो भावयामासे इत्यत्र नास्तस्सवकारस्य हकार । एकारस्यार्धधातुकत्वादित्यर्थ । भावितेति ॥ ण्यन्तात् भावि ता इति स्थिते परत्वाद्वलादिलक्षणमिट बाधित्वा चिण्वदिटि तस्याभीयत्वेनासिद्धत्वादनिटीति निषेधाभावाण्णिलोपे भावितेति रूपम् । अत एव विण्वदिड़िधौ उपदेशे योऽजित्येव व्याख्या तम्, नतु उपदेशे अजन्तस्येति । तथा सति हि णिजन्तस्य उपदेशाभावान्न स्यादिति भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन सिद्धत्वाभावादनिटीति निषेधाण्णिलोपाभावे णेर्गुणायादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह । पक्षे भावयितेति ॥ अथ सन्नन्तात् भूधातोः कर्मलकारे उदाहरति। बुभूष्यते इति ॥ यकि सनोऽकारस्य ‘अतो लोप.’ इति लोपः। बुभूषिता । बुभूषिष्यते इति । चिण्वदिटि वलादिलक्षणे इटि व रूप तुल्यम् । चिण्वदिङ्भावपक्षेऽपि तदतिदेशेन प्राप्ता वृद्धि बाधित्वा परत्वादतो लोप । अथयडन्तात् भूधातोः भावलकारे उदाहरति । बोभूय्यते इति ॥ यकि यडोऽकारस्य पूर्ववदतोलोपः । द्वियकारक रूपम् । यड्लुगन्तात् बोभूयते इति एकयकार रूपम् । ठुञ्धातोः कर्मलकारे यकि तस्यार्ध धातुकत्वात् ‘अतो दीर्घ यजि' इत्यप्राप्तावाह। अकृत्सार्वेति ॥ स्ताविता-स्तोतेति ॥ चिण्व दिडभावपक्षे अनिट्कत्वान्नेट् । अथ ऋधातो. कर्मणि लकारे यकि कृते कित्त्वादुणनिषेधे प्राप्त आह्। गुणोऽतति । अर्यते इति ॥ गुणे कृते रपरत्वम् । स्मृधातोः कर्मणि लकारे आह । स्मर्यते इति ॥ 'गुणोऽर्ति' इति सयोगादित्वात् गुणे रपरत्वमिति भावः । ननु लुटि ऋ ता, स्मृ ता इति स्थिते विण्वदिट बाधित्वा परत्वात् गुण. प्राप्तोति नित्यत्वाच्च । अकृते कृते च चिण्व दिटि गुणस्य प्राप्तेः । कृते तु गुणे रपरत्वे अजन्तत्वाभावाचिण्वदिडभावे अनिट्त्वाद्वलादिल

क्षणेडभावे अर्त स्मर्तेत्येव स्यात् । आरिता स्मारितेति न स्यादित्यत आह । परत्वादि
४३४
[भावकर्मति
सिध्दान्तकौमुदीसहिता


ििन्नत्यत्वाच गुणे रपरेकृते अजन्तत्वाभावेऽप्युपदेशग्रहणाचिण्वदिट् । आरिता अतः । स्मारिता-स्मतः । “गुणोऽर्ति -' (सू २३८०) इत्यत्र नित्यग्रहणानु वृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । * आांनांदताम् --' (सू ४१५) इति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । सम्प्रसारणम् । इज्यत । “ अयडिय क्ङिति' (सू २६४९) । शय्यते ।

२७५९ । तनोतेर्यकि । (६-४-४४)

आकारोऽन्तादेशो वा स्यात् । तायते-तन्यते । * ये विभाषा' (सू २३१९) । जायते-जन्यते ।

२७६० । तपोऽनुतापे च । (३-१-६५)

तपश्च्लेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्ख अशोचीत्यर्थः ।


त्यादि ।॥ कृते गुणे रपरत्वे अजन्तत्वाभावेऽपि उपदेशे योऽञ्च् तदन्तस्येत्युक्तश्चिण्वदिट् िनर्वाध इत्यर्थः । आरितेति ॥ कृतेऽपि गुणे रपरत्वे विण्वदिटि उपधावृद्धि । अर्तेति ॥ चिण्वदि डभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु सम्पूर्वात् कृञ्ज. कर्मणि लकारे यकि “रिड् शय ग्लिड्क्षु' इति रिडादेशे “सम्परिभ्यां करोतौ भूषणे, समवाये च' इति सुटि सस्क्रियते इति वक्ष्यते। तत्र ‘गुणोऽर्ति’ इनि सयोगादित्वात् गुणः स्यादित्यत आह । नित्यग्रहणानुवृत्तेरिति ॥ 'नि- त्य छन्दसि’ इत्यतो नित्यमित्यनुवृत्ते’ ‘गुणोऽर्ति’ इत्यत्र नित्य यस्सयोगादिस्तस्यैव सयोगादिलक्षणेो गुण इति लभ्यते । कृञ्जतु न नित्य सयोगादि । सम्परिपूर्वकत्वाभावे तदभावादिति भाव. । अथ स्रसूधातोर्भावलकारे यकि विशेषमाह । अनिदितामिति नलोपः इति ॥ इदितस्त्वि ति ॥ “टु नदि समृद्धौ ’ इत्यस्माद्रावलकारे याकि इदित्वान्नलोपो नेत्यर्थः । अथ यजधातोः कर्म लकारे यकि विशेषमाह । सम्प्रसारणमिति ॥ “वचिस्वपियजादीनाम्' इत्यनेनेति भावः । शीड्धातोर्भवलकारे यकि विशेषमाह । अयङिय क्ङितीति ॥ तनोतेथैकि ॥ ‘विडूनोः इत्यतः आदिति ‘ये विभाषा’ इत्यतः विभाषेति चानुवर्तते । तदाह । आाकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते-तन्यते इति । कर्मणि लकारः । तपोऽनुतापे च ॥ ‘च्लेम्सिच्’ इत्यत. च्लेरिति ‘चिण् ते’ इत्यतश्चिण् इति ‘न रुधः’ इत्यतो नेति चानुवर्तते । चकारात्अ चः कर्म’ इत्यतः कर्मकर्तरीति समुचीयते । तदाह । तपश्च्ले रित्यादि । तत्र कर्मकर्तरि कर्मकर्तृप्रक्रियायामुदाहरिष्यति । अनुतापे कर्मलकारे उदाहरति । अन्वतप्त पापेनेति ॥ पापेनेति कर्तरि तृतीयेति मत्वा आह । पापङ्कत्रिंति ॥ अनुपूर्वस्य तप* पश्चात्तापार्थकत्वे असङ्गतिः । नहि पापस्य सूर्यादिवत्तपनशक्तिरस्ति । शोकार्थकत्वे अकर्मकत्वापत्तिरित्यत आह । अभ्याहत इति । अनुपूर्वस्तपिरिह उपसर्गवशात् अभिहननार्थक इति भावः । तस्य च

सकर्मकत्वात् कर्मलकारः उपपद्यते इति मत्वा आह्। कर्मणि लुङिति ॥ शोकार्थकत्वमाश्रित्य
प्रकरणम्]
४३५
बालमनोरमा ।

घुमास्था-' (सू २४६२) इतीत्वम् । दीयते । धीयते । ‘आदेच - (सू २३७०) इत्यत्र अशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः । एश: आदि शित्वाभावात्तस्मिन्नात्वम् । जग्ले ।

२७६१ । आतो युक्चिण्कृतोः । (७-३-३३)

आदन्तानां युगागमः स्याचिणि विपति णिति कृति च । दायिता-दाता । दायिषीष्ट-दासीष्ट । अदायि । अदायिषाताम्-अदिषाताम् । अधायिषाताम् अधिषाताम् । अग्लायिषाताम्-अग्लासाताम्। हन्यते । 'अचिण्णलो (सू २५७४) इत्युत्तेर्हनस्त ो न । “हो हन्तेः–’ (सू ३५८) इति कुत्वम् । घानिता-हन्ता । घानिष्यते-हनिष्यते । आशीलिङि वधादेशस्यापवादश्चि


भावे वा लुडिल्याह । यद्वा पापेन पुंसा कर्तेति ॥ परिणाममसमीक्ष्य सहसा किञ्चिदकृत्य कृत्वा पश्चात् दुःखमन्वभवदित्यर्थः । दुःखानुभव. शोक. धात्वर्थेनोपसङ्गहादकर्मकः । 'शुच शोके' अकर्मक. । पुत्रमनुशोचवतीत्यत्र तु वियुक्तं पुत्र स्मृत्वा शोचतीत्यर्थः । स्मरण पुत्रस्य कर्मत्वात् द्वितीयेत्यविरोध । अथ दाधातोर्धधाताश्च कर्मलकारे यकेि विशेषमाह । घुमाथे तीत्वमिति । ग्लैधातोर्भावे लिटस्तादेशस्य एशादेशे “आदेच.' इत्यात्वस्य अशितीति निषे धमाशङ्कय आह । आदेच इत्यत्रेति ॥ श् चासाविच इति कर्मधारयाश्रयणादित्सज्ञकशकारादौ प्रत्यये परे आत्त्वस्य निषेधेो लभ्यतेत । एश. शित्वेऽपि आदिभूतशकारेत्कत्वाभावान्निषेधाभावा त्तस्मिन् एशि परे आत्व भवत्येवेत्यर्थ. । जग्ले इति ॥ आत्चे कृते “ आतो लोप इटि च इति तस्य लोप इति भावः । आतो युक् ॥ अङ्गस्येत्यधिकृतमाता विशेषितम्, तदन्तविधि. । अचो णिति' इत्यतो ऽिणतीत्यनुवृत्त कृत एव विशेषणम्, नतु चिणः । तस्य णित्वाव्यभिचा रात् । तदाह । आदन्तानामित्यादि । दायितेति । चिण्वदिट्पक्षे युक्। अदायिषातामि ति ॥ ‘स्थाध्वोरिच' इत्येतत् बाधित्वा परत्वाचिण्वदिटि कृते ‘घुमास्था’ इतीत्वन्न । अजादित्वात्। पुनः ‘स्थाध्वोरिच' इति तु न भवति । अझलादित्वात् । तत्र हि 'इको झल्' इति सूत्रात् झल् इत्यनुवृत्तम् । तथाच झलादिरेव सिच् किदिति लाभादिडादिः सिञ् न कित् । तत्सन्नियोगादि त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नात्र काचित् क्षतिः । सिच' कित्वेऽयनिग्ल क्षणया वृद्या रूपसिद्धेरिति दिक् । अथ हनधातोः कर्मलकारे आह । हन्यते इति ॥ आ चिवण्णलोरिति ॥ लुटि चिण्वदिटि वृद्धौ ‘हनस्तोऽचिण्णलो-' इति हनो नकारस्य तकारो न भवति । चिण्वत्वादित्यर्थः । कुत्वमिति ॥ तस्य णिति विहितस्यात्र विण्वत्वात् प्राप्तिरिति भावः । घानिष्यते इति ॥ 'ऋद्धनोः' इति बाधित्वा नित्यत्वाचिण्वदिट् । 'ऋद्धनोः' इति तु चिण्वदिटि कृते न भवतीत्यनिल्यम् । तत्र वलीत्यनुवृत्तरिति भावः । नन्वाशीर्लिडि घानिषीष्ट त्यत्र ‘हन् सीष्ट’ इति स्थिते परमपि चिण्वत्व बाधित्वा वधादेशः प्राप्रोति। आर्धधातुके विवक्षिते

विहितत्वेन वधादशस्यान्तरङ्गत्वादत्यत आह । आशीर्लिङि वधादेशस्यापवादश्चि
४३६
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता


ण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम्-अहसाताम् अवधि अवधिषाताम् । अघानिष्यत-अहनिष्यत । नच स्यादिषु चिण्वदित्यतिदे शाद्वधादेशः स्यादिति वाच्यम् । “ अङ्गस्य' (सू २००) इत्यधिकारादाङ्गस्यै वातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि”– (सू २५६२) इत्यनेन दीर्घविधानात् । ग्राहिता-ग्रहीता । ग्राहिष्यते-ग्रहीष्यते । ग्राहिषीष्ट-ग्रहीषीष्ट । अग्राहि । अग्राहिषाताम्-अग्रही


ण्वन्द्रावः इति । ननु घानितेत्यादौ प्राप्तऽपि वधादेशे आरम्भात् कथ वधादेशस्य चिण्वद्रावः अपवादः स्यादित्यत आह । आर्धधातुके सीयुटीति ॥ 'स्यसिच्सीयुट्' इति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके सीयुटि, अजन्तस्य तासौ, इत्य जन्तस्य चत्वारि वाक्यानि । एव हनदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थिति । तत्र हनः आर्धधातुके सीयुटि चिण्वदिड़िधिर्निरवकाशत्वाद्वधादेशापवाद. । अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवाद । तस्य वध्यादित्यत्र कर्तरि लिडि चरितार्थ त्वादिति भावः । पक्षे इति । चिण्वत्वाभावपक्षे ‘हनेो वध लिडि’ इति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम् । वधादेशस्यादन्तत्वात् । नच हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वा त्तदीयवधादेशस्यापि तथाविधत्वादिह कथ वलादिलक्षण इडिति वाच्यम् । 'एकाच उपदेशे इत्यत्र अव इत्येकत्वसामथ्र्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन य उपदेशे एकाजेव नतु कदाप्यने काजिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेध . । आदेशोपदेशे अनेका चत्वादित्युक्त प्राक् । लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घ । आत्मनेपदेष्वन्यतरस्यामिति वधादेशाभाव । अधानिषातामिति ॥ विण्वदिटि वधादेशाभावपक्षे रूपम् । अहसाता मिति ॥ चिण्वदिडभावपक्षे 'हनः सिञ्' इति कित्त्वादनुदात्तोपदेशत्यनुनासिकलोप पक्षे अवधीति ॥ “आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशपक्षे इत्यर्थः । अवधिषा तामिति ॥ ‘आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि चिण्वत्त्वान् पाक्षिकतया अप्रा सेऽपि वधादेशे चिण्वत्वस्यारम्भान्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात् स्यादिषु चिण्वत्वाद्वधादेश. स्यादित्याशङ्कय परिहरति । नचेत्यादिना ॥ आङ्गस्यैवेति ॥ वधादेशस्तु द्वैतीयीकः । न त्वङ्गाधिकारस्थ इति भाव. । अथ 'ग्रह उपादाने' इत्यस्माददु पधात् कर्मलकारे उदाहरति । गृह्यते इति । “ग्रहिज्या' इति सम्प्रसारणम् । अथ लुटि तासि चिण्वदिटि 'ग्रहोऽलिटि” इति दीर्घमाशङ्कय आह । चिण्वदिटो न दीर्घत्वमिति ॥ कुत इत्यत आह । प्रकृतस्येति ॥ वलादिलक्षणस्य इट. “ग्रहोऽलिटि

प्रकृतत्वात्तस्यवत्र इति दीर्घविधौ ग्रहणम् । नतु चिण्वदिटः इति भाष्ये स्पष्टम् । ग्राहितेति ॥ चिवण्वदिटि रूपम् । प्रहीतेति । चिण्वदिडभावपक्षे वलादिलक्षणस्य इटो दीर्घ रूपम् । अथ दृशेः कर्म
प्रकरणम्]
४३७
बालमनोरमा ।


षाताम्। दृश्यते । अदृशि । अदशिषाताम्। सिचः कित्त्वादन्न । गिरतेर्लङि ध्वमि चतुरधिकं शतम् । तथा हि । चिण्वदिटो दीघों नेत्युक्तम् । अगारिध्वम् । िद्वतीये ित्वटि *वृतो वा' (सू २३९१) इति वा दीर्घः । अगरी ध्वम्-अगरिध्वम् । एषां त्रयाणां लत्वं चेति पञ्च वैकल्पिकानि । त्वं िद्ववत्रयं इत्थं षण्णवति । 'लिङ्सिचोः–' (सू २५२८) इति विकल्पादिडभावे


लकारे उदाहरति । दृश्यते इति । लिटि ददृशे । लुटि तासि चिण्वदिट्पक्षे दर्शिता। चिण्व त्वाभावे 'सृजिदृशो ' इत्यम् । द्रष्टा । दर्शिष्यते-द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तु लिङ्सिचावात्मनेपदेषु' इति कित्त्वात् “सृजिदृशा.' इत्यन्न । नाप लघूपधगुण । दृक्षीष्ट । अदर्शति ॥ चिणि लघूपधगुण । अदर्शिषातामिति । चिण्वदिटि रूपम् । चिण्वत्वा भाव त्वाह । सिचः कित्वादत्रेति । “लिङ्कसिचावात्मनेपदेषु' इति सिच' कित्त्वात् सृजिदृशेः' इत्यत्र भवति । अकितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इत्वे 'हलि च' इति दीर्घ,गीर्यत । जगिरे। लुटितासि विण्वत्वपक्षे, गारिता। चिण्वत्वाभाव वलादिलक्षणे इटि गुणे रपरत्व गरिता-गरीता, “वृता वा' इति वा दीर्घ । गारिष्यते गरिष्यते-गरीष्यते । गायताम् । अगायत । गीयेत । गारिषीष्ट । विण्वत्वाभावपक्षे तु लिड़सिचोरात्मनेपदेषु' इति इड़िकल्प. । इडभावपक्षे 'उश्च' इति कित्त्वम् । इत्व । रपर त्वम् । ‘हलि च' इति दीर्घः । षत्वम् । गीर्षीष्ट । इट्पक्षे तु, गिरिषीष्ट । लुडि अगारिष्ट । अगारिषाताम्-अगार्षीताम्-अगरिषाताम् । इति सिद्धवत्कृत्य आह । लुङि ध्वमि चतुरधिवकं शतमिति ॥ रूपाणीति शेषः । तदेवोपपादयति । तथाहीति ॥ अगारि ध्वमिति ॥ गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्वैौ रपरत्वे 'धि च' इति सलोपे रूपमिति भावः । द्वितीये त्विटीति ॥ विण्वदिडभावपक्षे वलादिलक्षणे सिच' इटि ऋकारस्य गुणे रपरत्वे ‘धि च' इति सलोपे 'वृतो वा' इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वम्, इति रूप द्वयमित्यर्थ । एषामिति ॥ एषां त्रयाणा रूपाणा मध्य एकैकस्मिन् रेफस्य “ अचि विभाषा' इति लत्वम् । “विभाषेट:’ इति वा धस्य ढत्वम् । तथा धस्य तदादेशढस्य वस्य मस्य च द्वित्वत्रयमित्यव पञ्च वैकल्पिकानीत्यर्थ. । तत्र धढयोर्मस्य च ‘अनचि च' इति द्वित्व विकल्पः । वकारस्य तु मय इति पञ्चमीमाश्रित्य ‘यणो मय .’ इति द्वित्वविकल्प इति विवेकः । यद्यपि धढयेोर्वस्य मस्य च द्वित्वचतुष्टयमिति वक्तुमुचितम् । तथापि ढस्य धस्थानिकतया धढयेोरेकत्वमभिप्रेत्य द्वित्वत्रयमित्युक्तिः । इत्थमिति ॥ एवञ्च त्रयाणामेषा लत्वविकल्पे रेफव न्ति त्रीणि, लकारवन्ति त्रीणि, इति षट्। एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश । तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश । उभयेषामपि द्वादशानां मळने चतुर्विशतिः । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विशतिः, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिशत् । एषु मस्य द्वित्वविकल्पे एकमान्यष्टाचत्वारि

शत्, द्विमान्यष्टाचत्वारिंशदिति षण्णवतिरित्यर्थः । लिङ्कसिचोरितीति ॥ चिण्वदिडभावपक्षे
४३८
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता


उश्ध' (सू२३६८) इति कित्त्वम्। इत्वं रपरत्वं 'हलि च' (सू ३५४) इति दीर्घ । “ इणः षीध्वम्--' (सू २२४७) इति नित्यं ढत्वम् । अगीढ़ेम् । ढवमानां द्वित्वविकल्पेऽष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति ।

इट दीर्घश्चिण्वदिट लत्वढत्वे द्वित्वत्रिकं तथा ।

इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ।।

हेतुमण्यन्तात्कर्मणि ल: । यक् णिलोपः । शम्यते मोहो मुकुन्देन ।

२७६२ । चिण्णमुलोर्दीघेऽन्यतरस्याम् । (६-४-९३)

चणपर णमुलपर च णा मतामुपधायाः दाधा वा स्यात् । प्रकृता मितां ह्रस्वः' (सू २५६८) एव तु न विकल्पितः । ण्यन्ताण्णौ हस्वविकल्पा


वलादिलक्षणस्य इटो ‘लिड़सिचो.' इति विकल्पितत्वात्तदभावपक्षे ‘उश्च' इति सिच.कित्वादुणाभावे ऋत इत्वे रपरत्वे हलि च' इति दीर्घ रेफादिण. परत्वात् 'इणध्षीध्वम्’ इति नित्य ढत्वे अगीर्तुमिति रूपमित्यर्थः । ढवमानामिति ॥ ढस्य ‘अचो रहाभ्याम्' इति द्वित्वविकल्पे एकढ द्विढमिति द्वे रूपे । तयेः वस्य ‘यणो मय.’ इति द्वित्वविकल्पे एकवे द्वे द्विवे द्वे इति चत्वारि । एषु चतुषु मस्य अनचि च' इति द्वित्वविकल्पे एकमानि चत्वारि द्विमानि चत्वारीत्यष्टौ रूपाणीत्यर्थ । षण्णवत्येति॥ उत्क्तषण्णवत्या अष्टाना मेलने सति या सङ्खया सिछद्यति सा चतुरुत्तरशतसङ्खया उत्तेति ज्ञेयमि त्यर्थः। उक्तप्रक्रिया श्लोकेन सगृह्णाति। इट्दीर्घ इत्यादिना । वलादिलक्षण इट्'वृतो वा' इति दीर्घः। अजन्तलक्षणः विण्वदिट्, अचि विभाषा इति लत्व, विभाषेट इति वा ढन्व, धढवमाना द्वित्व त्रिकमित्यष्टाना विकल्पात् चतुरधिक शत रूपाणीत्यर्थ । शम्यते मोहो मुकुन्देनेत्यत्र प्रक्रियां दर्श यति । हेतुमण्यन्तादिति ॥ शमधातोहेतुमण्णौ उपधावृद्धौ अमन्तत्वेन मित्वाद्रस्वे शमीत्यस्मात्कर्मणि ल, नतु भावे । हेतुमण्यन्तस्य सकर्मकत्वनियमादिति भावः । यगिति ॥ तडेि कृते ‘सार्वधातुके यक्’ इत्यनेनेति शेषः । णिलोपः इति ॥ ‘णेरनिटि’ इत्यनेनेति शेषः । लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्वान्नित्यमुपधाहूस्वे प्राप्त । चिण्णमुलो ॥ दोषो गौ' इत्यतो णाविति “ऊदुपधाया गोहः' इत्यस्मादुपधाया इति 'मिता दूस्वः' इत्यतो मितामिति चानुवर्तते । तदाह । चिण्परे इत्यादिना ॥ नान्वह दीर्घग्रहण व्यर्थम् । 'चि ण्णमुलोदीर्घः' इत्यतः अन्यतरस्यामित्येतावतैव 'मिता हूस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्रस्वस्य विकल्पे एव दीर्घविकल्पस्य सिद्धेरित्यत आह । प्रकृतो मितां हस्व एव तु न विकल्पि तः इति । कुत इत्यत आह । ण्यन्ताणाविति । शमधातोण्र्यन्ताण्णौ पूर्वपेणलेंीपे लुटि तासि ण्यन्तस्याजन्तत्वाचिण्वदिटि तस्याभीयत्वेनासिद्धतया अनिटीति निषेधाभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । हूस्वविकल्पस्य विधौ तु हूस्वविकल्पो न स्यात् । प्रथम

णिलोपस्य ‘अचः परस्मिन्' इति स्थानिवत्वेन व्यवहिततया चिण्परकणिपरकत्वाभावादित्यर्थः ।
प्रकरणम्]
४३९
बालमनोरमा ।

सिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिद्धयति । हस्व विधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु “ पूर्वत्रासिद्धे न स्थानिवत् इत्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । णाविति जाति परो निर्देशः । दीर्घग्रहणं चेदं मास्त्विति तदाशयः । शामिता-शमिता शमयिता । शामिष्यते-शमिष्यते—शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता—शंशमिता-शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताचिण्वदिटि दीघ नास्तीति विशेषः । एयन्तत्वाभावे । शम्यते मुनिना ।


दीर्घविकल्पविधौ तु न दोष इत्याह । दीर्घविधाविति ॥ दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत् । दीर्घविधौ स्थानिवत्वनिषेधात् । अतोऽत्र दीर्घविकल्पस्सि छद्यति । दूस्वविधौ तु प्रथमणिलेोपस्य स्थानिवत्व दुर्वारम् । तत्र स्थानिवत्वनिषेधाभावादित्यर्थे । भाष्ये त्विति ॥ न पदान्तसूत्रस्थभाष्ये तु ‘पूर्वत्रासिद्धेन स्थानिवत्' इत्येव सिद्धत्वात् न पदान्त सूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । सुद्धयुपास्य इत्यत्र 'अनवि च' इति द्विर्व चनस्य शिण्ढीत्यत्र 'नश्च' इत्यनुस्वारस्य 'अनुस्वारस्य ययि' इति परसवर्णस्य च प्रतिदीत्र इत्यत्र 'हलि च' इति दीर्घस्य, सग्धिरित्यत्र 'झलाञ्शू झशि' इति जश्त्वस्य, जक्षतुारीलयत्र खरि च' इति चत्र्वस्य, पूर्वत्रासिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौ ‘चिण्णमुलोः' इति दीर्घ कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्व दुर्वारम् । 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाभावान् । ततश्च प्रथमणिचा व्यवहितत्वात् दीघनापतिः । एवञ्च तत्र दीधे कर्तव्ये स्थानिवत्वनिवार णाय दीर्घग्रहणस्यावश्यकत्वात्कथ दीर्घग्रहणप्रल्याख्यानामित्यत आह । णावितीति ॥ चिण्णमुलोः' इति दीर्घविधौ चिण्परे णमुल्परे च णौ इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । । विण्णमुल्परकणित्वजात परतः इति लभ्यते णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्वेऽपि दीघों निबध इति, न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता-शमितेति ॥ शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्घविकल्पः । शमयितेति । चिण्वत्वाभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति ॥ शमधातोयैडि शशम्यते इत्यस्मात् हेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शशमि इत्यस्मात् कर्मलकारे णिलोपे शशम्यते इति रूपमित्यर्थः । शंशामिता-शंशमितेति ॥ “चिण्णमुलो इति दीर्घविकल्पः । शंशमयितेति ॥ चिण्वत् भावे वलादिलक्षणे इटि रूपम् । भाष्य मते त्विति ॥ न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थ. । यङन्तादिति ॥ ण्यन्तादिति शेष । यडन्ताण्णिचि यलोपे आहलोपे च कृते शशमित्यस्माल्लुटि तासि चिण्व दिटि कृते तस्यासिद्धत्वाण्णिलेोपे शंशमितेत्यत्र अछेोपस्य स्थानिवत्वेन णिच्परकत्वाभावात् ‘चि

ण्णमुलोः'इति दीधे नास्ति । भाष्यमते न पदान्तसूत्रे दीर्घग्रहणाभावे स्थानिवत्त्वनिषेधाभावादि
४४०
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता

२७६३ । नोदात्तोपदेशस्य मान्तस्यानाचमेः । (७-३-३४)

उपधाया वृद्धिर्न स्याचिणि ञ्पिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्य' इति किम् । अगामि । 'मान्तस्य' किम् । अवादि । अनाचमेः' किम् । आचामि । * अनाचमिकमिवमीनामिति वक्तव्यम्’ (वा ४५१८) । चिणि * आयाद्य –’ (सू २३०५) इति णिङभावे । अकामि । ऐणचोरप्येवम् । अवामि । * वध हिंसायाम्' । हलन्तः । * जानवध्योश्च (सू २५१२) इति न वृद्धिः । अवधि । जाम्रोऽविचिण्णलङित्सु' (सू २४८०) इत्युक्तेर्न गुणः । अजागरि ।

२७६४ । भञ्ज्ञेश्च चिणि । (६-४-३३)

नलोपो वा स्यात् । अभाजि-अभञ्जि ।

२७६५ । विभाषा चिण्णमुलोः । (७-१-६९)


त्यर्थः । शम्यते मुनिनेति ॥ अकर्मकत्वाद्रावे ल इति भावः । नोदात्तोपदेशस्य ॥ मृजेद्विः' इत्यतो वृद्धिरिति “ अत उपधायाः' इत्यतः उपधाया इति “अचो णिति ’ इत्यतो डिणतीति * आतो युक्' इत्यतश्चिण्कृतोः इति चानुवर्तते । तत्र णितीति कृत एव विशेषणम् नतु विणः। अव्यभिचारात् । तदाह । उपधाया इत्यादिना ॥ अनुदात्तोपदेशास्सङ्कहीताः । ततोऽन्यस्सर्वोऽपि धातुरुदात्तोपदेश.। आङ्पूर्वेश्धमिराचमिः तद्वर्जस्येत्यर्थ । अशमि । अदमी ति ॥ शमधातोर्दमधातोश्च लुडि णिचि “अत उपधायाः’ इति वृद्धिर्न । अगामीतेि ॥ गमे रनुदात्तोपदेशत्वादिति भाव. । अवादीति ॥ वदधातुर्नमान्त इति भावः । आचामीति । अनाचमेरित्युत्तेरिह नोपधावृद्धिनिषेधः । अनाचमिकमिवमीनामिति ॥ आचमिकमिव मिवजनाम्' इत्यर्थः । एवञ्च कमिवम्योरपि न निषेध इति फलितम् । ननु कमेर्णिडन्तत्वात् केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह । चिण्यायादयः इति ॥ णिङ्णि चोरप्येवमिति ॥ णिडन्ताणिजन्ताद्वा कमेश्विणि णिलोपे सति पूर्ववत् रूप शिष्यते इत्यर्थः । ननु ‘जनिवछद्योश्च' इति वधेरुपधावृद्धिनिषेधेो व्यर्थः । वधादेशस्यादन्ततया अछेोपस्य स्थानिव त्वादेव अवधीत्यादौ उपधावृद्यभावसिद्धेरित्याशङ्कय वधिर्धात्वन्तर हलन्तमेव * जनिवद्वद्योश्च इत्यत्र गृह्यत इत्यभिप्रेत्य आह । वध हिंसायां हलन्तः इति । भलेश्च चिणि ॥ ‘श्रान्न लोपः’ इत्यतोनेति लुप्तषष्टीक लोप इति चानुवर्तते । ‘जान्तनशा विभाषा’ इत्यतो विभाषेति मत्वा शेष पूरयति । नलोपो वा स्यादिति । अभाजीति ॥ नलोपपक्षे उपधावृद्धिः । विभाषा

चिवण्णमुलो. ॥ “लभेश्च' इत्यती लभरिति 'इदितो नुम्’ इत्यतो नुमिति चानुवर्तते इति मत्वा
प्रकरणम्]
४४१
बालमनोरमा ।


वा स्यात् । अलम्भि-अलाभि । व्यवस्थितविकल्पत्वा प्रादेनित्यं नुम् । प्रालम्भि द्विकर्मकाणां तु

गौणे कर्मणि दुह्यादेः प्रधाने नीट्टकृष्वहाम्

बुद्धिभक्षार्थयोः शव्दकर्मणां च निजेच्छया

योज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता

(१०९०-१०९५ वार्तिकार्थः) गौर्दूह्यते पय अजा ग्रामं नीयते

शेष पूरयति । लभेर्नुमागमो वेति ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह प्रादेरुपसगात्परस्य लभेर्नित्य नुम् अनुपसर्गात्परस्य तु लभेर्विभाषा नुमिति व्यवस्थितविकल्पाश्रयणादुपसर्गपूर्वस्य लभर्नित्य नु मित्यर्थ । ‘चिण्णमुलोरनुपसर्गस्य’ इति वार्तिकाद्राध्ये ‘उपसर्गात् खल्घो .’ इत्यतः उपसर्गदिति ‘न सुदुभ्यम्’ इत्यतो नेति चानुवर्ल उपसर्गात्परस्य लभे. 'विभापा चिण्णमुलो 'इति नेति व्याख्या तत्वाच्च । एतेन प्रपूर्वस्य लभेर्नित्य नुमिति व्याख्यान परास्तम् कर्मणि' इति कर्मणि लकारा विहिताः । तथा ‘तयोरेव कृल्यक्तखलथी.’ इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते। ते तावत् द्विकर्म कधातुपु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह । द्विकर्मकाणां त्विति ॥ कर्मप्रत्य यव्यवस्था वक्ष्यत इति शेष ता व्यवस्था सार्धश्छेोकेन दर्शयति । गौणे कर्मणी श्रुमुषाम्' गौणे कर्मणि लादयेो मता अकथितश्च' इति सूत्रेण यस्य कर्मसज्ञा तत् गौणङ्कर्मेति बोद्यम्। प्रधाने इति नीहृकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वय अकथितश्च' इति सूत्रादन्येन यस्य कर्म सज्ञा तत्प्रधानङ्कर्मेति बोच्द्यम् । अथ “गतिबुद्धि' इति सूत्रेण ये द्विकर्मकाः तेषु व्यवस्थामाह बुद्धीति ॥ बुद्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणाञ्च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वय इह 'गतिबुद्धि' इत्यनेन यस्य कर्मसज्ञा तत् गौण कर्म । तदितरन्तु प्रधानङ्कर्म । प्रयोज्येति । अन्येषा गत्यर्थाना अकर्मकाणा “ह्मक्रो ? इति सूत्रोपात्तहृकृओश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वय अय साधेश्लोकः * अकथितश्च' इति सूत्रस्थवार्तिक भाष्यसङ्गह इति बोद्यम् । गौदुह्यते पयः इति ॥ गोपेनेति शेषः । अत्र गोरप्रधानकर्म त्वात्तास्मिन् कर्मणि लकारः । तिडा अभिहितत्वात् गोः प्रथमा। प्रधानकर्मत्वात्पय इति द्वितीया न्तम् । तस्य तिडा अनभिहितत्वात् । बलियोच्यते वसुधाम् । अविनीतो विनयं याच्यते तण्डुलाः ओदन पच्यन्ते । गर्गाः शत दण्ड्यन्त । व्रजो रुछद्यते गाम् । माणवकः पन्थान पृच्छयते । वृक्षेोऽपचीयत फलानि । माणवको धर्म उच्यते । शिष्यते वा । शत जीयते देव दत्तः । सुधां क्षीरोदधिर्मथ्यते । देवदत्तश्शत मुष्यते । एतेषु गौणकर्मणि लकार अथ प्रधानेन नीहकृष्वहामित्यत्रोदाहरति । अजा ग्रामं नीयते, ह्रियते, कृष्यते, उह्यते इति । प्रति

क्रियमजा ग्राममित्यन्वेति । उह्यत इत्यत्र वहतेतर्यजादित्वात्सम्प्रसारणम् । अत्र अजायाम्प्रधान
४४२
[भ्वादि
सिध्दान्तकौमुदीसहिता


ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा । भोज्यते माणवकमोदनः, माणवक ओदनं वा । देवदत्तो ग्रामं गम्यते । * अक मैकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते ? । मासो मासे वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ।

इति भावकर्मतिङ्प्रकरणम्


कर्मणि लकारः । प्रामस्यानभिहितत्वात् द्वितीया । बुद्यर्थस्योदाहरति । बोद्धद्यते माणव वकं धर्मः, माणवको धर्ममिति वेति ॥ । अत्र माणवकं गौणकर्मणि धर्मे गुरुणात शष वा प्रधानकर्मणि ण्यन्तात् लकारः। भक्षार्थस्य तु अश्यन्त देवाः अमृतं हरिणा, अश्यतेऽमृत दे वानिति वा उदाहार्यम् । शव्दकर्मकस्य तु वेदोऽछद्याप्यते विधिं हरिणा, वेदमछद्याप्यते विधि रिति वेत्युदाहार्यम् । यदुक्तङ्गल्यर्थाना अकर्मकाणा हृकृओश्चत्येतेषा प्रयोज्यकर्मणि लकार इति । तत्र गत्यर्थस्योदाहरति । देवदत्तो ग्रामं गम्यते इति । यज्ञदत्तेनेति शेषः । अत्र प्रयेो ज्यकर्मणि देवदत्ते गमेण्र्यन्तात् ल । ननु अकर्मकाणा ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति व्यवस्था व्यर्था । तत्र प्रयोज्य विना अन्यस्य कर्मणोऽभावादित्याशङ्कय 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽश्वा च कर्मसज्ञक इति वाच्यम्’ इति वार्तिकेन अकर्मकधातूनामपि देशकालादिकर्मत्वेन ण्यन्ताना तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रल्य मासमास्यते माणवक इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लः, नतु मासे कर्मणि इत्युदाहरिष्यते । एवं तर्हि अण्यन्तेष्वकर्मकेषु मासमास्यते देवदत्तेनेति भावे लकारो न स्यात् । सकर्मकेभ्यः कर्मणि कर्तरि च ल इति नियमात् मास आस्यते देवदत्तेनेत्येव कर्मणि मासे लकारः स्यादित्याशङ्कय आह । अवकर्मकाणामित्यादि । य अकमकाः ' कतुः रीप्सिततमङ्कर्म, तथायुक्तञ्चानीप्सितम्' इति सूत्रसिद्धकर्मरहिता ‘आस उपवेशने, वृतु वर्तने इत्यादयः, तेषां “अकर्मकधातुभिर्योगे' इति वार्तिकसिद्धाकर्मकाणाङ्कर्मणि भावे च लकार इष्यते इत्यर्थः । नचेद वार्तिकमिति भ्रमितव्यम् । भाष्ये अदर्शनात् । किन्तु न्यायमूलकमेव । अकर्मक धातुभिर्योगे देशकालादीना कर्मसज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारे अंकर्मकधातुभिर्योगे' इति वचनव्याख्यावसरे अवोचाम। तदाह । मासो मासे वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वपक्षे कर्मलकार. । मासस्याभिहितत्वात् प्रथमा । मासस्य कर्मत्वाभावपक्षे तु भावे लकारः । मास इति सप्तमी । मासामात त्वपपाठः । अथ प्रकृतमनुस राति । णिजन्तात्विति ॥ आसधातोः प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्म त्वपक्षेऽपि प्रयेोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवकः इति ॥ ण्यन्तात्प्रयो यकर्मणि माणवके ल: । मासस्यानभिहितत्वात् द्वितीया । हृकोस्तु हार्यते कार्यते वा भृत्य कटं देवदत्तेन ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां भावकर्मप्रक्रिया समाप्ता ।


श्रारस्तु

॥ अथ कर्मकर्तृतिङ्प्रकरणम् ॥


यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारका न्तराण्यपि कर्तृसंज्ञां लभन्ते स्वव्यापार स्वतन्त्रत्वान् । नन पृव करणत्वा दिसत्त्वेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसि: छिनति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका आप प्राय


अथ कर्मकर्तृप्रक्रियान्निरूपयिष्यन् कर्मणः कर्तृत्व साधयितुमाह । यदेति ॥ फल यापारयोर्धातुरिति सिद्धान्त. । पचिहिं विकृित्यनुकूलव्यापार वर्तते । तत्र विकृितिः फलम् । तदाश्रय ओदन कर्म । तदनुकृलो व्यापार अधिश्रयणादि पुरुषप्रयन्नरूपो व्यापारः । तत्रा धिश्रयण चुल्या उपरि तण्डुलयुक्तस्थाल्या. । स्थापन स्थित्यनुकूलव्यापार । तत्र स्थितिः मथ लीतण्डुलनिष्ठा । तदनुकूल पुरुपचेष्टाविशेषः । धातूपात्तव्यापाराश्रयः पुरुषः कर्ता । स्वतन्त्र त्वात् । स्वातन्त्रयम्प्राधान्यमिति भाष्यम् । कर्मकरणादिकन्तु पुरुषप्रयन्नपरतन्त्रत्वान्न कर्तृत्व लभते इति स्थितिः । तत्र यदा सौकर्यातिशयविवक्षया कर्तु पुरुषस्य व्यापारः प्रयत्न न वि वक्ष्यते, किन्तु कर्मादिगत एव व्यापार विहित्यादिफलानुकूलत्वेन विवक्ष्यते, तदा कर्मादि कारकाण्यपि ऋकतृसज्ञा लभन्ते इत्यर्थं । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्व तन्त्रत्वात्कथङ्कर्मणः कतृत्वामत्यत आह । स्वव्यापारे स्वतन्त्रत्वादिति ॥ स्वातन्त्रयेण विवक्षितत्वादित्यर्थ । तदुक्त “कर्मवत्कर्मणा' इत्यत्र भाष्ये । ‘कर्मकर्तरि कर्तृत्व स्वातन्त्रयन्व विवक्षितत्वात्' इति । अत्र कर्मग्रहणङ्करणादिकारकस्याप्युपलक्षणम् । तेनेति ॥ असिना छि नत्तीत्यादिप्रयोगदशाया सिकुठारादीनाङ्करणत्वादिसत्वेऽपि, आसि छिनत्ति इत्यादिप्रयागदश याङ्कर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थ . । साध्वसि: छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा। साधु इति क्रियाविशेषणम् । सौकर्यातिशयद्योतनाय अतितैक्ष्ण्यात् पुरुषप्रयत्नवि शेषमाघातातिशय विना स्वयमेव असि: छिनत्तीलयथे । काष्ठानि पचन्तीति ॥ अत्रापि करणानाङ्कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राधिकरणस्य कर्तृत्वविवक्षा । काष्ठानाम तिशुष्कत्वात् धमनफूत्कारानपक्षया स्थाल्या आतलघुत्वादावलम्ब्य श्रपणतया साकयम्बाछद्यम् । कर्मणास्त्विति ॥ ये छिदिभिदिप्रभृतयः एककर्मकाः तत्र कर्मणः कर्तृत्वविवक्षाया वृक्षः छि नत्तीत्यादौ सकर्मकत्वऽपि सम्प्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थ. । ये तु द्विकर्म

काः तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्वात्प्रायेणेत्युक्तिः ।
४४४
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

णाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते ओदनेन । भिद्यते काष्ठेन । कतार तु

२७६६ । कर्मवत्कर्मणा तुल्यक्रियः । (३-१-८७)

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कार्यातिदेशोऽयम् कमवत्स्यात् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः। भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुद्वितीया स्याद्स्मा दतिदेशादिति चेन्न । लकारवाच्य एव हि कर्ता कर्मवत् । “लिङ-याशिष्यङ्


ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा सुधा क्षीर सागरो मथ्यते । कर्तरि यथा सुधा क्षीरसागरो मथ्नाति । अथ यदुक्त एककर्मकेषु कमेण: कर्तृत्वविवक्षायामकर्मकत्वमिति तस्य प्रयोजनमाह तेभ्यो भावे कर्तरि चव लकाराः इति ॥ नतु कर्मणि। असम्भवात् । अत एव अकर्मकेभ्यो भावे कर्तरि ल इत्युक्त मिति मावः । तत्र एककर्मकेभ्य कर्मण कर्तृत्वविवक्षाया भावे लकार उदाहरति । पच्यते ओोदनेननेति । आदनकर्तृक पाक इत्यर्थः । एव भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्धिकर्मक त्वम् । तथापि तण्डुलानामविवक्षाया एककर्मकत्व पचेराश्रितम् । कर्तरि त्विति ॥ एकक मैकषु कर्मण. कर्तृत्वविवक्षायाङ्कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः । कर्मवत्कर्मणा ॥ कर्तरि शप्' इत्यत. कर्तरीत्यनुवृत्त प्रथमया विपरिणम्यते । तुल्या िक्रया यस्य स. कर्ता तु ल्यक्रियः । कर्मणेल्यनेन कर्मकारकस्था क्रिया विवक्षिता । क्रियाया. कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् । तदाह । कर्मस्थयेत्यादिना ॥ कर्मणः कर्तृत्वेन विवक्षा या कता कमवादात यावत् । वत्करणाभाव तु कर्मसज्ञक इत्यथशङ्का स्यात् । तथा सांत सकर्मकत्वात् पच्यते ओदनेन भिद्यत काष्ठनेति भावे लो न स्यात् । कार्यातिदेशोऽय मिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेद तथापि शास्त्रातिदेशस्या का यतिदशार्थत्वान्मुख्यत्वात् कार्यातिदेश एवाश्रयणीय इत्यर्थ. । तेनेति ॥ स्युरित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणि ‘सार्वधातुके यक्' इत्यत. यक् । 'भावकर्मणो ' इत्यात्मनेपदम् । “स्यसिच्सीयुट्तासिषु' इति चिण्वत्, तत्सन्नियोगशिष्ट इट् च स्युरित्यर्थ । कर्मण कर्तृत्वविवक्षायाङ्कर्तरि विहितानि शास्त्राण्येव न स्युरिति भाव . । कर्तुरिति कर्मण कर्तृत्व विवक्षायाङ्कर्तरि लकारे सति तदादेशतिडा कर्तुरभिहितत्वादित्य र्थ. । पच्यते ओदनः इति फूत्कारादिपुरुषश्रमातिशयविशेष विना विकृित्याश्रयो भवतीत्यर्थः । भिद्यते काष्टमिति ॥ कुठारादिदृढाघातम्पुरुषश्रम विना द्विधा भवतीत्यर्थ । अत्र कमण' कतृत्वऽप कमत्वातद शाद्यक् । आपाचव । अभेदीति । अत्र कमवत्वाचणू । ननु कमण' कतृत्वाववक्षाया भावलकारे पच्यते ओदनन, भिद्यतेत काष्ठेनेत्यत्र कर्मकर्तुस्तिडाऽनभिहितत्वात् द्वितीया स्यात् । कर्मवत्वातिदेशादित्याशङ्कते । नन्विति ॥ परिहरति । नेति ॥ नायमाक्षेप उन्मिषतीत्यर्थः ।

कुत इत्यत आह । लकारवाच्य एव हि कर्ता कर्मवदिति ॥ तच कुत इत्यत आह ।
प्रकरणम्]
४४५
बालमनोरमा ।


(सू ३४३४) इति द्विलकारकात् लः' इत्यनुवृत्तेः भावे प्रत्यये च कर्तुर्लका रेणानुपस्थितेः । अत एव कृत्यक्तखलर्थाः कर्मकर्तरि न भवन्ति । किं तु भाव एव । भत्तव्यं कुसूलंन । ननु पचिभिद्योः कमेस्था क्रिया विकित्तिद्विधाभवन स्वदाना कस्थिा नतु तत्तुल्या सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपा तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । “ कर्मणा' इति किम् करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोत्ते साध्वसिरित्या दा मा भूत् । किच क तेस्थक्रियेभ्यो मा भूत् । गच्छति प्राम आरोहति हस्ती । 'अधिगच्छति


लिङयाशिषीति ॥ 'व्यत्ययो बहुलम्, लिडयाशिष्यड्’ इति सहितया पाठे लकारान् पूर्व लकारान्तर ' हलो यमाम् इति लुप्त प्रश्लिष्यति ततश्च लू लू इति द्विलकारात् सूत्रात् ल इति षष्ठयन्त “कर्मवत्कर्मणा' इत्यत्रानुवर्त ते । तथाच ल: कर्ता कर्मचदिति लभ्यते वाच्यत्व षष्ठयथ प्रकृते किमायातमित्यत आह । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति । तत्र भावस्यैव तद्वाच्यत्वादिति भाव अत एवात लकारवाच्यस्यैव कर्मकतुं कर्मवत्ववेि धानादेव कृत्यक्तरवलथोः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति । तस्य लक्रारवाच्य वाभावेन कर्मवत्त्वस्य तत्राप्रवृत्तेरित्यर्थ ननु 'सिनोतेप्रसकर्मकर्तृ कस्य' इति निष्ठानत्वार्तिके सिनो ग्रासः स्वयमेवेति भाष्ये कथमुदाहृतम् । क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेत् उच्यते । अत एव भाघ्यात्'निष्ठा' इति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते । सिनो ग्रासः स्वयमेवेत्यत्र तु गत्यर्थाकर्मकेत्यादिना कर्तरि विहितः क्तप्रत्यय. कर्मकर्तरि भवत्येवेति शब्देन्दुशेखर विस्तर भरतव्य कुसूलनात पुरुषप्रयत्न्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्य णः कर्तृत्वविवक्षादशायामित्यर्थ नतु तत्तुल्येति ॥ तुल्यत्वस्य भदघटितत्वादिति भाव अर्धाङ्गीकारेण परिहरति । सत्यमिति ॥ विकृित्तिद्विधाभवनञ्च कर्मस्थमेव सम्प्रति कर्तृ स्थमिति युक्तम् । अथापि तयोस्तुल्यत्वाभावस्तु नेत्यर्थः । कर्मत्वेति अवस्थे धर्मविशेषेौ तयोभेदः स एव उपाधिः निमित्त यस्य तथाविध तत्समानाधिकरण कर्मत्वकर्तृत्वसमानाधिकरण क्रियाभद आश्रित्य तुल्यव्यवहार इत्यर्थः । वास्तवभेदाभा छिनाति स्थाल्या पञ्चतीत्यत्र करणाधिकरणयोर्यो व्यापारः स एव असिश्छिनत्ति स्थाली पञ्चती त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्च स्यात् । तन्निवृत्त्यर्थङ्कर्मणेति पदमित्यर्थ. । ननु 'कर्मवत्क र्मणा' इत्यत्र ‘धातोरेकावः’ इत्यतो धातोरित्यनुवर्तते । धातोर्वाच्या क्रियया तुल्यक्रिय इत्यर्थ करणत्वाद्यवस्थाया वस्तुतस्सन्नाप आासस्थाल्याव्यापारा न धातूपान्त इति नात्तदाष इत्यस्खरसा दाह । किञ्चेति । गच्छति ग्रामः इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च

श्रम विना प्राप्त्याश्रयो भवतीत्यर्थ आरोहति हस्तीति ॥ अङ्कशाघातादिहस्तिपक
४४६
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

शास्रार्थः, स्मरति, श्रद्दधाति वा ।’ यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पचकषु तण्डुलेषु, यथा वा छिन्नेषु काष्ठेषु, तत्र कर्मस्था क्रिया । नेतरत्र । न हि पकापकतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरुत्पाद् नार्थः । उत्पत्तिश्च कर्मस्था । तेन करिष्यते घट इत्यादि । यत्रार्थत्वे तु नैत त्सिद्धयेत् । ज्ञानेच्छादिवद्यदन्नस्य कर्तृस्थत्वात् । एतेनानुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छयनि कृते ओलोपे च रूपसिद्धेः ।


व्यापार विना खयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः । 'अधिगच्छति शास्त्रार्थ स्मरति श्रद्दधाति वेति॥' पूर्वार्धमिदम् । यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा’ इत्युत्तरा र्धम् । गुरुकृपालेशादेव श्रम विना स्वयमेव शास्त्रार्थ आधिगच्छति निश्चयविषयो भवति स्मृष्टः तिविषयो भवति श्रद्धाविषयेो भवतीत्यर्थः । अत्र कमेकर्तुः ग्रामादेः कर्तृस्थक्रियावत्वन कर्म स्थक्रियावत्वाभावात् न कर्मवत्वम् । अत न कर्मकार्य यगादि । किन्तु कर्तृकार्य शबादेवेति भाव. । ननु कर्मकर्तुः ग्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह । यत्रेति ॥ यत्र कियाकृत. विशेष वैलक्षण्य दृश्यते प्रत्यक्षमुपलभ्यते तत्र कर्मणि विद्यमाना क्रिया कर्म स्थाक्रयत्युच्यत इत्यन्वय । तदुदाहृत्य दर्शयति । यथा पकेषु तण्डुलेष्विति ॥ तण्डु लावस्थापेक्षया विकृित्तिकृतेो विशेषो दृश्यते इति शष । अन्यत्रापि क्रियाकृत वैलक्षण्यमुदा हृत्य दर्शयति । यथा वा छिन्नेषु काष्ठष्विति ॥ अछिन्नापेक्षया वैलक्षण्य दृश्यते इति शेषः । गच्छति ग्राम इत्यादौ तु नैवमिल्याह । नहीति ॥ ग्रामेष्विति ॥ उपलक्षणमिदम् । पञ्चकापकतण्डुलेषु यथा क्रियाकृत वैलक्षण्यमुपलभ्यते तथा गतागतग्रामे आरूढानारूढहस्तिनि अधिगतानाधिगते स्तृतास्तृते श्रद्विताश्रद्विते च शास्त्रार्थे क्रियाकृतवैलक्षण्यन्न दृश्यते इत्यर्थः । प्रामगमनादौ कर्तयैव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यन्नस्यापि कर्तृ स्थत्वात् तद्वाचिनः कृत्रेोऽपि कर्ता न कर्मवत्स्यात् । ततश्च क्रियते घटः स्वयमेवेति यगादि न सिद्येदित्याशङ्कय कृओो न यत्रार्थत्वमित्याह । करोतिरुत्पादनार्थः इति । उत्पत्त्यनुकू लव्यापारार्थक इत्यर्थ । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थ क्रियत्वन्तत्कर्तुरुपपादयति । उत्पत्तिश्च कर्मस्थेति ॥ उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्षत्वादिति भाव । तेनेति ॥ कृञ्ज. कर्तु कर्मस्थक्रियत्वेनेत्यर्थः । तथाच क्रियतेत घटः स्वयमेवेत्यत्र यक् । तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्ता इति सिद्धवत्कृत्य आह । करिष्यते घट इत्यादीति । चिण्वदिट्पक्षे कारिष्यते इति रूपम् । तदाभावपक्षे तु ‘ऋद्धनो स्ये' इति इट्। करिष्यते । सायुटश्चिण्वदिटि कारिषीष्ट । तदभावे तु कृषीष्ट । लुडि अकारिष्ट अकृत । नैतदिति ॥ कर्मवत्वन्न सिद्धेदित्यर्थ . । यतते इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोद्यम् । एतेनेति ॥ ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थ. । अनुव्यवस्यमानेऽर्थे इति । अर्थे स्वयमेव निश्चयविषयता सम्पद्यमाने इत्यर्थः । व्याख्यातमिति । समर्थितमित्यर्थः ।

कथ समर्थितमित्यत आह । कर्तृस्थत्वेन यगभावादिति ॥ अनुव्यवसायः निश्चयः तत्र
प्रकरणम्]
४४७
बालमनोरमा ।


ताच्छील्यादावयं चानशू न त्वात्मनेपदम् । “ सकर्मकाणां प्रतिषेधो वक्तव्यः’(वा १८७३) । अन्योन्यं स्पृशतः । अजा ग्रामं नयति । दुहिपच्योर्बहुलं सकर्मक योरिति वाच्यम' (वा १८७६) ।

२७६७ । न दुहस्नुनमां यक्चिणौ । (३-१-८९)


कर्मकर्ता अर्थः सः न कर्मस्थक्रियः । अर्थे अनुव्यवसायकृतवैलक्षण्याभावात् । किन्तु कर्तृस्थक्रिय एव । अनुव्यवसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्च कर्मवत्वाभावान्न यक् । यकि तु कित्वात् “घुमास्थागापाजहातिसाम्' इति ईत्वे अनुव्यवसीयमान इति स्यादित्यर्थः । ननु यगभावे कथं यकारश्रवणमित्यत आह । इयनीति ॥ “पो अन्तकर्मणि' इति धातोरनुव्य वपूर्वादुपसर्गवशेन निश्चयवृत्तेर्लट आनादेशे कृतेश्यनि'ओत इयनि'इत्येोकारलोपे अनुव्यवस्यमान इति रूपसिद्धेरित्यर्थः । ननु कर्मवत्वाभावे “भावकर्मणोः' इत्यात्मनेपदाभावात् कथमिह लटश्शानच् । स्यात्मनेपदत्वादित्यत आह । ताच्छील्यादाविति ॥ ‘ताच्छील्यवयो वंचनशक्तिषु चानश्’ इत्यनेन चानाशित्यर्थः । तस्य चव लादेशत्वाभावेन आत्मनेपदत्वा भावात् कर्मवत्वाभावेऽपि कर्मकर्तरि प्रवृत्तिर्निबधा । तदाह । न त्वात्मनेपदमिति ॥ ननु अन्योन्य स्पृशत स्वयमेव यज्ञदत्तदेवदत्तावित्यत्रापि कर्मवत्वाद्यगादि स्यात् । तत्र हि स्पृ शिस्सयोगानुकूलव्यापारार्थेक उभावपि कर्तारौ कर्मभूतैौ च । स्पर्शन क्रियाया एकत्वेऽपि आश्रयभेदात्तद्रेदमाश्रित्य यज्ञदत्तनिष्ठा स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम् । एवं देवदत्तनिष्टामपि स्पर्शनाक्रिया प्रति यज्ञदत्तस्य कर्मत्वम् । एवङ्कर्तृत्वमायुभयो ज्ञेयम् । एवञ्च उभयोः कर्तृत्वकर्मत्वसत्वादेकस्मिन् कर्तरि कर्मणि वा या स्पृशिक्रिया सैवे तरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्व स्यात् । आश्रयनिबन्धनं भेदमाश्रित्य तुल्य क्रियत्वेोपपत्ते. । स्पृष्टास्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावदर्शनाचेत्यत आह । सवकर्म काणां प्रतिषेधः इति ॥ एककर्मकाणां छिदिभिदिप्रभृतीना कर्मणः कर्तृत्वविवक्षया अकर्म काणां कर्तुः कर्मवत्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातव तेषा धातूना कर्मकर्तुः कर्मवत्त्वप्रतिषेधेो वक्तव्य इत्यर्थः । अन्योन्यं स्पृशतः इति ॥ कर्मवत्वे तु यकि तडि च स्पृश्येते इति स्यादिति भावः । ‘सकर्मकाणां प्रतिषेधः' इत्य स्य उदाहरणान्तरमाह । अजा ग्रामं नयतीति ॥ अजा ग्राम स्वयमेव प्राप्रेोतीत्यर्थ अत्र नयन प्रलयजायाः कमण कर्तृत्वविवक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भावः । वस्तुतस्तु गते अगते च ग्रामे वैलक्षण्याभावादेवात्र कर्मवत्वस्याप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्य स्पृशतः, अन्योन्यं सगृ हीतः, इत्येवोदाहृतामिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति ॥ कर्मवत्त्वमिति शेषः । अनयोर्द्धिकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन क मैवत्वनिषेधे प्राप्त प्रतिप्रसवोऽयम् । न दुह ॥ दुह स्नु नम् एषान्द्वन्द्वः । कर्मकर्तरीति ॥

एततु नानुवृतिलभ्यम् । पूर्वत्रानुपलम्भात् । किन्तु 'कर्मवत्कर्मणा तुल्यक्रियः’ इति समभिव्या
४४८
[कर्मकर्तृति
सिध्दान्तकौमुदीसहिता

एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेध चिण्तु विकल्पिष्यते । शप्, लुक् । गौः पयो दुग्धे

२७६८ । अचः कर्मकर्तरि । (३-१-६२)

अजन्ताच्च्लेश्चिण्वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि-अकृत ।

२७६९ । दुहश्च । (३-१-६३)

अदोहि । पक्षे क्स । 'लुग्वा–' (सू ३६५) इति पक्षे लुक् । अदुग्ध-अधुक्षत । उदुम्बरः फलं पच्यते । 'सृजियुज्योः इयंस्तु' (वा १८७७)


हारलभ्यमेव । “अचः कर्मकर्तरि 'इत्यतो मण्डूकप्लुया तदनुवृत्तिर्वा । दुहेरननेति ॥ दुहस्नुनमाम्' इत्यनेन दुहेः कर्मकर्तरि यक एव निषेध. । चिण्तु 'दुहश्च' इति वक्ष्यमाण सूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थ । चिण्तु विक ल्पेनेष्यते इति कचित्पाठः । दुग्धे इत्यत्र प्रक्रिया दर्शयति । शप् लुगिति ॥ दुहेः कर्मकर्तरि यकि निषिद्धे शप् प्रवर्तते। तस्य ‘आदिप्रभृतिभ्य' इति लुगित्यर्थः । गौः पयो दुग्धे इति ॥ गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूताया गवि लट् । स्वरितेत्वेऽपि भावकर्मणेो इत्यात्मनेपदमेव । ‘न दुह’ इति न यक्। गा पयो दुग्धे इति तु नोदाहृतम् । 'गौणे कर्मणि दुह्या देलदयो मता.' इत्युक्ते.। अच कर्मकर्तरि ॥ 'च्लेस्सिच्' इत्यतः च्लरिति 'चिणु ते पदः इत्यतः चिण्ते इति, दीपजन इत्यतः अन्यतरस्यामिति, चानुवर्तते । ‘धातोरेकावः’ इत्यतेो अनुवृत्तस्य धातुग्रहणस्य अचा विशेषितत्वात्तदन्तविधि । तदाह । अजन्तादित्यादिना । अकारीति ॥ कटं स्वयमेवेति शेषः । कर्मकर्तरि लुइ । च्लेश्चिण् । वृद्धिः। रपरत्वम्। ‘विणो लुक्’ इति तशब्द स्य लुक् । अकृतेति ॥ विणभावपक्षे 'डूस्वादङ्गात्' इति सिचो लोप । दुहश्ध ॥ अच इति वर्ज पूर्वसूत्रं तत्रानुवृत्त, तत्सर्वमिहानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेविण्वा स्यादित्यर्थः । स्पष्ट इति न व्याख्यातम् । अनुवृतिसौकर्यार्थमेव पूर्वसूत्र प्रकृतदुद्दधातावनुपयुक्तमप्युपन्य स्तम् । अदोहीति ॥ दुहेः कर्मकर्तरि लुड् । स्वयमेव गौः पय इति शेष. । चिण्पक्षे लघू पधगुणः । चिणभावपक्षे आह । पक्षे क्सः इति ॥ ‘शल इगुपधात्’ इत्यनेनेति भावः। लु ग्वेति ॥ “लुग्वादुहृदिहलिहगुहाम्' इति क्सस्य पाक्षिको लुगिल्यर्थः । अत्र दुहिपच्योरित्यत्र पचेरुदाहरति । उदुम्बरः फलं पच्यते इति ॥ उदुम्बरवृक्ष फल पचति कालविशेषः इत्यत्र द्विकर्मकः पाचिः । इह तु इदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फल पञ्चकाश्रय करोतीत्यर्थः । अत्र उदुम्बरस्य गौणकर्मण. कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मक त्वात् “ सकर्मकाणां प्रतिषेधः' इति कर्मवत्वस्य प्रतिषेधे प्राप्त 'दुहिपच्योः ' इति कर्मवत्वस्य प्रतिप्रसवाद्यगादिकामिति भाव. । वस्तुतस्तु भाष्ये द्विकर्मकेषु पच्चरपरिगणनान्न द्विकर्म कत्वामिति कारकाधिकारे प्रपचितमस्माभिः । तथाच कर्मकर्तरि उदुम्बरः फलं पच्यते इत्यत्र

फलस्यैव कर्मतया तस्य कर्तत्वविवक्षायां पचेरकर्मकत्वात् ‘सकर्मकाणाम्’ इति प्रतिषेधस्याप्रसत्ते
प्रकरणम्]
४४९
बालमनोरमा ।

अनयोः सकर्मकयोः कर्ता बहुलं कर्मवद्यगपवादश्च इयन्वाच्य इत्यर्थः । ‘मृजे श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्' (वा ५०५४) सृज्यते स्रजं भक्तः । श्रद्धया निष्पाद्यतीत्यर्थः । असर्जि । युज्यते ब्रह्मचारी योगम् । “भूषाकर्मकिरादिसनां


प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि । तथाप्यत्र मते उदुम्बरः फल पचतीत्यत्र कर्तृलकारे पचेः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाभावादुदुम्बर. फल पच्यत इति कर्मकर्तरि 'कर्मवत्कर्मणा' इति कर्मवत्वस्याप्राप्तौ ‘दुहिपच्यो.’ इति कर्मवत्वस्य बहुल पचेरपूर्वविधिरित्यन्यत्र विस्तरः । ‘सृजि युज्योश्यस्तु इति वार्तिकम्। अनयोः सकर्मकयोः इत्यादि तद्राष्यम्। अत्र सृजियुज्योर्दैवादिकयेोर्न ग्रहणम् । तयेोरकर्मकताया उक्तत्वात् । किन्तु ‘सृज विसर्गे' इति तौदादिकस्य ‘युजियेंगे' इति रौधादिकस्य च ग्रहणम् । तत्र विसर्ग उत्पादनम् । यथा प्रजास्सृजतीति । योगस्सयोजनम् । यथा अश्व युनक्तीति । रथादिना सयोजयतfति गम्यते । ससृजेः श्रद्धोपपन्ने इति ॥ श्रद्धायुक्त मुख्यकर्तर्येव उक्तो विधिरित्यर्थ । तत्र मुख्यकर्तरि अत्यन्ताप्राप्त कर्मवत्वमिह बहुल विधीयते । 'युजेस्तु कर्मकर्तयेव उक्तविधिः' इति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्या भावादप्राप्त कर्मवत्वमिह बहुल विधीयते । कर्मवत्वे सति यकिं प्राप्त तदपवादश्यन्विधीयते । तेन ‘ञ्णिल्यादिर्नित्यम्’ इत्याद्युदात्तत्व सिद्धति । यकि तु 'तास्यनुदात्तत्' इत्यादिना लसार्वधातु कानुदात्तत्वे प्रत्ययस्वरेण यक उदात्तत्व स्यान् । स्पृज्यते स्रजै भक्तः इति । अत्र मुख्यक र्तरि लकारः। कर्मवत्वादात्मनेनपदम् । यगपवादश्यन् । श्रद्धया निष्पादयतीत्यर्थः इति ॥ धातूनामनेकार्थत्वादिति भाव । सृज्यते स्रज भक्त इत्यत्र यदा तु निष्पादयतीत्येवार्थः, ननु श्रद्धयेति तदा सृजति स्रजमियेव भवति । अथ युजेरुदाहरति । युज्यते ब्रह्मचारी योगमिति । अत्र कर्मकर्तरि यगपवादः श्यन्निति भाष्यम् । योगश्चित्तवृत्तिनिरोध. योगशः स्रप्रसिद्धः । ब्रह्मचर्य स्त्रीसङ्गराहित्यम् । ‘तद्योगाङ्गम्' इति च योगशास्त्रप्रसिद्धम् । सः योग ब्रह्मचारिण युनक्ति । आत्मदर्शनेन सयोजयतीति कर्तृलकारे सयोजनक्रियाया योगो मुख्यकर्ता । ब्रह्मचारी तु कर्मेति स्थिति । तत्र कर्मणो ब्रह्मचारिण कर्तृत्वविवक्षायां युज्यते ब्रह्मचारी यो गमिति कर्मकर्तरि ब्रह्मचारिणि लकार. कर्मवत्वम् । स्वरितेत्वेऽपि कर्मवत्वात्तदेव यगपवाद ३श्यन् । ब्रह्मचारी प्राणायामाभ्यासादिश्रमबाहुळ्य विना खयमेव योगेन सबछद्यते इत्यर्थः । तत्र ब्रह्मचारिणि कर्मकर्तरि धात्वर्थसम्बन्धः अनुयोगितया वर्तते । योगे तु प्रतियोगितया वर्तत इति स्थितिः । तत्र यद्यपि प्रतियोगिनो योगात् ‘सहयुत्तेऽप्रधाने' इति तृतीया भवितव्या । तथापि युजेः प्रतियोगित्वावच्छिन्नसम्वन्धोऽर्थः । तत्र प्रतियोगित्व फल, सम्बन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वात् द्वितीयेति समाहित शब्दन्दुशखरे । अत्र भाष्ये प्रयेोगादेव योगात् द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म किरादि सन् एषा द्वन्द्वः । अन्यत्रेति स्वार्थे त्रल् । आत्मनेपदात् अन्यत्कर्मकार्यमिति लभ्यते । भूषा कर्म क्रिया येषा


१. अत्र च ‘सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्रावो वाच्यश्चिणात्मनेपदार्थः' इति भाष्यं
४५०
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

चान्यत्रात्मनेपदात्' (वा १८८०) भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ विण्वदिट् च नेति वाच्यमित्यर्थः । अलकुरुत कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ट । गिरते। अगीष्ट । आद्रियते । आदृत । किरादि स्तुदाद्यन्तर्गणः । चिकीर्षते कट: । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियात्वम् ।

२७७० । न रुधः । (३-१-६४)

अस्माच्लेश्चिण्न । अवारुद्ध गौ : । कर्मकर्तरीयेव । अवारोधि गौगोपेन ।

२७७१ । तपस्तपःकर्मकस्यैव । (३-१-८८)


वाच्यतया ते भूषाकर्माण धातवः । भूषणक्रियावाचिनामिति यावत् । तदाह । भूषा वाचिनामित्यादिना ॥ अलंकुरुते कन्येति ॥ स्वयमेव अन्यप्रयत्न विना भूषण क्रियापतीत्यर्थः । अत्र भूषार्थकत्वात् कर्मकर्तरि तडेव नतु यक् । अलमकृतेति ॥ अत्र तडव नतु चिण् । लुटि तु अलङ्कतैत्येव । नतु चिण्वदिटौ । अवकिरते हस्तीति ॥ हस्ति नमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकार । तत्र हस्ती कर्म । तस्य कर्तृत्वविवक्षाया स्वयमेव पुरुषप्रयत्न्न विना वृक्षादिसमीप गच्छन् पुष्पादिभिः अवकिरणवान् भवतीत्यर्थः । अत्रापि तडेव, नतु यगादि। अवाकीर्थेति ॥“लिङ्सिचोरात्मनेपदेषु' इति वेट्। गिरते इति ॥ ओदन स्वयमेवेति शेषः । 'गृ निगरणे' अयङ्किरादि. । आद्रियते इति ॥ 'दृड् आदरणे' अयमपि किरादि . । शप्रत्यये 'रिड् शयग्लिङ्क्षु' इति रिङ् । आतिथिमाद्रियते इति मुख्य कर्तरि आद्रियतेऽतिथिरिति कर्मकर्तरि स्वयमेव आदरणाश्रय इत्यर्थः । अत्र यद्यपि श याकि च न विशेष । तथापि न्याय्यश्श एव । यको निषिद्धत्वात् । स्वरे वा विशेषः । तडेि तु डित्वादेव सिद्ध: । अतिथेरभिहितत्वात् प्रथमेति विशेष । अादृतेति ॥ चिणोऽनेन निषेधे हृस्वादङ्गात्' इति सिचो लोप । ‘उश्च' इति कित्त्वम् । अथ सन्नन्तस्योदाहरति । विकी र्षते कटः इति ॥ स्वयमेव कर्तुमिच्छाविषय इत्यथे. । नन्विच्छायाः पुरुषरूपकर्तृनिष्ठ त्वात् कटरूपकर्मनिष्ठत्वाभावात् इच्छाया सत्यां असल्याञ्च कटे कर्मणि वैलक्षण्यादर्शनाच कर्म स्थक्रियत्वाभावादिह कर्मवत्वस्याप्रसत्तेस्तन्निषेधो व्यर्थ इत्यत आह । इच्छायाः इति ॥ न रुधः ॥ ' च्लेस्सिचु' इत्यत. च्लेरिति “विण्ते पदः' इत्यतश्चिणिति चानुवर्तते । तदाह । अस्माच्च्लेश्चिण् नेति ॥ अवारुद्ध गौरिति ॥ स्वयमेवेति शेष वेति ॥ “ अचः कर्मकर्तरि' इत्यतस्तदनुवृत्तरिति भाव. । अवारोधि गौगपेनेति ॥ इह गो. कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः । तपस्तपःकर्मकस्यैव ॥ आद्य तपः इति षष्ठयन्तम् । तपःकर्मकस्यैव तपधातोरिति लभ्यते । “कर्तरि शप्’ इत्यत

कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते । “कर्मवत्कर्मणा' इत्यतः कर्मवदित्यनुवर्तते, इति मत्वा
प्रकरणम्]
४५१
बालमनोरमा ।

कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनु सारिण : । तप्यत तपस्तापसः । अजयतात्यथ । ;तपोऽनुतापे च ' (सू २७६०) इति चिण्निषेधात्सिच । अतप्त । “ तपःकर्मकस्य' इति किम् । उत्तपति सुवणे सुवर्णकार । न दुहस्नुनमां यक्चिणौ' (सू २७६७) । प्रस्नुते । प्रास्नाविष्ट-प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यथर्थोऽत्र


सूत्रशेष पूरयति । कर्ता कर्मवदिति ॥ विद्धधर्थमिदमिति । एतच्चानुपदमव उदाह रणव्याख्यावसरे स्पष्टीभविष्यति । ननु विद्यर्थत्व एवकारो व्यर्थ इत्यत आह । एवकारः स्त्विति ॥ तप्यते तपस्तापसः इति । अत्र तपिरार्जनार्थक इत्याह । अर्जयती त्यथः इत ॥ प्राजापत्यचान्द्रायणादिकृच्छाद्यात्मकतपस्सम्पादयतीत्यर्थ. । मुख्यकर्तरि ल मनेन सूत्रेण विधीयत । तन यगात्मनेपदादि । यदा तु तदपि दुःखजननात्मके सन्तापे वर्तते तदा तापस तपस्तपतीत्येव भवति । दुःखयतीत्यर्थ । अत्र मुख्यकर्तृ तपः । तापसस्तु तपः कम । अत्राप दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाभावात् “कर्मवन् कमणा' इत्यनन कमवत्व न भवात | तप कर्मकत्वाभावादनेनापि न कर्मवत्वम् । अतेा न यगादकमकायम् । अथ लुडि अतप्तत्यत्र कर्मवत्वाचिणमाशङ्कय आह । तपोऽनुतापे च इति। चिण्निषेधात् सिजिति । तस्य ‘झलो झलि’ इति लोपे परिनिष्ठितमाह। अतझेति । उत्तपति सुवर्ण सुवर्णकारः इति । अत्र तप कर्मकत्वाभावान्न कर्मवत्वमिति भाव । भाष्ये तु एवकारादिद सूत्र नियमार्थमित्युक्तामिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधस्सूचित इत्यलम् । 'दुहिपच्योर्बहुळम्’ इति कर्मवत्वविधिस्थदुहिप्रसङ्गात् न दुहस्नुनमाम्' इति सूत्रमुपन्यस्त प्राक् । इदानी सिहावलोकनन्यायेन स्नुनमोरुदाहर्तु पुन स्सूत्रमुपन्यस्यति । न दुहस्नुनमां यक्चिणाविति । तत्र स्नुधातोरुदाहरति । प्रस्नुते इति । स्नुधातुः क्षीरप्रस्रवणविषयेोत्कण्ठीकरणे वर्तते । वत्सो गा प्रस्रोतीति मुख्यकर्तरि लकारे वत्सेो गा क्षीरप्रस्रवणविषये उत्कण्ठयतीत्यर्थ । अन्तर्भवितण्यर्थोऽत्र स्नुधातुः । अत्र गौः कर्म । उत्कण्ठनव्यापारस्तु कर्तृभूतवत्सनिष्ठः । उत्कण्ठा तु गोरूपकर्म निष्ठा । गोः कर्मणः कर्तृत्वविवक्षायान्तु प्रस्नुते गौ । स्वयमेव क्षीरप्रस्रवणविषये उत्कण्ठावती त्यथः । तत्र उत्कण्ठा पूव कमगता । सम्प्रात तु कतृगता । उत्कण्ठाकृतश्च वलक्षण्य प्रस्रवण दृश्यत एव । ततश्व कर्मस्थक्रियत्वात् कर्मवत्वे याकि प्राप्त अनेन निषेधः । प्रास्ना विष्ठति ॥ अत्र कर्मवत्वात् प्राप्तश्चिण् न । किन्तु चिण्वदिटौ पक्षे स्तः । चिण्वदिडभावे तु स्नुक्रमाः' इति नियमाद्वलादिलक्षण इण्न । तदाह । प्रास्नाष्टात ॥ णम उदाहरति । नमते दण्डः इति ॥ नमति दण्ड कश्चित् । नमयतीत्यर्थ. । कर्मणः कर्तृत्वविवक्षायान्तु नमते दण्ड. । अत्र कर्मवत्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वऽपि न । ननु णम

चवणु धातोः प्रह्वीभावार्थकस्याकर्मकत्वात् कर्मवत्वाप्रसत्तेर्यविणोर्न प्रसक्तिरित्यत आह । अन्त
४५२
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

नमिः । यक्चिणोः प्रतिषेधे “हेतुमणिश्रिबूञ्जामुपसंख्यानम्’ (वा १८८१) । उदशिश्रियत चिण्वदिट् तु स्या देव । कारिष्यते । उच्छायिष्यते । ब्रते कथा । अवोचत । भारद्वाजीयाः पठन्ति । { णि श्रन्थिग्रन्थिबूञ्जात्मनेपदाकर्मकाणामुपसंख्यानम्' (वा १८८२) । पुच्छमुदम्यति उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् उत्पुच्छयते गौ । उद्पुच्छत । याकचवणाः प्रात


भवितण्यर्थोऽह्न नमिरिति । धातूनामनकार्थकत्वादिति भावः । यक्चिणेोरिति ॥ न दुहस्जुनमाम्' इति यकूचिणेो प्रतिषधसूत्रे दुहस्नुनमा हेतुमणिश्रिबूजामिति च वाच्य मित्यर्थः । कारयते इति । स्वय देवदत्त इति शेष । करोति देवदत्तः, त प्रेरयति यज्ञ दत्त इति ण्यन्तान्मुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायाङ्कर्मकर्तरि लकार । कर्ववत्वऽपि तडेव, न यगिति भाव । अचीवकरतेति ॥ अत्र कमेवत्वेऽपि न चिणु “णिश्रि' इति चडेव स्वयमवात शेष. । दण्डमुच्छूयति कश्चिदित्यर्थः । मुख्यकर्तरि लकार. । तत्र कमणा दण्डस्य कतृव्यापार मनपेक्ष्य कर्तृत्वविवक्षायाङ्कर्मकर्तरि लकार. । कर्मवत्वेऽपि न यक् तडेव । उदाशिश्रियतेति कर्मवत्वऽपि विणभावात् “णिश्रि' इति चडः । ननु कारिष्यते इत्यत्र कथञ्चिण्वदिटौ । ण्यन्त स्याजन्तस्य उपदेशाभावादित्यत आह । चिण्वदिट् तु स्यादेवेति तासषु' इत्यत्र हि उपदश अजन्तस्यांत नाथ । किन्तु उपदश याऽच तदन्तस्यल्यथः । तथाचव णिजन्तस्योपदेशाभावेऽपि णरुपदेशसत्त्वान्न दोष इति भावः । उच्छूयिष्यते इति ॥ श्रिजः उपदेशे योऽच् तदन्तत्वाचिण्वदिटौ । बूते कथेति ॥ स्वयमेवेति शेषः । कथा ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म तस्य पुरुषप्रयत्न्नाविवक्षायाङ्कर्मकर्तरि लकारः । कर्मवत्वात् तड् । न यक् । अवोचतेति ॥ कर्मवत्वऽपि न चिण् । किन्तु ‘बुवेो वचि अस्यतिवक्तिख्यातिभ्योऽड्, वच उम्’ इति भाव । उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थक्रियत्व बोद्यम् । 'णिश्रन्थि' इति ण्यन्तस्य श्रन्थे’ ग्रन्थे बूञ्जः आत्मनपदविधावकर्म कस्य च यचिणेः प्रतिषेधः भारद्वाजीयाभिमत इत्यर्थः । अत्र णि इति सामान्यस्य ग्रहणम् । नत्वहेतुमण्णिच एव । ततश्च णिडन्तस्यापि न यक्चिणाविति मत्वा आह । पुच्छमुद्स्यति उत्पुच्छयते गौरिति ॥ 'पुच्छादुदसने' इति णिड् । नन्वत्र उदसने पुच्छङ्कर्म । गौर्मु ख्यकत्रीं । नतु कर्मकत्र । ततश्च नात्र यक्चिणो. प्रसक्तिरित्यत आह । अन्तभावित ण्यर्थतायामिति ॥ उदस्यतीत्यस्य उदासयतीत्यन्तभावितण्यर्थताश्रयणे उत्पुच्छयते गा देवदत्तः इत्यत्र गोः कर्म । तस्य गोरूपकर्मण. प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षाया ङ्कर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यति गौरिति बोधः । उदपुच्छतेति ॥ अत्र न चिण् । शप्चवडाविति ॥ उत्पुच्छयते गौरित्यत्र यकः प्रति

षेधात् शप् । उदपुच्छतेत्यत्र चिण. प्रतिषधाचडित्यर्थः । ननु ‘श्रन्थ मोक्षणे, ग्रन्थ ग्रथने'
प्रकरणम्]
४५३
बालमनोरमा ।

षेधाच्छप्चडौ । श्रन्थिग्रन्थ्योराधृषीयत्वाणिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्त: । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । त्रैयादिकयोस्तु श्रश्श्रात ग्रश्रीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तात्यथः । * वः शब्दकमणः ' (सू २७०७) * अकर्मकाञ्च' (सू २७०८) इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यका रिष्ट । व्यकारिषाताम् । व्यकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ।

२७७२ । कुषिरञ्जोः प्राचां श्यन् परस्मैपदं च । (३-१-९०)

अनयोः कर्मकर्तरि न यक् । किं तु श्यन्परस्मैपदं च । आत्मनेपदाप


इति श्रन्थिग्रन्थ्यो' चौरादिकतया णिग्रहणेनव सिद्ध पुनर्यहण व्यर्थमित्यन आह । श्रन्थि ग्रन्थ्योरिति ॥ ग्रन्थति ग्रन्थमिति ॥ रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्तः इत विस्रसयतीत्यर्थ देवदत्त इत्युभयत्रान्वेति । अत्र कर्मणे ग्रन्थस्य मखलाया कर्तत्वविवक्षायां ग्रन्थत ग्रन्थ* श्रन्थत मेखलेति च भवति । स्वयमव प्रन्थरचनाश्रयस्त्रसन्ना श्रयश्चेत्यर्थः । तत्र कर्मवत्वेऽपि न यगिति भाव । अग्रन्थिष्ट अश्रन्थिष्टत्यत्र च न विष्णु । त्रैयादिकयोस्त्विति ॥ कर्मवत्वेऽपि तयोर्यंकि निषिद्धे श्राविकरण इति भावः । आत्मने पदविधावकर्मकोऽय तदुदाहरति । विकुर्वते सैन्धवाः इति ॥ सैन्धवाः अश्वाः । अत्र विपूर्वः कृञ् वल्गने वर्ततेत । उपसर्गवशात् । तदाह । वल्गन्तीति ॥ शब्दडुर्वन्तीत्यर्थः । धात्वर्थेनोपसङ्गहादकर्मकोऽयम् । मुख्यकर्तरि लकारः । वरिति ॥ “वेः शब्दकर्मणः' इत्य नन्तर पठितेन 'अकर्मकाञ्च' इति सूत्रेण परगामिन्यपि फले तडित्यर्थः । नन्वस्याकर्मकतया यक’ प्रसक्तिरित्यत आह । अन्तर्भावितेति । विपूर्वकः कृञ् शब्दङ्कर्वीणस्य प्रेरणे यदा वर्तते, तदा विकुर्वते सैन्धवानिति भवति । अश्वान् शब्दाययती त्यर्थ. । तत्र सैन्धवानाङ्कर्मणा पुरुषप्रेरणाविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवाः इति भवति । वल्गन्तीत्यर्थ । अत्र सैन्धवानाङ्कर्मकर्तृणाङ्कर्मवत्वेऽपि न यगिल्यर्थ । व्यका रिष्ठति ॥ चिणि निषिद्धे ण्यन्तत्वाभावाचडभावे सिचश्चिण्वदिटि वृद्धिरिति भाव. । चिण्व दिडभावपक्षे आह । व्यकृतेति ॥ 'हूस्वादङ्गान्’ इति सिचो लोप । कुषिरञ्जोः ॥ अनयोरिति । ‘कुष निष्कर्षे, रङ्ग रागे' इत्यनयेोरित्यर्थः । कर्मकर्तरीति ॥ 'अचः कर्मकर्त रि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तरिति भावः । “न दुहस्नुनमाम्' इत्यतः नेति यगिति चानुव र्तते। तदाह । यगिति । किन्तु श्यनिति ॥ इयन्विषयेत्यर्थ.। एवञ्च यग्विषयादन्यत्रन इयन प्रवृत्तिः । न यगिल्यनुक्का इयनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः । प्राचाङ्गहणाद्विकल्पः । तदाह । कुष्यति कुष्यते वा पादः इति ॥ स्वयमेवेति । ३शषः कुष्णाति पादं देवदत्तः इति ॥ मुख्यकर्तृलकारे पादः कर्म । तस्य पुरुषप्रयन्नमनपेक्ष्य

कर्तृत्वविवक्षाया इयनि परस्मैपदे च कुष्यतीति रूपम्। तदुभयाभावे यकि आत्मनपदे च कुष्यते
४५४
[भ्वादि
सिध्दान्तकौमुदीसहिता

बादः । कुष्यति-कुष्यते वा पादः । कुष्णाति पादं देवदत्तः । रज्यति-रज्यते वा वस्रम् । यगविषये तु नास्य प्रवृत्ति: । कोषिीष्ट । रङ्कीष्ट ।

। अथ लकारार्थप्रकरणम् ॥


२७७३ । अभिज्ञावचने लट् । (३-२-११२)

स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लट् स्यात् । लङोऽपवादः ।


इति रूपमिति भाव । यक्श्यनेो. स्वरे विशेष. । इयनि कुष्यन्ती वधूरित्यत्र 'शप्श्यनेो र्नित्यम्' इति नित्य नुम् । याकि तु 'आच्छीनद्या ' इति विकल्पः स्यात् । रज्यति रज्यते वा वख्त्रमिति ॥ अन्तर्भावितण्यर्थताया दैवादकत्वात् श्यनि रज्यति वस्रमित्यत्र रञ्जयती त्यर्थः । मुख्ये कर्तरि ल: कर्मणः कर्तृत्वविवक्षायान्तु रज्यति रज्यते वेति भवतीत्यर्थः । यगविषये तु नास्त्येवेति । ३यनिति शेष . । यक प्रतिषिछद्य तत्स्थाने इयनो विधि सामथ्र्यादित्यर्थ. । कोषिीछेति ॥ आर्धधातुकत्वेन यगविषयत्वान्न इयन् । तत्सन्नियोग शिष्टत्वात् परस्मैपदश्च श्यनभावे सति न भवतीति भाव. । रङ्क्षीष्टति ॥ रजेस्सीयुटि जस्य कुत्वन गः । तस्य चत्वन क' । अनुस्खारपरसवण्णा । अत्र कमकतृप्रकरण सवत्र पच्यत अादनः स्वयमेवेति, भिद्यते काष्ठ स्वयमेवेत्यादौ स्वयशब्दस्य आत्मना करणेनेत्यर्थ । नत्वात्मना कत्रेति । तथा सति कर्मण्येव लः स्यादिति “णेरणौ' इति सूत्रे कैयटे स्पष्टम् ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनेोरमायाङ्कर्मकर्तृप्रक्रिया समाप्ता ।



अथ लकारार्थप्रक्रिया. निरूप्यन्ते । अभिज्ञावचने लट् ॥ अभिज्ञा स्मृतिः सा उच्यते बोछद्यते अनेनेति विग्रहः । तदाह । स्मृतिबोधिन्युपपदे इति ॥ स्मृतिबोधकपदे

समीपे प्रयुज्यमाने सतीत्यर्थः । भूते इत्यधिकृतम् । ‘अनद्यतने लुङ् इत्यत. अनद्यतने इत्यनुवर्तते ।
प्रकरणम्]
४५५
बालमनोरमा ।

स्मरसि कृष्ण गोकुले वत्स्याम । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसम्भवात् ।

२७७४ । न यदि । (३-२-११३)

यद्योगे इत्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ।

२७७५ । विभाषा साकाङ्क्षे । (३-२-११४)

उत्क्तविषये लड़ा स्यात् । लक्ष्यलक्षणभावेन साकाङ्कश्चेद्धात्वर्थ । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि ‘न यदि' (सू २७७४) इति बाधित्वा परत्वाद्वि कल्पः । “परोक्षे लिट्’ (सू २१७१) । चकार । उत्तमपुरुषे चित्तविक्षेपादि ना पारोक्ष्यम् । “सुप्तोऽहं किल विलालाप' * बहु जगद् पुरस्तात्तस्य मत्ता किलाहम्' । अत्यन्तापह्नवे लिड़क्तव्यः' (वा २०८४) । कलिङ्गेष्ववात्सी नाहं कलिङ्गाञ्जगाम ।


तदाह। भूतानद्यतने इति ॥ लङः इति । अनद्यतने लडित्यस्यापवाद इत्यर्थः । स्मर सीति ॥ हे कृष्ण गोकुले अवसमिति यत् तत् स्मरसीत्यर्थ.। अत्र वाक्यार्थ. कर्म । कृतङ्गोकुलवास स्मरसीति यावत् । एवमिति । स्मरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगे ऽपि लडित्यर्थः । ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह । तेषामपीति ॥ पर्यवसानगल्या स्मृतिबोधकत्वात्तद्योगेऽपि लट् । एतदर्थमेव वचन ग्रहणमिति भाव । न यदि ॥ यदीति सप्तमीति मत्वा आह । यद्योगे इति । उक्तं नेति ॥ अभिज्ञावचने इति लट् न भवतीत्यर्थः । अभिजानासीति । वने अभुञ्ज्महीति यत् तत् स्मरसीत्यर्थः । विभाषा ॥ उक्तविषये इति ॥ अभिज्ञाबोधिन्युपपदे इत्यर्थ । लक्ष्यलक्षणभावेनेति । अत्र व्याख्यानमेव शरणम् । ज्ञाप्यज्ञापकभावनत्यर्थ । स्मरसी ति ॥ पूर्व वने अवसाम, तत्र वने गाः अवारयाम इति यत् तत् हे कृष्ण स्मरसीत्यर्थः । अत्र यत् इत्यस्य गम्यत्वेऽपि तस्य प्रयोगाभावान्न यद्योग. । वासो लक्षणमिति चारणस्येति शेषः । उभयत्रापि लड़िकल्प . । अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । नच यद्योग एव ‘विभाषा साकाक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यम् । ‘यदि वायं विक ल्पः’ इति भाष्यात्तदाह। यच्छब्दयोगेऽपीति ॥ ‘परोक्षे लिट्’ इति प्राकु व्याख्यातमपि वि . शेषविवक्षया स्मर्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाभावात् कथमस्य लिट उत्तमपुरुष इत्यत आह । उत्तमपुरुषे चित्तेति ॥ सुप्तः इति ॥ सुप्तत्वादह विललापेत्यर्थः । अत्र स्वापाचि तविक्षेपः । बहु जगदेति ॥ मत्तत्वात्तस्य पुरस्तादह बहु जगदेत्यर्थः । अत्र उन्मादाचित्त विक्षेपः । आदिना व्यासङ्गसङ्गहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलि

ङ्गेष्ववात्सीरिति ॥ अतस्त्वन्न सहवासयोग्य इति प्रश्नः । 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु
४५६
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२७७६ । हृशश्वतोर्लङ् च । (३-२-११६)

अनयोरुपपदयोलिड़विषये लङ् स्यात् । चालिट् । इति हाकरोचकार वा । शश्वद्करोचकार वा ।

२७७७ ॥ प्रश्रे चासन्नकाले । (३-२-११७)

प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छयमानेऽर्थे लिड़िषये लङ्कलिटौ स्तः । अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ।

२७७८ । लट् स्मे । (३-२-११८)

लिटोऽपवादः । यजति स्म युधिष्ठिर

२७७९ । अपरोक्षे च । (३-२-११९)

भूतानद्यतने लट् स्यात्स्मयोगे । एवं स्म पिता ब्रवीति ।

२७८० । । ननौ पृष्टप्रतिवचने । (३-२-१२०)

'अनद्यतने' 'परोक्षे' इति निवृत्तम् । भूते लट् स्यात् । अकार्षी किम् । ननु करोमि भोः ।

२७८१ । नन्वोर्विभाषा । (३-२-१२१)


च । तीर्थयात्रां विना यातः पुन सस्कारमर्हति ॥’ इति वचनादिति भाव । नाहङ्कलिङ्गाञ्जगामेत्यु त्तरम् । कलिङ्गशब्दस्य जनपदविशेषवाचित्वात् बहुवचनम् । अत्र तद्देशगमनोत्तरकालिकवास विषयकप्रश्रे कारणीभूतगमनस्यैवापलापादयन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्र * अक मैकधातुभिर्योगे देशः कालो भावः’ इति कर्मसज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकार निरूपितम् । हशश्वतोर्लङ् च ॥ स्पष्टम् । प्रश्रे चासन्नकाले ॥ प्रश्रे इत्यनेन प्रश्रविषयो विवक्षित इत्याह । प्रष्टव्यः प्रश्नः इति ॥ अथे इत्यनन्तर वर्तमानाद्धातोरिति शेषः । प्रयेोक्तृदृष्टिपथातिक्रान्तत्वमनासन्नकालकत्वम् । वृत्तौ तु पञ्चवर्षातीतकालः अना सन्नकाल इत्युक्तम् । लट् स्म ॥ स्मेल्यव्ययम् । तद्योगे लिड़िषये लट् स्यादित्यर्थ । यजति स्मेति ॥ स्मशब्दो भूतकालद्योतक. । अपरोक्षे च ॥ एवं स्मेति ॥ पिता एव मुक्तवानित्यर्थः । ननौ पृष्ट । निवृत्तमिति । व्याख्यानादिति भावः । अकार्षीः किमिति

प्रश्रः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थ. । नन्विति सबोधने । नन्वोर्विभाषा ।
प्रकरणम्]
४४७
बालमनोरमा ।


नशब्दे नुशब्दे च लङ्का स्यात् । अकार्षीः किम् । न करोमि । नाकार्षम् । अहं नु करोमि । अहं न्वकार्षम् ।

२७८२ । पुरि लुङ् चास्मे । (३-२-१२२)

अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् । चालट् । न तु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुर छात्राः—अवात्सुः-अवसन्-ऊषुर्वा । “ अस्मे' किम् । यजति स्म पुरा । भावष्यतात्यनुवतमान ।

२७८३ । यावत्पुरानिपातयोर्लट् । (३-३-४)

यावदुङ्गे । पुरा भुङ्गे । निपातावेतौ निश्चयं द्योतयत । 'निपातयो किम् । यावद्दास्यते तावद्भोक्ष्यते । करणभूतया पुरा यास्यति ।

२७८४ । विभाषा कदाकह्यः । (३-३-५)

भविष्यति लट् वा स्यान् । कदा कर्हि वा भुङ्के-भोक्ष्यते-भोक्ता वा ।


न नु अनयोर्द्धन्द्वः । तदाह । नशब्दे नुशब्दे चेति॥ लद्दा स्यादिति ॥ भूते इति शेष अकार्षीः किमिति प्रश्र.। न करोमि नाकार्षमित्युत्तरम् । अह् नु करोमि। अहं न्वकार्षमिति च । ‘तकें नु स्यात्' इत्यमर. । पुरि लुङ् चास्मे ॥ अस्मे इति च्छेदः । पुरेल्याकारान्तमव्ययम् पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभागादालोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चालुडिति । तथाच लुड् लट् च वेति फलितम् । पक्षे इति ॥ एतदुभयाभावपक्ष इत्यथ । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाविवक्षा यान्तु लडित्यर्थः। ‘अभिज्ञावचने' इत्यारभ्य एतदन्ताः विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीय स्य तातीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । ‘भविष्यतिगम्यादयः’ इति सूत्रादिति भावः । यावत्पुरा ॥ यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोर्लट् स्यादि त्यर्थः । लुडादेरपवादः । निश्चयं द्योतयतः इति ॥ ‘यावत्तावच साकल्येऽवधैो मानेऽवधा रणे' इत्यमरः । यावद्दास्यते तावद्रोक्ष्यते इति ॥ यत्परिमाणक तत्परिमाणकमित्यर्थः । 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुबन्तत्वेन निपातत्वाभावान्न लडिति भावः । करणभूत येति ॥ पुरा यास्यतीति प्रत्युदाहरणान्तरम् । पुरशब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फो रणाय करणभूतयेत्युक्तम् । विभाषा कदाकहा ॥ भविष्यति लड़ा स्यादिति शेषपूर णम्। लडभावपक्षे लुट्लटौ यथाप्राप्तम् । तदाह । कदा कर्हि वा भुङ्के भोक्ष्यते भोक्ता घेति । नच कर्हियोगे लडभावपक्षे लुडेवोचितः, नतु लट् । ‘अनद्यतने र्हिलन्यतरस्याम्' इति र्हिलन्तकर्हियोगविरोधादिति वाच्यम् । लड़दाहरणस्य कदायोगमात्रविषयत्वादित्याहुः

58
४५८
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२७८५ । किंवृत्ते लिप्सायाम् । (३-३-६)

किंवृत्तं विभक्त्यन्तम् । भविष्यति लङ्का स्यात् । कं कतरं कतमं वा भोजयसि-भोजयिष्यसि-भोजयितासि वा लिप्सायाम्' किम् पाटलिपुत्रं गमिष्यति ।

२७८६ । लिप्स्यमानसिद्धौ च (३-३-७)

लिप्स्यमाननान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड़ा स्यात् । योऽन्न ददाति-दास्यति-दाता वा । स स्वर्ग याति-यास्यति--याता वा ।

२७८७ । लोडर्थलक्षणे च । (३-३-८)

लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड़ा स्यान् । कृष्णश्चैडुङ्गे त्वं गाश्चारय । पक्षे लुट्लटौ ।

२७८८ ॥ लिङ् चोध्र्वमौहूर्तिके । (३-३-९)

ऊध्र्व मुहूर्ताद्भवः ऊध्र्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊध्र्वमैौहूकेि भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोलिङ्लटौ वा स्तः। मुहूर्ता


किंवृत्ते लिप्सायाम् । किशब्देन वृत्त निष्पन्न किवृत्तमित्यभिप्रेत्य आह । विभक्तयन्त मिति । लङ्केति । लडभावे तु लुट्लटौ यथाप्राप्तम् । किवृत्तशब्देन विभक्तयन्तडतरडतमा न्तानामेव ग्रह्णमिति वृति. । तेन कदादियोगे भविष्यति लट् । ‘यदृत्तान्नित्यम्’ इति सूत्रभाष्य रीत्या तु किवृत्ताना सर्वेषा कदेत्यादीनामपि ग्रहणमिति युक्तम् । कं कतरै कतमं वेति । क्षुधितमन्नलिप्सुमिति शेषः । लिप्स्यमानसिद्धौ च ॥ लड़ेति । पक्षे लिग्स्यमानसिद्धौ लेि साया. सत्वेऽयकिवृत्तार्थमिदमिति मत्वोदाहरति । योऽन्नमिति । योऽन्न ददाति स स्वर्ग याति । योऽन्न दास्यति स स्वर्ग यास्यति । योऽन्न दाता स. स्वर्ग यातेत्यन्वयः । लोडर्थलक्ष णे च ॥ लोडर्थः प्रैषादिरिति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्रप्रार्थनेषु इत्यनुवृत्तौ लोट् चेति लोड़िधानादिति भावः । कृष्णश्चेदिति। कृष्णभोजनकाले त्वङ्गाश्चारयेत्यर्थः । अत्र कृष्ण भोजन लोडर्थस्य गोचारणप्रैषस्य लक्षणम् । परिच्छेदकमिति यावत् विति । कृष्णश्चद्रोक्ता, भोक्ष्यते, वा त्वङ्गाश्चारयेत्युदाहार्यम् । लिङ् चोध्र्वमौहूर्तिके।। ऊध्र्व मिति विभाक्तिप्रतिरूपकमव्ययम् । ऊध्र्व मुहूर्तान् भव इति विग्रहः । केचित्त ऊध्र्वमिति द्वितीयान्तम् । 'अकर्मकधातुभिर्योगे' इति कर्मवत्वादित्याहु. । ऊध्र्वमौहूर्तिकः इति ॥ ऊध्र्वमुहूर्तशब्दात् भवार्थे कालाद्वाविति भावः । ननु तद्धितार्थत्यत्र दिक्सङ्खये इत्यनुवृत्तेस्स भानाधिकाराचात्र कथं समास इत्यत आह । निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्कय

आह । उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊध्र्वमौहूर्तिके इति ॥ मुहू
प्रकरणम्]
४५९
बालमनोरमा ।

दुपरि उपाध्यायश्चेदागच्छेन्-आगच्छति-आगमिष्यति-आगन्ता वा अथ त्वं

२७८९ । वर्तमानसामीप्ये वर्तमानवद्वा । (३-३-१३१)

समीपमेव सामीप्यम् । स्वार्थे ष्यञ् । 'वतेमाने लट्' (सू २१५१) इत्यारभ्य * उणाद्यो बहुलम्’ (सू ३१६९) इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अहमागमम् । कदा गमिष्यसि । एष गच्छामि-गमिष्यामि

२७९० । आशंसायां भूतवच । (३-३-१३२)

वर्तमानसामीप्ये इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवञ्च -प्रत्यया वा स्युराशंसायाम् । देवश्चेद्वर्षद्वर्षति-वर्षिष्यति वा धान्यमवाप्स्म


तदूर्धर्वकालीने इत्यर्थः । लोडर्थलक्षण इत्यत्रान्वति प्रैषादाविति । लिङ्लटाविति । वाछट्स मुचीयत इति भाव । वा स्तः इति ॥ पक्षे लुट्लटौ यथाप्राप्तम् । छन्दः इति । वेदइत्यर्थः । इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्थाः लविधय' । अथास्मिन्नेव तृतीयपादे कतिपयान् विधीनाह । वर्तमानसामीप्ये ॥ स्वार्थे ष्यामिति । अस्मादेव निर्देशात् चतु वैर्णदराकृतिगणत्वाद्वेति भावः । इत्यारभ्यात ॥ तृतीयस्य द्विताय 'वतमान लट्' इत्या रभ्य आपादसमाझे 'उणादयो बहुलम्' इति तृतीयपादादिमसूत्रात् प्राक् वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यः वर्तमानेन प्रत्यया विहिताः ते सर्वे तेनैव वि शेषणेन ताभ्य प्रकृतिभ्य’ वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेवल्यार्थिकम् । तयेोरेव वर्तमानसामीप्यसत्वात् । कदा आगतोऽमीत्यागत प्रति प्रश्न । अयमागच्छामीत्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूते लट् । अयमित्यनेन आगमनकालीन प्रखेदपरिकरबन्धादियुक्त रूप निर्दिश्यते । इदानीमागम सूचयितु वर्तमानवत्त्वाभावे भूते लड् । कदा गमिष्यसीति प्रश्रे, एष गच्छामि गमनात्प्रावृक्इ त्युत्तरम् । अव्यवहितोत्तरकाले गमिष्यामीत्य थः । एष इति तु अयामातवत् व्याख्यय मानकालसमीपे भविष्यति लट् । गमिष्यामि वेति वर्तमानवत्वाभावे भविष्यति लट् । अा २ासाया भूतवञ्च ॥ नानुवतत इति । अत्र व्याख्यानमव शरणम् । अप्राप्तस्य प्र यस्य प्राप्ताच्छा अाशसा । सा च भविष्यद्विषयैव । भूते इच्छाविरहात् । तदाह । भविष्यति काले इति । देवश्रेदिति ॥ देवः पर्जन्य., अवर्षीचेन् धान्यमवाप्स्म । वर्षति चेत् वपामः ।

वर्षिष्यति चेवत् वप्स्याम इत्यन्वयः । भूतवद्भावात् भविष्यति लुड् । अवर्षीदिति अवाप्स्मेति च
४६०
[लकारार्थ
सिध्दान्तकौमुदीसहिता

वपाम:-वप्स्यामो वा । “ सामान्यातिदेशे विशेषानतिदेश: ।’ तेन लड़लिटौ न ।

२७९१ । क्षिप्रवचने लट् । (३-३-१३३)

क्षिप्रपर्याये उपपदे पूर्वविषये लट् स्यात् । वृष्टिश्रेक्षिप्रमाशु त्वरितं वा यास्यति । शीघ्र वप्स्याम । नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा यात् । `धः शाश्ध वप्स्यामः ।

२७९२ । आशंसावचने लिङ् । (३-३-१३४)

आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चदुपे यादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ।

२७९३ । नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः । (३-३-१३५)

क्रियायाः सातत्ये सामीप्ये च लङ्लुटैौ न । यावज्जीवमन्नमदाद्दास्यनि


भवति । वपधातोर्लडि उत्तमपुरुषबहुवचने अवाग्स्मेति भवति । वृष्टिवापयोरुभयोरप्याशसावि षयत्वादुभयत्रापि लुड् । वर्तमानवत्त्वपक्षे । तदुभयाभावे तु लट् । भूतवत्त्वपक्षे तु लट् ननु लड़लिटावपि कुतो न स्यातामित्यत आह । सामान्यातिदेशे इति ॥ भूतत्वसामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयेोर्लड़लिटोर्नातिदेश इत्यर्थ । एतच भाष्ये स्प ष्टम् । क्षिप्रवचने लट् ॥ वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते । तदाह । क्षिप्रपर्याये इति ॥ पूर्वविषये इति ॥ आशसायामित्यर्थ.।‘आशसायां भूतवच' इत्यस्यापवादः । ननु क्षि प्रवचने नेत्येतावतैव आशंसाया िक्षप्रपर्याये उपपदे भविष्यति न भूतवत् न वर्तमानवदिति लाभा न्छङ्ग्रहणमनर्थकमित्यत आह । नेति वक्तव्ये इति । क्षिप्रवचने नेत्युक्त ‘सामान्यातिदेशे विशेषानातिदेशः’ इति न्यायेन भविष्यत्सामान्ये विहितस्य लठ्ठड एव निषेध स्यात्, नतु लुटः । नस्य अनद्यतनभविष्यद्विशेषविधानात् । लड्ग्रहणे तु उक्तविषये लडेव स्यात्, नतु लकाराः न्तरमिति लाभाल्लुटोऽपि विषये लडेवेति लभ्यत इत्यर्थः । श्वः शीघ्र वप्स्यामः इति ॥ अनद्यतनत्वद्योतनाय श्वश्शब्दः । अत्र न लुडिति भावः । आशंसावचने लिङ् ॥ आशं सायाः प्राप्तीच्छायाः भूते असम्भवात् भविष्यतीति लभ्यत इति मत्वा आह । भविष्यतीति ॥ आशंसायां भूतवच' इत्यस्यापवाद. । तदाह । नतु भूतवदिति । गुरुश्चेदिति॥ गुरुपेया चत् क्षिप्रमधीयीयेत्याशसे इत्यन्वयः । क्षिप्रयेोगेऽपि परत्वालिडेव नतु लडिति भावः । नानद्य तनवत् ॥ क्रियाया. प्रबन्धः सातत्यम् । तदाह । क्रियाया सातत्ये इति ॥ अनद्यतनव दिल्यनेन अनद्यतने भूते भविष्यति व विहितौ लड्लुटौ विवक्षितौ । तदाह । लङ्लुटौ नेति । अनद्यतने भूते लड् न भवति । भविष्यत्यनद्यतने तु लुट् नेत्यर्थ. । क्रियासातत्ये लड्नि

थेधमुदाहरति । यावज्जीवमन्नमदादिति ॥ लुडि 'गातिस्था' इति सिचो लुक् । सामीप्ये
प्रकरणम्]
४६१
बालमनोरमा ।


वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता नस्यामग्री नाधित । सोमेनायष्ट । येयममावाख्याऽऽगामिनी तस्यामग्रीनाधास्यते । सोमन यक्ष्यत ।

२७९४ । भविष्यति मर्यादावचनेऽवरस्मिन् । (३-३-१३६)

भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्यः आपाटलिपुत्रात्तख्य यदवरं कौशाम्व्यास्तत्र सक्तून्पास्याम |

२७९५ । कालविभागे चानहोरात्राणाम् । (३-३-१३७)

पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसम्वन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थे । योऽयं वत्सर आगामी तस्य यद्वरमाग्रहायण्यास्तत्र अध्यष्यामह । 'अन्नहाररात्राणाम ' किम् । योऽयं मासः आगामी तस्य


उदाहरिष्यन्नाह । सामीप्यमिति ॥ येयमिति ॥ पौर्णमास्या उपरि कृष्णपक्षे कतिपयाह रात्रैः व्यवधानेऽपि सामीप्यमस्येव । पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् । आधि तेति ॥ धाधातोर्लडि “स्थाध्वेििरच' इति धाधातोरित्व सन कित्त्वञ्च । “हूस्वादङ्गात्' इति सिचो लोप । सोमेनायष्टति ॥ येय पौर्णमास्यतिक्रान्ता तस्यामित्यनुषज्यते । अथ क्रिया सातत्ये लुटो निषेधमुदाहरति । येयममावास्येति । सोमेन यक्ष्यते इति ॥ ययममावा स्या आगामिनं तस्यामित्यनुषज्यते । भविष्यति मर्यादा ॥ अवरस्मिन्निति च्छेद । अन द्यतनवन्नेति ॥ लुट्नेत्यर्थ। अक्रियाप्रबन्धार्थमिति भाष्यम्। असामीप्यार्थश्चेति कैयट.। योऽय मिति। कस्मिविजनपदविशेषे वसत पाटलिपुत्राख्य नगरविशेष जिगमिषोरिद वाक्यम्। मछे मार्गौशाम्बी नाम काचिन्नगरीति स्थितिः । तत्र आपाटलिपुत्रातू योऽय गन्तव्योऽध्वा तस्य अ वनः मछे वर्तिन्याः कौशाम्ब्या' यदवर पूर्वप्रदेशः तत्र सक्तून् श्व.प्रभृति पास्याम इति या जना । अत्र कौशाम्ब्या इति मर्यादा गम्यते । अवरमित्यनेन अवरत्वङ्गम्यते । अत्र भविष्य त्यनद्यतने लुट् न, किन्तु लडेवेति भाव । कालविभागे ॥ पूर्वसूत्रमिति ॥ 'भविष्यति मर्यादावचनेऽवरस्मिन्' इति सूत्रमित्यर्थ. । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यत आह । अहोरात्रेति । तथाच अहोरात्रसम्बन्धिनि प्रविभागे भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननु ‘भविष्यति मर्यादावचनेऽवरस्मिन्’ इत्येकमेव सूत्रहुतो नेत्यत आह । योगविभाग उत्तरार्थः इति ॥ इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति ॥ कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्ण मास्या इत्यर्थः । युक्ताः इति ॥ नियमयुक्ता इत्यर्थ. । अध्येष्यामहे इत्यत्र न लुट् । किन्तु लडेवेति भाव । पञ्चदशरात्रः इति ॥ पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः ।

‘अच्प्रत्यन्ववपूर्वात्’ इत्यच्समासान्त । यद्वा पञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः । “अहः
४६२
[लकान्थ
सिध्दान्तकौमुदीसहिता

२७९६ । परस्मिन्विभाषा । (३-३-१३८)

अवरस्मिन्वर्ज पूर्वसूखद्वयमनुवर्तते। अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । 'लिङ्गनिमित्ते लङ् क्रियातिपत्तौ' (सू २२२९) भविष्यतीत्येव । सुवृष्टिश्चेद्भविष्यत्तदा सुभिक्षमभविष्यत् ।

२७९७ । भूते च । (३-३-१४०)

पूर्वसूत्रं सम्पूर्णमनुवर्तते ।

२७९८ । वाताप्योः । (३-३-१४१)

वा ' आ' “उताप्योः' “उताप्योः-' (सू २८०९) इत्यतः प्राग्भूत लिङ्नमित्ते लङ् वेत्यधिक्रियते । पूर्वसूत्रं तु “उताप्योः' इत्यादौ प्रवर्तत इति

२७९९ । गार्हीयां लडपिजात्वोः । (३-३-१४२)

आभ्यां योगे लट् स्यात् । कालत्रये गहयाम् । लुङादीन्परत्वाद्ययं बाधते । अपि जायां त्यजसि । जातु गणिकामाधत्से । गर्हितमेतत् ।


सर्वेकदेश' इत्यच्समासान्त सङ्खयापूर्वे रात्र कृीवम्' इति तु ' लङ्गमशिष्य लोकाश्रय त्वालिङ्गस्य’ इति वचनान्न भवति । परस्मिन्विभाषा ॥ आनुवर्तते इति । तथाच भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यतनवद्वेति फलितम् । 'लिड़निमित्ते लड् क्रियातिपत्तौ' इति व्याख्यात भूधातुनिरूपणे । भूते च ॥ अधिकारोऽयम् । अनुवर्तते इति ॥ तथाच लिङ्निमित्ते लड् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः । वोताप्योः ॥ अयमग्यधिकार. । वा आ उताप्योरिति छेदः । भूते इति लिङ् निमित्ते लडिति चानुवर्तते । तदाह । उताप्योरित्यतः प्रागिति ॥ उताग्यो समर्थयो रित्यतः प्रागित्यर्थः । नन्वनेन ‘उताप्योः' इत्यत प्राक् भूते लिङ्गनिमित्त लङ्केत्यधिकाराक्रान्त त्वात् भूते चेति पूर्वमधिकारसूत्रन्निर्विषयमित्यत आह । पूर्वसूत्रं त्विति ॥ ‘उताप्योः समर्थ योर्लिड्’ इत्यारभ्य ‘इच्छार्थेभ्यो विभाषा' इत्यतः भूते चेति पूर्वमधिकारसूत्र प्रवर्तत इत्यर्थः । इमाव धिकारौ यत्र लिङ्विधिस्तत्रैव प्रवर्तते, नतु लडादिविधौ । लिङ्निमित्ताभावात् । गहॉयाम्। अपि जातु अनयोर्द्धन्द्वः । अत्र ‘वोताप्योः' इति'भूते लिड़निमित्तेलड् वा’ इत्यधिकारो न सम्बछद्यते । लड़िधानेन तद्विषये लिड्निमित्ताभावात् । कालत्रये इति । वर्तमाने भूते भविष्यति चेवत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामान्ये लडिति भावः । परत्वा

दिति ॥ अनवकाशत्वाचेल्यपि द्रष्टव्यम् । अपि जायामित्यत्र जातु गणिकामित्यत्र च अपि
प्रकरणम्]
४६३
बालमनोरमा ।


२८०० । विभाषा कथमि लिङ् च । (३-३-१४३)

गहयामित्येव । कालत्रये लिङ् चालट् । कथं धर्म त्यजेः त्यजसि वा । पक्षे कालत्रये लकारः । अत्र भविष्यति नित्यं लङ भूते वा । कथं नाम तत्र बालमन्नारमा ।

२८०१ । किंवृत्ते लिङ्लटौ । (३-३-११४)

गहयामित्येव । विभाषा तु नानुवर्तते । कः-कतरः-कतमो वा हरिं निन्देन्-निन्दिष्यति वा । लङ् प्राग्वन् ।

२८०२ । अनवक्लूप्यमर्षयोरकिंवृत्तेऽपि । (३-३-१४५)

गहॉयामिति निवृत्तम् । अनवक्लभिरसंभावना । अमर्षोंऽक्ष्मा । न सम्भावयामि न मर्षये वा भवान्हरिं निन्देन्-निन्दिष्यति वा । कः कतरः-कतमो वा हरिं निन्देन्-निन्दिष्यति वा । लङ् प्राग्वत् ।


जातुशब्दौ निन्दाद्योतकौ । तदाह। गर्हितमेतदिति । विभाषा कथमिलिङ्च ॥ गह यामित्येवेति ॥ अनुवर्तत एवेत्यर्थ । कालत्रये लिडिति शेषपूरणम् । भविष्यतीति निवृत्त मिति भावः । चाछडिति समुच्चीयत इति शेष । तथाच कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हीयां लिङ्लटौ वा स्त इति फलितम् । कथं धर्म त्यजेरिति ॥ त्यक्तवान् त्यक्ष्यसि त्यजसि वेल्यर्थः । गर्हितमेतदिति कथशव्दाद्रम्यत । लटि उदाहरति । त्यजसि वेति ॥ उत्क्तो ऽर्थः । पक्षे इति । विभाषाग्रहणाड्लिटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लड्लुड्लट्लुट्लूट इत्यर्थः । अत्रेति । अत्र उक्तविषये भविष्यति काले क्रियायाः अनिष्पत्तौ गम्यमानायां लिङ्कनिमित्ते लड् क्रियातिपत्तौ' इति नित्यमेव लङ् । कथमेो गहयाश्च लिङ्कनिमि त्तस्य सत्वादित्यर्थः । विशेषविहितत्वादिति भावः । भूते वेति ॥ “वोताप्योः' इति भूते लिङ्कनिमित्ते लड् वेति अधिकृतत्वादुक्तविषये भूतकाले लडू वेत्यर्थः । भविष्यति िनल लडिल्य त्रोदाहरति । कथन्नामेति । तत्रभवानिति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवावधः कथ धममत्यक्ष्यत् । तत्यागस्य गर्हितत्वादिति भाव । किंवृत्ते लिड्लष्टौ । नानुवर्तते इति ॥ व्याख्यानादिति भावः । विभक्तयन्तं डतरडतमान्तञ्च किशब्दनिष्पन्न किवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गह्वया लिइलटौ स्त इत्यर्थ. । सर्वलकाराणामपवादाविति वृत्तिः । लङ् प्राग्वदिति ॥ भविष्यति नित्यं लड्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः । लिइनिमित्तस्य किवृत्तस्य गहयाश्च सत्त्वादिति भावः । अनवक्लुप्त्यमर्ष। निवृत्तमिति । व्याख्यानादिति भाव.। अनवक्लप्त्यमर्षयोः लिड्लूटोश्च यथासङ्खयन्नेष्यते । अल्पाच्तरस्य अम र्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति ॥ अकिंवृत्त उदाहरणम् ।

भवान् हरिन्निन्देदिति यत् तत् न सम्भावयामि न मर्षये वेत्यन्वयः । किंवृते उदाहरति । कः
५६४
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२८०३ । किंकिलास्यर्थेषु छूट् । (३-३-१४६)

अनवक्लप्यमर्षयोरित्येतत् “गहयां च' (सू २८०६) इति यावदनु वर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्यर्था: अस्तिभवतिवि द्यतयः । लिडोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्न भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लड् न ।

२८०४ । जातुयदोर्लिङ् । (३-३-१४७)

यदायद्योरुपसंख्यानम्' (वा २२७५) । लटोऽपवाद् । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लङ् प्राग्वत् ।

२८०५ । यञ्चयत्रयोः । (३-३-१४८)

यच यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि ।


कतरः इति ॥ लङ् प्राग्वदिति ॥ भविष्यति निलय लङ्, भूते वेत्युक्तमिहाप्यनुसन्धेयामि त्यर्थः । किङ्किल ॥ किङ्किलेतिसमुदायस्य अस्त्यर्थानाञ्च द्वन्द्वः । यावदिति ॥ 'गहयाश्च इत्यभिव्याप्येत्यर्थः । किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लत्यमर्षयोर्लट् स्या दित्यर्थ. । पूर्वसूत्रेण लड्लटोः प्राप्तौ लडेवेत्यर्थमिदम् । तदाह । लिङोऽपवादः इति । न श्रद्दधे इति । न सम्भावयामीत्यर्थः । त्व शूद्रान्न भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये वा किलेित्यन्वयः । किङ्किलेति क्रोध द्योतयति। अस्तीति ॥ ३शूद्रस्य स्त्री शूद्री। ताङ्गमिष्यसी त्यस्ति भवति विद्यते वेत्यन्वय. । अत्र लुङ् नेति । भविष्यति नित्यं लड, भूते वेत्युक्तमिह न सम्भवति । अत्र लिडो विद्यभावेन लिइनिमित्तविरहात् । जातुयदोर्लिङ् ॥ जातु यदा अनयोः प्रयोगे अनवक्लत्यमर्षयोर्लिङ् स्यादित्यर्थः । यदेति विभक्तिप्रतिरूपकमव्ययम् । अन वक्लप्त्यमर्षयोराकवृत्तेऽपीति लिडलटौ प्राप्तौ लिडेवेत्यर्थमिदम् । तदाह । लुटोऽपवादः इति ॥ यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिड उपसङ्खयानमित्यर्थः । जात्वादिशब्दा उदाहरणे अनवक्लप्त्यमर्षद्योतकाः । त्वादृशो हरिन्निन्देदित्येतत् नावकल्पयामि न मर्षयामि वेत्यन्वयः। नावकल्पयामीत्यस्य न सम्भवायामीत्यर्थः । लङ् प्राग्वदिति ॥ भविष्यति नित्यं लड् भूते वेत्युक्तमिहाप्यनुसन्धेयमित्यर्थः । जात्वादियोगस्य अनवक्लप्त्यमर्षयोश्च लिङ्कनिमित्तत्वादिति भावः । यच्चयत्रयोः ॥ यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लप्त्यमर्षयो र्लिङ् स्यादित्यर्थः । लूटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवक्लप्त्यमर्षद्योतकौ । त्वमेवडुर्या इत्येतत् न श्रद्दधे न मर्षयामि

वेत्यन्वयः । अत्रापि भविष्यति नित्य लड्, भूते वेत्युक्तमनुसन्धेयम् । लिङ्कनिमित्तस्य
प्रकरणम्]
५६५
बालमनोरमा ।

२८०६ । गद्दीयां च । (३-३-१४९)

अनवक्लश्यमर्षयोरिति निवृत्तम्। यचयत्रयोयोंगे गह्वयां लिडेव स्यान् । यञ्च यत्र वा त्व ३शूद्र याजयः । अन्याय तत् ।

२८०७ । चित्रीकरणे च । (३-३-१५०)

यञ्च यत्र वा त्व २द्र याजयः । आश्वयमतत् ।

२८०८ । शेषे लडयौ । (३-३-१५१)

यञ्चयलाभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति। * अयदौ'किम्। आश्चर्य यदि मूकोऽधीयीत ।

२८०९ । उताप्योः समर्थयोर्लिङ् । (३-३-१५२)

बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्याद्धं हरि : । समर्थयोः' किम् । उत दण्ड पतिष्यति । अपिधास्यति द्वारम् । प्रश्न : श्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लङ् ।


मत्वात् । गहयाञ्च ॥ निवृत्तमिति ॥ व्याख्यानादिति भावः । ‘यचयत्रयोः' इति लिडिति चानुवर्तते । तदाह । यञ्चयत्रयोयोगे इति ॥ लिडेवेति । ननु लकारान्तर मित्यर्थः । उदाहरणे यचेति यत्रेति च गर्हीटद्योतकम् । त्व शूद्र याजयेरिति यत् तदन्याय्य मित्यन्वयः । लड् प्राग्वन् । चित्रीकरणे च ॥ यचयत्रयोः प्रयेोगे आश्चर्ये गम्ये लिडेव स्यात्, नतु लकारान्तरमित्यर्थ. । उदाहरणे यचेति यत्रेति चाश्चर्यद्योतकम् । त्व शूद्र याजयेयरिति यत् तदाश्चर्यमित्यन्वयः । शेष लडयदैौ ॥ यचयत्राभ्यामन्यश्शेषः । तदा । यञ्चायत्राभ्यामन्यस्मिन्निति ॥ यदिभिन्ने इति शेषः । लट् स्यादिति ॥ नतु लकारान्तरमित्यर्थः । आश्चर्यमिति ॥ अन्धः कृष्ण द्रक्ष्यतीत्याश्चर्यमित्यन्वयः । नामेत्यव्य यमाश्चर्यद्योतकम् । मूकः इति ॥ मूको अधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्याश्चर्यद्योतकम् । उताप्योः ॥ समौ अथैौं ययेोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकयेोरित्यर्थः । कमर्थमादायानयोरेकार्थकत्वमित्यत आह । बाढमिति । तथाच बाढार्थकयोः उत अपि इत्यनयेो. प्रयोगे लिड् स्यान्न तु लकारान्तरमित्यर्थ । उत अपि वेति । उत हन्यादधं हरि, अपि हन्यादघ हरिरित्यन्वयः । उतापी वाढमित्यर्थकौ । गम्यते इति ॥ उत दण्डः पति ष्यतीत्यत्र उतशब्देन प्रश्रो गम्यते । अपिधास्यति द्वारमित्यत्र अपिना धाधातेो प्रच्छादनार्थ कत्वङ्गम्यत इत्यर्थः । इतः प्रभृतीति ॥ 'वोताग्यो ' इति मर्यादायामाङ् । “उताप्यो इत्यतः प्राक् भूते लिइनिमित्ते लड् वेत्यधिक्रियते । 'उताग्योः' इत्यादिसूत्रेषु-भूते 'लिडू


१. अत्र सोऽधीयीतेत्येव पाठः वहुषु ग्रन्थेषु दृश्यते ।

59
५६६
[लकारार्थ
सिध्दान्तकौमुदीसहिता


२८१० । कामप्रवेद्नेऽकचिति । (३-३-१५३)

स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कश्चिति । कामो मे भुञ्जीत भवान् । “अकचिति' इति किम् । कचिज्जीवति ।

२८११ । सम्भावनेऽलमिति चेत्सिद्वाप्रयोगे । (३-३-१५४)

अलमर्थोऽत्र प्रौढि : । सम्भावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । सम्भावनेऽर्थे लिङ् स्यात्, तचेत्सम्भावनमलमिति सिद्धाप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । “मिद्धाप्रयोगे ' किम् । अलं कृष्णो हस्तिनं हनिष्यति ।

२८१२ । विभाषा धातौ सम्भावनवचनेऽयदि । (३-३-१५५)


निमित्ते लड् क्रियातिपत्तौ' इत्येवाधिक्रियते इत्युक्तम् । एवञ्च ‘उताग्यो इति सूत्रप्रभृति लिङ्नमित्ते क्रियातिपत्तौ भूते लडित्येवाधिाक्रियते, नतु वाग्रहणम् । अतो नित्यमेवात्र विषये क्रियाति पत्तौ भूते भविष्यति च लडित्यर्थः । कामप्रवेदनेऽकञ्चिति ॥ अकचितीति च्छेदः । तदाह । नतु कच्चितीति । सर्वलकारापवादः । अभिप्राय. इच्छा । कामः इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्य लड् । प्रश्र एवायङ्कामप्रवेदनद्योतक इति प्राप्ति । अत्र कचिच्छब्दस्य इच्छार्थकत्वाभावादि न्छार्थेष्विति वक्ष्यमाणन्नात्र प्रवर्तते । सम्भावने ॥ अलमर्थोऽत्र प्रौढिरिति ॥ पर्याप्तिरि त्यर्थः । विपरिणम्यते इति । सम्भावने इति यत् सप्तम्यन्तन्तत् आवल्यै प्रथमया सम्भा वनमिति च विपरिणम्यते । यतु अलम् इति प्रथमान्तन्तत् आवल्यै सप्तम्या अलमि इति च विप रिणम्यत इत्यर्थः । छान्दस विभक्तिव्यत्ययमाश्रित्येति शेषः । तथाच सम्भावने इति सप्तम्य न्त सम्भावनमिति प्रथमान्तश्च लभ्यते । तथा अलम् इति प्रथमान्तं अलमि इति सप्तम्यन्तञ्च लभ्यते। तत्र सम्भावने इति सप्तम्यन्तमर्थनिर्देशपरम् । तदाह । सम्भावनेऽर्थे लिङ् स्या ते । उत्कटान्यतरकोटिक ज्ञान सम्भावनमित्युच्यते । सम्भावनमिति प्रथमान्तन्तु अल मिति प्रथमान्तेन विशेष्यते । इतिहेतौ । तदाह । तचेदिति । तत्सम्भावनम् अल पर्याप्ति हेतुकञ्चेदित्यन्वय. । षिधधातोज्ञानार्थकात् ‘मतिबुद्धि' इति वर्तमाने कर्मणि त्ते सिद्धशब्द। सिद्धे भम्यमानेऽप्यलमर्थे अप्रयोगो यस्य सः सिद्धाप्रयागः तास्मिान्निति विग्रहः । अलमि इति सप्तम्यन्त मत्र विशेष्यसमर्पक सम्बद्यते । अलशब्दप्रयोग विनापि तदर्थे गम्यमाने इति यावत् । तदाह । सिद्धाप्रयोगे सतीति । अलमीति शेष. । अपि गिरिमिति । बलवन्तं पुरुष मधिकृत्य अत्युक्तिरियम् । प्रायेण शिरसा गिरि भेत्तुमय समर्थ इत्यर्थः । गिरिभेदमम्भावनस्य सामथ्र्यहेतुकत्वद्योतकः अपिशब्दः । अत्र लिड्निमित्तसत्त्वात् क्रियातिपत्तौ भूते लड्। ‘अलमिति

सम्भावने सिद्धाप्रयोगश्रेत्’ इति सुवचम् । विभाषा धातौ ॥ अयदीति छेदः । तदाह । नतु
प्रकरणम्]
५६७
बालमनोरमा ।

। संभावनेऽर्थे धातावुपपदे उत्तेऽर्थे लिङ् वा स्यात्, न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । सम्भावयामि भुञ्जीत भावयत वा अयदि' किम् । सम्भावयामि यद्भजीथास्त्वम्

२८१३ । हेतुहेतुमतोलिड् । (३-३-१५६)

वा स्यात् । कृष्णं नमेचेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । “भविष्यत्येवेष्यते ।’ (वा २२७५) । नेह । हन्तीति पलायते ।

२८१४ । इच्छार्थेषु लिङ्लोटौ । (३-३-१५७)

इच्छामि भुञ्जीत-भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बाध्यम् । “कामप्रवेदने इति वक्तव्यम्' (वा २२७६) । नह । इच्छन्करोति ।

२८१५ । लिङ् च । (३-३-१५९)

समानकर्तृकेषु इच्छार्थेषु लिङ् । भुञ्जीयेतीच्छति ।

२८१६ । इच्छार्थेभ्यो विभाषा वर्तमाने । (३-३-१६०)

लिङ् स्यात्पक्षे लट् । इच्छेत् । इच्छति । कामयेत । कामयते ।


यदिति ॥ लिडभावे लट्। 'शेष लडयदा' इत्यतस्तदनुवृते. । सम्भावयामीति । प्रायण भोक्तु समर्थ इत्यर्थः । हेतुहेतुमतोलिंङ् ॥ पूर्वसूत्राद्विभाषानुवृत्ति मत्वा आह । वा स्या दिति ॥ पक्षे लट्। हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोलिंड् वा स्यादिति यावत् । भविष्य त्येवेति ॥ लिडित्यनुवर्तमाने पुनर्लिङ्गहणादिति भावः । हन्तीतीति ॥ इतिहँतौ वर्तमान कालिकहननाद्धेतोरित्यर्थः । अत्र लिङ्कनिमित्तसत्त्वात् । भविष्यति तु क्रियातिपत्तौ भूते च लङ् । इच्छार्थेषु लिङ्लोटौ ॥ इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लेटौ स्तः । सर्वलकारापवादः असमानकर्तृकविषयमिदम्। समानकर्तृकेषु तु ‘लिङ् च' इति वक्ष्यते । इच्छामीति । भुञ्जीत भवानिति इच्छामीत्यन्वयः । कामप्रवेदने इति । पर प्रति खाभिप्रायाविष्करणे इच्छार्थेषु लङ्कलाटावात विधिरित्यर्थः । इच्छन्करोतीति ॥ पर प्रति स्वाभिप्रायाविष्करणाभावान्न लिइलेोटाविति भाव. । “कामप्रवेदनेऽकचिति' इति सूत्रन्तु प्रकरणादिना यत्र कामप्रवेदन नत्वि च्छार्थकमुपपदमास्ति तद्विषयामिति बोछद्यम् । इत उत्तरसूत्र समानकर्तृकेषु तुमुन्निति तु कृदधि कारे व्याख्यास्यते । लिङ् च ॥ समानकर्तृकेष्विति इच्छार्थेष्विति चव.नुवर्तते । तदाह । समा नेत्यादि । भुञ्जीयेतीच्छतीति । अत्र भेोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम्। समानकर्तृ केषु इच्छार्थेष्विति च लोटो निवृत्त्यर्थमद सूत्रम् । क्रियातिपत्तौ तु भविष्यति नित्य लटड् भूत वत्यधिकारः सम्पूर्ण:। इच्छार्थेभ्यो। लिडित्येवानुवर्तते । समानकर्तृकेष्विति तु निवृत्तम्।

तत् सूचयन्नुदाहरति।इच्छेत्।इच्छतीति ॥“विधिनिमन्त्रण'इतिभूधातौ व्याख्यातमपि सूत्र
५६८
[लकारार्थ
सिध्दान्तकौमुदीसहिता

विधिनिमन्त्रण–' (सू २२०८) इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रसारणे' । किं भो वेदमधीयीय उत तर्कम्। प्रार्थने । भो भोजनं लभेय । एव लाट् ।

२८१७ । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च । (३-३-१६३)

लोट् च । प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवता यष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालाथम् ।

२८१८ । लिङ् चेोध्र्वमौहूर्तिके । (३-३-१६४)

प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूध्वै यजेत-यजताम्-यष्टव्यम् ।

२८१९ । स्मे लोट् । (३-३-१६५)

पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊध्र्व मुहूर्ताद्यजतां स्म ।

२८२० । अधीष्ट च । (३-३-१६)


क्रमप्राप्तत्वात् स्मारितम् । सम्प्रसारणे इति । सम्प्रश्रे इत्यर्थः । एवं लोडिति ॥ लोट् चेति विद्यादिषु विहितो लोडप्येवमुदाष्ट्रियते इत्यर्थ. । प्रैषातिसर्ग ॥ लोट् चेति । पूर्वसूत्रो पानो लोट् चकारात्समुचीयते । कृत्यसज्ञकाः प्रत्ययाः वक्ष्यमाणेो लोट्च प्रैषादिषु भवन्तीत्यर्थः । श्रेषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति । भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोट मुदाहरति । भवान् यजतामिति । ननु चकारेण लोटोऽनुकर्षण व्यर्थम् । प्रैषस्य विधि रूपतया अतिसर्गस्य आमन्त्रणरूपतया च ‘लोट्च' इत्यनेनैव सिद्धेरित्यत आह । चकारेणेति ॥ प्राप्तकाले यथा। गुरुणा भेोक्तव्य। गुरुर्भुञ्जीत । भोजन प्राप्तावसरामित्यर्थः । प्राप्तकाले च कृत्याश्च , इत्युक्तौ तु निमन्त्रणादिष्वपि कृत्या. स्युः । अतः प्रैषादिग्रहणम् । लिङ् चोध्र्वमौहूर्तिके ॥ लोडथैलक्षणे च' इत्युत्तरमवञ्जातीयकमेव सूत्र लिङ्लड्लुङ्लड़िधायक प्राक् पठितम् । तत्र ऊध्र्वमौहूर्तिकशब्दो व्याख्यातः । प्रैषादयः इति ॥ तथाच मुहूर्तादुपरितनकालके धात्वर्थे विद्यमानाद्धातोः प्रैषातिसर्गप्राप्तकालेषु लिङ् च स्यात् लोट् कृत्यावेत्यर्थः । क्रमेण लिडादीनुदः हरति । मुहूर्तादूध्र्व यजेत-यजतां-यष्टव्यमिति । अत्र प्राप्तकाले अप्राप्तस्य लिडो विधिः । विध्यादिसूत्रे लिड्विधौ प्राप्तकालस्य ग्रहणाभावात् । प्रैषातिसर्गयेोतु विध्यादिसूत्रेणैव लिड् सिद्यति । लिड एवात्र विधौ तु, तेन लोटः कृत्यानाञ्च बाधः स्यात् । अतश्चकारेण तेषा मपि विधिरिति ज्ञेयम् । स्मे लोट् ॥ पूर्वसूत्रेति ॥ तथाच मुहूर्तादुपरितनकाले प्रैषातिसर्ग प्राप्तकालेषु लेोडेव स्यात्, नतु लिङ् कृत्याश्चेत्यर्थ । तदाह । लिङः कृत्यानाञ्चापवादः इति ॥ अधीष्ट च॥ लोट् स्यादिति ॥ ‘अधीष्ट च' इति विहितस्य लिडोऽपवादः । अधीष्ट


१. अय पाठः व्याख्यात्रभिमतः “सप्रश्रे' इति पाठस्तु साम्प्रदायिकः ।
प्रकरणम्]
५६९
बालमनोरमा ।

म्म उपपदेऽधीष्ट लोट् स्यात् । स्माद्धयापय ।

२८२१ । लिङ् यदि । (३-३-१६८)

यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यान्। कालः ममयो वेला वा यडुजीत भवान् ।

२८२२ । अहं कृत्यतृचश्च । (३-३-१६९)

चाल ङ् । त्व कन्या वहः ।

२८२३ । शकि लिङ् च । (३-३-१७२)

शक्तौ लिङ् स्यान् । चात्कृत्याः । भारं त्वं वह्नः । । मा,ि लुड् (२२१९) मा कापः । कथं मा भवतु मा भविष्यतीति । नायं माङ् कितु

२८२४ । धातुसम्बन्धे प्रत्ययाः । (३-४-१)


सत्कारपूर्वको व्यापारइत्युक्तम्। त्व स्माछद्यापयेति गुरुं प्रत्युक्ति । ‘से लोडधीष्ट च' इलेकसूत्रत्वेन सिद्धयोगाविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थ । ‘कालसमयवलासुतुमुन्' इत्युत्तरसूत्रन्तु कृदधिकारे व्याख्यास्यते । लिङ् यदि ॥ कालसमयवेलास्वित्यनुवर्तते । सर्वलकारापवादः । तुमुनपवादश्च । भुञ्जीत भवानिति यत् तस्य कालः समयो वेला वेत्यन्वयः । अहे कृत्यतृचश्च॥ चालुिङिति । योग्ये कर्तरि गम्ये कृत्याः तृच् लिङ्चेत्यर्थ. । त्वङ्कन्यां वहेरिति ॥ क न्याविवाहस्य योग्य इत्यर्थे । शकि लिङ् च ॥ शकि इति भावे किबन्तम् । शक्तौ गम्यमा नायामित्यर्थ । भारं त्वं वहेरिति । वोढु शक्त इत्यर्थ. । माडि लुडिति व्याख्यातमपि क्रमप्राप्त विशेषविवक्षया पुन. स्मार्यंत । ननु सर्वलकारापवादोऽयमित्युक्तम्। एव सति मा भवतु मा भविष्यतीति कथमिति शङ्कते। कथमिति । परिहरति । नायं माङिति ॥ किन्त्विति ॥ डकारानुबन्धविनिर्मुक्तस्यापि अव्ययेषु पाठादिति भाव. । नच माशब्दमादाय मा भवत्वित्यादि प्रयोगसत्व ‘माडि लुड्’ इति व्यर्थमिति वाच्यम्। सर्वलकारविपये ‘न माडयोगे' इत्यडाड़हितलुड तप्रयेोगार्थन्तदावश्यकत्वात् । धातुसम्बन्धे ॥ धातुशब्देन धात्वर्थो लक्ष्यते । धातेः सम्ब न्ध इति विग्रहः । सम्बन्धस्य द्विनिष्ठत्वात् । तथाच धात्वर्थयोस्सम्बन्धे सति प्रत्ययाः स्युरिति लब्धम् । कस्मिन्नर्थे इत्याकाक्षायाङ्काले इति गम्यते । 'वर्तमाने लट्’ इत्यारभ्य तत्तत्कालाविशेष व्येव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धस्ततोऽन्यस्मिन्काले


१ वस्तुत. स नास्त्येव । “ आङ्माडोश्च' इति सूत्रे भाष्ये तथा ध्वनितत्वात्-इति
५७०
[लकारार्थ
सिध्दान्तकौमुदीसहिता

धात्वर्थानां संबन्ध यत्र काले प्रत्यया उत्क्तास्ततोऽन्यत्रापि स्युः । तिङन्तवाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन्ददर्श । भूते लट् । अतीतवासकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ।

२८२५ । क्रियासमभिहारे लोट् लोटो हिस्वौ

वा च तध्वमोः । (३-४-२) पौनःपुन्ये भृशार्थे च द्योत्ये धातोलॉट् स्यात्तस्य च हिस्वौ स्तः । तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिड्संज्ञौ च ।


इति गम्यते । तदाह । धात्वर्थानामित्यादिना ॥ धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वा भिप्राय बहुवचनम् । “ वर्तमानसामीप्ये वर्तमानवद्वा' इत्यादिसूत्रे यत्र काले ये प्रत्यया उक्ताः ते धात्वर्थयोस्सम्बन्धे गम्ये ततोऽन्यस्मिन्नपि काले स्युरिति यावत् । तथाच वसन् ददर्शयत्र लडादेशः शतृप्रत्ययो भूतकाले इति सिद्ध भवति । ननु ‘वसन् ददर्श' इत्यत्र भूते लडिव वर्त माने लिडित्यपि स्यादित्यत आह । तिङन्तेति ॥ वसन् ददर्शत्यादौ तिङन्तवाच्यदर्शनादि क्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिक्रियार्थत्वात् गुणभूता । अतः प्रधानभूतदर्शनादि क्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः । भूते लडिति । एवञ्च उषित्वा ददर्शल्यर्थः । तदाह। अतीतेति । अतीतवासे कर्ता यस्येति विग्रहः । ‘सप्तमीविशेषणे बहुत्रीहौ' इति ज्ञापकाद्यधिकरणपदो वहुव्रीहिः । उदाहरणान्तरमाह । सोमयाजीति ॥ सोमेन इष्टवान्य. स सोमयाजी ‘करणे यजः’ इति भूत विहितो णिनि. इह भवि तेत्यनद्यतभावघ्यल्लुडन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोछ. । तदाह । सोमेन यक्ष्यमाणः इति ॥ भवनमिति ॥ उत्पत्तिरित्यर्थः । गोमानासीदित्यप्युदाहार्यम् । अत्र गौ रस्यास्तीति अस्तिक्रियाया वर्तमानायान्तदस्यास्तीति विहितो मतुप् गौरस्यासीदितीति भूता यामस्तिक्रियायाम्भवति । धात्वर्थद्वयसम्बन्धस्य सत्त्वात् । एतेन अर्थद्वारकं धात्वोस्सम्बन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसम्बन्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभात् गोमानासीदित्यत्र मतुबन्तापते । नहि धात्वोरिह प्रयोगोऽस्ति। धात्वर्थयोस्सम्बन्धे इत्यर्थाभ्युप गमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुप् निबध इत्यन्यत्र विस्तरः । क्रियासमभि ॥ अत्र चत्वारि वाक्यानि । तत्र क्रियासमभिहारे लोडिति प्रथम वाक्यम्। पौन पुन्य भृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वर्थवि शेषणम् । क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोरिति लभ्यते । लोट् तु यातक । तदाह । पौनःपुन्ये भृशार्थे च द्योत्ये इति ॥ क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोलॉडिति यावत् सर्वलकारापवादः ॥ लोटो हिस्वाविति द्वितीय वाक्य व्याचष्ट । तस्येति । पूर्ववाक्यविहि

तस्य लोट: हिस्वावादेशौ स्त इत्यर्थः । तिङामपवाद इति ॥ अपवादावित्यर्थः । प्रत्येका
प्रकरणम्]
५७१
बालमनोरमा ।

तध्वमविषये तु हिस्वैौ वा स्त । पुरुषेकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामथ्र्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्येो हि कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ।

२८२६ । ससुचयेऽन्यतरस्याम् । (३-४-३)

भिप्रायमेकवचनम् । ननु हिस्वयोरुभयोरपि लादेशत्वान् परस्मैपदत्च स्यात् । तथा सति हे. पर स्मैपदत्व स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिछेद्यन् । अस्य स्वादेशस्य तड़प्रत्याहा रप्रविष्टत्वाभावन “नडानावात्मनेपदम्’ इत्यस्याप्रवृत्ते । 'तिप्तसूझि' इत्यादिसूत्रोपानेषु ताता मादिष्वेव तड्सज्ञाप्रवृत्ते' । किञ्च अनयोर्हिस्वयो. 'तिप्तस्झि' इति सूत्रानन्तभूतत्वात्तङ्त्वञ् द्वर्लभमित्यत आह । तौ चेति । लोटो हिस्वाविति द्वितीयवाक्ये तावत्क्रियासमभिहारे लो डिति प्रथमवाक्यात् लेडित्यनुवृत्त स्थानपष्ठया विपरिणत तृतीय वाक्य सम्पद्यते । तत्र हि लेोटो हिस्वौ इति द्वितीयवाक्यान् हिस्वाविलयनुवृत्त धर्मपरमाश्रीयते । तथा च लेोडादेशौ हि स्ववद्रवत इति लभ्यते । कौ भवत. इत्याकांक्षाया पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते । ततश्च याविमौ तिङनन्तभूतौ हिस्वावुक्तौ तौ प्रसिद्धलेोडादेशतिङन्तर्भूत हिस्ववत् भवत इति तृतीय वाक्य पर्यवस्यति । तिडन्तर्भूतहिस्वयोस्तावन् क्रमात । प्रसिद्ध तिड्त्वम् । अतः प्रकृतौ हिस्वौ क्रमात् परस्मै पदात्मनेपदसञ्ज्ञो स्तः तिडसज्ञा चेत्यर्थः । तिङ्त्वात्पदत्वसिद्धिः । ननु वा च तध्वमेोः इति तध्वमोहिँस्वादेशविकल्पविधिरनुपपन्न । लोडादेशभूतहिस्वयोस्तिडपवादतया लोटस्तध्वमोर प्रसत्तेरित्यत आह । तध्वमोर्विषये त्विति । स्थानषष्ठीमाश्रित्य लोडादेशतध्वमोः स्थाने हिस्वावित्यर्थ इति न भ्रमितव्यम् । येनोक्तदोष. स्यान् । किन्नु विषयविषयिभावः षष्ठयर्थः । तथाच तथ्वमोर्विषये लेोटे हिस्वै, पक्षे त८वमाविनि फलतीत्यर्थः । अत्र मध्यमपुरुषबहुवचन मेव तशब्दो गृह्यते । व्याख्यानात् । ध्वसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषेकवचनत्व स्याग्यतिदेशाद्युष्यत्सामानाधिकरण्ये एकत्वेच सत्यव हिस्वौ स्याताम्। तथाच “इमौ हिस्वौ सर्वेषा पुरुषाणां सर्वेषाञ्च वचनानामिष्यते” इति भाष्यमनुपपन्नमित्यत आह । पुरुषेकवचनसंज्ञे त्विति॥हिस्वयोर्मध्यमपुरुषसज्ञा एकवचनसज्ञा च नातिदिश्यते इत्यर्थः। कुन इत्यत आह । हिस्व विश्रानेति । यदि हिस्वयेोर्मध्यमपुरुषेकवचनसज्ञे स्याताम्। तर्हि युष्मत्मामानाधिकरण्ये एकत्वे च सत्येव लेोटो हिस्वौ स्याताम् । अन्यत्र तु यथायथन्तिवावादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थक स्यात् । अतो न पुरुषवचनातिदेशा इत्यर्थ . । तेनेति ॥ हिखयोः पुरुष वचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसज्ञालाभेन चेत्यर्थ । सकलेति । सकलपुरुष वचनाविषये हिर्भवति । स च भवन् परस्मैपदिभ्य एव कर्तयैव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः । शेषात्कर्तरि परस्मैपदमित्युक्तरिति भावः । आत्मनेपदिभ्यः स्वः इति ।॥ “ अनुदात्तडित आत्मनेपदम्, भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यः भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसज्ञाविध्यभावे तु लादेशत्वेन

उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भाव । समुच्चये ॥
५७२
[लकारार्थ
सिध्दान्तकौमुदीसहिता

अनेकक्रियासमुचये द्योत्ये प्रागुक्तं वा स्यात् ।

२८२७ । यथाविध्यनुप्रयोगः पूर्वस्मिन् । (३-४-४)

आद्ये लोड़िधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ।

२८२८ । समुच्चये सामान्यवचनस्य । (३-४-५)

समुचये लोड़िधौ सामान्यार्थकस्य धातोरनुप्रयोगः स्यात्। अनुप्रयोगा द्यथायथं लडाद्यस्तिब्बाद्यश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभि व्यक्तिः । *क्रियासमभिहारे द्वे वाच्ये' (वा ४६९५) । याहि याहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानं यानं यातीत्यस्य इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयति । एव यात । यान्ति । यासि


समभिव्याहारः इति पदरहित ‘क्रिया लोट्लोटो हिस्वौ वा च तध्वमो ' इति पूर्वसूत्रमनुवर्तते । क्रियेति लुप्तषष्ठीबहुवचनान्त समुचय इत्यत्रान्वेति । तदाह । अनेकक्रियासमुच्चये द्योत्ये इति ॥ एवञ्च कारकसमुच्चयमाश्रित्य नास्य प्रवृत्ति । प्रागुक्तमिति । धातोलट् तस्य हिस्वप्रसिद्धहिस्वधर्मकौ तवमोर्विषये वा इत्युक्तमित्यर्थ । यथाविध्यनुप्रयोगः ॥ ‘क्रिया समभिहारे’ इति, ‘समुच्चयेऽन्यतरस्याम्' इति च, लेड़िधी उत्तौ। तयोर्मध्ये यत्पूर्वसूत्र क्रियासम भिहार इति तदेतत्पूर्वशब्देन परामृश्यते । तदाह । आद्ये लोड़िधाने इति ॥ विधिमनति क्रम्य यथाविधि । यस्याः प्रकृतेः लोड़िहितः तस्या अनुप्रयोग इति लभ्यते। तदाह । लोट् प्रकृतिभूत एवेति । अत्रानुप्रयोगः पश्चात्प्रयोगः, नत्वव्यवहितत्व विवक्षितम् । लुनीहि लुनीहि इत्येवाय लुनातीति भाष्यप्रयोगालिङ्गात् । समुच्चये सामान्यवचनस्य ॥ उच्यते ऽनेनेति वचन । सामान्यवाचिन इत्यर्थ. । फलितमाह । सामान्यार्थकस्येति । समुच्चीय मानक्रियासामान्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति ॥ अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यान्तु न सङ्खयाकारकाद्यभिव्य क्ति. । तथाच भाष्य 'हिस्वान्तमव्यक्तपदार्थकन्तेनापरिसमाप्तोऽर्थः’ इत्यादि। ‘क्रियासमभिहारे द्वे वाच्ये' इति वार्तिकन्द्विरुक्तिप्रक्रियाया व्याख्यातम् । इदमाद्यसूत्रविहितलोडन्ताविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लेोटमुदाहरति । याहि याहीति यातीति । भाष्ये इतिशब्दस्य दर्शनादिति.भावः । ह्यन्तस्येति ॥ याहि याहीत्यस्येत्यर्थः । एककर्तृकमिति ॥ यातीति यानकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः । अभेदान्वये इति । तथाच पुन पुनरतिशयेन वा यद्यानन्तदात्मकमेककर्तृकं वर्तमान यानमिति बोध । तिडन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः । एवमिति । याहि याहीति यातः, याहि याहीति यान्तीत्यादिस कलपुरुषवचनेपूदाहार्यमित्यर्थः । याहि याहीति ययौ । याहि याहीति याता । याहि याहीति या स्यति । याहि याहीति यातु । लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः

वा च तध्वमोरिति । तत्र हिभावपक्षे याहि याहीति यूय यातेति सिद्धवत्कृत्य अभावपक्षे आह ।
प्रकरणम्]
५७३
बालमनोरमा ।

याथः । याथ ! यात यातेति यूयं यात । याहि याहीत्ययासीन् । अयास्यद्वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षे अधीध्वमधीध्वमिति यूयमधीध्वम् । समुचये तु सक्तून्पिब, धानाः खादेत्यभ्यवहरति । अत्रं भुङ्क्ष्व, दाधिकमा स्वाद्यस्वेत्यभ्यवहरते । तध्वमोस्तु पिवत, खादृतेत्यभ्यवहरत । भुङ्ध्वमास्वद् ध्वमित्यभ्यवहरध्वम् । पक्षे हिस्वैौ । अत्र समुचीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे मक्तून्पिबति । धानाः खादति । अत्रं भुङ्गे । दाधि कमास्वदूत । एतन्न ।

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण गन्नानि हरामराङ्गनाः । विगृह्य चक्रे नुमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ।।

३त व्याख्यातम् । अवस्कन्दनलवनादरूपा भूतानद्यतनपरराक्षा एक कर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्वस्कन्देत्यादिरर्थ इति व्याख्यानं


यात यातेति यूयं यातेति ॥ याहि याहील्ययात् । याहि याहीति यायात् । लुडयाह । याहि याहीत्ययासीदिति ॥ लडि उदाहरति । अयास्यद्वेति ॥ याहि याहील्यास्य दिनि लडि रूपम् । यास्यति वेति पाठे लटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति ॥ वविषये स्वादेशाभावपक्षे इत्यर्थः । यूयमधीध्वम् इति ॥ लोण्मध्यमपुरुषवहुवचनम्। भाव कर्मणेोस्तुभूयस्व भूयस्वति भूयते । पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम्। अथ ‘समुचये सामा न्यवचनस्य’ इत्यस्योदाहरति । समुच्चये त्विति । अभ्यवहरतीति ॥ पान द्रवद्रव्यस्य दन्तसम्मर्दन विना भक्षणम् । खादनन्तु कठिनद्रव्यस्य चर्वणम् । तयोस्सामान्यरूपमभ्यवह रणम् । यथाकथञ्चित् भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाचित् हिम् । देशपक्षे इत्यर्थ । पिब खादत्यभ्यवहरतीत्युदाहार्यम् । अत्रेति । पिव खादेत्यभ्यवहरता त्यादौ समुचीयमानपानखादनादिक्रियाविशेषणमनुप्रयुज्यमानधातुवाच्याभ्यवहरणात्मकक्रियासा मान्येन अभेदान्वय इत्यर्थ । पक्षे सक्तूनिति ॥ समुचये लोडभावपक्षे अनुप्रयोगोऽपि मा मान्यवचनस्य नास्तीति भावः । एतेनेति ॥ ‘समुच्चयेऽन्यतरस्याम्' इति ‘ससुचये सामान्यवच नस्य' इति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च पुरीमवस्कन्दत्यादि माघकाव्यस्थ श्रेोकवाक्य व्याख्यातमित्यर्थः । वली रावण. नमुचिद्विषा इन्द्रेण विगृह्य विरोध प्राग्य पुर्याः अमरावत्या अवस्कन्दन पाडनं, नन्दनवनस्य लवन, रत्नानाम्मोषणम्, अमराङ्गनाना हरणम्, इत्येवप्रकारेण अहर्दिवं अहन्यहनि अस्वास्थ्यञ्चक्रे कृतवानित्यन्वय. । इत्थशब्दः इतिपर्याय.। अवस्कन्दनादि क्रियाविशेषाणां अस्वास्थ्यक्रियासामान्ये अभेदङ्गाहयति । फलितमाह । अवस्कन्दनलव नादीति ॥ आदिना मोषण हरणञ्च गृह्यते । भ्रममूलकत्वमुपपादयति । द्वितीयसूत्रे

60
५७४
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता


भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहारे इत्यस्याननुवृत्तेः । लोडन्तस्य द्वित्वा परतश्व । पुरीमवस्कन्देत्यादि मध्यमपुरुषकवचनमित्यपि केषांचिद्धम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ।

इति लकारार्थप्रकरणम्



इति । अननुवृत्तरिति । भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधक माह । लोडन्तस्येति ॥ ‘समुचयेऽन्यतरस्याम्' इति सूत्रे क्रियासमभिहारे इत्यनुवृत्तौ अव स्कन्देत्यादिलोडन्ताना 'क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वापत्तरित्यर्थः। भ्रम एवेति ॥ मध्य मपुरुषाशे एकवचनाशे च भ्रम एवल्यथे । कुत इत्यत आह । पुरुषवचनसंज्ञे इह नेत्यु क्तत्वादिति । अत्र भाध्ये ‘हिखान्तयेोरनभिव्यक्तसङ्खयाकालकत्वात्तदभिव्यक्तये अनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्मसुतु’ इत्युक्तम् । एवञ्च “तानीमानि क्षुद्राण्यसकृदावतींनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतन् तृतीय स्थानम्' इति श्रुतौ ‘समुच्चयेऽन्यतरस्याम्' इति लेटो हिस्वावेव भवतः, न त्वनुप्रयोग । तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्खयाका लाभिव्यक्तरविवक्षितत्वेन तत्रानुप्रयोगस्य प्रयेोजनाभावात् । एतेन “आ च सत्यलोकादाचावीचे जीयस्व त्रियस्व' इति विपरिवर्तमानमान्मान जीवलोकचालोक्यास्मिन् ससारे नित्याशुचिदुःखात्म कम्प्रसङ्कयानमुपवर्तत इति वाचस्पत्यग्रन्येऽपि जायस्व म्रियस्वेति व्याख्यातम् । नचात्र “समु चयेऽन्यतरस्याम्' इत्यत्र क्रियासमभिहारे इत्यस्याननुवृत्तेरुक्तत्वात् कथमिह पौनःपुन्यावगति रिति वाच्यम्। ‘आ च सत्यलोकादाचावीचेः विपरिवर्तमानम्’ इति समभिव्याहारेण तदुपपत्तेः । उदाहृतश्रुतौ तु पौन पुन्य असकृत् पदगम्यमित्यदोषः । कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र क्रियासमभिहार इतिसूत्रेण लोडित्युक्तम् । तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपश्चितम ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमाया लकारार्थप्रक्रिया निरूपण समाप्तम् ।

। श्रीरस्तु ।

। अथ कृदन्तकृत्यप्रकरणम् ।।


।२८२९ । धातोः । (३-१-९१)

आ तृतीयसमाप्राधिकारोऽयम् । “तत्रोपपदं सप्तमीस्थम् ।' (सू

।७८१) । “कृदतिङ्' (सू ३७४) ।

।२८३० । वाऽसरूपेोऽस्त्रियाम् । (३-१-९४)

परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्ययः उत्सर्गस्य बाध को वा स्यात्स्र-यधिकारोत्तं विना ।


अथ कृदन्तप्रक्रिया निरूयन्ते । तदेव “प्रत्यया अथ कथ्यन्ते तृतीयाद्यायगोचराः' इति प्रतिज्ञात तृतीयाद्यायस्थप्रत्ययेषु प्रथमपाद 'प्रत्ययः, परश्च' इत्यारभ्य “कुषिरञ्जो प्राचवा २यन्’ इत्यन्तै सूत्रैर्विहिता कतिचित्प्रत्यया निरूपिताः । अथ तदुत्तरसूत्रविहितान् निरूपयितुमुपक्रमते । धातोः । आत्तायात ! आा तृतायाध्यायपारसमासारत्यथ. । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं सप्तमीस्थम् इति । कृदतिङ् इति ॥ व्याख्यात प्राक् । वाऽसरूपोऽस्त्रियाम् ॥ असरूपः इति छदः । परिभाषेयमिति ॥ अधिकारत्वं स्वरितत्वकल्पनागौरवादिति भाव. । असरूपः इति लिङ्गनिर्देश : । यत्र असरूपप्रत्यया विधास्यते तत्र वेत्युपतिष्ठते । वेत्यतः प्राक् बाधक. इति शेष । असरूपेो बाधको भवतीति यावन् । कस्य बाधको वेत्याकाक्षायाम् उत्सर्गस्येत्यर्थालभ्यते । फलितमाह । अस्मिन धात्व धिकारे ३त्यादिना । स्त्रीशब्दः स्वर्यते । तदाह । स्त्रयधिक्कारोत्तं विनेति । “त्रिया क्तिन्’ इति वक्ष्यमाणत्रयधिकारस्थमपवाद विनत्यर्थ. । त्रयधिकारस्तु असरूप. प्रत्यय उत्सर्गस्य नित्यमेव बाधक इति भाव. । “ण्वुल्तृचैौ' इत्युन्सर्गः । ‘इगुपधज्ञाप्रीकिर. कः’ इत्यपवाद. । तद्वि षये ण्वुल्तृचावपि भवतः । विक्षेपकः । विक्षेप्ता । विक्षिप । असरूप इति किम् । 'कर्मण्यणु उत्सर्ग. । “ आतोऽनुपसर्गे कः' इत्यपवादः । स तु सरूपत्वान्नित्य वाधक एव । गोदः । कम्ब लदः । ‘नानुबन्धकृतमसारूप्यम्’ इति वचनान् अनुबन्धो न सारूप्यप्रतिबन्धकः । अत्रिया किम् । स्त्रिया क्तिन्’ इत्युत्सर्ग.। ‘अ प्रत्ययात्’ इति प्रत्ययान्ताद्विहितः अकारप्रत्ययः तस्य अपवादः स बाध क एव भवति । चिकीर्षा। व्यावक्रेोशी । व्याकुष्टिः इत्यत्र तु ‘कर्मव्यतिहारे णच् त्रियाम्’ इति

क्तिनो बाधकेो वा भवलेयव । आस्त्रियामिति निषेधातु नास्ति । तस्य णच. त्रियामित्यधिकारो
५७६
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता


२८३१ । कृत्याः । (३-१-९५)

अधिकारोऽयं ण्वुलः प्राक् ।

२८३२ । कर्तरि कृत । (३-४-६७)

कृत्प्रत्ययः कर्तरि स्यादिति प्राप्रे ।

२८३३ । तयेोरेव कृत्यक्तखलर्थाः । (३-४-७०) एते भावकर्मणोरेव स्युः ।

२८३४ । तव्यत्तव्यानीयरः । (३-१-९६)

धातेोरेते प्रत्ययाः स्युः । तकाररेफौ स्वराथै । एधितव्यम् । राधनीयं त्वया । भावे औत्सर्गिकमेकवचनं कृीबत्वं च । चेतव्यश्चयनीयो वा भर्मस्त्वया । वसेस्तव्यत्कर्तरि णिच' (वा १९२०) । वसतीति वास्तव्य । केळिमर उपसंख्यानम्' (१९१९) । पचेळिमा मापा । पक्तव्याः भिदेळिमा


क्तत्वाभावात् । कृत्याः ॥ कृत्यसज्ञका इत्यर्थ. । ततश्च *प्रैपातिसर्गप्राप्तकालेषु कृल्याश्च, अर्ह कृत्यतृचश्च, शकि लिङ् च' इत्यादि प्रवर्तते । ण्वुलः प्रागिति ॥ “एवुल्तृचौ' इत्यत. प्रागि त्यर्थः । एतच भाष्ये स्पष्टम् । कर्तरि कृत् ॥ अर्थनिर्देशोऽयम् ॥ इतिं प्राप्त इति ॥ वृक्ष्यमाणतव्यदादिप्रत्ययाना कृत्सज्ञकत्वात्तेषाङ्कर्तरि प्राप्तावित्यर्थः । तयोरेव कृत्यक्तरवल थः ॥ 'लः कर्मणि च भावे च' इति सूत्रेोपात्ते भावकर्मणी तच्छब्देन परामृश्यते । तदाह । एते भावकर्मणोरेवेति ॥ नतु कर्तरीति भाव. । वैशेषिकत्वादेव सिद्धे एवकारस्तु नव्य दादीनां कृत्सज्ञकतया प्राप्तकर्तृकत्वस्याभावमनुवदन् कृत्यसज्ञया वैशेषिक्या कृत्सज्ञाया अबाध मयति । तव्यत्तव्यानीयरः ॥ तव्यत् तव्य अनीयर् एषान्द्वन्द्वः । प्रत्ययाः स्यु रिति ॥ ते कृत्सज्ञकाः कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम्। स्वरार्थाविति ॥ ‘तित्स्वरितम्’ इति ‘उपो नम रिति’ इति च स्वरविशेषार्थत्वादित्यर्थ. । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्त -वमेवेति बोद्यम् । भावे उदाहरति । एधितव्यमिति ॥ त्वत्कर्तृका एधनक्रियेत्यर्थः । ननु लः कर्मणि च' इत्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम् । तिड्वाच्यभावनाया असत्त्वरूपतायाः उक्तत्वात् । ततश्च तस्य भावस्य असत्वरूपस्यात्र ‘तयोरेव कृत्य' इति तच्छब्देन परामशत्तव्य दादीनामसत्त्ववाचितया लिङ्गसङ्खयान्वयेोऽनुपपन्न इत्यत आह । भावे ऑोत्सार्गिकमेकव चनमिति ॥ ‘एकवचनं, द्विबहुषु द्विबहुवचने’ इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाभावे एक वचनमिति भाष्यसिद्धान्तादिति भाव । कृीबत्वञ्चेति । एकश्रुतिः स्वरसवंनाम । लिङ्ग सर्वनाम नपुसकमिति 'दाण्डिनायन' इति सूत्रस्थभाष्यादिति भाव. । कर्मण्युदाहरति । चेत व्यः इति ॥ 'वसेस्तव्यत् कर्तरि णिच' इति वार्तिकम् । वास्तव्यः इति ॥ वस्तेत्यर्थः ।

णित्वादुपधावृद्धिः । केळिमरः इति ॥ धातोरित्येव । भावकर्मणोरेवेदम् । केळिमरि ककाररे
प्रकरणम्]
५७७
बालमनोरमा ।


सरला: भेत्तव्याः । कर्मणि प्रत्ययः । वृनिकारस्तु - कर्मकर्तरि चायमिष्यते इत्याह । तद्भाष्यविरुद्धम्

२८३५ । कृत्यचः । (८-४-२९)

उपसर्गस्थान्निमित्तात्परख्याच उत्तरख्य कृत्स्थस्य नस्य णत्वं स्यान् । प्रया गणीयम् : अचः' किम् । प्रमग्र : ; • निविण्णम्यापसंख्यानम् ' (बा ५८०४) । पूर्वस्य टुत्वम् । निर्विण्णः ।

२-३६ । णेर्विभाषा । (८-४-३०)

उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो य कृत्तत्स्थस्य नस्य णो वा स्यात् । प्रयापणायम्-श्रयापनायम् । 'विहितविशेषणम्' किम् । यका व्यवधान यथा स्यान् । प्रयाप्यमाण इत्युक्तम् । दुयानम्-टुयापनम्प ३श्य । ' णत्व दुर उपसर्गात्व न


फावितौ । भिदेळिमाः इति ॥ कित्त्वान्नोपधागुणः । सरळा’ वृक्षविशेषा । तद्भाष्येति ॥ भाष्ये भिदेळिमाः, इत्युदाहृत्य भत्तव्या इत्येव विवरणादिति भाव । कृत्यचः ॥ 'रषाभ्या न्नो णः' इत्यनुवर्तते । “उपसर्गदनोत्परः' इत्यतः उपसर्गादिति च । उपसर्गस्थादिति विव क्षितम् । कृतीत्यनन्तर विद्यमानस्येति शप । अञ्च इति पञ्चमी । तदाह । उपसर्गस्था दिति ॥ असमानपदत्वादप्राप्तौ वचनम्।'अट्कुप्वाड्नुव्यवायेऽपि' इत्यनुवर्तते । तदाह । प्रया णीयमिति ॥ निर्विण्णस्येति ॥ नस्य ण उपसङ्खयानमित्यर्थ । अचः परत्वाभावा दिति ॥ विदेः क्तप्रत्यये ‘रदाभ्याम्’ इति दकारादुत्तरस्य तकारस्य नत्वे निर्विद् न इति स्थिते नकारस्य अच परत्वाभावात् “कृत्यचः' इति अप्राप्त णत्वे इद णत्ववचनमित्यर्थः । दकारेण व्यवधानाच णत्वस्य न प्राप्तवाछा ! पूवस्त्यात ॥ नस्य णत्व टुत्वन दस्य डत्व तस्य 'प्र- त्यये भाषायाम् इति णत्वमित्यर्थ । तथाच द्विणकारक रूपम् । ऐर्विभाषा ॥ ‘कृत्यच.’ इत्य नुवर्तत । 'रषाभ्यान्नेा ण.' इति च । णरिति कृतो विहितविशेषणम् । तदाह । उपसर्गस्थादित्यादिना ॥ प्रयापणीयमिति ॥ याधातोणे पुकि याप इत्यस्मात् ण्य न्तादनीयरि णेलेलीपे अनेन णत्वविकल्पः । यकेति । यापि इत्यस्मात् ण्यन्तात् कर्मणि लट शानचि ‘आने मुक्’ इति मुगागमे यकि णिलेोपे प्रयाग्यमाणशब्दे णत्वविकल्पः इष्यते । णेः परो यः कृत् तत्स्थस्य णत्वविकल्प इत्युक्तौ तु कृतश्शानचो यका व्यवहितत्वेन यक. परत्वाभावात् तत्स्थस्य नस्य णत्वविकल्पो न स्यान् । तदर्थं णेरिति विहितविशेशपणमाश्रितमित्यर्थः । भाष्य तु ण्यन्तात्परो यः कृत् इत्यशःऽप्यट्कुप्वाड्नुमित्याद्यनुवत्य यकारव्यवधानेऽपि णत्वविकल्प

समाथत । णत्व दुरः इति ॥ ‘दुरध्षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्य:’ इत्यनेनेति भाव.
५७८
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता


२८३७ । हलश्रेजुपधात् । (८-४-३१)

हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् प्रकोपनीयम् । 'हलः' किम् । ओहणीयम् । 'इजुपधात्' किम् । प्रवपणीयम् ।

{{c|२८३८ । इजादेः सनुमः । (८-४-३२) सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तत्स्थस्यैव । प्रेङ्कणी यम् । “इजादेः' किम् । 'मगि सर्पणे' । प्रमङ्गनीयम् । नुम्ग्रहणमनुस्वारोप लक्षणम् । “अट्कुप्वाङ्-' (सू १९७) इति सूत्रेऽन्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । ओम्भणम् ।

२८३९ । वा निंसनिक्षनिन्दाम् । (८-४-३३)

एषां नस्य णो वा स्यात्कृति परे । प्रणिंसितव्यम् –प्रनिंसितव्यम् ।

२८४० । न भाभूपूकमिगमिप्यायीवेपाम् (८-४-३४)

एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् । पूञ् एवह महणमिष्यते' (वा ५०११) पूङस्तु प्रपवणीयः सोम । “ण्यन्तभादीनामुप संख्यानम्' (वा ५०१२) । प्रभापनीयम् * क्शाञ्जः शस्य यो वा' (वा


ततश्च दुर उपसर्गत्वाभावात् तत परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदा हरति । दुर्यानं-दुर्यापनमिति ॥ यातेण्र्यन्तात् ल्युटि णिलेोप रूपम् । हलश्रेजुपधात् ॥ हलन्तादिति नार्थ. । इजुपधस्य हलन्तत्वाव्यभिचारात् । किन्तु हलादेरिति विवक्षितम् । तदाह । हलादेरिजुनुपभ्रादिति ॥ परस्येति शेष . । प्रोहणीयमित्यादि प्रत्युदाहरणे तु 'कृत्यच.' इति नित्यमेव णत्वम् । इजादेः ॥ ‘णेर्विभाषा' इति निवृत्तम् । ‘कृत्यच.’ इत्यनुवर्तते । ‘हलश्चजुपधात् इत्यतेो हल इति च । प्रकृतिविशेषणत्वात् तदन्तविधि.। तथाच सनुमो हलन्तात् इजुपधात् कृन्नस्य णः स्यादिति लभ्यते । एवञ्च प्रेङ्खणीयमित्यादो ‘कृल्यच' इत्येव सिद्धेरिदन्नियमार्थमित्याह । सनु मश्रेदिति ॥ कृत्स्थस्यैवेत्यनन्तर णत्वमिति शष । प्रेङ्कणीयमिति ॥ इखधातुरिदित्वा त्सनुम् । ननु ‘इवि प्रीणने' इति धातोल्र्युटि तस्यानादेशे प्रेन्वनमित्यत्रापि णत्व स्यात् । सनु मोऽस्य इजादित्वात् हलन्तत्वाचेल्यत आह । सुंग्रहणमित्यादि । अनुस्वारश्च सर्व एव गृह्यते, नतु नुस्थानिक एव । अविशेषात् । तदाह । इह त्विति ॥ प्रोम्भणमिति ॥ इह उम्भ धातुः स्वाभाविकानुस्वारवानेनव, न तु नुस्थानिकानुस्वारवानिति भाव । वा निंस ॥ उपस

गर्गादिति अच इति च निवृत्तम् । तदाह । एषान्नस्येति ॥ न भाभू ॥ प्रभानीयमिति ॥
प्रकरणम्]
५७९
बालमनोरमा ।


१५८४) इत्युक्त णत्वप्रकरणोपरि नद्रोध्यम् । यत्वस्यासिद्धत्वेन शाकारव्य

२८४१ । कृत्यल्युटो बहुळम् । (३-३-११३)

रुन्नान्यनेन रुन्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ।

२८४२ । अचेो यत् । (३-१-१७)

अजन्नाद्धातोर्यत्स्यान् । चेयम् । जेयम् । अजश्रहण शक्यमकर्तुम् । थोगविभागोऽप्येवम् । तव्यदादिग्वेव यतोऽपि सुपठत्वात् ।

२८४३ । ईद्यति । (६-४-६५)

यति परे आत ईत्स्यान् । गुणः । देयम् । ग्लेयम् *तकिशसिचतियति जनिभ्येो यद्वाच्यः' (त्रा १९२२) तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धे । न च वृद्धिप्रसङ्गः ।


इह ‘कृत्यच ' इति प्राप्त णत्वन्नति भाव । णत्वप्रकरणोपरीति ॥ इद 'चक्षिडः ख्याञ्ज इति सूत्रे भाग्ये स्पष्टम् । प्रख्यानीयमिति ॥ इह यत्वस्यासिद्धतया शकारेण व्यवधानात कृत्यच.’ इति णत्वनेति भाव. । कृत्यल्युटी ॥ याभ्य प्रकृतिभ्यो येष्वर्थेषु विहिता ततोऽन्यत्रापि स्युरित्यर्थः । स्नानीयमिति । करणे अनीयर् । दानीयः इति ॥ सम्प्र दाने अनायर् । भाध्यऽपि “कृत्यत्र्युटो बहुळमिति वक्तव्यम्' इत्युच्वा पादाभ्या द्वियते पाद हारक । कर्मणि ण्वुल् । श्वोऽग्रीनाधास्यमानेन अनद्यनने भविष्यति लडिन्युदाहृतम् । अचो यत् ॥ शाक्यमकर्तुमिति ॥ 'ऋहलोण्यैत्' इति ऋहलन्तात् विशिष्य ण्यतो विहितत्वेन हलन्तभ्यो यत्प्रत्ययस्याप्रवृत्तिरित्यर्थ । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागो ऽप्येवमिति ॥ कर्तुमशक्य इत्यर्थ. । कुत इत्यत आह । तव्यदादिष्वेवेति ॥ तव्य त्तव्यानीयर्यतः, इत्येकसूत्रत्वेनैव पठितु शक्यन्वादित्यर्थः । ईद्यति ॥ आतः इति ॥ आनो लोप इटेि च' इत्यत. तदनुवृत्तेरिति भाव. । गुणः इति ॥ दाधातोः ‘अचेो यन्' इति यति आत. ईत्वे “सार्वधातुकार्धधातुकयोः' इति गुण इति भावः । ग्लेयमिति ॥ 'ग्लै हर्षक्षये' इति धातोर्यति आदेदवः इत्यात्वे ईत्वे गुण इति भावः । तकिशासीति ॥ तकि शसि, चति, यति, जनि, एषा पञ्चाना द्वन्द्वः । इका निर्देश । 'ऋहलोण्र्यन्' इत्यस्यापवादः । तक इसने, शमु हिंसायां, चतेत याचने, यती प्रयत्रे, जनी प्रादुर्भावे' इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्यय । सकर्मकभ्यस्तु कर्मण्यपीति विवेक । ननु * अहं कृत्यनृचश्च इत्यर्हऽपि जनेण्ताऽपि जन्यमिति रूपसिद्धेः जनिग्रहण व्यर्थमित्यत आह। स्वरार्थः इति ॥ ‘यतो नाव' इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यात् । अतस्तदभावार्थमिह जनर्य

द्विधिरस्त्वित्याशङ्कय निराकरोति । न च वृद्धिप्रसङ्गः इति ॥ कुत इत्यत आह । जनि
५८०
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता

जनिवध्योश्च' (सू २५१२) इति निषेधात् । “हनो वा यद्वधश्च वक्तव्यः (वा १९२३) । वध्य । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ।

२८४४ । पोरदुपधात । (३-१-९८)

पवगान्ताद्दुपधाद्यत्स्यात् । ण्यताऽपवादः । २ाप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम्' । अतो न ण्यत् । तव्यदाद्यस्तु स्युरेव ।

२८४५ । आडो यि । (७-१-६५)

आङः परस्य लभेर्नुम्स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृते अदुपधत्वा भावात ण्यदेव । आलम्भ्यो गौ । २ाक्यम् । सह्यम् ।

२८४६ । उपात्प्रशंसायाम् । (७-१-६६)

उपलम्भ्यः साधुः । * स्तुतौ' किम् । उपलव्धुं शक्यः उपलभ्य: ।

२८४७ । शकिसहोश्च । (३-१-९९)


वद्धोरिति ॥ हनो वेति ॥ हनधातोर्यद्वा स्यात् । प्रकृतेर्वधादेशश्वत्यर्थः । पक्षे इति ॥ यद भावपक्षे इत्यर्थः । घालयः इति ॥ ण्यति ‘हनस्ताऽचिण्णलोः' इति नस्य त । आत्त्वम् । उप धावृद्धिः । वधादेशस्तु यत्सन्नियोगशिष्टत्वान्नेति भावः । पोरदुपधात् । ननु शप्य लभ्यमि त्यत्र ‘ऋहलोण्र्यत्' इति कदा चित् ण्यदपि स्यात् । यत्ण्यतेोरसारूप्येण वाऽसरूपः इत्यस्य प्रवृत्ते रित्यत आह । नानुबन्धकृतमस्सारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थितमिदम् । अनु बन्धविनिर्मुक्तस्यैव असारूप्य विवक्षितमित्यर्थ । प्रकृते च यत्ण्यतोरनुबन्धरहितयेोस्सारूप्यात् वासरूपविधरप्रवृते. शायमित्यादौ ण्यदपवादो यदेवेति भावः । आाडो यि ॥ ‘इदितो तुं धातो: इत्यते नुमिति “लभेश्च' इत्यतो लभरिति चानुवर्तते । तदाह । आङः परस्येति । विवक्षिते इति ॥ यीति विषयसप्तमीति भाष्ये स्पष्टम् । विवक्षिते इत्यस्य प्रयोजनमाह । नुमि कृते इति ॥ यत्प्रत्यये विवक्षिते तत्प्रवृत्ते प्रागेव नुमि कृते अदुपधत्वाभावाद्यत्प्रत्यय स्याप्रवृत्तण्यैदेवेत्यर्थः । यति परे नुमित्यर्थे तु अदुपधत्वात् यदेव स्यात् । नतु ण्यदिति भावः । आलम्भ्यो गौरिति ॥ यद्यपि यत्ण्यतोर्न रूपभेदः । तथापि एयति कृते “तित्स्वरितम्’ इति खरितत्वम् । यति तु ‘यतो नावः’ इत्याद्युदात्तत्वमिति स्वरभेदः फलम् । उपात्प्रशंसायाम् । उपात्परस्य लभेर्नु स्यात् यादौ प्रत्यये विवक्षित प्रशसाया गम्यमानायामित्यर्थः । उपलम्भ्य स्साधुरिति ॥ समीपे प्राप्यः इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृत

अदुपधत्वाभावात् ण्यदेव । स्वरे विशेषः पूर्ववत् । शकिसहोश्च ॥ पञ्चम्यर्थे षष्ठी । आभ्या
प्रकरणम्]
४८१
बालमनोरमा ।

२८४८ । गद्मद्चवरयमश्चानुपसर्गे । (३-१-१००)

गद्यम् । मद्यम् । चर्यम् । चरराडि चागुरौ' (वा १९२५) । आचर्यो देश: । गन्तव्य इत्यर्थः । “ अगुरौ' किम् । आचार्यो गुरुः । यमे नियमार्थम् । सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव । तेन “तत्र न भवेद्विनियम्यम्' (वा १९३०) इति वार्तिकप्रयोगात् । एतेन ? अनि यम्यस्य नायुक्तिः' । “त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि व्याख्यातम् । नियमे साधुरिति वा ।

२८४९ । अवद्यपण्यवर्या गर्हपणितव्यानिरोधेषु । (३-१-१०१)

वदेर्नञ्युपपदे * वदः सुपि—' (सू २८५४) इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गह्वयामेवेत्युभयाथै निपातनम् । अवचं पापम् । “गहॅ' किम् । आत्मनाम गुरानोम नामातिकृपणस्य च । श्रयस्कामा न गृहंयाज्यष्ठापत्यकलत्रया। ।।'


यदित्यर्थः । ण्यतोऽपवादः । गद्मद् ॥ गद, मद, चर, यम, एषाश्चतुर्णा द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । प्यतोऽपवाद । उपसर्गातू ण्यदेव । प्रगाद्य मित्यादि । चरेराङि चागुराविति । वार्तिकमिदम् । आडि उपसर्गे सत्यपि चरेर्यत्स्यादगुरौ इत्यर्थः । आचाय गुरुरिति । शुश्रूषणीयः इत्यर्थः । ननु “पेोरदुपधात्’ इत्येव मिद्धे यमेरिह प्रहणं व्यर्थमित्यत आह । यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यर्थः । तत्फलमाह। सोपसर्गान्मा भूदिति ॥ ननु 'अनियम्यस्य नायुक्तिः’ इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा’ इत्यादौ च निपूर्वाद्यमेः कथं यत् । अनुपसर्गादिति निषेधादित्यत आह । निपू वत्स्यादेवेति । यदिति शेषः । कुत इत्यत आह । तेन तत्रेति ॥ प्रकारान्तरेण समाधत्ते । नियमे साधुरिति वेति ॥ ‘यमः समुपनिविषु च' इति निपूर्वोद्यमेभौवे अप्प्रत्यये नियम शब्दः । नियम साधुरित्यर्थे 'तत्र साधुः’ इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः । अवद्यपण्य ॥ अवद्य, पण्य, वर्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् । गह पणितव्य अनिरोध एषान्द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयत्रयः क्रमात् गह्यर्थादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदस्सुपि' इत्येव सिद्धे अवद्यग्रहण व्यर्थमित्यत आह । नञ्युपपदे इति ॥ यत्क्यपोः स्वरे विशेषः । सम्प्रसारणतदभावौ चेति भावः । अवद्यां पापमिति ॥ गर्हितत्वा दवाच्यमित्यर्थः । अनुद्य गुरुनामेति ॥ अत्र नजि उपपदे “वदस्सुपि’ इति क्यपि ‘वविस्वपियजादीनाङ्किति’ इति सम्प्रसारणे रूपम् । वचनानर्हमित्यर्थः । अत्र गहयाः अप्रतीते यदेवेति न नियम इति भावः । ननु गुरुनान्नः अगर्हत्वात् कथं वचनानर्हत्वमित्यत आह । तद्धि न गह वचनानर्हश्चेति ॥ कुत इत्यत आह । आत्मनामेति ॥ पण्या गौरिति ।

61
४८२
[कृद्न्त
सिध्दान्तकौमुदीसहिता


इति स्मृते । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थ । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृडो यत् । शतेन वयो कन्या । घृत्यान्या ।

२८५० । वह्य करणम् । (३-१-१०२)

वहन्त्यनेनेति वह्य शकटम् । “करणम्’ वकम् । वाह्यम्-वोढव्यम् ।

२८५१ । अयैः स्वामिवैश्ययोः । (३-१-१०३)

'ऋर गतौ' अस्माद्यत् । ण्यतोऽपवादः । अर्यः स्वामी वैश्यो वा । अनयोः' किम् । आयों ब्राह्मणः प्राप्तव्य इत्यर्थः ।

२८५२ । उपसर्या काल्या प्रजने । (३-१-१०४)

गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थ वृषभेः णोपगन्तुं योग्येत्यर्थ । 'प्रजने काल्या' इति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थ ।

२८५३ । अजयै सङ्गतम् । (३-१-१०५)


पणधातोव्यैवहारार्थकात् यन्निपात्यते इति भावः । यद्यपि “पण व्यवहारे स्तुतौ च' इति धातो अर्थद्वयमस्ति । तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते । तदाह । व्यवहर्तव्येति ॥ केतव्यत्यर्थः । पाण्यमन्यदिति ॥ ण्यति उपधा वृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह । स्तुत्यर्हमिति ॥ अप्रतिबन्धः इति । अनियम इत्यर्थः । वृडो यदिति । “वृड् सम्भक्ता' इति क्रेयादिकस्यैवात्र ग्रहणम् । नतु “वृञ् वरणे' इत्यस्य । अनिरोधरूपार्थस्य सम्भक्तिवावित्व एव सामञ्जस्यादिति भावः । शतेन वय कन्येति ॥ पुरुषशतेन परिग्रहीतुमर्ह । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थ । 'एतिस्तुशास्पृदृजुषः क्यप्' इति क्यपि तुक् । अत्र अनियमस्य अप्रतीतेः न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः । वह्यङ्करणम् । वहेः करणे यत् निपात्यते । ण्यतोऽपवादः । अयैः स्वामि वैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद् इति ॥ 'ऋहलो:’ इति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह । अयैः स्वामीति । ण्यति वृद्धेौ रपरत्वमिति भाव उपसर्या । प्रजनन प्रजन गर्भप्रहृणम् । भावे घञ्, ‘जनिवध्योश्च' इति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या । तदस्य प्राप्तमित्यनुवर्तमाने 'कालाद्यत्’ इति यत् । चेदित्यध्याहार्यम् । तदाह । गर्भग्रहणे प्राप्त काला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेवत उपसर्या इति

निपात्यते । उपपूर्वात सृधातोः यदिति फलितम् । ण्यतोऽपवादः । अजर्यम् । कर्तरेि
प्रकरणम्]
४८३
बालमनोरमा ।


नञ्पूर्वाजीर्यतः कर्तरि यन् सङ्गतं चेद्विशेष्यम् । न जीर्यतीत्यजर्यम् । 'तेन सङ्गतमार्येण रामाजर्य कुरु द्रुतम्’ इति भट्टिः । मृगैरजयै जरसोपदिष्ट मदेहबन्धाय पुनर्बबन्ध' इत्यत्र तु सङ्गतमिति विशेष्यमध्याहार्यम् । “सङ्गतम् किम् । अजरिता कम्बलः । भावे तु सङ्गतकर्तृकेऽपि ण्यदेव । अजायै सङ्गतेन ।

२८५४ । वदः सुपि क्यप्च । (३-१-१०६)

उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याचाद्यदनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम्--ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्येके | उपसग तु ण्यदव । अनुवाद्यम् । अपवाद्यम् ।

२८५५ । भुवो भावे । (३-१-१०७)

क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुपीत्येव । भव्यम् । अनुपसर्गे इत्यव । प्रभव्यम् ।

२८५६ । हनस्त च । (३-१-१०८)

अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः । ब्रह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ।

२८५७ । एतिस्तुशास्वृद्वजुषः क्यप् । (३-१-१०९)

एभ्यः कन्यप्स्यात् ।


यदिति ॥ ‘कर्तरीति वक्तव्यम् इति वार्तिकम्, निपातनात् कर्तरीति लभ्यत इति तदाशयः। सङ्गतमिति । सङ्गत सङ्गमः । न जीर्यतीत्यजयैमिति । मित्रत्वमिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह । तेनेति । हे राम तेन आर्येण अजयम् अनश्वर सङ्गत सङ्गम दुतङ्करु इति अन्वय । ननु “मृगैरजर्यद्धरसा” इत्यत्र सङ्गतशब्दाभावात् कथ यदित्यत आह । मृगैरित्यादि । काळिदासकाव्यमिदम् । अजरितेति । तृजन्तम् । अत्र सङ्गतशब्दा भावान्न यादति भाव । भावे त्विति । भावस्य सङ्गतिकर्तृत्वऽपि सङ्गतस्य प्रत्ययवाच्यत्वा भावात् न यदित्यर्थः । वदः सुपि ॥ उत्तरेति ॥ 'भुवो भाव' इत्युत्तरसूत्राद्रावे इत्यप कृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः । अनुपसर्गे इति ॥ “वदस्सुप्यनुपसर्गग्रहणम्” इति भाध्यादिति भाव । ब्रह्मोद्यमिति ॥ वदेः क्यपि “वचिस्वपि' इति सम्प्रसारणम् । वस्तुतस्तु नेह भावग्रहणमपकृष्यते । तत्र भावप्रहणमुत्तरा र्थमिति भाष्यादिति मतमनुसृत्य आह । कर्मणि प्रत्ययावित्येके इति ॥ क्यव्यतावित्यर्थः । भुवो भावे ॥ ब्रह्मभूयमिति ॥ कित्त्वान्न गुणः । लीबत्व लोकात् । भव्यमिति ॥ भाव इत्यथः । अत्र सुबुपपदाभावात् यदव, गुण , “वान्तो यि' इत्यवादेशः । प्रभव्यमिति ॥ प्रभाव इत्यर्थः । हनस्त च ॥ अन्तादेशः इति ॥ प्रकृतेरिति शेषः । भाव किम् । घात्येो वृषळः।

अनुपसर्गे किम् । प्रघात । निरुपपदं हलेयेति तु असाध्वेव । एतिस्तु । एति, स्तु, शास् ,
४८४
[कृद्न्तकृत्य
सिध्दान्तकौमुदीसहिता

२८५८ । हस्वस्य पिति कृति तुक् । (६-१-७१)

इत्यः । स्लुत्य । * शास इदङ्कहलो:' (सू २४८६) । शिष्य । 'वृ इति वृञ्जो ग्रहणं न वृङ । वृत्यः । वृङस्तु वार्या ऋत्विज । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः । * शंसि दुहिगुहेिभ्यो वा' (वा १८३५) इति काशिका । शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । *प्रशस्यस्य श्र:' (सू २००९) *ईडवन्द्वृशंसदुहां ण्यत:’ (सू ३७०२) इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वाद्जेः संज्ञायामुपसङ्ख-यानम्' (वा १९२५) । “अजू' व्यक्तिम्रक्ष णादिषु । बाहुलकात्करणे क्यप् । “अनिदिताम्--' (सू ४१५) इति नलोपः। आज्यम् ।

२८५९ । ऋदुपधाञ्चाक्लपिचतेः । (३-१-११०)


वृ, दृ, जुष्, एषां षण्णां समाहारद्वन्द्वात्पञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्तम् । तदाह । एभ्यः क्यप्स्यादिति । हृस्वस्य । स्पष्टमिति न व्याख्यातम् । इत्य इति । इणः क्यपि तुक् । उपयमित्यत्र तु ईडो दैवादिकाद्यत् । वृञ्जो ग्रहणमिति । वार्तिकमिदम् । न वृङः इति । “घृङ् सम्भक्तौ' इति डित’ कैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति ॥ अवश्य भजनीया इत्यर्थः । अत्र ‘वृड् सम्भक्तौ' इत्यस्मात् ण्यदित्यर्थः । अवद्यपण्यवर्या इति निपातसिद्धो यत्तु न । अत्र निरोधस्य नियमस्य विवक्षितत्वात् । ननु वदस्सुपि' इत्यतः अनुवृत्त्यैव सिद्धे क्यञ्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनु वृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यम् । चकारस्य अस्वरितत्बेन 'भुवो भावे' इत्याद्युक्तरसूत्रे ध्वनुवृत्त्यभावादित्यत आह । क्यबुक्तिः परस्यापी [ात ओोरावश्यके' इति विहितस्यत्यर्थ वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वात् ण्यत् । भाव्ये त्वेतन्न दृश्यते इति भावः । शस्यम्, शंस्यमिति ॥ क्यप्पक्षे “अनिदिताम्' इति नलोप. । दुह्यमिति ॥ क्यप्पक्षे कित्वान्न गुणः । अत्र ‘शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शसेण्यैत्क्यपैौ प्रामाणिकावित्याह । प्रशस्यस्येति ॥ “प्रशस्यस्य श्र.’ इति निर्देशबलात् शसेः क्यप्सिद्धः । ईडवदवृशंसदुहाण्यतः’ इत्याद्युदात्तत्वविधौ शसण्यदन्तत्वानुवादबलात् ण्यात्सद्ध । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यविकल्पे मूलं नास्तीत्यर्थः । उपसङ्खयानमिति । क्यप इति शेषः । अाज्यमिति । न चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम् । इष्टापतेः । पदकाराणामवग्रहाभावस्त्वप्रामाणिक एव पदपाठस्याधुनि कत्वात् इति भाष्ये स्पष्टम् । एवञ्च अस्मद्रियगित्यस्म द्रियगिल्यवग्रहः अप्रामाणिक एव । अस्मद्रि अक् इत्येवावग्रहो युक्तः । अस्मच्छब्दस्य टेरद्यादेशविधानात् इत्यायूह्यम् । ऋदुपधाञ्चाक्ल

पिचवतेः ॥ क्लप्चूती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थ । तपरकरणमिह व्यर्थमित्यत
प्रकरणम्]
४८५
बालमनोरमा ।


'वृन्' । वृत्यम् । “वृध्’ । वृध्यम् । क्लपिचत्योस्तु । कल्प्यम् । चत्र्यम् । “तपरकरणम्’ किम् । “कृन्’ कीत्र्यम्' । अनित्यण्यन्ताश्चुराद्य इति णिजभावे ण्यत् । णिजन्तात्तु यद्व

२८६० । ई च खनः । (३-१-१११)

चात्कन्यप् । आद्रुणः । खयम् । 'इ च' इति ह्रस्वः सुपठः ।

२८६१ । भृङओोऽसंज्ञायाम् । (३-१-११२)

भृत्याः कर्मकरा भर्तव्या इत्यर्थः । क्रयाशब्दोऽयं न तु संज्ञा । 'समश्च बहुलम्' (वा १९४०) । सम्भृत्याः-सम्भार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । 'असंज्ञायाम्' किम् । भायाँ नाम क्षत्रिया । अथ कथं भार्य वधूरिति । इह हि *संज्ञायां समज –' (सू ३२७६) इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यम् । बिभर्ते इति दीघन्तात्क्रयादेर्वा ण्यन् । क्यप्तु भरतेरेव । तदनुबन्धकग्रहणे-' इति परिभाषया।


आह । अनित्यण्यन्ता इति ॥ णिजन्तात्तु यदेवेति । “अचो यत्’ इत्यनेनेति भावः । ई च खनः ॥ चात् क्यबिति । रखनः कन्यप् स्यात् प्रकृतेः ईकारोऽन्तादेशवेत्यर्थः । हृस्वस्सुपठ इति । हस्वस्य इकारस्य विवौ आदुणेन खेयमिति सिद्धेः इति भावः । दीघ चारणसमर्थनन्तु भाष्ये स्पष्टम् । भृञ्जोऽसंज्ञायाम् ॥ क्यबिति शेषः । भृत्याः कर्मकरा इति । भृत्यर्थङ्कर्म कुर्वाणा इत्यर्थ । ‘कर्मणि भृतैौ' इति कृङअष्ट. । भर्तव्या इति ॥ वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कमकरघुरूढत्वात्सज्ञाशब्दत्वमवत्यत आह । क्रियाशब्द इति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढस्संज्ञाशब्दोऽयमिति भावः । अथ कथं भार्येति ॥ क्यपा भवितव्यमित्याक्षेपः । ननु वध्वाम्भार्याशब्दस्य सज्ञाशब्दत्वात् ‘भृोऽसज्ञायाम्' इत्यस्याप्रवृत्तरयमाक्षेपोऽनुपपन्न इत्यत आह । इह हीति । स्त्रियां क्तिन्’ इत्यतः स्त्रियामित्यनुवृत्तौ ‘त्रजयजोर्भावे क्यप्'। ‘सज्ञाया समजनिषद' इति सूत्रेण क्यप् स्यादित्यर्थ । ननु सज्ञायां भृञ्जः क्यव्विधौ ‘मृजेोऽसज्ञायाम्' इत्यत्र असज्ञायामिति व्यर्थमित्यत आह । संज्ञापर्युदासस्त्विति ॥ समाधते । सत्यमिति । ‘ड धृञ् धारणपोः षणयोः' इति जुहोत्यादौ हस्वान्तः ड़ित् अिच 'भृ भत्सैन, भरणेऽपि' इति क्रयादौ दीर्घन्तः । आभ्या 'ऋहलोऽण्यैत्' इति ण्यदेवेत्यर्थः । क्यप् तु भरतेरेवेति । 'भृञ् भरणे' इति भवादौ हस्वान्तो जित् । अस्यैव “सज्ञायां समजनिषद' इत्यत्र “भृत्रेऽसज्ञाम्' इत्यत्र च भृञ्जग्रहणेन ग्रहणम् । नतु डुभृओो जौहोत्यादिकस्य । न च कैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भाव. । कुत इत्यत आह । तदनुबन्धकेति । “तदनुबन्धकग्रहणे नातदनु बन्धकस्य' इति परिभाषयेत्यर्थः । बिभर्तः क्यबभाव बीजमिदम् । क्रेयादिकस्य दीघर्षान्तत्वात्

'संप्रत्युपलभ्यमानभाष्यकोशेषु तु न तत्समर्थनमस्ति । एतद्विचारस्तु प्रैढमनोरमायां दृश्यते ।
४८६
[कृद्न्तकृत्य
सिध्दान्तकौमुदीसहिता


२८६२ । मृजेर्विभाषा (३-१-११३)

२८६३ । चजोः कु घिण्ण्यतोः । (७-३-५२)

चस्य जस्य च कुत्वं स्याद्विति ण्यति च प्रत्यये परे । “निष्ठायामनिट इति वक्तव्यम्’ (वा ४५५१) । तेनेह न । गज्र्यम् । 'मृजेद्धिः ' (सू २४७३) । माग्येः ।

२८६४ । न्यङ्कादीनां च । (७-३-५३)

कुत्वं स्यात् । न्यङ्गुः । 'नावचे:' (उणा १७) इत्युप्रत्ययः ।

२८६५ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥(३-१-११४)

एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पाद् यितव्यः । यद्वा । लतात्मकः सोमो राजा स सूयते खण्डयतेऽखेत्यधिकरणे क्यन्निपातनाद्दीर्घः । राजसूयः-राजसूयम् । अर्धचर्चादिः । सरत्याकाशे सूर्य । कर्तरि क्यन्निपातनादुत्वम् । यद्वा *घू प्रेरणे' तुदादिः । सुवति कर्मणि लोकं प्रेरयति क्यपो रुट । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिन्नोऽयम् उच्छायसौन्दर्यगुणा मृषोद्या । राचतः रुचयः ।


न क्यप् इति बोध्यम् । मृजेर्विभाषा ।। क्यप्पक्षे उदाहरति । मृज्य इति । कित्वान्न गुणः । चजोः कु धिण्यतोः ॥ कु इत्यविभक्तिका निर्देश. । चजोर्घिण्यतोश्च यथासङ्खयन्तु न । ‘तेन रक्तं रागात्’ इति घाँ जस्य कुत्वनिर्देशात् । राजसूय । राज्ञेति । क्षत्त्रियेणेत्यर्थः। अभिषवेति ॥ ग्रावभिः रसनिष्पत्त्यर्थं सोमलतानाडुट्टनमभिषवः, तत्प्रगाडिकया निष्पाद यितव्यो यज्ञविशेषः राजसूय इत्यन्वय । यद्वेति ॥ लताविशेषात्मकः सोमः राजशब्देन विवक्षितः राजान क्रीणातीत्यादौ तथा प्रसिद्धे । सः राजा सूत अाभघूयत अत्र यज्ञविशेषे इति व्युत्पत्त्या राजसूय, इत्यन्वयः । “कर्तरि कृत्’ इत्यधिकारात् कथमधिकरण व्युत्पत्तिरित्यत आह । अधिकरणे क्यबिति । कुत इत्यत आह । निपातनादिति ।। ननु षुञ्धातोः क्यपि कथन्दीर्घ । “अकृत्सार्वधातुकयो.’ इत्यस्य कृत्यप्रवृत्तरित्यत आह । निपातनाद्दीर्घ इति । निपातनादित्युभयत्रान्वेति । उत्वमिति । तस्य रपरत्वे ‘हलि च' इति दीर्घ इत्यपि बोध्यम् । मृषाद्यमिति ॥ क्यपि ‘वचिस्वपि’ इति सम्प्रसारणम्। रोचतेरिति ।। रुवधातोः क्यपि रुच्य इति रूपमित्यर्थः । गुपेरिति । गुप्धातोः क्यप् प्रकृतेरादिवर्णस्य ककारश्च

सज्ञायान्निपात्यते इत्यर्थः । सुवर्णरजतभिन्नन्धनडुप्यमिति ज्ञेयम् । तथा च “हेमरूपे कृताकृते
प्रकरणम्]
४८७
बालमनोरमा ।


गुपेरादेः कुत्वं च संज्ञायाम् । सुवर्णरजतभिन्न धनं कुप्यम् । गोप्यमन्यत् । कृष्ट स्वयमेव पच्यन्ते कृष्टपच्या: कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः ।

२८६६ । भिद्योद्यौ नदे । (३-१-११५)

भिदेरुज्ज्ञेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदक मुद्धयः । “ नदे' किम् । भेत्ता । उज्झिता ।

२८६७ । पुष्यसिध्यौ नक्षत्रे । (३-१-११६)

अधिकरणे क्यन्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिध्यन्त्यस्मि न्सिध्य

२८६८ । विपूयविनीयजिल्या मुञ्जकल्कहलिषु । (३-१-११७)

पूङ्नीजिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्क । पिष्ट औषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्य इत्यर्थः । कृष्टसमीकरणार्थ स्थूलकाष्ठं हलिः । अन्यतु विपव्यम् । विनेयम् । जेयम् ।

२८६९ । प्रत्यपिभ्यां ग्रहेः । (३-१-११८)

'छन्दसीति वक्तव्यम्’ (वा १९४४) । प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ।


इत्युका अमरः आह् “ताभ्यां यदन्यत्तत्कुप्यम्” इति । कृष्ट इति । कृष्टप्रदेशे ये स्वयं पच्यन्त फलान्त त कृष्टपच्याः इत्यथ । कर्मकर्तरीति । अत्र कर्मकर्तरि क्यबिल्यर्थ । निपातनादिति भावः । शुद्धे त्विति ॥ मुख्यकर्मणि तु ण्यति उपधावृद्धौ “चजोः' इति कुत्वे कृष्टपाक्य इति रूपमित्यर्थः । न व्यथते अव्यथयः इति । अत्र निपातनात् कर्तरि क्यविति भावः । भिद्योद्धौ नदे ॥ क्यबिति । नदविशेषे कर्तरि निपात्यते इति शेष । पुष्यसिद्धे ॥ निपात्येते इति शेष । नक्षत्रविशपे गम्ये इत्यर्थः । विपूय ॥ विपूय विनीय, जित्य, एते यथाक्रमं मुञ्जकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह । विपूय इत्यादिना ॥ न्यादिसाहचर्यात् भौवादिकस्यैव पूधातोहणमिति भावः । कल्कः शोधक द्रव्यम् । पापमिति वेति ॥ कल्कशब्दस्य शोधनीये पापेऽपि प्रसिद्धत्वादिति भावः । हलिशब्दस्य विवरणम् । कृष्टसमीकरणार्थमिति ॥ प्रत्यपिभ्यां ग्रहेः ॥ छन्दसीति ॥

वार्तिकमिदम् । वक्तव्यमिति वृत्तिकृता प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास
४८८
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता

२८७० । पदास्वैरिबाह्यापक्ष्येषु च । (३-१-११९)

अवगृह्य प्रगृह्य वा पदम् । अस्वैरी परतन्त्रः, गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायां ग्रामगृह्या सेना । ग्रामबहि भूतेत्यर्थः । स्त्रीलिङ्गनिर्देशात्पुन्नपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आयैर्गुह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ।

२८७१ । विभाषा कृवृषोः । (३-१-१२०)

क्यप्स्यात् । कृत्यम् । दृष्यम् । पक्ष ।

२८७२ । ऋडहलेोण्यैत । (३-१-१२४)

ऋवर्णन्ताद्धलन्ताञ्च धातोण्यैत्स्यात् । कार्यम् । वष्र्यम् ।

२८७३ । युग्यं च पत्रे । (३-१-१२१)

पत्रं वाहनम् । युग्यो गौः । अत्र क्यप्कुत्वं च निपात्यते ।

२८७४ । अमावस्यद्न्य तरस्याम् । (३-१-१२२)

अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसताऽस्या चन्द्राकावमावास्या-अमावस्या । “ ऋएहलोण्येत् (सू २८७२) । *चजो :–' (सू २८६३) इति कुत्वम् । पाक्यम् । “पाणौ सृजेण्र्यद्वाच्य:’ (वा १९४६) । ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसग्र्या रज्जुः । *समवपूर्वाच' (वा १९४७) । समवसग्र्या ।


इत्यत आह । लोके त्विति ॥ पदास्वैरिबाह्यापक्ष्येषु च ॥ पद, अस्वैरि, बाह्या पक्ष्य, ५ष्वर्थेषु ग्रहेः क्यबित्यर्थः । अवगृहं प्रगृह्य वा पदमिति ॥ समस्तपदस्य अवान्तरपदविच्छेदः अवग्रहः । “ अप्रावेत्यादिपदामितिशिरस्क' प्रग्रहः इति प्रातिशाख्ये प्रसिद्धम् । 'इंदूदेद्दिवचन प्रगृह्यम्' इति सूत्रोदाहरणञ्च प्रगृह्यम् । विभाषा कृवृषो ।। पञ्चम्यर्थे षष्ठ । कृञ्जः ऋदन्तत्वात् निलय ण्यति प्राप्से, वृषेः ऋदुपधत्वात् नित्यं क्यपि प्राप्से च, क्यविकल्पोऽयम् । पक्षे इति ।। क्यबभावपक्षे विशेषेो वक्ष्यते इत्यर्थः । ऋहलो ण्येत् ॥ पञ्चम्यर्थे षष्ठी । तदाह । ऋवर्णान्तादिति । युग्यञ्च पत्त्रे ॥ क्यबन्तन्निपात्यते । ण्यतोऽपवादः । युग्यो गाररात ॥ शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वनिपातनात् । पत्त्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे “दास्रीशस' इत्यादिना करणे छून्। ण्यति तु योग्यमिति स्यात् । अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् । अमेत्यस्य विवरणम् । सहेति । “ऋहलोण्येत्' इत्यनुपदमेव प्राक् प्रसङ्गाद्याख्यातमपि सूत्रक्रमात् पुनरुपात्तम् । कुत्वमिति ॥ पचेण्यैति ‘चजो.’ इति कुत्वमिति भावः । ननु पाणौ सृजण्र्यदिति व्यर्थम् । 'ऋहलोः' इत्येव सिद्धेरित्यत आह । ऋदुपधलक्षणस्येति ॥ 'ऋदुपधाचाक्लपि

वृतेः’ इति ण्यदपवादस्य क्यपो बाधनार्थमित्यर्थः । पाणिसग्र्या रज्जुरिति ॥ ण्यति
प्रकरणम्]
४८९
बालमनोरमा ।

२८७५ । न कादेः । (७-३-५९)

कादेर्धातोश्चजो: कुत्वं न । गज्यैम् । वार्तिककारस्तु *चजोः (सू २८६३) इति सूत्रे 'निष्ठायामनिटः' इति पूरयित्वा “न कादेः (सू २८७५) इत्यादि प्रत्याचख्यौ । तेन अर्जितजिप्रभृतीनां न कुत्वम्। निष्ठायां सेट्त्वात् । मुचुग्लुचुप्रभृतीनां तु चकादत्वऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तम् । तथापि *यथोत्तरं मुनीनां प्रामाण्यम्' ।

२८७६ । अजिब्रज्योश्च । (७-३-६०)

न कुत्वम् । समाज । पारत्राजः ।

२८७७ । भुजन्युब्जौ पाण्युपतापयोः । (७-३-६१)

एतयोरेतौ निपात्यौ । भुज्यते अनेनेति भुजः पाणिः । “हलश्च (सू ३३००) इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । 'पाण्युपतापयोः' किम् । भोगः समुद्रः ।

२८७८ । प्रयाजानुयाजौ यज्ञाङ्गे । (७-३-६२ )

एतौ निपात्यौ यज्ञाङ्गे । पञ्च प्रयाजा । त्रयोऽनुयाजाः । 'यज्ञाङ्गे किम् । प्रयागः । अनुयागः ।

२८७९ । वञ्चेर्गतौ । (७-३-६३)


‘चजोः' इति कुत्वम् । समवपूर्वाचेति । वार्तिकमिदम् । स्मृजेण्र्यदिति शेषः । न कादेः ॥ कुः आदिर्यस्येति विग्रहः । चजेोः कु इत्यनुवर्तते । तदाह । कादेरिति ॥ कवर्गादेरित्यर्थः । वार्तिककारस्त्विति ॥ “चवजेोः कु घिण्ण्यतोः' इति सूत्रे 'निष्ठायामनिटः’ इति पूरितम् । तथा च निष्ठाया यः अनिट् तद्धात्ववयवयोः चवजेोः कु स्यात् घिति णिति चेवल्यर्थः फलति । तथा ‘न कादे.’ इति सूत्र ‘अजित्रज्योश्च' इति सूत्रं ‘यजयाचरुचप्रवचर्चर्वेश्व' इत्यत्र यजयाच प्रहणञ्च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः । किन्तत इत्यत आह । तेनेति । अर्जितार्जप्रभृतीनां ण्यति कुत्वं स्यात् । “न कादेः’ इति निषेधस्य तत्राप्रवृतेरिति भावः । तदेव सूत्रमते अति व्याप्तिमुक्रा अव्याप्तिमाह । युधुग्लुञ्चुप्रभृीनामिति ॥ तेषा कवर्गादित्वेऽपि ण्यति प्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव । वार्तिकमत “न कादे.’ इति निषेधस्य प्रत्याख्यातत्वात् । सूत्रमते तु “न कादेः’ इति निषधात् ग्रेोक्यमित्यादौ कुत्वामिष्टन्न स्यादित्यव्याप्तिरिति भावः । नन्विदं वार्तिक विपरीतमपि सूत्रसम्मतत्वात् ग्राह्यमव । विरोध विकल्पस्य वक्तु शक्यत्वादिति शङ्कते । सूत्रमते तु यद्यपीति ॥ परिहरति । तथापीति । यथोत्तरमिति ॥ अय वैयाकरणसमयः । अजिव्रज्योश्च ॥ इत्यादि स्पष्टम् । वञ्चेर्गतौ ॥ कुत्वन्नेति ॥

62
४९०
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता

कुत्वं न । वञ्च्य म् । “गतैौ' किम् । वङ्क-यं काष्ठम् । कुटिलीकृत

२८८० । ओक उचः के । (७-३-६४)

उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषळौ । इगुपधलक्षणः कः । घञ्पा सिद्धे अन्तोदात्तार्थमिदम् ।

२८८१ । ण्य आवश्यके । (७-३-६५)

कुत्व न

२८८२ । यजयाचवरुचप्रवचर्चश्च । (७-३-६६)

ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेष । ऋच्’ । अच्र्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकाण्ण्यत् । “त्यजेश्व' । त्याज्यम् । ‘यजिपूज्योश्च' इति काशिका । तत्र पूजेग्रहणं चिन्त्यम्। भाष्यानुक्त त्वात् । “ण्यत्प्रकरणे त्यजेरुपसङ्ख-यानम्’ इति हि भाष्यम् ।

२८८३ । वचोऽशब्दुसंज्ञायाम् । (७-३-६७)

वाच्यम् । ३शब्दाख्याया तु वाक्यम् ।

२८८४ । प्रयोज्यनियोज्यौ शक्यार्थे । (७-३-६८ )

प्रयोक्तुं शक्यः प्रयोज्यो नियोक्तुं शक्यो नियोज्यो भृत्यः ।


शेषपूरणमिदम् । ‘चजोः कु घिण्यतो’ इत्यतः कुग्रहणस्य ‘न कादेः’ इत्यतो नेत्यस्य चानुवृत्तेरिति भावः । ण्य आवश्यके । कुत्वज्ञेति ॥ शेषपूरणमिदम् । आवश्यकेऽर्थे यो ण्यः तस्मिन् परे ‘चजो’ कु घिण्यतोः इति कुत्वन्नेत्यर्थः । यजयाच ॥ ण्ये कुत्वज्ञेति ॥ शेषपूरणमिदम् । यज, याचव, रुचव, प्रवचव , ऋच्, एषान्द्वन्द्वात् षष्ठी । एषां ण्ये परे ‘चजोः कुधिण्यतोः’ इति कुत्व न्नेत्यर्थः । ननु अच्र्यमित्यत्र कथं ण्यत् । ‘ऋदुपधाचाक्लपिचूतेः' इति ऋदुपधत्वलक्षणस्य क्यपो ण्यदपवादत्वादित्यत आह । ऋदुपधत्वेऽपीति ॥ त्याजपूज्योश्रेति । प्ये कुत्वन्नेति शेषः । वचोऽशब्दसंज्ञायाम् ॥ वचधातोण्यें कुत्वन्न । शब्दसज्ञा वर्जयित्वेत्यर्थः । वाच्यमिति ॥ वस्त्विति शेषः । अशब्दसज्ञायामित्यस्य प्रयोजनमाह । शब्दाख्यायान्तु वाक्यमिति ॥ एकतिङ् वाक्यम्, इति संज्ञाशब्दोऽयमिति भावः । प्रवाच्यमित्यत्र तुग्रन्थविशेषसज्ञात्वऽपि नाय डुत्वनिषेधस्य निषेध , 'यजयाच' इत्यत्र प्रवचेति विशिष्योपादानात् असज्ञायामित्यस्य प्रपूर्वा द्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैव प्रवाच्य ग्रन्थविशेषः इत्युक्तम्प्राक् । प्रयाज्य

नियोज्यौ ॥ शक्यार्थे प्ये कुत्वाभावो निपात्यते । 'शकि लिङ् च' इति कृत्यानां शक्यार्थेऽपि
प्रकरणम्]
४९१
बालमनोरमा ।


२८८५ । भोज्यं भक्ष्ये । (७-३-६९)

भोग्यमन्यन् । “ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम्' । लाष्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्य: । दाभ्य ।

२८८६ । ओरावश्यके । (३-१-१२५)

उवर्णान्ताद्धातोण्यैत्स्यादवश्यम्भावे वोत्ये । लाव्यम् । पाव्यम् ।

२८८७ । आसुयुवपिरपित्रपिचमश्च । (३-१-१२६)

'षुञ्’ आसाव्यम् । “यु मिश्रणे' याव्यम् । वाप्यम् । राष्यम् ।

२८८८ । आनाय्योऽनित्ये । (३-१-१२६)

आङ्पूवोन्नयतेण्येदायादेशश्च निपात्यते । दक्षिणान्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनान् । आनेयोऽन्यः घटादिः , वैश्यकुलादानीतो दक्षिणाग्निश्च ।


विहितण्यन्तस्य शक्यार्थकत्वमपि । भोज्यं भक्ष्ये ॥ भक्ष्य गम्ये ण्ये भुजेः कुत्वाभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् । लपिदभिभ्याञ्चेति ॥ वार्तिकमिद ऋठहृलाण्यत्' इति सूत्रस्थम् । “पेोरदुपधात्' इति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः । ओोरावश्यके ॥ लाव्यं पाव्यमिति ॥ 'अचो ञ्णिति' इति वृद्धा 'वान्तो यि' । आसुयुवपि ॥ आसु, यु, वपि, रपि, त्रपि, चम्, एषा समाहारद्वन्द्वः । ण्यदिति शेष. । आासाव्यमिति ॥ आङ्पूर्वस्य सुझेो ग्रहणमिति भावः । आनाय्यो ऽनित्ये ॥ अनित्ये इति छेद । दक्षिणाग्ििवशेष एवति ॥ वार्तिकमिदम् । स हीति । दक्षिणान्निहिं अन्निहोत्रार्थमहरहः गार्हपत्यादः प्रणीयत इत्यर्थः । एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति ॥ गार्हपत्यवन्नित्यधारणाभावादिति भावः । तदाह । सततमप्रज्वलनादिति । सततन्धारणाभावादित्यर्थः । प्रणीतस्य दक्षिणान्नस्तत्तत्कर्मणि समासे लौकिकत्वमुक्त कल्पसूत्रेषु “अप्रवृत्ते कर्मणि लौकिक सम्पद्यते इति । ततश्च पुनः पुनः प्रणयनातू अनित्यत्वन्दक्षिणाझेरिति बोध्यम् । यद्यग्याहवनीयस्यापि पुनः पुनः प्रणयनमस्ति, तथापि दक्षिणान्निविशेष एवेति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः । विशेषग्रहणान्निल्यधारणपक्षे दाक्षिणानिरिह न गृह्यते इति सूचितम् । गतश्रियान्दक्षिणाझेरपि नित्यधायेत्वात् । “गतश्रियो नित्यधार्या अन्नयः” इति वचनादित्यलम्पल्लवितेन । वैश्यकुला दानीत इति ॥ दक्षिणाप्ति प्रकृत्य हि श्रूयते । “अहरहरेवैनं वैश्यकुलादाहरन्' इति ।

१. “चाम्यम्' इति अपपाठः, वृद्धद्यनुपपत्तेः ।
४९२
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता


२८८९ । प्रणाय्योऽसंमतैौ । (३-१-१२८)

संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वाद्रोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणायोऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ।

२८९० । पाय्यसाझाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु । (३-१-१२९)

मीयतेऽनेन पाय्यं मानम् । पण्यत् धात्वादेः पत्वञ्च । * आतो युक् (सू २७६१) इति युक् । सम्यङ् नीयते होमार्थमन्नेि प्रतीति सान्नाय्यं हवि र्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वञ्च निपात्यते । धीयतऽनया समिदिति धाय्या ऋक् ।

२८९१ । ऋतैौ कुण्डपाय्यसञ्चाय्यौ । (३-१-१३०)

कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्य: क्रतुः । सञ्चीयतेऽसौ सञ्चाय्य: ।


तथाविधदक्षिणाप्रैौ वाच्ये आनेयशब्द एवेति भावः । प्रणाय्योऽसम्मतैौ ॥ असम्मतौ गम्यायां प्रणाय्य इति निपात्यते । तत्र असम्मतिशब्दैकदेश सम्मतिशब्द विवृणोति । सम्मति ीतिविषयीभवनमिति । तच कर्मनिष्ठमित्याह । कर्मव्यापार इति ॥ तथेति ॥ भोगेषु सुखदु खानुभवेषु आसक्तिरपि सम्मतिरित्यर्थः । एवविधा सम्मतिर्न भवतीति असम्मति रिति फलितम् । प्रणायश्चोर इति ॥ ण्यति वृद्धौ आयादेश . । पायसान्नाय ॥ पाय्य, सान्नाय्य, निकाय्य, धाय्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् । मान, हवि., निवास सामिधेनी एषान्द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्त । मीयते अनेनेति । माधातोः करणे ण्यत्, धात्वादेर्मकारस्य पत्वञ्च निपात्यते इत्यर्थः । अात इति ॥ ण्यति 'मीनाति' इत्यात्वे कृते, आतो युगिति भावः । पण्यादात । सम्पूर्वात् नीधातोः कर्मणि निपात्यते इत्यर्थः । आयादेश इति ॥ सन्नी य इति स्थिते आयादेशः निपात्यते इत्यन्वयः । निवास इति ॥ कुसूलादिरित्यर्थः । अधिकरणे इति ॥ चिञ्धातोराधिकरणे ण्यन्निपात्यते इत्यन्वयः । आय् इति ॥ अच्परकत्वाभावात् आयादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति ॥ धाधातोः करणे ण्यति, आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समि दाधानार्था ऋग्विशेषा । तत्र ‘समिध्यमानो अध्वरे’ इति ऋच उपरि प्रक्षेप्या ‘पृथुपाजा अमल्यै इत्याद्या ऋक्प्रसिद्धा । क्रतौ कुण्डपाय्य । क्रतुविशेषे गम्ये एतैौ निपात्यते । कुण्डेनेति ॥ अत्सरुकै. चवमसैरित्यर्थ । सामान्येनैकवचनम् । “यदत्सरुकैश्वसमैर्भक्षयन्ति तदेषाँ कुण्डम्

इति श्रुतिः । कुण्डपाय्य इति ॥ सत्रविशेषात्मकः क्रतुः । कुण्डेनेति तृतीयान्ते उपपदे
प्रकरणम्]
४९३
बालमनोरमा ।


२८९२ । अझैौ परिचाय्येोपचाय्यसमूह्याः । (३-१-१३१)

अग्मिधारणार्थे स्थलविशेषेप एते साधवः । अन्यत्र तु पारचयम् । उप चयम् । सवाह्यम् ।

२८९३ । चित्यानिचित्ये च । (३-१-१३२)

चीयतेऽसँौ चिल्योऽग्मि : । अग्रेश्वयनमििचत्या । ८ प्रेषातिसर्गप्राप्त कालेषु कृत्याश्च' (सू २८१७) । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लाटा बाधा मा भूदात पुनः ऋलयावाध * स्रयधिकारादूध्वै वासरूप विधिः कचिन्न' इति ज्ञापयति । तेन “क्तल्युट्तुमुन्खलर्थेषु न-' इति सिद्धम् ।


अधिकरणे ण्यत् । आतो युक् । सञ्चाय्य इति । सम्पूर्वात् विज्रः कर्मणि ण्यत् आयादेशश्च निपात्यते इति भावः । सञ्चाय्यो नाम क्रतुविशेष. कविच्छाखायामन्वेषणयः । अौ परिचाय ॥ अझैौ गम्य परिचाय्य, उपचाय्य समूह्य, एते निपात्यन्त । अन्निशब्द इष्टकारवित स्थण्डिलविशेषे वर्तते । “इष्टकाभिरन्निाचिनोति' इति श्रुतः इष्टकाकृतचयनेन अन्नयाख्य स्थण्डिलं निष्पादयेदित्यर्थः । “ ब्रह्मवादिना वदन्ति यन्मृदाचाद्रिश्वान्निश्चीयतेऽथ कस्मादन्निरुच्यत इति यच्छन्दोऽभिश्चिनोत्यन्नये वै छदसि तस्मादन्निरुच्यतऽथो इय वा अन्निवैश्वानरो यन्मृदाचिनोति तस्मादनिरुच्यते ” इति वाक्यशेषाञ्च । तदाह । अधिारणेति ॥ तत्र परिपूर्वदुपपूर्वाञ्च विज. कर्मणि ण्यत् आयादशश्च निपात्यते । सम्पूर्वस्य वहतु कर्मणि ण्यात सम्प्रसारणम् दीर्घश्च निपात्यते । “ममूह्यञ्चिन्वीत पशुकाम. परिचाय्यञ्चिन्वीत ग्रामकाम.” इति तैत्तिरीय श्रुतौ परिचाय्यसमूहौ प्रसिद्वैौ । उपचाय्यस्त्वनिः क्रविच्छाखायामन्वेषणीयः । चित्याश्चिचित्ये च ॥ विल्यश्च अन्निचिल्या चेति द्वन्द्वः। अझैौ निपात्यते । चिल्योऽग्निरिति । कर्मणि ण्यन् तुक्च निपात्यते । अझेश्वयनामिति । अग्निशब्दे षष्ठयन्ते उपपद विणेो ण्यत् तुक् च, स्रीत्व लोकात् । प्रैषातिसर्ग' इति व्याख्यातमपि स्मार्यते । गम्यमिति ॥ “पेोरदुपधात्' इति ण्यदपवाद क्यप् । ननु सामान्येन भावकर्मणेोर्विहिताना कृत्यानाम्प्रैषादिषु तदभावे च सिद्धे प्रैषादिषु कृत्य विधिव्र्यर्थ इत्यत आह । लोटा बाधा इति ॥ इह प्रैषादिषु कृत्यविध्यभावे लाट चेति प्रैषादिषु लोटा विशेषविहितेन कृत्याना बाधः स्यात् । कृत्यानाम्प्रैषाद्यभावे भावकर्मणेोश्चरितार्थत्वात् । अतः प्रैषादिषु कृत्यानां लोटा बाधानिवृत्तये पुनः कृल्यविधिरित्यर्थः । ननु वासरुपाविधिनैव लोटा प्रैषादिषु कृत्याना बाधेो न भविष्यतीत्यत आह । त्रयधिकारादूध्वं त्रियां क्तिन्’ इत्यूध्र्वमित्यर्थः । ‘प्राक् त्रियाः वासरूपविधि.' इति भाष्यम्। ननु स्रयधिकारादूध्वं बासरूपाविधेरप्रवृत्तौ ‘त्रिया क्तिन्’ इति सामान्यविहितस्य क्तिनः 'षिद्रिदादिभ्योऽङ्’ इति विशेषविहितेन नित्यबाधस्यात्, ततः क्षमा क्षान्तिः, भिदा भित्तिरित्यादि न स्यात् इत्यत

आह । कचिन्नेति । कचिदित्यस्यानिर्धारणादाह । तेन क्तल्युट्तुमुन्खलर्थेषु नेति
४९४
[कृद्न्तकृत्य
सिध्दान्तकौमुदीसहिता


'अर्ह कृत्यतृचश्च' (सू २८२२) स्तोतुमर्हः स्तुत्यः स्तुतिकर्म । स्तोता स्तुति कतो । लिङा बाधा मा भूदिति कृत्यतृचोविधिः ।

२८९४ । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । (३-४-६७)

एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकातु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्रामयम् । गेयं सामानेन वा इत्यादि । * शकि लिङ् च' (सू २८२३) । चात्कृत्याः । वोढुं शक्यो वोढव्यः । वहनीयो वाह्य । लडा बाधा मा


सिद्धमिति । एषु वासरूपविधिनस्तीत्यर्थः । “स्त्र्यधिकारात् प्राक् वासरूपविधिः, नतु तत ऊध्र्वम्” इति भाष्यस्य क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र सङ्कोच इति भावः । अत्र लिडयदि’ इत्यतो लिइनुकर्षार्थश्चकार इत्युक्त प्राक् । ननु अहें अनहें च सामान्यविधानादेव अहेंऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्यैर्थः इत्यत आह । लिङा बाधेति ॥ अर्हेचेत्येता वलेयेव उक्त चकारानुकृष्टस्य लिड एवाहें विधिः स्यात् । तथा च अहें कृत्यतृचेोर्विधिर्नस्यात् , अहें विशेषाविहितेन लिडा बाधात्, अनहें कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधि कारादूध्र्वन्न प्रवर्तते इत्युक्तमेव, अतो लिडा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः । भव्यगेय ॥ कर्तरि वेति ॥ “कर्तरि कृत्' इत्यतः कतेरीत्यनुवृत्त वेत्यनेन सम्बध्यते । तथा च कर्तरि वा एते निपात्यन्ते । अन्यत्र नेति फलति। तत्र अन्यत्रेत्यस्यानिर्धारणादाह । पक्षे इति । अन्यत्रापि न सर्वत्र, किन्तु “तयोरेव कृत्यक्तखलथ इति सूत्रण सक्कमकात् कमाण अकर्मकाद्भावे एते कृत्या ज्ञेयाः इत्यर्थः । “तयोरेव कृत्य' इति सूत्रे ‘ल. कर्मणि च' इत्यस्मा त्सकर्मकेभ्यः कर्मणि अकर्मकभ्यो भावे इति अनुवर्तते इति भावः । भवतीति भव्य इति ॥ कर्तरि अञ्चो यत् । भव्यमनेन वेति ॥ भावे यत् । गेयस्सात्रामयमिति ॥ गाधातो कर्तरि यत् । “इँद्यति' इति प्रकृतेः ईत्वम् । गुणः । सान्नाङ्कर्मणामनभिहितत्वात् कृदोगे षष्ठी । कर्तुरभिहितत्वात् प्रथमा । गेयं सामानेनेति । कर्मणि यत् । सकर्मकत्वात्, नतु भावे । कर्तु रनभिहितत्वात्तृतीया । कृद्योगषष्ठी तु कृत्योगे कर्तरि वैकल्पिकी, ‘कृत्यानाङ्कर्तरि वा' इत्युक्तेः इत्यादीति ॥ प्रवचनीयो गुरुर्वेदस्य । प्रवक्तेत्यर्थः । कर्तरि अनीयर्। प्रवचनीयो वेदो गुरुणेति वा । उपस्थानीयशिष्यो गुरोः, उपस्थानीयो गुरुशिष्घेणेति वा । जन्योऽसौ जायते इत्यर्थः । जन्यमनेनेति वा । अप्लवतेऽसौ आप्लाव्यः । * ओरावश्यके' इति कर्तरि ण्यत् । आप्ाव्यमनेः नेति वा । आपतत्यसौ आपात्यः । “ऋहलोः’ इति कर्तरि ण्यत् । आपात्यमनन वा । 'शकि लिड् व' इत्यपि व्याख्यात प्राक् विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् । नन्विह

चकारानुकृष्टकृत्यविधिव्र्यर्थः । शक्तौ अशक्तौ चव भावकर्मणोः सामान्यतः कृत्यविधित एव
प्रकरणम्]
४९५
बालमनोरमा ।


भूदिति कृत्योक्तिः । लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे ‘कृत्याश्च' इति सुत्यजम् । अहें कृत्यतृचोप्रैहणं च ।

॥ इति कृदन्तकृत्यप्रकरणम् ॥


॥ श्रीरस्तु

॥ अथ कृदन्तप्रकरणम् ।।

२८९५ । ण्वुल्तृचौ । (३-१-१३३)

धातोरेतौ स्तः । कर्तरि कृन्’ (सू २८३२) इति कर्वर्थे । ‘ युवा रनाकौ' (सू १२४७) । कारकः । कर्ता । वोढुमह वोढा । । कारिका कत्रीं । ‘गाङ्कटा–’ (सू २४६१) इति ङित्त्वम्। कुटिता । अञ्णिदित्युक्तर्न ङित्वम् । कोटकः । इट्’ (सू२५३६) । विजिता । ‘हनस्तोऽचिण्णलो: 'वज(सू २५७४) । घातक । -' । 'आता युक् (सू २७६१) । दायक 'नोदात्तोपदेशस्य–’ । दमकः । (सू २७६३) इति न दृद्धिः शमक


शक्तावपि सिद्धेरित्यत आह । लिङ बाधेति ॥ ‘शकि लिङ्’ इत्येतावत्येवोत्ते शक्तौ विशेष विहितेन कृत्यानाम्बाधः स्यात्, अशक्तौ कृत्यानाश्चरितार्थत्वात्, वासरूपविधिस्तु स्त्र्यधिकारा दूध्र्वन्नेत्युक्तमेवेति भावः । लाघवादिति ॥ इह चकारमात्रेण वासरूपविधेः त्रयधिकारादूध्वं अनित्यताज्ञापन सम्भवति । अतः “प्रैषातिसर्ग' इति सूत्रे कृत्यग्रहणेन “अहं कृत्यतृचश्च इत्यत्र तृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्याया कृदन्तकृत्यप्रकरण समाप्तम् ।


अथ कृदन्तप्रकरणम्-ण्डबुलत्वचा । अनयावतमानकालादन्यत्र न प्रयोग इति भाष्यम् वोढुमर्हः इति ॥ ‘अहं कृत्यतृचश्च' इत्युक्तरिति भावः । वोढेति । वहेः तृच्यनुदात्तत्वा दिडभावे ढत्वधत्वश्रुत्वढलोपेषु ‘सहिवहो' इत्योत्त्वम् । कुटितेत्यत्र लघूपधगुणमाशङ्कय आह । गाडिति ॥ तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह । अञ्णिदित्युक्तेरिति ।

विजितेत्यत्र लघूपधगुणमाशङ्कय आह । विज इडिति ॥ कित्त्वामिति शेषः। विजितेति ।
४९६
[कृदन्त
सिध्दान्तकौमुदीसहिता


अनिटस्तु नियामक । ‘जनिवध्योश्च' (सू २५१२) । जनक । ‘वध हिंसायाम्'। वधकः । “रधिजभोरचि' (सू २३०२) । रन्धक । जम्भकः । “नेट्यलिटि रधेः' (सू २५१६) । रधिता-रद्धा । “मस्जिनशोः-' (सू २५१७) इति नुम् । मङ्गा । नंष्टा-नशिता । “रभेरशब्लिटोः' (सू २५८१) । रम्भक । रब्धा । “लभेश्च' (सू २५८२) । लम्भकः । लब्धा । “तीषसह-' (सू २३४०) । एषिता-एष्टा । सहिता-सोढा । दरिद्रातेरालोप । दरिद्रिता । 'ण्वुलि न' । दरिद्रायकः । “कृत्यल्युटः-' (सू २८४१) इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पाद्हारकः । कर्मणि ण्वुल् । ‘क्रमेः कर्तयत्मनेपदविषयात्कृत इण्निषेधो वाच्य:’ (वा ४४२२, ४४२३) । डित्वान्न गुणः । अनिटस्त्विति ॥ तस्यानुदात्तोपदेशत्वादिति भाव । जनकः इत्यत्रो पधावृद्धिमाशङ्कय वृद्धिनिषेध स्मारयति । जनिवध्योश्रेति ॥ वध हिंसायामिति ॥ धात्वन्तर भावादकम् । भवादराकृतिगणत्वात् । नत्वय हन्तवधादश । तथा सति ‘जनि वध्योश्च' इति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात् । वधादेशस्यादन्ततया अछेोपस्य स्थानि वत्वादेव वृध्द्यभावसिद्धः । वधक इति ॥ 'जनिवध्योश्च' इति वृद्धिनिषेध । रन्धकः जम्भकः इत्यत्र इदित्वाभावादप्राप्त नुमि तद्विधि स्मारयति । राधिजभोरचीति ॥ राधिते त्यत्र “रधिजभोः' इति नुममाशङ्कय आह । नेट्यलिटि रधेरिति ॥ राधिता-रद्वेति ॥ रधादिभ्यश्च' इति वेट् । मस्जू तृ इति स्थिते आह । मस्जिनशोरिति ॥ जुम्विधि रयम् । मङ्गेति ॥ मसूज तृ इति स्थिते “मस्जेरन्त्यात् पूर्वो नुम् वाच्यः’ इति सकारादुपरि जकारात् प्राड्नुम् । मस्न्ज़ तृ इति स्थिते “स्को.’ इति सलोपः, जस्य कुत्वेन गः, तस्य चत्र्वेन कः, अनुस्वारः, परसवर्णेन ड इति भाव । नष्टा-नशितेति ॥ रधादत्वाद्वट् । इडभावपक्षे ‘मस्जिनशो.' इति नुमि नन्श तृ इति स्थिते ‘त्रश्च' इति शस्य ष । नस्यानुस्वारः श्रुत्वम्। रभेरशाब्लिटोः इति ॥ लुम्विधिरयम्। लब्धेति ॥ ‘झषस्तथोः'इति तस्य ध'जश्त्वेन भख्य बः। तीषसहेति । इड़िकल्पोऽयम् । सोढेति ॥ ढत्वधत्वष्टुत्वढलापाः । ‘सहिवहो: इत्योत्वम् । दरिद्रातेरालोप इति ॥ ‘दरिद्रातेरालोपो वक्तव्यः’ इत्यनेनेति भावः । एवुलि नेति ॥ दरिद्रातेण्र्युलि आलोपो नेत्यर्थः । ‘न दरिद्रायके लोप.’ इति वार्तिकादिति भाव. । दरि द्रायक इति ॥ ' आतो युक’ इति भावः । पादाभ्या हियते पादहारकः इत्यत्र कर्मणि ण्वुल साधयितुमाह । कृत्यल्युट इत्येवेति ॥ 'कृत्यल्युटः’ इत्येतावतैव पुनर्वचनबलात् येष्वर्थेषु ते कृत्यल्युट: विहिता तताऽन्यष्वप्यथषु भवन्तत्यिथलाभात् बहुळग्रहण याग विभागार्थम् । कृत्प्रत्यया येष्वर्थेषु विहिताः ततोऽन्यत्रापि कचित् भवन्तीति । एवञ्च कर्मण्यपि ण्वुल् सिध्द्यतीत्यर्थः । “कृतो बहुळम्’ इति वार्तिकन्तु एतद्योगविभागसिद्धकथनपर

मिति भाव । क्रमेरिति ॥ आत्मनेपदविषयात् क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः ।
प्रकरणम्]
४९७
बालमनोरमा ।


प्रक्रन्ता । “कर्तरि' इति किम् । प्रक्रमितव्यम् । “ आत्मनेपद् -' इति किम् । सङ्कमिता । अनन्यभावे विषयशब्द । तन्न * अनुपसर्गाद्वा' (सू २७१६ ) इति विकल्पार्हस्य न निषेध । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । 'गमेरिट्-' (सू २४०१) इत्यत्र परस्मैपद्ग्रहणं तडानयोरभावं लक्षयति । सजिगमिषिता । एवं * न वृद्भयश्चतुभ्यैः’ (सू २३४८) विवृत्सिता । यङन्ताण्वुल् । अलोपस्य स्थानिवत्वान्न वृद्धिः ।

२८९६ । नन्द्ग्रिहिपचादिभ्यो ल्युणिन्यचः । (३-१-१३४)

नन्द्यादेल्र्युप्रैह्यादेणिनिः पचादेरच्स्यात् जनमर्दयतीति जनार्दन । मधु सूदयतीति मधुसूदनः । विशेषेण भीषयतीति


स्नुक्रमेोः' इति सूत्रस्थमिद वार्तिकम् । प्रक्रन्तेति ॥ 'प्रेोपाभ्या समर्थाभ्याम्' इत्यात्मनेन पदविषयोऽयम् । नन्वेवं सति क्रमितेत्यत्र कथमिडित्यब आह । अनन्यभावे विषयशब्द इति ॥ वर्तते इति शेषः । आत्मनेपदाविनाभाव इति यावत् । क्रमेः कर्तर्यात्मनेपदिन इलेतावतैव सिद्धेरयमर्थो लभ्यते इति भावः । तथाच नित्यमात्मनेपदिन इति फलितम्। तेनेति ॥ क्रामतेत्यत्र क्रमेः ‘अनुपसर्गाद्वा' इत्यात्मनेपदविकल्पविधानात् नित्यमात्मनेपदित्वाभावात् इण्नि षेधो नेत्यर्थः । मतान्तरमाह । तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम् । ततश्च आत्मनेनपदपक्षे इणुनिषेधे सति प्रक्रन्तेति रूपम् । आत्मनेपदाभावपक्षे तु क्रम इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थ । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः । ननु सञ्जिगमिषितेत्यत्र सनः कथमिट्, गमेरनिट्त्सु पाठात् सनः परस्मै पदपरत्वाभावेन 'गमेरिट् परस्मपदषु' इत्यस्याप्रवृत्तारत्यत आह । गमेरिडित्यत्रेति । एवमिति ॥ “न वृन्द्य श्रतुभ्यैः’ इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तडानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति ॥ वृतेस्सनि रूपम् । 'हलन्ताच' इति कित्वान्न गुणः । यङन्तादिति । पविधातोर्यडन्तात् पापच्येत्यस्मात् ण्वुलित्यर्थः । तस्य अकादेशे 'यस्य हल.’ इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्कय आह । स्थानिवत्वान्न वृद्धिरिति । यङ्लुगन्ता त्विति । यडस्सङ्कातस्य लुक’ अजादेशत्वाभावेन स्थानिवत्त्वासम्भवादुपधावृद्धिार्निबधा । न धातुलोपः' इति निषेधस्तु न, यड्लुकः अनैमित्तिकत्वात् उपधावृद्धेरिलक्षणत्वाभावाच । नन्दिग्रहि ॥ नन्दि, प्रहि, पञ्च, एषां द्वन्द्वात्पञ्चमी । नन्दिग्रहिपचाः आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु, णिनि, अच्, एषां द्वन्द्वात्प्रथमा । यथासङ्खयमन्वयः । तदाह । नन्द्यादेरित्यादि । नन्दि इति ण्यन्तग्रहणम् । तदाह ।

नन्दयतीति नन्दन इति ॥ । ल्योरनादेशः, “णेरनिटि' इति णिलोप मधु सूद्यतीति ॥ मधुः असुरविशेषः, त सूदयति हन्तीति मधुसूदनः । ल्युः अनादेशः णिलोप ।
४९८
[कृदन्त
सिध्दान्तकौमुदीसहिता


विभीषणः । लवणः । नन्द्यादिगणे निपात्तनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्धयभावो निपातनात् । विषयी। इह षत्वमपि । परिभावी-परिभवी । पाक्षिको वृद्धयभावो निपात्यते । पचादिराकृतिगण: 1 *शिवशमरिष्टस्य करे (सू ३४८९) । 'कर्मणि घटोऽठच्’ (सू १८३६) इति सूत्रयोः करोतेर्घटेश्चा च्यागात् । अच्प्रत्यय पर यङ्लुछाग्वधानाञ्च । कषान्वत्पाठस्त्वनुबन्धाः सञ्जनार्थः । केषाञ्चित्प्रपश्चार्थः । केषाञ्चिद्वाधकबाधनार्थः । पचवतीति पचः । नद्ट् । चोरट् । देवट् । इत्याद्यष्टितः । नदी । चोरी । देवी । दीव्यते 'इगुपध -' (सू २८९७) इति कः प्राप्तः । जारभरा । श्वपचा । अनयोः 'कमेण्यण' (सू २९१३) प्राप्तः । न्यङ्कादिषु पाठाच्छुपाकोऽपि । ‘यङोऽचि च' (सू २६५०) इति लुक् । “न धातुलोपे-' (सू २६५६) इति गुणवृद्धि


सात्पदाद्यो.’ इति न षत्वम् । नन्द्यादयो वृत्तौ पठिताः । तत्र केचित् ण्यन्ताः केचिदण्यन्ताः । सूत्रे ‘ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देश. । सौत्रत्वात् 'ग्रहिच्या' इति सम्प्रसारण न । ग्राहीति ॥ ग्रहधातोरदुपधाणिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशायीति ॥ विपूर्वात् “शीड् स्वप्रे' इति धातोर्णिनिः । गुणायादेशौ । “ अचोऽञ्णिति' इति वृद्धिमाशङ्कय आह । वृद्यभाव इति ॥ विषयीति ॥ 'षिञ् बन्धने' अस्मात्कृतसत्वाणिनिः । गुणाया देशौ । नन्विह कथन्न वृद्धि, कथञ्च षत्व पदादित्वादित्यत आह । षत्वमपीति ॥ निपात नात् वृद्यभावष्षत्वञ्चेत्यर्थः । परिभावी-परिभवी इत्यत्र णित्वान्नित्यवृद्धिमाशङ्कय आह । पाक्षिक इति ॥ ग्रह्यादयो वृत्तौ पठिताः । पचादिराकृतिगण इति ॥ पञ्च वप इत्यादि कतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्व वचनाभावेऽप्याह । शिवशमिति ।। सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञ्ज. अच्प्रत्यया न्तस्य ‘कर्मणि घट:’ इति सूत्रे घटेराचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति ॥ यडन्तादच्प्रत्यये परे “यडोऽवि च' इति यडो लुग्विधीयते । नहि पचादिगणे यडन्त पठितमस्ति । अतोऽपि पचादेराकृतिगणत्व विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरट् इत्यादीनां तत्र पाठो व्यर्थ इत्यत आह । केषाञ्चिदिति ॥ टकारानुबन्धनासञ्जनार्थ इत्यर्थः । नन्वेवमपि वद चल इत्यादीनां अनुबन्धरहिताना तत्र किमर्थः पाठ इत्यत आह । केषाञ्चित्प्रपञ्चार्थ इति । बाधकेति ॥ जारभर श्वपच इत्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थ भरपचादीनां पाठः इति भाष्यम् । देवः सेव. इत्यादौ *इगुपधज्ञाप्रीकिरः क.’ इति विशिष्य विहितस्य कस्य बाधनार्थञ्च । तदेतदुपपादयति । नदडित्यादि । ननु पचादिगणे श्वपचशब्दस्य बाधकबाधनार्थत्वे श्वपाक इति कथमित्यत आह । न्यङ्कादिषु पाठाच्छ्पाकोऽपीति । कदाचिदण्प्रत्ययः कुत्वञ्चेत्यर्थ. । चेििक्रयः, मरीमृजः इत्यादौ

प्रक्रियान्दर्शयति । यङोऽचि चेति ॥ कीजादिधातोराचि यडो लुगित्यर्थः । द्वित्वादौ वेक्री
प्रकरणम्]
४९९
बालमनोरमा ।


निषेधः । चेक्रिय । नेन्यः । लोलुवः । पापुवः । मरीमृज : । * चरिचलिपतिः वदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्' (वा ३४३०) । आगागमस्य दीर्घत्वसामथ्र्यादभ्यासहस्वो 'हलादिःशेपः' (सू २१७९) च न । चराचरः । चलाचलः । पतापतः । वदावदः । “हन्तेर्घत्वं च' (वा ३४३१) । घत्व मभ्यासस्योत्तरस्य तु * अभ्यासाच' (सू २४३०) इति कुत्वम् । घनाघनः । 'पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य’ । पाटूट्रपट: । पक्षे चरः । चल: । पतः । वद्ः । हनः । पाटः । * रात्रेः कृति-' इति वा मुम् । रात्रिचरो रात्रिचरः ।

२८९७ । इगुपधज्ञाप्रीकिरः कः । (३-१-१३५)

प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचवावपि । क्षेपकः-क्षेमा ।

२८९८ । आतश्चोपसर्गे । (३-१-१३६)

कः स्यात् । ‘श्याव्यध-' (सू २९०३) इति णस्यापवादः । सुग्लः । प्रज्ञ ।


अ इत्यादिस्थितौ आह । न धातुलोप इति ॥ चेक्रियः इति । गुणाभावे सयोगपूर्वत्वान्न यण् । नेन्य इति ॥ “एरनेकाच.’ इति यण् । लोलुवः इति । उवड् । यण्तु न । ‘ओस्सुपि इत्युक्तः । मरीमृज इति । अत्र ‘न धातुलोपे' इति निषेधात् न मृजेवृद्धिः । चरिचवलोति । एषाम् अच्प्रत्यय पर द्वित्वम् अभ्यान्मस्य आगागमथन्यथ । ननु चराचर इत्यत्रान्यास रेफादाकारस्य हस्व. स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह । आगागमस्येति ॥ हस्वत्वे सत्यागागमे दीघाँचारण व्यर्थम्, अगागमयैव विधातुं शक्य त्वात् । तथा हलादिशेषेण रेफस्य निवृत्तै हस्वत्वेऽपि सवर्णदीर्घण चराचर इति सिद्धे दीघों चारण हलादिशेषाभावङ्गमयतीत्यर्थः । हन्तेरिति ॥ वार्तिकमिदम् । हनधातोरवि घत्व द्वित्व आक् चेत्यर्थः । ननु उत्तरखण्डे * अभ्यासाच' इति कुत्वसिद्धेः किमर्थमिह घत्वविधानमित्यत आह । घत्वमभ्यासस्येति ॥ इह विधीयते इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेण पाटि इत्यस्मात् आवि णेर्लक्, द्वित्वम् । अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य हृस्वे तस्य दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लग्विधिः । आगमे दीघचारणात् हलादिशेषेण टकारस्य न निवृत्ति' । हलादिशेषे तु आदुणे पेोपट इति रूपस्य उगागमेऽपि सिद्धे । इगुः पधज्ञा ॥ 'कृ विक्षेप' इत्यस्य इत्वे रपरत्वे च किर् इति रेफान्तम्, इगुपध, ज्ञा, श्री, किर एषान्द्वन्द्वात्पञ्चमी । कित्त्व गुणनिषेधार्थम् । इ इति ॥ आतेो लोप. । प्रिय इति ॥ प्रीञ् के इयड् । किर इति । कृधातोरचि इत्वे रपरत्वम् । आतश्चोपसर्गे ॥ कः स्यादिति ॥ शेषपूरणम् । उपसर्गे उपपदे आदन्ताद्धातोः कस्यादिति फलति । णस्यापवाद् इति ॥ तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वात् इति भावः । सुग्ल इति ॥ ग्लैधातोः

आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः । प्रज्ञ इति ॥ ज्ञाधातोरातो लोपः ।
५००
[कृदन्त
सिध्दान्तकौमुदीसहिता

२८९९ । पाघ्राध्माधेट्दृशः शः । (३-१-१३७)

पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्वात् स्तनन्धयी' इति खशीव डीप्प्राप्तः । “ खशोऽन्यत्र नेष्यते' इति हरदत्तः । पश्यतीति पश्यः । घ्रः सज्ञायां न (वा १९६७) । ‘व्याघ्रादिभिः-' (सू ७३५) इति निर्देशात् ।

२९०० । अनुपसर्गालिम्पविन्द्धारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च । (३-१-१३८)

शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेद्यः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वासरूपन्यायेन


पाघ्रा ॥ अत्र 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्’ इति मत्वा आह । पिब तीति पिब इति ॥ पाधातोश्शप्रत्यये तस्य शित्वेन सार्वधातुकत्वात् “पाघ्राध्मा' इति पिबादेशः । स चादन्त इत्युक्तम् । शप् पररूपम् । जिघ्र इति ॥ ‘पाघ्रा' इति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमादेश । धय इति ॥ धेधटश्शः, शप्, अयादेशः, पररूपमिति भावः । धया कल्येति । अत्र धट्धातुष्टित् स’ अदन्तो न भवति । यस्त्वदन्तो धयशब्दः स न टित्। अतोऽत्र 'टिड्ढाणञ्’ इति न डीबिति भावः । धेटष्टित्वादित्यारभ्य हरदत्तमतम् । स्तनन्धयीतीति ॥ स्तनशब्दे उपपदे धट्धातोः “नासिकास्तनयोः' इति स्वशि कृते खिल्यनव्ययस्य' इति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्वमाश्रित्य यथा 'टिड्ढाणञ्' इति डीप्, तथा धया कन्येल्यत्रापि डीप् प्राप्त । स डीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तु 'टिड्ढाणञ्’ इति सूत्रे टिदाद्यवयवाकारस्यैव ग्रह्णमिति भाष्यविरोधादिदाचिन्त्यम् । नच टित्वसामथ्र्यदेव स्तनन्धयीशब्दात् डीबिति वाच्यम् । धया कन्येत्यत्रापि डीप्प्रसङ्गात् । खशेोऽन्यत्र नेष्यते इत्यत्र प्रमाणाभावात् । तस्मात् स्तनन्धयीत्य तस्य प्रामाणिकत्वे गौरादित्वङ्कल्प्यम् । डीष्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाभावात् इति शब्दन्टुशेखरे स्थितम् । दृश: उदाहरति । पश्य इति ॥ “पाघ्रा' इति पश्यादेशः । घ्रस्संज्ञायां नेति ॥ घ्राधातोस्संज्ञायां ३शो नेत्यर्थः । कुत इत्यत आह । व्याघ्रा दिभिरिति ॥ अन्यथा व्याजिघ्रादिभिरिति निर्दिशेदिति भावः । अनुपसर्गात् ॥ श स्यादिति ॥ शषपूरणम् । लिम्पः, विन्द इति ॥ ‘लप उपदाहे, विद्ल् लाभे' इति तुदादौ ताभ्यां श’, ‘शे मुचादीनाम्’ इति नुम्। सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ । अतस्तौदादिकयोरेव ग्रहणम् । धारय इति ॥ “धृञ् धारणे, धृड् अवस्थाने' आभ्या हेतुमण्यन्ताभ्यां श:, शप्, गुणायादेशौ । पारय इति ॥ पृधातोः ण्यन्ताच्छः, शप् गुणायादेशौ । विद वेदनाख्यादिषु । चुरादिण्यन्ताच्छः । शप् गुणायादेशौ । उदेजय इति ॥ उत्पूर्वादेजधातोः ण्यन्ताच्छः ।

शप् गुणायादेशौ । चेतय इति ॥ * चिती संज्ञाने ' ण्यन्ताच्छ, शप्, गुणायादेशौ । एव
प्रकरणम्]
५०१
बालमनोरमा ।

किपि सात्परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे, चुरादिः । हेतुमण्ण्यन्तो वा । साह्वयः । 'अनुपसर्गात्' किम् । प्रलिप । 'नौ लिम्पेर्वाच्य:’ (वा १९६८) । निलिम्पा देवा । 'गवादिषु विन्देः संज्ञायाम्' (वा १९६९) । गोविन्दः । अरविन्दम् ।

२९०१ । ददातिद्धात्योर्विभाषा । (३-१-१३९)

शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो पण । अनुपसर्गादित्येव ।

२९०२ । वलितिकसन्तेभ्यो णः । (३-१-१४०)

इति शव्द् आद्यर्थ । ज्वलादभ्यः कसन्तभ्या वा णः स्यात् । पक्षऽच् । ज्वाल:-ज्वलः । चालः-चलः । अनुपसगादत्यव ! उज्ज्वलः | * तन्नातरुप सङ्खयानम्' (वा १९७०) । इहानुपसर्गादिति विभाषेति च न सम्बध्यते । अवतनोतीत्यवतान


सातयः । सादिति रूप साधयितुमाह । वासरूपन्यायेन किबिति ॥ झातयति सुखयतीत्यर्थे किप् णिलोपः । यद्यपि किप् सामान्यविहितः सातश्शप्रल्यस्तु तदपवादः । तथापि वासरूप विधिना केिबपि भवतीत्यर्थः । सात्परमात्मेति ॥ “एष ह्यवानन्दयाति” इति श्रुतेः तस्य सुखयिनृत्वावगमादिति भावः । सात्वन्त इति ॥ सात् परमात्मा भजनीयः एषामित्यर्थे मतुप् मादुपधायाः ’ इत मस्य व । “तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान्न जश्त्वम् । साहय इति ॥ साहेश्शः शप् गुणायादशा । प्रलिप इति ॥ इगुपधलक्षणः कः । नैौ लम्पाररात ॥ वार्तिकमिदम् । नि इत्युपसर्गे उपपदे लिम्पश्शो वाच्य इत्यर्थः । अनुपसर्गदित्युक्तः पूर्वेणाप्राप्तौ वचनम् । गवादिष्विति ॥ वातकामदम् । गवादघु उपपदषु विन्द३शा वाच्य इत्यथ । सज्ञायामेवेति नियमार्थमिदम् । उगावन्द इति ॥ गाः उपानषद्वाचवः प्रमाणतया विन्दती त्यर्थः । अरविन्दमिति ॥ चक्रे नाभिनेम्योरन्तराळप्रोतानि काष्ठानि अराणि तत्सदृशानि दळानि विन्दतीत्यर्थ । कर्मण्यणेोऽपवादश्शः । ददातिदधात्योर्विभाषा । दाञ्, धाञ् आभ्या शो वा स्यात् । ददः, दधः इति ॥ शः, शप् इलुः, 'श्रौ' इति द्वित्वम् । आतो लोपः । वक्ष्यमाण इति ॥ ‘श्याद्यध' इत्यनेनेति भावः । प्रदः, प्रधः इति ॥ आतश्चोपसर्गे' इति कः । जन्वांलांते ॥ आद्यर्थ इति ॥ तथा व ज्वल् इति आदिः येषां ते ज्वलितयः ते च ते कसन्ताश्धति ज्वलििितकसन्ताः तेभ्य इति विग्रह । तदाह । ज्वलादिभ्य इति ॥ 'ज्वल दीप्तौ' इत्यारभ्य “कस गतौ' इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति ॥ विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति ॥ इगुपधेभ्यः क इत्यपि

बोध्यम् । उपसङ्खश्यानमिति ॥ णस्येति शेषः । न सम्बन्छद्यते इति ॥ अवतानः इत्येव
५०२
[कृद्न्त
सिध्दान्तकौमुदीसहिता


२९०३॥३श्याद्यधाधुसंस्वतीणवसावह्नलिहश्लिषश्धसश्च।(३-१-१४१)

इयैङ्प्रभृतिभ्यो नित्यं णः स्यात् । इयेडोऽवस्यतेश्चादन्तत्वात्सिद्धे पृथ ग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । “सु गतैौ' आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अव श्वास

२९०४ । दुन्योरनुपसर्गे । (३-१-१४२)

णः स्यात् । दुनोतीति दाव । नीसाहचर्यात्सानुबन्धकाढुनोतेरेव णः । द्वतेस्तु पचाद्यच् दृवः । नयतीति नाय । उपसर्गे तु प्रद्वः । प्रणयः ।

२९०५ । विभाषा ग्रहः । (३-१-१४३)

णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्यो तिषि प्रहः । 'भवतेश्च' इति काशिका । भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्ताद्च् । भाव


भाष्ये उदाहरणादिति भावः । श्याद्यधालु ॥ ३या, आत्, व्यध, आलु, सखु, अतीणु , अवसा अवह्व, लिह, श्लिष, श्वस्, एषामेकादशानां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम् । उत्तरसूत्रेऽनुपसर्गग्रहणात्। एवञ्च तत्सम्बद्धं विभाषाग्रहणञ्च नानुवर्तते । तदाह । नित्यमिति ॥ इयैङः इति । इयैड्धातोः अवपूर्वकात् षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनहणम् 'आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः, प्रतिश्याय इत ।। २यडः आत्व ऋत णः आता युक् । अादात ॥ आदन्तस्यादाहरणसूचनम् । दायः, धायः इति ॥ ण आतो युक् । व्याध इति ॥ व्यधेणें उपधावृद्धिः । आस्रावः संस्राव इति ॥ णे “अचोऽञ्णिति' इति वृद्धि, आवादेशः । अत्याय इति ॥ अति पूर्वादिण्धातोणें वृछायादेशौ । अवसाय इति । अवपूर्वात् “षोऽन्तकर्मणि' इत्यस्मात् पेण आत्वे आतो युक् । लेहः, श्लेषः इति । णे लघूपधगुणः । श्वास इति । णे उपधावृद्धिः । दुन्योरनुपसर्गे ।। दुनोतेः नयतेश्चत्यर्थः । दवशब्द साधयितुमाह । नीसाहचर्यादिति ॥ नीञ्धातुस्सानुबन्धकः तत्साहचर्यात् “टु दु उपतापे' इति स्वादि गणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । ‘दु द्रु गतौ' इति भौवादिकात् निरनु बन्धकात्पचाद्यजित्यर्थः । विभाषा ग्रहः ॥ व्यवस्थितविभाषेयमिति । इदं ‘शाच्छो इति सूत्रे भाष्ये स्पष्टम् । तेनेति ॥ जलचरे मत्स्यादौ वाच्ये णप्रत्यय उपधावृद्धौ ग्राह इत्येव भवति । ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये ग्रह इत्येव भवतीत्यर्थः । भवते श्रेति ॥ णो वेति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृश्यते इति भावः । इय मपि व्यवस्थितविभाषेव । तदाह । भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननु भवतेवेति णविकल्पस्य

भाष्ये अदर्शनात् कथ भाध्यमते भावशब्द इत्यत आह । भाष्यमते त्विति । भावयति
प्रकरणम्]
५०३
बालमनोरमा ।

२९०६ । गेहे कः । (३-१-१४४)

गेहे कर्तरि प्रहेः कः स्यात् । गृहाति धान्यादिकमिति गृहम् । तात्स्थ्यात् गृहा दाराः ।

२९०७ । शिल्पिनि ष्वुन् । (३-१-१४५)

क्रियाकौशलं शिल्पं तद्वत्कर्तरि घ्वुन्स्यात् । “ नृतिखनिरञ्जिभ्य एव (वा १९७१) । नर्तकः-नर्तकी । खनकः-खनकी । ‘असि अके अने च रजे र्नलोपो वाच्यः' (वा ४०६७) । रजकः-रजकी । भाष्यमते तु नृतिखनिभ्या मेव ष्वुन् । रबेस्तु 'क्बुन्शिल्पिसंज्ञयोः' (उणा १९१) इति क्वुन् । टाप् । राजका । पुयाग तु रजका ।

२९०८ । गास्थकन् । (३-१-१४६)

गायतेस्थकन्स्यात्, शिल्पिनि कर्तरि । गाथकः ।

२९०९ । प्युट् च । (३-१-१४७)

गायनः । टित्वाद्भायनी ।

२९१० । हश्च त्रीहेिकालयोः । (३-१-१४८)


प्रापयति स्वस्वकार्यमित्यर्थे 'भू प्राप्तौ' इति चुरादिण्यन्तात् भावि इत्यस्मात् अच्प्रत्यये णिलोपे भावशब्द इत्यर्थः । गेहे वक ॥ 'विभाषा ग्रहः’ इत्यस्यापवादः । गृहमिति । ‘ग्रहिज्या' इति सम्प्रसारणं पूर्वरूपञ्च । ननु गृहा दारा इति कथम् । गेहे कर्तर्येव वाच्ये कप्रत्ययविधाना दित्यत आह । तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिकः इति भावः । गृहा दारा इति । “दारेष्वपि गृहा ' इत्यमर । शिल्पिनि ष्वुन् ॥ नृतिखनिरञ्जिभ्य एवेति ॥ वार्तिकमिदम् । नर्तकीति ॥ षित्वात् डीषिति भाव । 'दशसञ्जस्वञ्जा शपि' इति सूत्रे 'रजकरजनरजस्सूपसङ्खयानम्' इति वार्तिकम् । तत् अर्थतस्सहाति । असि अके अनेन चेति ॥ रजक इति । रखे. शिल्पिनि घ्बुनि अकादेशे नलोपः । रजकीति ॥ षित्वात् डीष् । नृतिखनिरञ्जिभ्य एवेति परिगणनात् । “वेञ् तन्तुसन्ताने' इत्यस्मात् कृतात्त्वंत् इयाद्यध' इति णप्रत्यये आतो युकि वाय इति सिध्यति । भाष्यमते तु नृतिखनि भ्यामेवेति ॥ इदञ्च 'दशमञ्जस्वञ्जा शपि' इति सूत्रे भाष्ये स्पष्टम् । ननु भाष्यमते क्वुनि रजकीति कथमित्यत आह । पुंयोगे तु रजकीति ॥ गस्थकन् ॥ गः थकन्निति च्छेद । गैधातोः कृतात्वस्य गः इति पञ्चम्यन्तम् । तदाह युट् च ककार उक्तसमुचये । गायतण्र्युट् च स्यात् थकन् च शिल्पिनि कर्तरि । गायन इति ॥ आत्वे युक् । “ आदे च' इत्यात्वस्य अनैमित्तिकत्वेन वृद्धद्यपेक्षया अन्तरङ्गत्वात् । यद्यपि गस्थकन्ण्यु ट् च' इत्येकमेव सूत्रमुचितम् । तथापि प्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः ।

हश्च ॥ ‘ओ हाक् त्यागे' इत्यस्य ‘ओ हाड् गतौ' इत्यस्य च हः इति पञ्चम्यन्तम् ।
५०४
[कृदन्त
सिध्दान्तकौमुदीसहिता


हाको हाङश्च प्युट् स्यात् त्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्तप्रोतीति वा ।

२९११ । पुसृल्वः समभिहारे बुन् । (३-१-१४९)

समाभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवक । सरकः । लवकः ।

२९१२ । आशिषि च । (३-१-१५०)

आशीर्विषयार्थवृत्तवुन्स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात्-नन्द् कः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्ति । इति तृतीयाध्यायस्य प्रथमः पादः ।

२९१३ । कर्मण्यण् । (३-२-१)

कर्मण्युपपदे धातोरण्प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न । * ोलिकामिभक्ष्याचरिभ्यो ण:' (वा १९८०) । अणोऽपवादार्थ वार्तिकम् । मांसशीला । मांसकामा ।


तदाह । हाको हाङश्चेति ॥ मुस्सृल्वः ॥ लक्ष्यते इति । एतच भाष्ये स्पष्टम् । पु, स्ट, लु, एषां समाहारद्वन्द्वात्पञ्चमी । आशिषि च । जीववक इति । आशास्यमानजीवनक्रिया श्रय इत्यर्थः । एवन्नन्दकः । आशीरिति ॥ आशासनम् अयमित्थभूयादिति प्रार्थन शब्दप्रयो वक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं नन्दकशब्दप्रयोग इत्यर्थः औचित्यादिति भाव

इति तृतीयाध्यायस्य प्रथमः पादः ।

अथ तृतीयाध्यायस्य द्वितीयः पाद -कर्मण्यण् ॥ कर्मण्युपपदे इति ॥“तत्रोपपदं सप्तमीस्थम्’ इत्यत्र तत्रेत्यनेनेद लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तर्येव । उपपदसमास इति ॥ 'उपपदमतिड्’ इत्यनेनेति भावः । कुम्भङ्करोतीति ॥ अस्वपदो लौकिकविग्रहो ऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रहवाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठयन्तस्य समास इति प्रागेवोक्तम् । ननु आदित्यम्पश्यतीत्यादित्यदर्शः, हिमवन्तं श्रृणोतीति हिमवच्छावः, प्रामङ्गच्छतीति प्रामगामः, इत्यादि स्यादित्यत आह । आदित्य म्पश्यतीत्यादावनभिधानान्नेति ॥ एतच भाष्ये स्पष्टम् । शीलीति ॥ शीलि, कामि , भक्षि, आचरि, एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु ‘कर्मण्यण्’ इत्यणैव सिद्धे किमर्थमिदमित्यत आह । अणोऽपवादार्थमिति ॥ अणन्तत्वे तु डीप् स्यात् । तन्निवृत्त्यर्थ णविधानमिति भावः। तदाह । मांसशीलेति ॥ ‘शील समाधौ' इति भ्वादिः । इह तु स्वभावतस्सेवने वर्तते । मास

स्वभावतस्सेवमानेत्यर्थः । मांसकामेति ॥ मांसङ्कामयते इति विग्रहः । मांसभक्षेति ॥
प्रकरणम्]
५०५
बालमनोरमा ।

मांसभक्षा । कल्याणाचारा । *ईक्षिमिभ्याश्च' (वा १९८१) । सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति।

२९१४ । हावामश्च । (३-२-२)

एभ्यः अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ।

२९१५ । आतोऽनुपसर्गे कः । (३-२-३)

आद्न्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाणु । “ आतो लोप ' । गोदः । पाष्णिवम् । “ अनुपसर्गे' किम् । गोसन्दायः । “ कविधैौ सर्वत्र संप्रसारणिभ्यो ड:' (वा १९८४) । ब्रह्म जिनाति ब्रह्मज्य । सर्वत्रग्रहणा दातश्चोपसर्गे आह्वः । प्रह्वः ।

२९१६ । सुपि स्थः । (३-२-४)


मास भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टापु । ईक्षिामिभ्यामिति । वार्तिकमिदम् । ण इति शेष । कथमिति ॥ कर्मण्याण गङ्गाधार इत्यादि स्यादित्याक्षेप । कर्मणश्शेषत्वेति ॥ तथाच कर्मोपपदाभावान्नाणिति भावः । ह्यावामश्च ॥ “हेञ् स्पर्धायाम्, वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोर्निर्देश , 'माङ् माने एषान्द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति ॥ कर्मण्युपपदे एभ्यः अण् स्यादित्यर्थः । ननु “कर्मण्यण्' इत्येव सिद्धे किमर्थमिदमित्यत आह । कापवाद् इति ॥ “आतोऽनुपसर्गे क इत्यस्याणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । माङ्मेडोरिह ग्रहणम्, नतु 'मा माने इत्यस्य, अकर्मकत्वात् । स्वर्गह्वाय इति । यद्यपि पराभिभवच्छाया स्पद्धया पराभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्गहादकर्मक इत्युक्तम् । तथापि इह पराभिभवेच्छा धात्वर्थः । स्वर्ग मभिभवितु वाञ्छतीत्यर्थ । अन्तरङ्गत्वादात्वे कृते आतो युक । एवमग्रेऽपि । अातोऽनुप सर्गे कः ॥ पार्षिणत्रमिति ॥ पार्टिण. पादमूलभाग । त त्रायते इति विग्रह । “त्रैड् पालने' आत्वे कृते कः । गोसन्दाय इति । अण्यातो युक् । कविधौ सर्वत्रेति ॥ वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ सम्प्रसारणाहेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्रह्मज्य इति ॥ ‘ज्या वयोहानौ' अस्माडु । डित्वसामथ्योदभस्यापि टेलॉप । अत्र कप्रत्यये सति कित्वात् 'ग्रहिज्या' इति सम्प्रसारणम्प्रसक्तम् । अतो ड एव नतु कः । सर्वत्रेति ॥ उपसर्गे उपपदे आतोऽपि ड एव । नतु “ आतश्चोपसर्गे' इति कः । सर्वत्र प्रहणादित्यन्वयः । अन्यथा अनन्तरस्य विधिरिति न्यायात् ‘आतोऽनुपसर्गे क:’ इत्येव बाध्यत, नतु ‘आतश्चोपसर्गे' इति कप्रत्यय इति भावः । आह्वः, प्रह्व इति । अत्र ‘आतश्चोपसर्गे' इति कम्बाधित्वा ड एव । तस्य अकित्वाद्यजादिलक्षण सम्प्रसारणन्न । सुपि स्थ ॥ योगो

64
५०६
[कृदन्त
सिध्दान्तकौमुदीसहिता


सुपीति योगो विभज्यते । सुप्युपपदे आद्न्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थ । तत: 'स्थः' । सुपि तिष्ठतेः कः स्यादारम्भसामथ्र्याद्भावे । आखूनामुत्थानमाखवूत्थ ।

२९१७ । प्रष्ठोऽग्रगामिनि । (८-३-९२)

प्रतिष्ठत इति प्रष्टो गौ । अग्रतो गच्छतीत्यर्थः । “ अग्र-' इति किम् । प्रस्थ ।

२९१८ । अम्बाम्बगोभूमिसव्येऽपद्वित्रिकुशेकुशङ्कङ्गुमञ्जिपुञ्जि परमेबर्हिर्दिव्यग्भ्यिः स्थः । (८-३-९७)

स्थः ' इत कप्रत्ययान्तस्यानुकरणम् । षष्ठयथ प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्टः । त्रिष्टः । इत ऊध्र्व कर्मणि सुपिति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य सम्बन्धः ।


विभज्यते इति । इद् भाष्ये स्पष्टम् । तत्र सुपीत्यश व्याचष्ट । सुप्युपपदे इति ॥ इदङ्केवलोपसर्गे व्यर्थम् । “आतश्चोपसर्गे' इत्येव सिद्धे । कमण्युपपदऽप्यतव्यथमव , “आतो ऽनुपसर्गे क.’ इत्यारम्भादिति मत्वोदाहरति । द्वाभ्यामिति ॥ तत इति ॥ सुपीत्यंशस्य व्याख्यानानन्तर स्थ इत्यशा व्याख्यायत इत्यथ । ननु सुपि इत्यंशेनैव सिद्धे किमर्थमिद मित्यत आह । आरम्भसामथ्र्यादिति ॥ कर्तरि “सुपि' इति पूर्वेण सिद्धेरिह 'कर्तरि कृत् इति नानुवर्तते । अनिर्दिष्टार्थत्वात् “गुप्तिज्किन्यस्सन्’ इत्यादिवत् स्वार्थिकोऽयम् । स्वार्थश्च भाव एवति भाष्ये स्पष्टम् । नच एव सति “घञ्जर्थे कविधानम्' इत्येव सिद्धमिति वाच्यम् । नित्योपपदसमासार्थत्वात्। अत एव ल्युडन्तेन अस्वपदविग्रहन्दर्शयन्नाह। आखूनामुत्थानम् अाखवूत्थ इति ॥ प्रष्टोऽग्रगामिनि । प्रपूत्रात् स्थाधातोः “ आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः । सः अग्रगामिनि वाच्ये कृतषत्व' निपात्यते । इणकवर्गाभ्यां परत्वा भावात् षत्वस्य न प्राप्तिः । प्रतिष्ठत इति ॥ अग्रे गच्छतीत्यर्थ, उपसर्गवशात् । प्रष्टो गौरिति ॥ अग्रगामीत्यर्थः । एव प्रष्टोऽश्व इत्यादि । अम्बाम्ब ॥ अम्ब, आम्ब, गो, भूमि, सव्य, अप, द्वि, त्रि, कुशे, कु, शडु, अडु, मञ्जि, पुञ्जि, परमे, बर्हिस्, दिवि, अग्नि, एषामष्टा दशाना द्वन्द्वः । अम्बष्ठः आम्बष्ठः गोष्ठ भूमिष्ठ । सव्येष्ठ निपातनादलुक् । “हलदन्तात्सप्तम्या: इति वा । अपष्ठः । एषु कतिपयेषु इण्कवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्ति. । कतिपयेषु सात्पदाद्योः' इति निषेध प्राप्तः । एवमग्रेऽपि । द्विष्ट इति ॥ द्वाभ्यान्तिष्ठतीति विग्रहः । एवं त्रिष्टः, कुशेष्ठः, कुष्ठः, शङ्कष्टः, अडुष्टः, मञ्जिष्ठः, पुञ्जिष्ठः । परमेष्ठः, निपातनादलुक् हलन्दात्’ इति वा । बर्हिष्ठः । दिविष्ठः पूर्ववदलुक्। अन्निष्ठः । कप्रत्ययान्तस्येति किम् । भूमिस्थितम् । इत ऊध्र्व मिति ॥ *तुन्दशोकयोः' इत्यारभ्येत्यर्थः । सुपीत्यस्येति ॥ नतु कर्मणीत्यस्य, असम्भवादिति

'सम्प्रत्युफ्लभ्यमानकाशिकावृत्तौ तु कुष्ठः शेकुष्टः इत्युपलभ्यते ।
प्रकरणम्]
५०७
बालमनोरमा ।

२९१९ । तुन्दशोकयोः परिमृजापनुदोः । (३-२-५)

तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यान् । * आलस्यसुखाहरण योरिति वक्तव्यम्’ (वा १९८८) । तुन्दं परिमाष्टति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारा सारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । “कप्रकरणे मूलविभुजादिभ्य उपसङ्खयानम्' (वा १९८९) । मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीघ्रः । कुभ्रः । गिलतीति गिलः ।

२९२० । प्रे दाज्ञः । (३-२-६)

दारूपाञ्जानातेश्च प्रोपस्सृष्टात्कर्मण्युपपदे कः स्याद्णोऽपवाद । सव प्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तः प्रादन्यस्मिन्सुपि न कः गोसम्प्रदायः ।

२९२१ । समि ख्यः । (३-२-७)

गोसङ्खयः ।

२९२२ । गापोष्टक् । (३-२-८ )

अनुपसृष्टाभ्यामाभ्यां टक्रयात्कमण्युपपद । सामग:-सामर्गी । उप सर्गे तु सामसङ्गायः । 'पिबतेः सुराशीध्वोरिति वाच्यम्’ (वा १९९०) । सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ।


भावः । तुन्दशोकयोः ॥ तुन्दशोकयोरिति सप्तमी । परिमृज, अपनुद, अनयोर्द्धन्द्वात्पञ्चम्यर्थे षष्ठी । तदाह । उपपदयोराभ्यामिति ॥ तुन्दपरिमृज इति ॥ तुन्दम् उदरम् । अत्र मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहु । मूलानि विभुज तीति ॥ विमर्दयतीत्यर्थः । 'भुजो कौटिल्य' तुदादि । इहोपसर्गबलान्मर्दने वृत्तिः । महीध्र इति ॥ मही धरतीति विग्रहः । कित्वान्न गुण’ । ऋकारस्य यण् रेफः । अणि दु महीधार इति स्यात् । कुभ्र इति । कुः पृथ्वी, तां धरतीति विग्रहः । गिल इति ॥ गू निगरणे' अस्मात् कः कित्त्वान्न गुणः, इत्व रपरत्वम् । “अचि विभाषा' इति लत्वम् । प्रे दाज्ञः ॥ प्रे इति सप्तमी पञ्चम्यर्थे । दा ज्ञा अनयोर्द्धन्द्वात् पञ्चम्येकवचनम् । प्रोपस्पृष्टा दिति ॥ प्रेत्युपसर्गपूर्वकादित्यर्थ । सोपसर्गार्थ आरम्भः । समि ख्यः । समीति पञ्चम्यर्थे सप्तमी । गोसङ्खय इति ॥ गाः सञ्चष्ट इति विग्रहः । सम्पूर्वात् चक्षिडः स्व्यालि रूपम् । ख्या प्रकथने ' इत्यस्य तु सम्पूर्वस्य प्रयोगाभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते । गापोष्टक् ॥ “गै शब्द, पा पाने' इत्यनयोः टक् स्यात् कर्मण्युपपद । सामग इति ॥ टकि आतो लोपः । सामगीति ॥ टित्वान्डीबिति भावः । सामसङ्गाय इति ॥ सोपसर्गात् गै धातो

कर्मण्यणि आतो युकि रूपम् । पिबतेरिद्धि ॥ वार्तिकमिदम् । पाधातोः सुराशीध्वोरुपपदयेोः टक्
५७०
[कृदन्त
सिध्दान्तकौमुदीसहिता

२९२३ । हरतेरनुद्यमनेऽच् । (३-२-९)

अशहर । 'अनुद्यमने' किम् । भारहार । * शक्तिलाङ्गलाङ्कशतोमर यष्टिघटघटीधनुःषु गृहेरुपसङ्खयानम्’ (वा १९९२) शक्तिग्रहः । लाङ्गलग्रहः । 'सूत्रे च धार्येऽर्थे' (वा १९९३) सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव, सूत्रग्राहः ।

२९२४ । वयसि च । (३-२-१०)

उद्यमनाथै सूखम् । कवचहरः कुमार ।

२९२५ । आङि ताच्छील्ये । (३-२-११)

पुष्पाण्याहरति तच्छीलः । पुष्पाहर: *ताच्छील्ये' किम् । भाराहारः ।

२९२६ । अर्हः । (३-२-१२)

अर्हतेरच्स्यात्कर्मण्युपपदे अणोऽपवादः । पूजार्ह ब्राह्मणी ।

२९२७ । स्तम्बकर्णयो रमिजपेोः । (३-२-१३)

हस्तिसूचकयोरिति वक्तव्यम्’ (वा १९९४) । स्तम्बे रमते स्तम्बे रमो हस्ती । “तत्पुरुषे कृति -' (सू९७२) इति “हलदन्तात्-' (सू९६६) इति वा डेरलुक् । कर्णेजपः सूचकः ।


स्यादित्यर्थः । क्षीरपेति ॥ क्षीरपिबतीत्यर्थे सुराशीध्वोरन्यतरत्वाभावात् ‘आतोऽनुपसर्गे क इति कप्रत्यये टाप् । पाति रक्षतीति ॥ 'पा रक्षणे' इति लुग्विकरणस्य पिबतिग्रहणेन अग्रहणमिति भावः । हरतेरनुद्यमनेऽच् ॥ अनुद्यमने विद्यमानात्कर्मण्युपपदे अजित्यर्थ । उद्यमनम् उद्वहणम् । अंशहर इति ॥ अशस्य स्वीकर्तेत्यर्थ । भारहार इति ॥ भारम् उट्टहातीत्यर्थ । गृहेरुपसङ्खयानमिति ॥ अच्प्रत्ययस्येति शेष. । 'ग्रह उपादाने' अदुपधः । गृहेरिति तु कृतसम्प्रसारणस्य इका निर्देश . । शक्तिग्रह इति ॥ आकित्वान्न सम्प्रसारणम् । लाङ्गलग्रह इति ॥ अङ्कशग्रह इत्याद्यप्युदाहार्यम् । सूत्रे चेति ॥ वातकामदम् । सूत कम प्युपपदे धारणाथकात्प्रह्वधाताराजल्यथः । वयसि च ॥ कर्मण्युपपदे वयसि गम्ये हरतेराजित्यर्थः। ननु 'हरतरनुद्यमनेऽच्' इत्येव सिद्धे किमर्थमिदमित्यत आह । उद्यमनार्थमिति ॥ आङि ताच्छील्ये ॥ आङ्पूर्वाद्धरतःकर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यन्तत्स्वभावता । पुष्पाहर इति ॥ पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः । अर्हः ॥ अणो ऽपवाद इति । यद्यपि अणि अचि च पूजार्हरूप न विशेषः । अदुपधत्वाभावेन वृद्धेरप्रसत्तेः । तथापि स्त्रियामण्णन्तत्वे डीप्स्यात् । तन्निवृत्तय अज्विधि । तदाह । पूजार्हति । स्तम्ब कर्णयोः ॥ रम् जप् अनयोरकर्मकत्वात् कर्मणीति न सम्बध्यते । जपेश्शब्दोचारणार्थकस्य

धात्वर्थोपसङ्गहादकर्मकत्वम्बोध्यम् । दर्भादितृणनिचयः स्तम्बः । सूचकः पिशुनः। हस्तिसूचकयो
प्रकरणम्]
५०९
बालमनोरमा ।


२९२८ । शमि धातोः संज्ञायाम् । (३-२-१४)

शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञ्जो हेत्वादिषु टो मा भून् । शङ्करा नाम परिव्राजिका तच्छीला ।

२९२९ । अधिकरणे शेतेः । (३-२-१५)

खे शेतेत खशय । *पाश्चोदिपूपसङ्खयानम्’ (वा १९९६) । पाश्व भ्यां शेते पार्श्वशयः । पृष्टशयः । उदरेण शेते उदरशयः । “उत्तानादिषु कर्तृषु' (वा १९९८) । उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सोऽवमूर्धा । अधोमुखः शेत इत्यर्थः । “गिरो डदछन्दसि' (वा १९९९) गिरौ शेते गिरिश । लोके गिरिशयः । कथं तर्हि * गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ।

२९३० । चरेष्टः । (३-२-१६)

अधिकरण उपपदे । कुरुचरः । कुरुचरी ।

२९३१ । भिक्षासेनादायेषु च । (३-२-१७)


किम् । स्तम्बे रता गौः । कर्णे जपिता गुरु. मशको वा । शमि धातोः ॥ शमि इति सप्तम्य न्तम् । शमिति सुखार्थेकमव्ययम् । तस्मिन्नुपपदे धातोरच् स्यात्संज्ञायाम् ननु धातुप्रहण व्यर्थम् । न च रामजपोरननुवृत्त्यर्थन्तदिति वाच्यम् । अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह । पुनर्धातुग्रहणमिति ॥ “कृञ्जो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः अच् प्रत्ययबाधको वक्ष्यते, तद्वाधनार्थमित्यर्थः । आधिकरणे ॥ सुबन्तेऽधिकरणवाचिन्युपपदे शीड्धातोरच् स्यादित्यर्थः । प्रचदिष्विति ॥ अत्राधिकरणवाचिनीति न सम्बध्यते । तत् ध्वनयन्नुदाहरति । पाश्र्वाभ्यामिति ॥ उत्तानादिषु कर्तृष्विति । वार्तिकमिदम् उत्तानादिशब्देषु कर्तृवाचिघूपपदेषु शीडोऽजित्यर्थ । गिराविति ॥ वार्तिकमिदम् । गिरा वुपपदे शीडो डप्रत्यय इत्यर्थः । “अधिकरणे शेतेः' इत्यचोऽपवाद । “नमो गिरिशाय चव शिपिविष्टाय च ” इति शीडो डप्रत्यये डित्वसामथ्र्यादभस्यापि टेलप* । यद्यपि वैदिक प्राक्रयायामवद सूत्र व्याख्ययम् । तथाप लाक डप्रत्ययस्य न प्रष्टात्त' । किन्त्वजवात प्रदश नार्थमिह तद्याख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति । गिरिशय इति ॥ कथमिति॥ लोके डप्रत्ययासम्भवादिति भावः । समाधत्ते । गिरिरस्यास्तीत्यादि । चरेष्टः ॥ ट इति च्छेद । अधिकरणे उपपदे इति शेषः । अधिकरणे शतरित्यतः तदनुवृत्तेरिति भावः । कुरुचर इति ॥ कुरुषु चरतीति विग्रहः । न च “अकर्मकधातुभिर्योगे' इति कर्मत्व शङ्कयम् । तस्य वकाल्पकतायाः तत्रव प्रपञ्चतत्वात् । तत्र अत्रत्यमाप भाष्य प्रमाणम् ।

भिक्षासेना ॥ भिक्षा, सेना, आदाय, एषु चोपपदेषु चरेष्टः स्यादित्यर्थः । भिक्षाञ्चरतीति ॥
५१०
[कृदन्त
सिध्दान्तकौमुदीसहिता


भिक्षां चरतीति भिक्षाचरः । सेनाचर । आदायेति ल्यबन्तम् आदायचरः । कथम् प्रेक्ष्य स्थितां सहचरीम्' इति । पचादिषु चरडिति

२९३२ । पुरोऽग्रतोऽग्रेषु सर्तेः । (३-१-१८)

पुरःसर । अग्रतःसरः अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्र इत्ये दन्तत्वमपि निपात्यते । कथं तर्हि *यूथं तद्ग्रसरगर्वितकृष्णसारम्' इति । बाहुळकादिति हरदत्तः ।

२९३३ । पूर्वे कर्तरि । (३-२-१९)

कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसर । कतार ' किम् । पूव दश सरतात पूवसारः ।

२९३४ । कृङओो हेतुताच्छील्यानुलोम्येषु । (३-२-२०)

एषु द्यालयषु करोतेष्टः स्यात् । * अतः कृकमि-' (१६०) इति सप्त । यशस्करी विद्या । श्राद्धकर

२९३५ । द्विाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिलिभक्तिकर्तृचित्रक्षेत्रसङ्खयाजङ्काबाह्वहर्यत्तद्धनुररुषु। (३-२-२१)


चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षामार्जयतीत्यर्थः । सेनाचवर इति ॥ सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आादाय चरतीति ॥ लब्ध द्रव्यं गृहीत्वा चवरतीत्यर्थः । कथमिति ॥ अधिकरणे भिक्षासनादायेषु उपपदेषु च । विहितस्य टप्रत्ययस्य सहपूर्वाञ्चरेरसम्भवादिति भावः । समाधत्ते । पचादिष्विति ॥ यद्यपि भिक्षाचर इत्यादौ पचाद्यचि रूपसिद्धि , तथापि नित्योपपदसमासार्थमज्विधान मित्याहुः । पुरोऽग्रत ॥ पुरस्, अप्रतस्, अग्र, एधूपपदेषु सर्तेः टः स्यादित्यर्थ । अग्रेसर इति । ननु समासावयवत्वात्सुपो लुकि, अग्रसर इति स्यात् इत्यत आह । सूत्र इति ॥ कथमिति । एदन्तत्वनिपातनात् कथमग्रसरशब्दः इत्यर्थः । समाधत्त । बाहुळकादिति । पूर्वे कर्तरि । कर्तृशब्दः कर्तृवाचिनि गौणः । तदाह । कर्तृवाचि नीति । कृञ्जो हेतु ॥ हेतुः कारणम्, आनुलोम्यम् आराध्यचित्तानुवर्तनम्। द्योत्येष्विति ॥ कर्तुरेव प्रत्ययवाच्यत्वादिति भावः । हेत्वादिधूपपदेष्विति तु नाथे, व्याख्यानात् । कर्मण्युपपदे इत्यपि द्रष्टव्यम् । “कुप्वो.' इति जिह्वामूलीयमाशङ्कय आह । अतः कृकमीति । हेता वुदाहरति । यशस्करी विद्येति । विद्या यशोहेतुः । श्राद्धकर इति ॥ श्राद्धक्रिया

शील इत्यर्थः । वचनकर इति । गुर्वादिवचनानुवतींत्यर्थः । दिवाविभा ॥ दिवा,
प्रकरणम्]
५११
बालमनोरमा ।


एषु कृव्यष्टः स्यादहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्याथै सङ्ख-यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । सङ्कया । एककरः । द्विकरः । कस्का दित्वाद्हस्करः । नित्यं समासेऽनुत्तरपदस्थस्य' (१५९) इति षत्वम् । धनुष्करः । अरुष्करः। किंयत्तद्वहुषु कृञ्जोऽविधानम्’ (वा २००२) इति वार्तिकम्। किङ्करा। यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वाद्च् । पुंयोगे डीष् । किङ्करी ।

२९३६ । कर्मणि भृतैौ । (३-२-२२)

कर्मशब्द उपपदे करोतेष्टः स्याद्भतौ । कर्मकरो भृतकः । कर्मकारोऽन्यः ।


विभा, निशा, प्रभा, भास्, कार, अन्त, अनन्त, आदि, वहु, नान्दी, किम्, लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, सङ्खव, जङ्घा, बाहु, अहर, यद्, तद्, धनुम्, अरुस् एषां सप्तविंशतद्वैन्द्वात्सप्तमी । एष्विति ॥ उपपदेष्विति शेषः । अंहेत्वादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अननुवृत्तेरिति भाव । एतेन अहेत्वाद्यर्थमिद सूत्रमुक्त भवति । अत्र कर्मणीति सुपीति चानुवृत्त यथायोगमन्वेति । दिवाकर इति । दिवल्याकारान्तमव्ययमहीत्यर्थे । तस्याधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्व बोध्यम् । दिवा अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभावकर इति ॥ विभा करोतीति विग्रहः । निशाकर इति । निशा करोतीति विग्रहः । एव प्रभाकरः । भाः करोति इति विग्रहे * अत कृकमि' इत्यत्रात इति तपरकरणात्सत्वस्याप्राप्तः “कुप्वो.’ इति जिह्वामूलीयविसर्गावाशङ्कय आह । कस्कादित्वादिति । कारकरः, अन्तकरः, अनन्तकरः आदिकरः, इति सिद्धवत्कृत्य आह । बहुकर इति । ननु सङ्कयाग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह । बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न सङ्खयाशब्दत्व मिति “बहुगणवतुडति सङ्खया' इत्यत्रोक्तम् । नान्दीकरः किङ्करः इति सिद्धवत्कृत्य आह । लिपिलिबिशब्दाविति ॥ तथा च लिपिकरः-लिविकर . । क्षेत्रकर इत्यन्त सिद्धवत्कृत्य आह । सङ्खयेति ॥ उदाह्रियते इति शेषः । जङ्घाकरः, बाहुकरः इति सिद्धवत्कृत्य अहस्करशब्द “कुप्वोः' इति जिह्वामूलीयविसर्गावाशङ्कय आह । कस्कादित्वादिति ॥ नजि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य, उत्तरपदस्थत्वात् “ अतः कृकमि’ इत्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे आह । नित्यं समास इति । प्रत्ययावयवत्वातू 'इदुपधस्य च' इत्यस्य न प्राप्तिरिति भाव । कृञ्जोऽग्विधानमिति ॥ टस्यापवादः। किङ्करेति ॥ टप्रत्यये तु टित्वात् डीप्स्यादिति भाव. । हेत्वादिषु पूर्वविप्रतिषेधमा श्रित्य ‘कृओो हेतु' इति किङ्करादिषु ट एव किङ्करीति न्यासकारमतन्दूषयितुमाह । हेत्वादा विति । पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः । तर्हि किङ्करीति कथमित्यत आह । पुंयोगे डीषिति ॥ कर्मणि भृतौ ॥ कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणन्तु कर्मशब्दस्वरूप

प्रहणार्थम् । कर्मकरो भृतक इति ॥ वेतनहीत्वा यः परार्थङ्कर्म करोति स भृतक
५१२
[कृदन्त
सिध्दान्तकौमुदीसहिता

२९३७ । न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु । (३-२-२३)

एषु कृञ्जष्टा न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शव्दकार इत्यादि ।

२९३८ । स्तम्बशकृतोरिन् । (३-२-२४)

'व्रीहिवत्सयोरिति वक्तव्यम्' (वा २००३) स्तम्बकरित्रीहिः । शकृ त्करिर्वत्सः । “ ब्रीहिवत्सयोः' किम् । स्तम्बकारः । शकृत्कारः ।

२९३९ । हरतेद्वैतिनाथयोः पशौ । (३-२-२५ )

दृतिनाथयोरुपपदयोर्हञ्ज इन्स्यात् पशौ कर्तरि । दृतिं हरतीति दृति हरि: । नाथं नासारज्जु हरतीति नाथहरिः । “पशौ' किम् । दृतिहरः । नाथहरः ।

२९४० । फलेग्रहिरात्मम्भरिश्च । (३-२-२६)

फलानि गृह्णाति फलेग्रहिः । उपपद्स्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरि: । आत्मनो मुमागमः । भृज् इन् । चात्कुक्षि म्भरेिः । चान्द्रास्तु आत्मोद्रकुक्षिष्विति पेठ । “ ज्योत्स्नाकरम्बमुदरम्भरय श्वकाराः' इति मुराार

२९४१ । एजेः खश । (३-२-२८)

ण्यन्तादेजेः खश् स्यात् ।


इत्युच्यत । न शब्दश्लोक । शब्द, श्लोक, कलह, गाधा, वैर, चाटु, सूत्र, मन्त्र पद, एषान्नवानान्द्वन्द्वः । हेत्वादिष्विति ॥ 'कृञ्जो हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः । स्तम्बशकृतोरिन् । स्तम्बे शकृति च कर्मण्युपपदे कृञ्ज इन् स्यात् । नकार इत् । ब्रवीहिवत्सयोरिति । व्रीहौ वत्से च कर्तरीत्यर्थः । स्तम्बशकृतायथासङ्खयमन्वय । स्तम्बकरिबहिरिति । स्तम्बं तृणनिचयं करोतीति विग्रहः । हरतेद्येतिनाथयोः ॥ दृतिः चर्मभत्रिका । दृतिहरिः श्वा इति वृत्तिः । नाथशब्दस्य विवरणम् । नासारज्जुरिति ॥ नासिकाप्रोतं रज्जुरित्यर्थः । नाथहरिरिति ॥ नासिकाप्रोत रज्जुके पशुविशेष रूढोऽयम् । फलेग्रहिः ॥ ग्रहेरिन्निति ॥ नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थ । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह । चात्कुक्षिम्भरिरिति । भाष्ये तु ‘भृञ्जः कुक्ष्यात्मनो र्मुश्चेति वक्तव्यम्’ इति स्थितम् । “ स्यादवन्ध्यः फलेग्रहिः’ इति वृक्षपयोये अमरः । “उभावा त्मम्भरिः कृक्षिम्भरिस्स्वोदरपूरके' इति विशेष्यनिन्नवर्गे । उदरम्भरिशब्द समर्थयितुमाह । चान्द्रास्त्विति ॥ एजेः खश् ॥ एजेरिति एजूधातोर्यहणम् । नत्विका निर्देशः

ण्यन्तस्य
प्रकरणम्]
५१३
बालमनोरमा ।

२९४२ । अरुषिद्जन्तस्य मुम् । (६-३-६७)

अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते उत्तरपदे न त्व व्ययस्य । शित्वाच्छबादिः । जनमेजयतीति जनमेजय । * वातशुनीतिलश धेष्वजधेट्तुदजहातिभ्यः खश उपसङ्ख-यानम्' (वा २००५) वातमजा मृगाः ।

२९४३ । खिल्यनव्ययस्य । (६-३-६६ )

खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यान् ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धजहा माषाः । शधर्मोऽपानशब्दस्तं जहातीति विग्रहः । जहातिरन्तर्भावि तण्यर्थ

२९४४ ॥ नासिकास्तनयोध्र्माधेटोः । (३-२-२९)

अत्र वार्तिकम्–“स्तने धेटो नासिकायां ध्मश्चेति वाच्यम्' (वा २००६-७) । स्तनं धयतीति स्तनन्धयः । धेटष्टित्वात्स्तनन्धयी । नासिक नासिकन्धय न्धम


व्याख्यानादिति भावः । खकारशकारावितौ । कर्मण्युपपदे इत्यपि ज्ञेयम् । अरुषित् ॥ अरुस् द्विषत्, अजन्त, एषा समाहारद्वन्द्वात् षष्टी । ‘अलुगुत्तरपदे’ इत्यधिकारात् उत्तरपदे इति लभ्यते । खिल्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । खितः प्रत्ययत्वात्तदन्तविधिः । तदाह । खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशशित्वात्सार्व धातुकत्व शप्, गुणायादेशौ, पररूपम्, सुपेो लुकि, मुम् । वातशुनीति ॥ वार्तिकमिदम् । वात, शुनी, तिल, शर्ध, एषान्द्वन्द्वात्सप्तमी । अज, धेट्, नुद, जहाति, एषान्द्वन्द्वात्पञ्चमी । यथासङ्खयमन्वयः । वातमजा इति ॥ वातमजन्तीति विग्रह सुपा लुक मुम् । अथ शुनीन्धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनीधय इति स्थिते आह । खिल्यनव्ययस्य ॥ ह्रस्वः स्यादिति ॥ “इको हस्वोऽडयो गालवस्य' इत्यत तदनुवृत्तेरिति भाव । अत्र हस्वश्रुत्या अच इत्युपस्थितन्द्रष्टव्यम् । ततो मुमिति । पूर्व हस्वे कृते ततो मुमित्यर्थः । पूर्वं मुमि कृते तु अजन्तत्वाभावाद्रस्वो न स्यादिति भावः । शर्धञ्जहा माषा इति ॥ भाष्ये तु मृगा इति पाठ । शर्धः अपानद्वारे स्थितश्शब्द इति माधवादयः । अन्तर्भावितेति । तथाच शर्ध हापयतीतेि विग्रहः फलितः । भाष्ये तु ‘वात शुनी’ इति वार्तिके गधेष्विति पठितम् । नासिका ॥ नासिका, स्तन, अनयोः द्वन्द्वात्सप्तमी । धमा, धेट्, अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी । खशिति शेषः । यथासङ्खयमन्वये प्रासे आह । अत्र वार्तिकमिति ॥ धेटष्टित्वादिति । यद्यपि “टिड्ढ’ इत्यत्र टिदाद्यन्त यदन्त प्रातिपदिकमिति व्याख्यातं, तथापि टित्वस्यावयवे अचरितार्थत्वात् डीबिति हरदत्तः । अत्र

यद्वक्तव्यन्तत् “पाघ्राधमाधेट्दृशश्शः' इत्यत्रोक्तम् । नासिकन्धम इति ॥ हस्वे कृते मुम् ।
५१४
[लकारार्थ
सिध्दान्तकौमुदीसहिता


२९४५ । नाडीमुष्टयोश्च । (३-२-३०)

एतयोरुपपदयोः कर्मणोध्मौधेटोः खश् स्यात् । 'यथासङ्खयं नेष्यते' । नाडिन्धम:-नाडिन्धयः । मुष्टिन्धम:-मुष्टिन्धय । “घटीखारीखरंपूपसङ्खया नम्’ (वा २००८) । घटिन्धमः-घटिन्धयः इत्यादि खारी परिमाणविशेषः । खरी गदेभी ।

२९४६ । उदि कूले रुजिवहोः । (३-२-३१)

उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश स्यात् । कूलमुद्रुज तीति कूलमुदुजः । कूलमुद्वहः ।

२९४७ । वहात्रे लिहः । (३-२-३२)

वहः स्कन्धस्तं लेढीति वहंलिहो गौ । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुण: । अभ्रंलिहो वायुः ।

२९४८ । परिमाणे पचः । ३-२-३३)

प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ।

२९४९ । मितनखे च । (३-२-३४)

मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ।

२९५० । विध्वरुषोस्तुदः । (३-२-३५)

विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः।


नासिकायाः ध्मश्वति चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति । नासिकन्धय इति ॥ नाडी मुष्टयोश्च ॥ यथासङ्ख-यन्नेष्यते इति ॥ इदन्तु भाष्ये स्पष्टम् । घटीखारीति ॥ इत्यादि स्पष्टम् । उदि कूले ॥ उदीति दिग्योगपञ्चम्यर्थे सप्तमी । रुजिवहोरिति पञ्चम्यर्थे षष्ठी । ‘रुजो भङ्गे' तुदादिः । अत्र रुजेस्सकर्मकत्वात् कर्मण्युपपदे इति लब्धम्। तेन कूल विशेष्यते, नतु उच्छब्दः । तस्य असत्त्ववावित्वात् । तदाह । उत्पूर्वाभ्यामित्यादि । कूलमुदुज इति ॥ सुपो लुकि मुमिति भावः । वहाभ्र लिहः ॥ वहे अत्रे च कर्मण्युपपदे लिहः खशित्यर्थः । वहशब्दस्य विवरणम् । स्कन्ध इति ॥ शपो लुगिति ॥ खशशित्वेन सार्वधातुकत्वात् कृतस्य शपो लुगित्यर्थः । परिमाणे पचव ॥ परिमाण प्रस्थादि । तामिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पचः इति ॥ 'खिल्यनव्ययस्य' इति हृस्वः । मुम्। मितनखे च ॥ मिते नख च कमण्युपपद पचः खाशल्यथ । नखाना वाहकत्यसम्भवादाह । पाचवरत्रात ॥ विध्वरुषोस्तुदः ॥ विधु, अरुस्, अनयोः कर्मणोरुपपदयोः तुदः खशित्यर्थः । विधुन्तुद

इति ॥ विधुश्चन्द्रः तं तुदतीति विग्रहः । राहुरित्यर्थः । अरुस्शब्दे उकारादुपरि मुमि कृते
प्रकरणम्]
५१५
बालमनोरमा ।

२९५१ । असूर्यललाटयोद्वैशितपोः । (३-२-३६)

असूर्यमित्यसमर्थसमास न्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ।

२९५२ । उग्रम्पश्येरम्मदपाणिन्धमाश्च । (३-२-३७)

एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे द्वशेः खश् । उग्रं पश्यतीत्युग्रम्पश्य: । इरोदकं तेन माद्यति दीप्यतेऽविन्धनत्वादिति इर म्मदो मेघज्योति: । इह निपातनाच्छयन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणि न्धमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पद्यपनोदनाय पाणय

२९५३ । प्रियवशे वदुः खच् । (३-२-३८)

प्रियंवदः । वशंवदः । “गमेः सुपि वाच्यः' (वा २००९) असंज्ञा र्थमिदम् । मितङ्गमो हस्ती । “विहायसो विह् इति वाच्यम्' (वा २०१०) । खञ्च डिद्वा वाच्य:’ (वा २०११) । विहङ्गः-विहङ्गमः । भुजङ्गः-भुजङ्गमः ।


सकारस्य सयोगान्तलोप इत्यर्थः । अरुन्तुद इति ॥ अरुर्मर्म तत्तुदतीति विग्रहः । असूर्यललाट ॥ दृशितपेरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपश्च खशिल्यर्थः । असूर्यमितीति ॥ असूर्यम्पश्या इत्युदाहरणे असूर्यमित्यसमर्थसमासस्सौत्र इत्यर्थः । कुतोऽसामथ्र्यमित्याह । दृशिनेति ॥ सूर्यन्न पश्यन्तीत्यर्थे नो दृशिनान्वितत्वेन सूर्यशब्दनान्वयाभावादित्यर्थ । ललाटन्तपस्सूर्य इति ॥ ललाटन्तपतीति विग्रहः । सूर्यम्पश्यतेो ललाटस्य अवश्यन्तापादिति भाव । उग्रम्पश्य ॥ उग्रम्पश्य, इरम्मद, पाणिन्धम, एषान्द्वन्द्व । उग्रम्पश्य इति ॥ खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् । उदकमिति ॥ इरम्मद इति ॥ “खिल्यनव्ययस्य' इति हस्वः। मदेदैवादिकत्वात् इयनमाशङ्कय आह । निपातनाच्छयत्रेति ॥ पाणिन्धम इति ॥ शपि “पाघ्रा' इति धमादेश । प्रियवशे ॥ प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थ’ । खशि प्रकृते खज्विधरुत्तरसूत्रे प्रयोजन वक्ष्यते । गमेस्सुपि वाच्य इति ॥ खजिति शेष । ननु सज्ञायामित्यनुवृत्तौ गमश्च' इति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिद वार्तिकमित्यत आह । असंज्ञार्थमिद मिति ॥ विहायस इति । विहायश्शब्दः आकाशे वर्तते । तस्मिन्नुपपदे गमे. खच । “गमश्च' इति वक्ष्यमाणसूत्रेण पूर्ववार्तिकेन वा सिद्धः खचेल्यनूद्यतेत । प्रकृतेर्विहायश्शब्दस्य विहादशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति ॥ डित्वपक्षे तत्सामथ्र्या

दभस्यापि टेलोपः । विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति ॥
५१६
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२९५४ । द्विषत्परयोस्तापेः । (३-२-३९)

२९५५ । खचि हस्वः । (६-४-९४)

खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विष न्तपः । । घटघटीग्रहणालिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । परन्तप द्विषतीं तापयतीति द्विषतीतापः ।

२९५६ । वाचि यमो व्रते । (३-२-४०)

वाकन्छच्ठद उपपद यमः खच्छस्याद्रत गम्य ।

२९५७ । वाचंयमपुरन्द्रौ च । (६-३-६९)

वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । 'ब्रते' किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ।

२९५८ । पूःसर्वयोर्दारिसहोः । (३-२-४१)



भुजेगेच्छतीति विग्रहः । द्विषत्परयो ॥ ‘तप दाहे 'चुरादिः “तप सन्तापे' म्वादिः । द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः । खच् स्यादिति ॥ द्विषत्, पर, अनयोः कर्मणोरुपपदयोः तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह । खचि हृस्व ॥ 'दोषेो णौ' इत्यतो णाविति ‘ऊदुपधायाः’ इत्यत. उपधाया इति चानुवर्तते । तदाह । खच्परे णाविति ॥ खशि प्रकृते खवो विधिरिह हस्वार्थ णिलोपार्थश्च । खाश तु तदुभयन्न स्यात् । खशशित्वेन सार्वधातुकतया णिलोपासम्भवात् । न च इहैव सूत्रे खज्विधीयता पूर्वसूत्रे खशवानुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवञ्च 'गमेस्सुपि' इति वार्तिकम् एतलब्धार्थकथनपरमेवेत्याहुः । द्विषन्तप इति ॥ “अरुषित्' इति तकारात्प्राक् मुम् । परन्तप इति ॥ परः शत्रु । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि द्विषतीतप इति स्यात् । द्विषतीताप इत्यण्णन्तन्न स्यात् इत्यत आह । घटघटीति ॥ “शक्तिलाङ्गलाडुशयष्टितोमरघटघटीधनुष्षु गृहेरुपसङ्खयानम्' इत्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धं पुनर्घटी ग्रहणात् लिङ्गविशिष्टपरिभाषा अनित्यति विज्ञायते इत्यर्थः । उपपदविधी लिङ्गविशिष्ट परिभाषा नेति डयाप्सूत्रे भाष्याचेत्यपि द्रष्टव्यम् । वाचि यमो व्रते ॥ इत्याद व्यक्तम् । वाचंयमपुरन्दरौ च ॥ वाक्पुरोरिति ॥ वाच यच्छतीति पुर दारयतीति च विग्रहे यमर्दारेश्च खच् । सुपो लुकि वाच् यम्, पुर् दार, इति स्थिते वाक्पुरोरमन्तत्वन्निपात्यते इत्यथ । “अरुद्विषदजन्तस्य' इति मुमस्तु न प्रसक्तिः । पूस्सर्वयोर्दारेिसहोः ॥ दारि

सहोरिति पञ्चम्यर्थे षष्ठी । पुरिशब्द सर्वशब्दे च कर्मवाचिन्युपपदे दारेस्सहेश्च खजित्यर्थ. ।
प्रकरणम्]
५१७
बालमनोरमा ।

पुरं दारयतीति पुरन्दरः । सर्वसहः । सहिग्रहणमसंज्ञार्थम् । * भगे च दारेः’ (वा २०१३) इति काशिका । बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ।

२९५९ । सर्वकूलाभ्रकरीषेषु कषः । (३-२-४२)

सर्वेङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीषङ्कषा वात्या ।

२९६० । मेघर्तिभयेषु कृञ्जः । (३-२-४३)

मेघङ्करः । ऋतिङ्करः । भयङ्करः । भयशब्देन तदन्तविधिः अभयङ्कर ।

२९६१ । क्षेमप्रियमद्रेऽण् च । (३-२-४४)

एषु कृञ्जोऽण्स्यात् । चात्खच् । क्षेमङ्करः-क्षेमकारः । प्रियङ्करः-प्रिय कारः । मद्रङ्करः-मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि * अल्पारम्भः क्षेमकरः' इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ।

२९६२ । आशिते भुवः करणभावयोः । (३-२-४५)

आशितशब्द उपपदे भवतेः खच आशितो भवत्यनेनाशितम्भव ओदनः । आशितस्य भवनमाशितम्भवः ।

२९६३ । संज्ञायां भृतवृजिधारिसहितपिद्मः । (३-२-४६)


यथासङ्खयमन्वयः । दारीति ण्यन्तस्य प्रहणम् । पुरन्दर इति ॥ पुर दारयतीति विग्रहे दारेः खवि णिलोपे 'खचि हृस्व.' इत्युपधाहस्व सुपो लुकि “वाचयमपुरन्दरौ च' इति निपातनादमन्तत्वम् । ननु ‘सज्ञायां भूतृवृजिधारिसहितपिदमः' इलेयव सिद्धं सहधातोरिह प्रहण व्यर्थमित्यत आह । असंज्ञार्थमिति ॥ भगे चेति ॥ इत्यादि स्पष्टम् । ऋतिङ्कर इति ॥ ऋतिर्गमनम् । अभयङ्करशब्द साधयितुमाह । भयशब्देन तदन्ताविधिरिति ॥ इदश्च “येन विधि' इत्यत्र भाष्ये स्पष्टम् । क्षेमप्रिय ॥ ननु “क्षेमप्रियमद्रे वा' इति खचो विकल्पविधौ खजभाव 'कर्मण्यण्’ इत्यस्य सिद्धत्वादण्प्रहण व्यर्थमित्यत आह । वेति वाच्ये इति ॥ हेत्वादाविति ॥ 'कृओो हेतुताच्छील्यानुलोम्येषु' इति विहित इत्यर्थः । कथ न्तहति ॥ ‘कृङओो हेतु’ इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम् । खचेि तु मुम् स्यादि त्याक्षेपः । समाधत्त । कर्मणश्शेषत्वेति । तथाच कर्मोपपदाभावात् अणभावे चाजिति भावः । क्षेमङ्करीति तु गौरादित्वात् डीषेित्याहु । आशिते ॥ करणे उदाहरति । आा शितो भवत्यनेननेति ॥ भावे उदाहरति । आशितस्य भवनमिति ॥ संज्ञायाम् ॥

खजिति शेषः । भू, तृ, वृ, जि, धारि, सहि, तपि, दमि, एषामष्टाना समाहाग्द्वन्द्वात्पञ्चमी ।
५१८
[कृदन्त
सिध्दान्तकौमुदीसहिता

विश्धं बिभतति विश्वम्भरः । विश्वम्भरा । रथन्तरं साम । इह रथंन तरतीति व्युत्पत्तिमात्रं, न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुञ्जयो हस्ती । युगन्धरः पवेत । शत्रुसहः। शत्रुन्तपः । अरिन्दमः । दमिः शमनायाम् तन सकमक इत्युक्तम् । मतान्तर तु अन्तर्भावितण्यर्थोऽत्र दमि

२९६४ । गमश्च । (३-२-४७)

२९६५ । अन्तात्यन्ताध्वदूरपारसर्वनन्तेषु डः । (३-२-४८)

संज्ञायामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्वसामथ्र्याद्भस्यापि टेलोपः । अन्त गच्छतात्यन्तग इत्याद् । * सर्वेत्रपन्नयोरुपसङ्ख-यानम् (वा २०१४) । सर्वत्रग. । पत्रं पतितं गच्छतीति पन्नग । पन्नमिति पद्यते क्तान्तं क्रियाविशेषणम् । ‘उरसो लोपश्च' (वा ५०१५) । उरसा गच्छती त्युरगः । “सुदुरोरधिकरणे' (वा २०१६) । सुखेन गच्छत्यत्र सुगः । दुर्गः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्’ (वा २०१८) । ग्रामग । “डे च विहायसो विहादेशो वक्तव्यः' (वा २०१२)-विहगः ।


विश्वम्भर इति ॥ विष्णोरिय संज्ञा । विश्वम्भरेति ॥ पृथिव्या सज्ञा इयम् । रथन्तरः मिति ॥ तृधातोः खच् । रथेन तरितृत्वस्य सामविशेषे असम्भवादाह । इहेति ॥ वृधातो रुदाहरति । पर्तिवरेति ॥ शत्रुञ्जय इति ॥ जिधातो. खञ् । धारीति ण्यन्तग्रहण, तस्येो दाहरति । युगन्धर इति ॥ युग धारयतीति विग्रहः । 'खाच हस्व.' इत्युपधाहस्व, णिलोपः । शत्रुसह इति ॥ शत्रून् सहते इति विग्रह । हृस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति ॥ शत्रून तपतीति विग्रहः । अरिन्दम इति ॥ अरिषु निग्रहविषये शाम्यतीत्यर्थः । दमिः शमनायामिति ॥ 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमे ण्र्यन्तात् घञ् । तथाच दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात् सकर्मकत्वामिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे त्विति ॥ ‘दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वामति हरदत्तादिभिरुक्तमित्यर्थ । गमश्च ॥ सञ्जाया खजिति शेष । अन्तात्यन्त ॥ इत्याद व्यक्तम् । सर्वत्रपन्नयोरिति ॥ सर्वत्रशब्दे पन्नशब्दे चोपपदे गमेर्डस्योपसङ्कयानामित्यर्थ उरस इति । उरसि उपपदे गमेर्ड. उरश्शब्दान्यस्य लोपश्चेति वक्तव्यमित्यर्थः । सुदुरो रिति ॥ सु दुर् अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्य इत्यर्थ । अन्यत्रापि दृश्यत इति । अन्यष्वप्युपपदषु अन्यभ्याऽपि धातुभ्य. डा दृश्यत इत्यथ . । अनेनैव सिद्धे ‘सर्वत्रपन्नयो.' इत्यादि प्रपञ्चार्थमेव । एवञ्च सप्तम्याञ्जनेर्ड.’ इत्यत्रापि ‘अन्येष्वपि दृश्यते’ इति

प्रपञ्चार्थमेव । डे चेति ॥ विहायसो विह चेत्युक्तस्य खज्विषयत्वादिद वचनम् । विहग
प्रकरणम्]
५१९
बालमनोरमा ।


२९६६ ।। आशिषि हनः । (३-२-४९)

शत्रु वध्याच्छत्रुहः । “ आशिषि' किम् । शत्रुघात । *दारावाहनो ऽणन्तस्य च टः संज्ञायाम्' (वा २०१९) । दारुशब्द उपपदे आङ्पूर्वाद्धन्ते रण टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः । ‘चारौ वा' (वा २०२०) । चार्वाघाटः-चार्वाघातः । “कर्मणि समि च' (वा २०२१) । कर्मण्युपपदे वणान्संहन्तीति वर्णसङ्काट पदसङ्कट

२९६७ । अपे शतमसेोः । (३-२-५०)

अपपूर्वाद्धन्तेर्डः स्यान् । अनाशीरर्थमिदम् । शापहः पुत्रः ।

२९६८ । कुमारशीर्षयोर्णिनिः । (३-२-५१)

कुमारघाती । शिरसः शीर्षभावो निपात्यते शीर्षघाती ।

२९६९ । लक्षणे जायापत्योष्टक् । (३-२-५२)

हन्तेष्टक्स्यालक्षणवति कर्तरि । जायान्नेो ना । पतिम्री स्री ।

२९७० । अमनुष्यकर्तृके च । (३-२-५३)


इति ॥ खचि तु मुमि विहङ्गम इति रूपम् । आशिषि हनः ॥ कमण्युपपद हन्तडः स्यात् अाशाष गमन्यायामत्यथ आशीरभावाहुभावे अण् हनस्त' इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारौ, आहनः अण् अन्तस्येति च्छेद । अण्णसन्नियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेः अण् अन्तस्य टः वा स्यादित्यर्थ । कर्मणि समि चेति ॥ वार्तिकमिदम् । उक्तं वेति ॥ अण् अन्तस्य टः इत्यर्थः । वाराविल्यस्यानुवृत्तिनिवृत्तये कर्मेणीत्युक्तिः । अपे कुशतमसो ॥ ‘आशिषि हनः’ इत्येव सिद्धे किमर्थमिदमित्यत आह । अनाशीरर्थमिति । कुमारशीर्षयोर्णिनि । अनयोरुपपदयोः हन्तर्णिनिः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । लक्षणे ॥ लक्षणवतीति ।। सूत्रे लक्षणशब्दः अशअाट्यजन्त इति भाव । जायाघ्रो नेति ॥ जायाहनसूचकलक्षणवान् पुरुष इत्यर्थः । 'गमहन इत्युपधालाप । पतिम्री स्त्रीति ॥ पतिहननसूचनलक्षणवतीत्यर्थः । टित्वात् डीप् । अमनुष्य । अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः । जायाघ्र

स्तिलकालक इति ॥ तिलाकृतिकृष्णबिन्दुरित्यर्थः । । पूर्वसूत्रस्य लक्षणवति कर्तरि
५२०
[कृदन्त
सिध्दान्तकौमुदीसहिता


जायान्नस्तिलकालकः । पतित्री पाणिरेखा । पित्तत्रं घृतम् । ‘अमनुष्य इति किम् । आखुघातः शूद्र । अथ कथं “बलभद्रः प्रलम्बन्नः, शत्रुन्नः, कृतन्न इत्यादि । मूलविभुजादित्वात्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुल कादाण

२९७१ । शक्तौ हस्तिकवाटयोः । (३-२-५४)

हन्तेष्टक्स्याच्छक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिन्नो ना कवाटन्नश्चोरः । कपाटेति पाठान्तरम् ।

२९७२ । पाणिघताडघौ शिल्पिनि। (३-२-५५)

हन्तेष्टक्टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघ । ताडघः । “शिल्पिनि' किम् । पाणिघात: । ताडघात : । “ राजघ उपसङ्ख-यानम् (वा २०२२) । राजानं हन्ति राजघः ।

२९७३ । आढ्यसुभगस्थूलपलितनझान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञ्ज करणे ख्युन् । (३-२-५६)

एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञ्जः ख्युन्स्यात् । अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम्। अच्वौ किम्। आढ्यीकुर्वन्त्यनेन । इह प्रतिषेधसाम थ्र्याल्ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ।


प्रवृत्तिरित्यारम्भ. । अथ कथमिति । प्रलम्बन्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसम्भवादि त्याक्षेपः। समाधत्ते । मूलविभुजादित्वात्सिद्धमिति । कप्रत्ययेनेति भावः । ननु चोरघातो हस्तीत्यादि कथम् । अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह । चोरघात इत्यादी ति ॥ बाहुळकादणीति । “कृत्यल्युटो बहुळम्' इति बहुळग्रहणादणि समाधेयमिति भावः । शक्तौ हस्तिकवाटयोः ॥ हस्तिन्न इति । हस्तिन हन्तु शक्त इत्यर्थः । एवं कवाटघ्रः । पाणिघताडधौ । पाणिना हन्तीति पाणिघ । ताड: ताडन तेन हन्तीति ताडघः । मछादिः । राजघ उपसङ्खयानमिति ॥ राजघशब्दे उक्तनिपातनस्य उप सङ्कयानमित्यर्थः । आढ्यसुभग ॥ आढ्य, सुभग, स्थूल, पलित, नम, अन्ध, प्रिय एषां सप्ताना द्वन्द्वात्सप्तमी । ख्युन् स्यादिति करणे वाच्ये इति शेष करणयोश्च' इति ल्युडपवादोऽयम् । कर्तरीति तु अत्र न सम्बछद्यते । आढ्यङ्करणमिति । राजाद्यनुवर्तनमिति शेष कृञ्जः ख्युन् अनादेशः, “अरुद्विषदजन्तस्य’ इति मुम् सुभगङ्करणामित्याद्यप्युदाहार्यम् । आढ्यीकुर्वन्त्यनेनेति । अत्रांच्वप्रत्ययसत्वात् न ख्युन्निति

भावः । ननु ल्युडपवादभूतख्युनभावपक्षे उत्सर्गभूतो ल्युट् कुतो नेत्यत आह । इहेति ।
प्रकरणम्]
५२१
बालमनोरमा ।


२९७४ । कर्तरि भुवः खिष्णुच्खुकऔौ । ३-२-५७)

आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्त । अनाढ्यः आढयो भवतीति आढयम्भविष्णुः । आढयम्भावुकः । ‘स्पृशोऽनुदके किन्’ (सू ४३२) । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । “ऋत्विग्द धृक्स्रग्दिगुष्णिगचुयुजित्रुकुचवां च' (सू ३७३) व्याख्यातम् । “त्यदादिषु दृशोऽनालोचने कश्च' (सू ४२९) । “समानान्ययोश्चेति वाच्यम्' (वा २०२९) । सद्यटक्-सटश । अन्यादृक्-अन्यादृशः । “क्सोऽपि वाच्य (वा २०३०) । तादृक्षः । सदृक्षः । अन्याद्यक्षः ।

२९७५ । सत्सूद्विषदुहृदुहयुजविदभिद्च्छिद्जिनीराजामुपसर्गेऽपि किप् । (३-२-६१)


यदि ल्युडपवादख्युनभावे उत्सर्गभूतो ल्युट् स्यात्, तदा ख्युन्विधिरनर्थकः स्यात् । च्व्यन्ते उपपदे ख्युन्ल्युटोः रूप विशेषाभावात् । नच ख्युनि मुम्, ल्युटि तदभावः इत्यस्ति विशेष इति बाच्यम् । च्विप्रत्ययान्तस्याव्ययत्वेन ख्युनि सत्यपि मुमभावात् । “अरुद्विषदजन्तस्य इत्यत्रानव्ययस्येत्यनुवृत्तेः । एवञ्च “अच्वौ' इति च्व्यन्ते उपपदे ख्युनः प्रतिषेधसामथ्र्यात् ख्युनभावे ल्युडपि नेति विज्ञायत इति काशिकामतमित्यर्थः । एवञ्च 'अच्वौ' इति च्व्यन्ते उपपदे ख्युन्प्रतिषेधः ख्युनभावपक्षे ल्युडभावार्थ इति स्थितम् । भाष्यमते त्विति ॥ भाष्ये “ख्युनि च्विप्रतिषेधानर्थक्यम् । ल्युट्ख्युनोरविशेषात् । मुमर्थमिति चेन्न, अव्ययत्वात्' इत्यादिसन्दर्भेण अच्विग्रहण ख्युन्विधा प्रत्याख्याच 'अच्वौ' इत्युत्तरार्थमित्युक्तम् । तन्मते तु व्यन्त उपपद ख्युना मुक्त ल्युट् स्यादवत्यथ । कर्तरि भुवः ॥ खिष्णुचि खचावितौ । खुकलि खञ्जावितौ । आढ्यम्भविष्णुरिति । अनाढ्यः आढ्यो भवतीति विग्रहः । आाढ्य म्भावुक इति । जित्वादृद्धिः । करणग्रहणानुवृत्तिनिवृत्तये कर्तृग्रहणम् । खिष्णुवि इकारस्तु व्यर्थ एव । इटा सिद्धे । अच्वौ किम् । आढ्यीभविता । स्पृशोऽनुदके किन्निति ॥ व्याख्यात हलन्ताधत्रकार । निवृत्तमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययो श्रेति । अनयोपपदयोः दृशः किन्कब्जावित्यर्थः । सदृक्-सदृश इति । समानो दृश्यते इति न विग्रह. । कतैर्येव किन्विधानात् । किन्तु कर्मकर्तरि किन्कजैौ । समान पश्यतीति विग्रहः । समान्त्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । “दृग्दृशवतुषु' इति समानस्य सभावविकल्प । तत्र 'विभाषेोदरे' इत्यतः विभाषानुवृत्तेः समानदृक् सदृक् समानदृश सदृशः इति भाष्याच । अन्यादृगिति । ‘आ सर्वनाम्रः’ इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः । सत्सूद्विष ॥ सद्, सू, द्विष, दुह, दुह, युज, विद, भिद, छिद, जि, नी, राज्, एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । अनुपसर्गे

इत्यस्य निवृत्यैव सिद्धे उपसर्गेऽपीति वचनम् अन्यत्र सुब्ग्रहणे उपसर्गग्रहण नेति ज्ञापनार्थम् ।
५२२
[लकारार्थ
सिध्दान्तकौमुदीसहिता

एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रधुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि । “अंग्रामाभ्यां नयतेणे वाच्यः' (वा ५०६४) । अग्रणी । ग्रामणीः ।

२९७६ । भजो ण्विः । (३-२-६२)

सुप्युपसर्गे चोपपदे भजेण्विः स्यात् । अंशभाक् । प्रभाक् ।

२९७७ । अदोऽनन्ने । (३-२-६८)

विट् स्यात् । आममति आमात् । सस्यात् । “ अनन्ने' किम् । अन्नादः ।

२९७८ । क्रव्ये च । (३-२-६९)

अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् । आममांस भक्षकः । कथं तर्हि 'क्रव्यादोऽस्रप आशरः' इति । पकमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः, पृषोद्रादित्वात् ।

२९७९ । दुहः कब्घश्च । (३-२-७०)


तेन ‘वदस्सुपि क्यप् च' इति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् । द्युसदिति ॥ दिवि सीदतीति विग्रहः । “सात्पदाद्यो' इति न षत्वम् । “पूर्वपदात्' इति षत्व तु न भवति, तस्य च्छान्दसत्वात् । “ आदितेया दिविषदः’ इत्यत्र सुषामादित्वात् षत्वमित्याहुः । उपनिषदिति ॥ ‘सदिरप्रतेः' इति षत्वम्। इत्यादीति । काष्टाभित्, रज्जुच्छित्, शत्रुजित्, अत्र ‘हस्वस्य पिति’ इति तुक्। सेनानी, विराट्। अग्रग्रामाभ्यामिति । असमानपदत्वादप्राप्त णत्वे वचनम् । भजो णिवः ॥ सुप्युपपदे भजेण्विरित्यर्थः । अंशभागिति ॥ णित्वादुपधावृद्धिः । अदो ऽनन्ने ॥ विट् स्यादिति ॥ शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् । 'जनसनखनक्रमगमो विट्’ इति छान्दससूत्राद्विडिल्यनुवर्तते । सस्यादिति ॥ सस्यमत्तीति विग्रहः । अन्नाद् इति ॥ कर्मण्यण् । क्रव्ये चव ॥ अदेर्विडिति ॥ शेषपूरण मिदम् । अण्बाधनार्थमिति ॥ क्रव्ये अदेर्विडेव न त्वणित्यर्थलाभादिति भावः । कथ न्तहति ॥ कव्ये उपपदे अदेर्विडेवेति नियमादणेोऽसम्भवादित्याक्षेपः । समाधत्ते । पधक मांसशब्द इति ॥ तर्हि पकमांसाद इति स्यादित्यत आह । उपपदस्य क्रव्यादेश इति । कुत इत्यत आह । पृषोद्रादित्वादिति । दुहः कब्घश्च ॥ सुप्युपपदे दुहे कप्स्यात् प्रकृतेर्धश्चान्तादेश इत्यर्थः । कामदुघेति ॥ धनुरिति शेषः । काममपेक्षितन्दुग्धे १. *पूर्वपदात्संज्ञायामग:' (सू ८५८) इति सूत्रेणेति भावः । अपूर्ववचनत्वे तु 'ग्राम

नयनस्य' इति प्रन्थविरोधः ।
प्रकरणम्]
५२३
बालमनोरमा ।


२९८० । अन्येभ्योऽपि दृश्यन्ते । (३-२-७५)

छन्दसीति निवृत्तम् । मनिम् कनिप् वनिप् विच् एते प्रत्ययाः धातोः स्युः ।

२९८१ । नेड़शि कृति । (७-२-८)

वशादेः कृत इण्न स्यान् । शू, मुशर्मा । प्रातरित्वा ।

२९८२ । विड़नोरनुनासिकस्याऽऽत । (६-४-४१)

अनुनासिकस्य आत्स्यान् । विजायत इति विजावा । ओणू, अवावा । विच्, रोट् । रेट् । सुगण्

२९८३ । केिप्च । (३-२-७६)

अयमपि दृश्यते । “सत्सूद्विष–’ (सू २९७५) इति त्वस्यैव प्रपञ्चः। उखास्रत् । पर्णध्वन् । वाहभ्रट्

२९८४ । अन्तः । (८-४-२०)

पदान्तस्यानतनस्य णत्व स्यादुपसर्गस्थान्निमित्तात्परश्रेत् । हे प्राण ।


इति विग्रहः । अन्येभ्योऽपि दृश्यन्ते ॥ 'विजुपे छन्दसि ' ' आतो मनिन्कनिव्वनिपश्च इत्यधिकारे इद सूत्रम् । निवृत्तमिति ॥ व्याख्यानादिति भावः । मनिनि अन्यो नकार इत् इकार उच्चारणार्थ । कनिपि वनिपि व पकार इन्, इकार उच्चारणार्थः । विचि चकार इत्, इकार इन् । नेङ्कशि कृति ॥ षष्ठयर्थे समम्यौ । वशा कृद्विशेष्यत । तदादिविधिः । तदाह । वशादेरिति ॥ सुशर्मेति ॥ शृधातोर्मनिन् । प्रातरित्वेति ॥ इण्धातोः कनिप् । विडूनोरनुनासिकस्याऽऽत् ॥ विडुनेोरिति सप्तमी । अनुनासिकस्य आदिति छदः । विजावेति ॥ जनर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति ॥ ओणेर्वनिप् । णकारस्य आकारः अवादेश. । विजिति ॥ उदाह्रियते इति शेषः । रोट् , रेडिति ॥ 'रुष रिष हिंसायाम्' विच । ‘वेरपृक्तस्य’ इति वलोप । सुगणिति ॥ गणेर्विच् । धिकप् च ॥ अयमपीति ॥ सर्वधातुभ्यस्सोपपदेभ्यः निरुपपदभ्यश्च छन्दसि लोके च किप् दृश्यते इत्यर्थः । नन्वनेनैव सिद्धे ‘सत्सूद्विष' इति सूत्र व्यर्थमित्यत आह । सत्सूद्विषेति ॥ 'सत्सूद्विष' इति सूत्रन्तु ‘किप् च' इत्यस्यैव प्रपञ्च इत्यर्थः । उखास्रदिति ॥ उखायास्त्रंसत इति विग्रहः । स्रसे: किप्, ‘अनिदिताम्’ इति नलोपः, 'वसुस्रसु' इति दत्वम् । एव पर्णध्वत् । पर्णात् ध्वंसत इति विग्रहः । वाहभ्रडिति ॥ वाहात् भ्रश्यति इति विग्रहः । त्रश्चादिना षः । अन्तः ॥ “ अनिते: इति सूत्रमनुवर्तते, ‘रपाभ्या नो णः’ इति च । अन्तः इति षष्ठ्यर्थे प्रथमा। पदस्यान्तो विवक्षितः । उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते । तदाह । पदान्तस्येत्यादिना ॥ हे

प्राणिति ॥ प्रपूर्वादनेः क्रिबन्तात् सम्बोधनैकवचनस्य हल्डयादिलोपः, नस्य णः । नलोपस्तु न,
५२४
[कृदन्त
सिध्दान्तकौमुदीसहिता


शास इन्– (सू २४८६) इतीत्त्वम् । मित्राणि शास्ति मित्रशीः । “आशा सः कौ उपधाया इच्वं वाच्यम्' (वा ४०७०) । आशीः । इत्त्वोत्वे । गीः । पूः ।

२९८५ । इस्मन्त्रन्विकषु च । (६-४-९७)

एषु छादेह्रस्वः स्यान् । तनुच्छन् । “ अनुनासिकस्य कि -' (सू २६६६) इति दीर्ध । 'मा नो धातोः' (सू ३४१) । प्रतान् । प्रशान् । 'च्छेः -' (सू २५६१) इत्यूट् । अक्ष्यू । ‘ज्वरत्वर-' (सू २६५४) इत्यूट् । जूः । जूरौ । जूरः । तृः । नृ ऊट्, वृद्धिः, जनानवतीति जनौ जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्व । *रालाप (सू २६५५) । मुछी, मूः । मुरौ । मुरः । धुर्वी, धूः ।


न डिसम्बुध्योः' इति निषेधान् । मित्रशीरिति ॥ मित्राणि शास्तीति विग्रहः । शासेः किम् शास इदइहलोः'इन्युपधाया इत्वम्,'वरुपधाया.'इति दीर्घः। मित्रशिषाविल्यादौ अपदान्तत्वान्न दीर्घः । आशासः काविति ॥ “आइ शासु इच्छायाम्' इत्यात्मनेपदी । तस्य “शास इदइहलोः' इति इत्त्वन्तु न भवति । तत्र परस्मैपदिन एव शासग्रहणात् । अन्यथा आशास्ते इत्यादावपि इत्वापत्तेः । अत: आशासः क्राविति विधिः । इत्वोत्त्वे इति ॥ गृधातोः िकपि , ऋत इत्वे, रपरत्व, सोलॉपे, “वॉरुपधायाः’ इति दीर्धे, गीरिति रूपम् । पृधातोः किपि उदोष्ठयपूर्वस्य' इति ऋतः उत्चे, रपरत्वे, सुलेोपे, उपधादीधे पूः इति रूपमित्यर्थः इस्मन्त्रन् ॥ इम्, मन्, त्रन्, कि, एषाश्चतुर्णान्द्वन्द्वः । ‘छादर्धेऽद्वयुपसर्गस्य’ इत्यतः छादेरिति खचि हस्वः' इत्यतः हस्व इति चानुवर्तते । तदाह । एषु छादेरिति ॥ अर्थादाकारस्येति गम्यते । अलोऽन्त्यपरिभाषामाश्रित्य इकारस्य हस्वविधौ प्रयोजनाभावात् । एवञ्च ‘ऊदुपधाया इत्यतः उपधाया इति नानुवर्तनीयम् । ण्यन्तस्य छादेर्दकारोपधत्वात् । इस् छदिः, मन् छद्र, त्रन् छत्त्रम् । कौ उदाहरति । तनुच्छदिति ॥ तनु छादयतीति विग्रहः । अथ तनेश्शमेश्च विपि विशेषमाह । अनुनासिकस्येति ॥ अक्षवृरित्यत्र आह । च्छोरिति ॥ अझैदव्यतीति विग्रहे दिवधातो ििप वकारस्य ऊठि इकारस्य यणिति भावः । ज्वरेति ॥ ज्वरधातोः किपि अकारवकारयोरेकस्मिन् ऊठि जूरिति रूपम् । एवं त्वरेः तूरिति रूपम् । स्रिवेः किपि इकारवकारयेोरूठि सूरिति रूपम् । अवधातोः किपि अकारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति ॥ जनानवतीति विग्रहे, अवेः किपि, अकारवकारयोरूठि, जन ऊ इति स्थिते, आदुणं बाधित्वा 'एत्येधत्यूठसु ’ वृद्धिरौकारादेश इत्यर्थः । मूरिति ॥ इत मवे' किपि, अकारवकारयोरूठ्। सुम्वौ, सुम्वः इति ॥ अनेकान्त्वात् गतिपूर्वत्वाञ्च यणिति भावः । रादिति ॥ मुछौधातोः किपि ‘रालोपः’ इति छकारस्य लोपे सुलोप “वः’ इति दीर्घ

मूरिति रूपम् । मुरौ, मुरः इति ॥ अपदान्तत्वान्नोपधादीर्घः । धुर्वीति ॥ धुर्वीधातो
प्रकरणम्]
५२५
बालमनोरमा ।

२९८६ । गमः की । (६-४-४०)

अनुनासिकलोपः स्यान् । अङ्गगत् । “गमादीनामिति वक्तव्यम्' (वा ४०७६) । पुरीतन् । संयन् । सुनत् । * ऊ च गमादीनामिति वक्तव्यं

२९८७ । स्थः क च । (३-२-७७)

चात्वकम् । शस्थः । ३शस्थाः । * शामधाताः- (सू २९२८) इत्यच्च बाधितुं सूत्रम् ।

२९८८ ॥ सुप्यजातौ णिनिस्ताच्छील्ये । (३-२-७८)

अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी ! 'अजातौ' किम् | ब्राह्मणानामन्त्रयिता । “ ताच्छील्ये' किम्


किपि ‘रालोपः’ इति वकारस्य लोपे सुलोपे ‘र्वो.' इति दीर्घ धूरिति रूपमिति भावः । गमः कौ ॥ अनुनासिकलोपः स्यादिति ॥ शेषपूरणमिदम् । 'अनुदात्तोपदेश' इत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाभावात् अनुदात्तोपदेशेल्यप्राप्तौ वचनम् । अङ्गगदिति ॥ अङ्गाख्य देशं गच्छतीति विग्रहः । किपि मकारलोपे तुक् । एव वङ्गगत्कळिङ्गगदित्यादि । गमादीना मिति ॥ कावनुनासिकलोप इति शेष । पुरीतदिति ॥ पुरिः हृदयाख्यः मांसखण्डविशेषः । तन्तनोति आच्छादयतीति विग्रहः । हृदयकमलाच्छादको मेदोविशेष. । “पुरीतदा हि हृदय माच्छाद्यते” इति श्रुतिरिति कर्किभाष्यम् । तनेः किपि नकारलेोपे तुक् । “नहिवृतिवृषि इति पूर्वपदस्य दीर्घ. । संयदिति । यमेः किंप् । मलोपे तुक् । सुनदिति ॥ नमेः किपि मलोपे तुक् । ऊ चेति । गमादीनामुपधायाः ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति । चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अप्रे गच्छतीति विग्रहः । गमेरकारस्य ऊभावः मलोपश्च “तत्पुरुषे कृति बहुळम्' इत्यलुक् । अग्रेधूरिति ॥ भ्रमरकारस्य ऊभावः, मलोपश्च । स्थः क चव । केत्यविभक्तिकम् । स्थ इति पञ्चम्यन्तम् । चात् किबिति । उपसर्गे अनुपसर्गे च सुबन्त उपपदे स्थाधातोः कप्रत्ययः स्यान् किप् चेति फलितम् । शंस्थ इति । शमित्यव्यय सुखे । तत्पूर्वात् स्थाधाताः कप्रत्यय आता लाप । शांस्था इति । किपि रूपम् । सुख स्थापयतीत्यर्थः तिष्ठतिरन्तर्भावितण्यर्थ । शस्था इति भाष्यप्रयोगात् पृषोदरादित्वाच 'घुमास्था' इति ईत्वन्न। केचित्तु कचेति चकारात् विजवानुकृष्यते इत्याहु । ननु ‘सुपि स्थः’ इति कप्रत्यये “किप् च' इति किपि च सिद्धे किमर्थमिदमित्यत आह । शामिधातोरित्यचमिति । अन्यथा धातुग्रहणसामथ्र्यात् कृो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं किपञ्च अच्प्रत्ययो बाधेतेति भाव । सुप्यजातौ णिनिस्ताच्छील्ये । “सुपि स्थ' इत्यतः सुपीत्यनुवृत्तौ पुन

सुब्ग्रहणमुपसर्गेऽपि विधानार्थम् । अन्यथा ' आतोऽनुपसर्गे' इत्यतः अनुपसर्गे इत्यनुवर्तत ।
५२६
[कृदन्त
सिध्दान्तकौमुदीसहिता


उरुणं भुङ्के कदाचिन् । इह वृत्तिकारेणोपमर्गभिन्न एत्र सुपि णिनिरिति व्याख्याय ‘उत्प्रनिभ्यामाङ्गेि मर्नकपमङ्ग-यानम’ इति पठितम् । हरदत्तमाधवादि भिश्च तदेवानुमृनम् । एतच भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः। स बभूवोपजीविनाम् ' : अनुयायिवर्ग:' । “पतन्यधो धाम विसारेि ' । न वश्वनीया: प्रभत्रोऽनुजीविभिः' इत्यादौ । 'साधुकारिण्युपसङ्ख-यानम् (वा २०३८) 'ब्रह्मणि वदः’ (वा २०३९) अनाच्छील्याथै वार्तिकद्वयम् स्माधुदाया । त्रह्ममवादा ।

२९८९ । कर्तर्युपमाने । (३-२-७९)

णिनिः स्यान् । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट इव क्रोशति उष्टक्रोशी । ध्वाङ्करावी । अताच्छील्यार्थ जात्यर्थं च सूत्रम्। “कर्तरि किम् । अपूपानिव भक्षयति माषान् । * उपमाने' किम् । उष्ट्रः क्रोशति ।

२९९० । ब्रते । (३-२-८०)

णिनिः स्यात् । स्थण्डिलेशायी ।


तद्वनयन्नुदाहरति । उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणन्नु “सत्सूद्विप इति सूत्रात् उपसर्गेऽपीत्यनु वृत्तिनिवृत्तये इति भावः । उत्प्रतिभ्यामिति ॥ उन्प्रतिभ्याम्परे आडि प्रयुज्यमाने सति तत्पूर्वीत्सर्तेणेिनरुपमङ्कयानमिति तदर्थः । उदासारिणी प्रल्यासारिणत्युदाहरणम् । भाष्य विरोधादिति ॥ सुब्ग्रहणमुपसर्गग्रहणानुवृत्तिनिवृत्त्यर्थम् । उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरिलयेव भाग्ये उदाहृतन्वादिति भाव । तथाच “उत्प्रतिभ्यामाडि सतें.' इति वचनन्नादतव्यम् । भाप्य तत्पाठतु प्राक्षिप्त एवातेि भाव . । अत एव “ अनुगादिन’ इति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् । उपमर्गभिन्न एव मुपि णिनिरिति मत शिष्टप्रयोग विरुद्धचेत्याह । प्रसिद्धश्चोपसर्गेऽपि ििणनिरिति ॥ इत्यादावित्यत्रान्वय । साधु कारिणीति ॥ कृन्ग्रहण सर्वधातूपलक्षणम् । साधुकारीलयादिशब्दविषये तत्सिद्धद्यर्थ णिनेनरुपसङ्खयानमित्यर्थ. । माधुशब्दे उपपदे धातोर्णिनिरिति यावत् । भाष्ये साधुकारी साधुदायीत्युदाहरणात् । । ब्रह्मणि वद इति ॥ णिनेरुपसङ्खयानामिति शेषः । ननु “सुप्यजातौ' इत्येव सिद्धे किमर्थमिद वार्तिकमित्यत आह । अताच्छील्यार्थमिति ॥ साधुदायीति ॥ आतेो युक् । ब्रह्मवादीति । ब्रह्म वेद. । वकतयुपमान ॥ कर्तुरुपमानमिति । वेदित्यध्याहार्यम् । ननु “सुप्यजातौ' इति सिद्धे किमर्थमिदमित्यत

आह । अताच्छील्यार्थमिति ॥ ब्रवते ॥ णिनिः स्यादिति ॥ सुप्युपपद णिनिः स्यात्
प्रकरणम्]
५२७
बालमनोरमा ।


२९९१ । बहुलमाभीक्ष्ण्ये । (३-२-८१))

पौनःपुन्ये द्योत्ये । क्षीरपायिणः उशीनराः । सुप्युपपदे िणनिः

२९९२ । मनः । (३-२-८२))

सुपि मन्यतेणिनिः स्यान् । दर्शनीयमानी ।

२९९३ । आत्ममाने खश्च । (३-२-८३))

स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यान् । चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितम्मन्यः-पण्डितमानी । “खिल्यनव्ययस्य' (सू २७४३) । कालिंमन्या । * अनव्ययस्य' किम् । दिवामन्या ।

२९९४ । इच एकाचेोऽम्प्रत्ययवञ्च । (६-३-६८)

इजन्तादेकाचोऽम्स्यात्स च स्वाद्यम्वत्खिदन्ते परे । “ औौतोऽम्शसो: (सू २८५) गाम्मन्य । * वाम्शसो:' (सू ३०२) । त्रियम्मन्यः । स्त्रीम्मन्यः ।


व्रते गम्य इति यावत् । स्थण्डिलेशायीति ॥ 'तत्पुरुप छात बहुळम्' इत्यलुक् । बहुव्ठ माभीक्ष्ण्ये ॥ जातावप्युपपदे प्राप्त्यर्थमिदम् । तन् ध्वनयन्नुदाहरति । क्षीरपायिण इति ॥ मनः ॥ दैवादिकस्यैव मनप्रहण न तु तानादिकस्य, वहुळग्रहणानुवृत्तः । तदाह । सुपि मन्यतेरिति ॥ मनुतेहण तु बाधकमुन्नरसूत्रे वक्ष्यते । आत्ममाने खश्च । आत्मनः स्वस्य मान: मननम् आत्ममानः । तदाह । स्वकर्म के मनने इति । पण्डितम्मन्य इति ॥ खशः शित्वेन सार्वधातुकत्वात् श्यन् । खित्वात् “ अरुद्विषन्” इति मुम् । तानादिकस्य मनेहणे तु उविकरणः स्यात् । कालीमात्मानम्मन्यते इत्यर्थे खशि इयनि कृते आह । खिल्यन व्ययस्येति ॥ 'स्त्रिया पुवत्' इति पुवत्व बाधिन्वा परत्वाद्रस्व इत्यर्थ ! दिवामन्येति ॥ अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्व बोध्यम् । इच एकाचः ॥ एकाचवः आमिति छेदः । अम् च अम् चेत्येकशेषः । एक विधेयसमर्पकम् । इच एकाची ऽमिति प्रथम वाक्यम् । इच इत्येकाच इति च पञ्चमी । “अलुगुत्तरपदे’ इत्युत्तरपदाधिकारात् आक्षिप्तम्पूर्वपदम् इचा विशेष्यते । तदन्तविधिः । तदाह । इजन्तादेकाचोऽम् स्यादिति ॥ मुमोऽपवाद । िद्वतीयम् अम्पदम्प्रत्ययवादित्येकदेशेन प्रत्ययेन समानाधिकरण सम्बध्यते । असा मथ्येऽपि वतिप्रत्यय आपे स्वादिप्रत्ययेषु यत् द्वितीयेकवचन तदेवात्र आमिति विवक्ष्यते, व्याख्यानातू म्वदिति ॥ एतत्सर्व भाष्ये स्पष्टम् । खिदन्ते परे इति ॥ खिदन्ते उत्तरपदे परत इत्यर्थः । खिल्यनव्ययस्य’ इत्यतः खितीत्यनुवर्तते इति भावः । अम्प्रत्ययवदित्यतिदेशस्य प्रयोजनमाह । औौतशासरिति । गाम्मन्य इति । गामात्मान मन्यते इत्यर्थे मने खशि इयन्, सुपो लुक्,

गोशब्दादम्, अम्प्रत्ययवदित्यतिदेशातू मकारस्य 'न विभक्तौ' इति नेत्वम् । ‘औौतोम्शसो
५२८
[कृदन्त।
सिध्दान्तकौमुदीसहिता


नृ, नरम्मन्यः ! भुवम्मन्यः ! • श्रियमात्मानं मन्यते श्रिमन्यं कुलम्' । भाष्य कारवचनाच्छीशब्दस्य ह्रस्वो मुमोरभावश्च ।

२९९५ । भूते । (३-२-८४)

अधिकारोऽयम् । “ वर्तमाने लट्' (सू २१५१) इति यावत् ।


इत्योकारस्य आकार इति भावः । अम्प्रत्ययवादित्यस्य प्रयेजनान्तरमाह । वांशस्सोरिति ॥ त्रियम्मन्य इति । त्रयमात्मानम्मन्यने इत्यर्थे मनेः ग्वशि इयन् । सुपेो लुक् । स्त्रीशब्दात् वाम्शसो ' इति इयड्वकल्प । अत्र यकारादकारश्रवणार्थम् अम्विधिः । मुमि तु अकारो न श्रुयेत । स्त्रीम्मन्य इति । इयटभावपक्षे “ अमि पूर्वः' । अम्प्रत्ययवदित्यस्य प्रयोजनान्तर माह । नृ नरम्मन्य इति । नृ इत्यविभाक्तिकम् उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरमात्मानम्मन्यते इत्यर्थे मनेः खश, श्यन्, सुपेो लुक, नृशब्दादम् अम्प्रत्ययवादित्यतिदेशातू ऋतोऽडि’ इति गुणः । अत्रापि रेफादकारश्रवणार्थ अम्विाधिः । मुमि त्वकारो न श्रूयत। अम्प्रत्यय वदित्यस्य प्रयोजनान्तरमाह । भुवमन्य इति । भुवमात्मानम्मन्यते इत्यर्थे मनेः खश्, ३यन्, सुपा लुक् । भूशब्दादम् , अम्प्रत्ययवदित्यतिदशात् ‘अचि इनुधातु’ इत्युवड् । अतिदेशा भावे तु उव न स्यात्, तस्याजादिप्रत्यये विधानात् । श्रिमन्यमिति ॥ मनेः खश् इयन् । अत्र मननाक्रयाम्प्रति कुलत्वन रूपेण कुलङ्कर्तृ, तस्यैव कुलस्य अध्यारोपितश्रीत्वेन रूपेण कर्म त्वचेति स्थितिः । एवञ्च श्रीशब्दस्य नित्यत्रीलिङ्गस्यापि कुल लक्षणया वृत्तेर्नपुसकत्वम् । “यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पूर्वलित्यागः । यथा प्रकृते श्रीशब्द. । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गल्याग । यथा गङ्गायाङ्गोष इत्यादं ?” इति 'पुयोगादाख्यायाम्' इति सूत्रे प्रकृतसूत्रे च भाष्यकैयटयोर्मर्यादा स्थिता । एवञ्च काळिम्मन्यं कुलमित्यत्र काळीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् । श्रिमन्य कुल मित्यत्र तु प्रयोगानुसारान् श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागात् नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्यात्र नपुसकत्वात् “खिल्यनव्ययस्य’ इति बहिरङ्ग बाधित्वा “हस्वो नपुमके प्रातिपदिकस्य' इति हस्व एव न्याय्यः । मुमपवादे “इच एकाचः इति अमि कृत तस्य “स्वमोर्नपुमकात्' इति लुक् । तथाच श्रिमन्यङ्गुलामिति सिद्धम् । नच गाम्मन्य इत्यादावपि “सुपेो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम् । 'इच एकाचः इत्यम. 'सुपो धातु' इति लुगपवादत्वात् । 'स्वमेर्नपुसकात्' इति लुकस्तु नायमम्विधि बांधकः । मध्येऽपवादन्यायात् इति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । तदाह । भाष्यकार वचनाच्छीशब्दस्य हस्व इति ॥ 'हस्वो नपुंसके' इत्यनेनेति शेषः । मुममोरभाव श्रेति ॥ मुमपवादस्य अमः ‘स्वमोर्नपुसकात्’ इति लुकि सति तयोः प्रयोगाभावः फलतीत्यर्थ. । भूते ॥ अधिकारोऽयमिति ॥ धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्रानु

वर्तते इति फलति । वर्तमाने इति ॥ 'वर्तमाने लट्’ इत्यतः प्रागित्यर्थः । अत्र
प्रकरणम्]
५२९
बालमनोरमा ।

२९९६ । करणे यजः । (३-२-८५)

करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनष्टवान् सोमयाजी । नित्यथ

२९९७ । कर्मणि हनः । (३-२-८६)

पितृठयघाती । कर्मणीत्येतन् “सहे च' (सू ३००६) इति यावदधि

२९९८ । ब्रह्मधूणवृत्रेषु किप् । (३-२-८७)

एषु कर्मसूपपदेषु हन्तेर्भूते किप् स्यान् । ब्रह्महा । धूणहा । वृत्रहा । किप् च' (सू २९८३) इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव, हन्तेरेव, भूत एव, किबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव किब वेति द्विविधो नियम इति भाष्यम् ।

२९९९ । सुकर्मपापमन्त्रपुण्येषु कृञ्जः । (३-२-८९)

सुकर्मादिषु च कृञ्जः किप्स्यान् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृन् । पापकृन् । मन्त्रकृत् । पुण्यकृत् । किबेवेति नियमात्कर्म


व्याख्यानमव शरणम् । करणे यजः ॥ सोमेनेति ॥ सोमाख्यलताविशेषरसेन याग कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः। एतच िद्वती यस्य द्वितीये द्रव्यसंयोगाचोदना पशुसोमयोः–इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपश्चित मस्माभिः । अग्रिष्टोमयाजीति ॥ अग्निष्टोमाख्ययागेन अपूर्वम्भावितवानित्यर्थः । कर्मणि हनः ॥ कर्मण्युपपदे भूतार्थीत् हनेर्णिनिः स्यात् । पितृव्यघातीति ॥ पितृव्य हतवा हनस्त:’ इति तः, “हो हन्तेः’ इति हस्य घ सूत्रात्कर्मग्रहणानुवृत्तेराह । कर्मस्विति ॥ हन्तेर्भूते इति ॥ भूतार्थवृत्तेर्हन्तरित्यर्थः । चतुर्विध इति ॥ पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाचतुर्वपि निवेश इति भावः । तत्र ब्रह्मादिष्वेव हन्तेरिति नियमात्पुरुष हतवानित्यत्र न किप् । ब्रह्मादिषु हन्तेरेवेति नियमात् ब्रह्म अधीतवानित्यत्र न किप् । ब्रह्मादिषु हन्तभूनकाले एवति नियमात् ब्रह्म हन्ति हनिष्यति वेत्यत्र न किप् । ब्रह्म हतवानित्यत्र अण् न भवति, किन्तु 'ब्रह्मधूण' इति किबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्ते । द्विविध इति ॥ उभयतो नियमोऽयम् । ब्रह्मादिष्वेवेति किबेवेति च भाष्यमित्यर्थ । एवञ्च हन्तरेव भूत एवेति नियमद्वयमुपक्ष्यमिति भाव । सुकर्म ॥ सु, कर्म, पाप, मन्त्र, पुण्य, एषां पञ्चानां द्वन्द्वः । त्रिविध इति ॥ सुकर्मादिषु भूते कृङः किबेवेति, सुकर्मादिषु भूते कृञ्ज एव किबिति,

87
५३०
[कृदन्त
सिध्दान्तकौमुदीसहिता


कृतवानित्यवाणु न । कृत्र्य एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न किप् । भूत एवेति नियमान्मन्त्रं करोनि करिष्यति वेति विवक्षायां न किप् । स्वादिष्वेवति नियमाभावादन्यस्मिन्नप्युपपदे किप् । शास्रकृन् । भाष्यकृन्

३००० । सोमे सुञ्जः । (३-२-९०)

सामसुन् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ।

३००१ । अझैौ चेः । (३-२-९१)

३००२ । कमेण्यग्न्याख्यायाम् । (३-२-९२)

कमण्युपपद कमण्यव कारक चिनातः कप स्यान् अग्न्याधारस्थलावशष स्याग्व्यायाम् । श्येन इव चितः श्येनचित् ।

३००३ । कर्मणीनि विक्रियः । (३-२-९३)

कर्मण्युपपदं विपूर्वत्क्रीणातेरिनिः स्यान् । * कुत्सितग्रहणं कर्तव्यम् (वा २०४७) । सोमविक्रयी । घृतविक्रयी ।

३००४ । दृशेः कनिप् । (३-२-९४)

कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ।


सुकर्मादिषु भूत एव कृञ्ज इति, त्रिविध इत्यर्थ । अण नेति ॥ त्क्तवतुस्तु भवत्येव, सोप पदप्रत्ययस्यैव नियमेन व्य.वृत्तरिति भावः । स्वादष्ववात ॥ सुकमादषु पश्चास्वत्यथ । सोमे सुञ्जः ॥ सोमे कर्मण्युपपदे भते सुनोतेः किबित्यर्थः । चतुर्विध इति ॥ पूर्व वद्याख्येयम् । एवमिति ॥ “अप्रैौ चेः’ इत्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः । अग्रेौ चेः ॥ अझै कर्मण्युपपदे भूतार्थवृत्तश्चिनोतेः क्रिस्यादित्यर्थः । अग्निचिदिति ॥ अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः । कमेण्यग्न्याख्यायाम् ॥ कर्मणीत्यनुवृत्तमुपपद समर्पकम् । अत्रत्यन्नु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चात्र कर्तरीति न सम्बध्यते । तदाह । कर्मण्युपपदे इत्यादि । विनोतेरिति ॥ भूतार्थादित्यपि बोध्यम् । श्येन इवेति ॥ इयनशब्दः श्येनसदृशे लाक्षणिक इति भाव । इयेनाकृतिक इात यावत् । कर्म णीनि विक्रियः ॥ इनि इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति ॥ सोमद्रव्यञ्च विक्रीयमाण विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भाव । दृशेः कनिप् ॥ 'आतो मनिन्छकनिव्वनिपश्च, अन्येभ्योऽपि दृश्यन्ते' इत्येव कनिपि सिद्धे तत्सहचरित

मनिनादिव्यावृत्त्यर्थमिदम् । सोपपदाणादिबाधनार्थश्च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवात्र
प्रकरणम्]
५३१
बालमनोरमा ।

३००५ । राजनि युधिकृञ्जः । (३-२-९५)

कनिप् स्यात् । युधिरन्तभर्भावितण्यर्थः । राजानं योधितवान्राजयुध्वा। राजकृत्वा ।

३००६ । सहे च । (३-२-९६)

३००७ । सप्तम्यां जनेर्डः । (३-२-९७)

सरसिजम् । मन्दुरायां जातो मन्दुरज । “ डु-यापी :- (सू १८ ०१) इति ह्रस्वः । ३००८ । पञ्चम्यामजातौ । (३-२-९८) जा तिशब्दवर्जिते पचैवमन्यन्त उपपदे जनेर्डः स्यान् । संस्कारज । अद्वष्टजः ।

३००९ । उपसर्गे च संज्ञायाम् । (३-२-९९)

'प्रजा स्यात्सन्तता जन्म ' ।

३०१० । अनैौ कर्मणि । (३-२-१००)

अनुपूर्वाञ्जनेः कर्मण्युपपदे डः स्यान् । पुमांसमनुरुध्य जाता पुमनुजा ।

३०११ । अन्येष्वपि दृश्यते । (३-२-१०१)

अन्येष्वप्युपपदेषु जनेर्डः स्यान् । अजः । द्विजो ब्राह्मण: । (ब्राह्मणजः) अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेष्वपि काचवन् । परितः खाता परिखा ।


पुनः किव्ग्रहणेन निवृत्तेः, पार दृष्टवान् । राजनि युधिकृञ्जः ॥ युधि, कृङ अनयोस्समाहारद्वन्द्वात्पञ्चमी । कनिप् स्यादिति ॥ राजनि कर्मण्युपपदे भूतार्थाद्युधेः कृञ्जश्च कनिबिल्यर्थः । ननु युधेरकर्मकत्वात् तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आहं । युधिरन्तर्भावितेति ॥ राजकृत्वेति ॥ राजान कृतवानित्यर्थ । सहे च ॥ सहशब्दे उपपदे युधिकृञ्भ्या कनिबित्यर्थः । सप्तम्याञ्जनेर्डः ॥ सप्तम्यन्ते उपपदे जनः भूताथाडु इत्यथ । सरसिजमिति ॥ डित्वसामथ्र्यादभस्यापि टेलॉप' । “हलदन्तात्’ इति “तत्पुरुषे कृति' इति वा अलुक् । मन्दुरज इति ॥ “वाजिशाला तु मन्दुरा' इत्यमरः । पञ्चम्यामजातौ ॥ जनेरिति ॥ भूतार्थादिति शेष । संस्कारजमिति ॥ सस्काराञ्जातमि त्यर्थः । उपसर्गे च ॥ जनेर्ड इति शेषः । सज्ञायामिति समुदायोपाधि’ । अनौ कर्मणि ॥ ननु जनरकमकत्वात्तत्र कमण्युपपद इत्यथस्य कथमन्वय इत्यत आह । पुमास्समनुरुध्यात ॥ अनुरुध्य जनन धात्वर्थ इति भाव । पुमनुजेति ॥ पुस् इति पूर्वपद सयोगान्तलोप इति भावः । अन्येष्वपि दृश्यते ॥ आज इति ॥ न जात इत्यर्थः । द्विजो ब्राह्मण इति ॥ द्विजतः इत्यर्थः । “मातुर्यदग्र जायन्ते द्वितीय मैञ्जिबन्धनान्” इत्यादिस्मृतेरिति भावः ।

अपिशब्द इति ॥ 'सप्तम्याञ्जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि
५३२
[कृदन्त
सिध्दान्तकौमुदीसहिता

३०१२ । क्तत्क्तवतू निष्ठा । (१-१-२६)

कामा मया

३०१३ । निष्ठा । (३-२-१०२)

भूतार्थबृनेर्धातोर्निष्टा म्यान् । तत्र ' तयोरेव-' (सू २८३३) इति भाव कर्तरि कृन' (सू २८३२) इति कर्तरि क्तवतुः । उकावितौ रुन्नानं मया । स्तुनस्त्वया विष्णुः । विष्णुर्विश्धं कृतवान्

३०१४ । निष्ठायामण्यदर्थे । (६-४-६०)

यद्थं भावकर्मणी, ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात्

३०१५ । क्षियो दीर्घत । (८-२-४६)

दीघात्क्षिया निष्ठातस्य नः स्यान् । क्षीणवान् । भावकर्मणोस्तु क्षित श्रयुकः किति' (सू २३८१) । श्रितः-श्रितवान् । भूतः-भूत


प्रकृतिविशेषरूपाणि भूने कर्नरीति प्रत्ययार्थविशेषणञ्च तदतिक्रमार्थ इत्यर्थ नष्टा निष्टति प्रत्येकाभिप्रायमेकवचनम् । निष्ठा ॥ भूते इति धातोरिति चाधिकृतम् । तदाह । भूतार्थेत्यादि । भावकर्मणोः क्त इति ॥ तथाच क्तप्रत्ययविषये कर्तरीनि न सम्बध्यते इति भावः । कर्तरि क्तवतुरिति मेमव भावकर्मणोर्विधानादिति भाव तयारव कृत्यत इत्यत्र 'लः कमाण' इत्यस्मात् सकमकभ्य कर्मणि कर्तरि च अकर्मकेभ्यो भाव कर्तरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे त्क्त, सकर्म केभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वा उदाहरति । स्नातम्मयेति अकमकत्वात् भावे त्क्त स्नुनस्त्वया विष्णुरिति मकर्मकत्वात् कर्मणि क्त कतार त्कवतुमुदा हरति । विष्णुर्विश्वं कृतवानिति ॥ निष्ठायामण्यद थे ॥ ण्यदर्थो भावकर्मणी ऋहलाः' इत ण्यतः कृन्यसज्ञकस्य तयारवात भावकमणा क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति क्षिय इति पूर्वमूत्रमनुवर्तते । 'युप्लुवादर्घश्छन्दसि' इत्यतः दीर्घ इति चेति भाव क्षया दीघत् ॥ दीर्घौदिति क्षियेो विशेषणम् । तदाह । दीर्घत् क्षिय इति । दीघान्तादित्यर्थ निष्ठातस्य न इति । 'रदाभ्याम्' इत्यतस्तदनुवृत्तेरिति भाव. । क्ष भ्रान्तो. कर्तरि क्तवतु * निष्ठायामण्यदर्थे' इति दीर्घ , तकारस्य नत्वम्, षात्परत्वाण्णः क्षितः कामो मयेति ॥ क्षपित इत्यर्थ क्षि क्षये' इत्यस्मात् अन्तर्भावितण्यथात्कर्मणि भाव तु क्षत्त कामनत्युदाहा र्यम् । अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते ते दीघ न भवति

अण्यदर्थ इत्युक्तः। दीघान्तत्वाभावात् 'क्षियो दीर्घत्' इति नत्वं न । श्रयुकः कितीति
प्रकरणम्]
५३३
बालमनोरमा ।



वान् । श्रुत: । 'ऊणतेर्नुवद्भावो वाच्यः (वा १७५१) । तेन एकाच्त्वान्नेट् । ऊणुतः । उत्तः । वृतः ।

३०१६ । रदाभ्यां निष्ठातो नः पूर्वस्य च दः । (८-२-४२)

रपदकाराभ्या परम्य नष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातो र्दकारस्य च । शू * ऋत इन्–' (सू २३९०) । रपरः, णत्वम् । शीर्ण । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्न । छिन्नः ।

३०१७ । संयोगादेरातो धातोर्यण्वतः । (८-२-४३ )

निष्ठातस्य न. स्यान् । द्राण । स्यान्नः । गलानः ।

३०१८ । ल्वादिभ्यः । (८-२-४४)

एकविंशतेर्लञ्जादिभ्यः प्राग्वन् । लूनः । ज्या, ‘प्रहिज्या' (सू २४१२) । जीनः । 'दुग्वेोदीर्घश्च' (वा ४८३२) । 'दु गतैौ' । दूनः । 'टु टु उपताप


श्रित इत्यादौ इण्निपेधस्मारकमिदम् । क्षुत इति ॥ टु क्षु शब्द' अस्मात् क्तः । ननु ऊर्णत इति कथम् । अ अनेकाच्कन्वेन ‘श्रयुक' इति निषधस्याप्रवृत्तेरित्यत आह । ऊणतेर्नुवदिति । वार्तिकमिदम् । रदाभ्याम् । रदाभ्यामित्यकारावुचारणार्थ । तदाह। रेफदकाराभ्यामिति ॥ निष्ठायाः न् निष्टान्, तस्य निष्ठान इति विग्रहः । तदाह । निष्ठातस्येति । निष्ठातकारस्ये त्यर्थे । नस्यादिति । नकारस्यादित्यर्थः । सूत्रे न इति प्रथमान्तम् । अकार उच्चारणार्थ । दकारस्य चेति । नकार इत्यनुषज्यते । सूत्रे दः इति षष्ठयन्तमिति भावः । चरितम् उदितम् इत्यत्र तु नत्वन्न । निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्या परत्वाभावात् । रेफात्परस्योदाहरति । शू इति ॥ शृधातोः क्तप्रत्ययसूचनमिदम् । ननु कृतस्यापत्यङ्कार्तिः । अत इञ्, आदिवृद्धिः, रपरत्वम् । अत्र निष्ठातकारस्य रेफात् परस्य नत्व स्यादित्यत आह । बहिरङ्गत्वेनेति ॥ दात्परस्योदाहरति । भिन्नम्, छिन्नमिति । अत्र निष्ठातकारस्य धात्वन्तदकारस्य च नत्व मिति भावः । संयोगादेः ॥ निष्ठातस्य नस्यादिति ॥ ३शषपूरणमिदम् । द्राण इति ॥ 'द्रा कुत्सायाङ्गतौ' अस्मात् क्त, नत्वम्, णत्वम् । ग्लान इति ॥ 'ग्लै हर्षक्षये' ' आदेचः’ इत्यात्वे नत्वम् । लटवादभ्य । एकविंशतेरिति ।। क्रयादिषु प्वादयो द्वाविंशतिः, तेषु आद्यम्पूल विहाय ल्वादिभ्यः एकविशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति ॥ सम्प्रसारणसूचनम् । जीन इति ॥ ज्या त इति स्थित “सयोगादेः' इति निष्ठानत्वस्यासिद्ध त्वात् ततः प्रागेव सम्प्रसारणे पूर्वरूपे च कृते आतः परत्वाभावात् “सयोगादेरातः’ इति नत्वस्याप्राप्तावनेन नत्वम् । दुग्वोदर्दीर्घश्चेति । वार्तिकमिदम्। दु गु आभ्याम्परस्य निष्ठातस्य

नत्व प्रकृतेदीर्घश्च इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्द साधयितुमाह । टु दु
५३४
[कृदन्त
सिध्दान्तकौमुदीसहिता


इत्ययं तु न गृह्यते, सानुबन्धकत्वान् । ‘मृदुनया दुतया' इति माघः । गूनः । पूत्रो विनाशे' (वा ४८३३) । पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् । सिनोतेप्रसकर्मकर्तृकम्य' (वा ४८३४) । सिनो प्रास । “प्रास' इति किम् । सिता पाशेन सूकरी । कर्मकर्तृकस्य’ इति किम् । सितो ग्रासो देव

३०१९ । ओदितश्च । (८-२-४५)

भुजो. भुग्रः । “टु ओ श्धि', उच्छनः । ओ हाक्, प्रहीण । “खा दय ओोदिनः’ इत्युक्तम् । सूनः-सूनवान । दूनः-दूनवान् । ओदिन्मध्ये डीङः पाठसामथ्यान्नेट . उड्रीन

३०२० । द्रवमूर्तिस्पर्शयोः श्यः । (६-१-२४)

द्रवस्य मूर्ती काठिन्ये स्पर्श चार्थे इयैडः सम्प्रसारणं स्यान्निष्ठायाम् ।

३०२१ । श्योऽस्पशें । (८-२-४७)


उपतापे इत्यादि । गून इति । गुधातोः ते दीर्घ । पूञ्जो विनाशे इति । वार्तिक मिदम् । विनाशार्थात् पूञ्जः परस्य निष्ठातस्य नत्वमित्यर्थ मिदम् । कर्मव कर्ता कर्मकर्ती, प्रासः कर्मकर्ता यस्य सः प्रासकर्मकर्तृकः तस्मात् 'षिञ् बन्धने इत्यस्मात्परस्य निष्ठातस्य नन्वमिलयर्थ । ओोदितश्च ॥ ओकारतो धातोः परस्य निष्ठातस्य नत्व मित्यर्थः । भुग्र इति । नत्वस्यासिद्धत्वात् जस्य पूर्व त्वम् । ततो नत्वम् । उच्छ्न इति ॥ उन्पूर्वान् ‘टु ओ श्चि' इति धातोः क्तः, यजादित्वात्सम्प्रसारणम्, पूर्वरूपम्, ‘श्वीदितः इति नेट् हल इति दीर्घ , निष्ठानत्वम् । प्रहीण इनि ॥ ‘घुमास्था' इति ईत्व, नत्व, ‘कृत्यच.’ इति णत्वम् । स्वादय इत ॥ 'यूइ प्राणिप्रसवे' इत्याद्या नव धानवः ओदित इति दिवादिगणे उक्त मित्यर्थः । सून इति ॥ घूड. क्त , नन्व ‘श्रयुक किति' इति इण्निषेधः । दून इति । 'दूड परितापे' अस्मात् त्क्तः, खादित्वेन ओदित्वान्नत्वम् । ननु 'डीइ विहायसा गतौ' इत्यस्य उीन इति कथ रूप, सट्कन्वान् उगन्तत्वाभावन 'श्रयुक. किति' इति निषेधस्याप्रवृत्तेरित्यत आह । ओोदिन्मध्ये डीडः पाठसामथ्र्यान्नेडिति ॥ इटि सति निष्ठातस्य ओोदित ’ डीड परत्वाभावान्नत्वाप्रसक्तस्तस्य आदित्सु पाठी व्यर्थः स्यादित्यर्थः । द्रवमूर्ति ॥ 'इयैड् गतौ इत्यस्य कृतात्वस्य श्य इति षष्ठी । द्रवमूर्तिश्च स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणम् । काठिन्ये इति ॥ सम्प्रसारणं स्यादिति ॥ 'फ्यडस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तरिति भावः । तथाचव यैडः ते आत्च सम्प्रसारणे पूर्वरूप शि त इति स्थिते । इयोऽस्पर्श ॥ इयः अस्पर्श इति छेदः । दीर्घ इति । नत्वात्प्रागेव ‘हलः’ इति दीर्घ इत्युचितम् । नत्वस्य

वातक
प्रकरणम्]
५३५
बालमनोरमा ।


इयैडो निष्ठातस्य नः स्यादस्पर्शऽर्थे । “हलः' (सू २५५९) इति दीर्घः । शीनं घृतम् । * अस्पर्श' किम् । शीतं जलम् । 'द्रवमूर्तिस्पर्शयो किम् । संश्यानो वृश्चिकः शीतात्सङ्कुचित इत्यर्थः ।

३०२२ । प्रतेश्च । (६-१-२५)

प्रतिपूर्वस्य इयः सम्प्रसारणं स्यान्निष्ठायाम् । प्रतिशीन : ।

३०२३ । विभाषाभ्यवपूर्वस्य । (६-१-२६)

इयः सम्प्रसारणं वा स्यान् । अभिश्यानम्-अभिशीनं घृतम् । अवश्यानः-अवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवशयानः ।

३०२४ । अञ्चोऽनपादाने । (८-२-४८)

३०२५ । यस्य विभाषा । (७-२-१५)

यस्य कचिद्विभाषयेड़िहितस्ततो निष्ठाया इण्न स्यात् । “उदितो वा


त्रैपादिकत्वान् । शीनं घृन्तमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृते ऽप्यनुष्ण शीतस्पशोऽस्त्येव । तथापि शीताव्यस्पर्शविशेष. एव विवक्षितः इति भावः । अस्पर्श किमिति ॥ इयैडो निष्ठातस्य नत्व स्यादित्येतावदेवास्त्वित्यर्थः । शीतञ्जलमिति ॥ शीत स्पर्शवदित्यर्थ । अत्र ‘द्रवमृत' इति सम्प्रसारणमव , न तु निष्ठानत्वमित्यर्थः । एवञ्च द्रवमूत स्पशया.' इत्यस्य स्पश इदमुदाहरणम् । “इयाऽस्पर्श' इत्यस्य तु प्रत्युदाहरणामिति बोध्यम् । सूत्रयोः स्पर्शशब्द प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिन्नः । शीताः आपः शीत जलमित्यादि । यदा तु स्पर्शविशेषा गुण’ प्राधान्येन विवक्षितः तदा कृीवत्वमेव । “शीत हुणे' इत्यमर । सम्प्रसारणविधौ पृच्छति । द्रवमूर्तिस्पर्शयोः किमिति ॥ संश्यान इति । अत्र स्पर्शस्याप्रतीतेः न सम्प्रसारणम् । नत्वन्तु भवलेयवेति भाव । प्रतेश्च ॥ द्रव मूर्तिस्पशभ्यामन्यत्रापि सम्प्रसारणप्राप्त्यर्थमिदम् । प्रतिशीन इति । प्रतिगत इत्यर्थ. । अत्र 'श्येोऽस्पर्श' इति नत्वम् । विभाषा ॥ इयैड इति शषः । सम्प्रसारण वा स्यादात ॥ शषपूरणमिदम्। द्रवमूर्तिस्पर्शयोर्नित्य सम्प्रसारणे प्राप्त ततोऽन्यत्राप्राप्त विभाषेयम्। आभिश्यानं घृतमिति । अत्र द्रवमूर्ती सम्प्रसारणविकल्प । अवश्यानः-अवशीनः वृश्चिक इति । अत्र द्रवमूर्तिस्पशभावेऽपि सम्प्रसारणविकल्पः । समवश्यान इत्यत्रापि सम्प्रसारणविकल्प माशङ्कय आह । व्यवस्थितेति ॥ अञ्चोऽनपादाने । न त्वपादाने इति । अपादान समभिव्याहारे असतीत्यर्थः । यस्य विभाषा ॥ यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । “श्रीदितः’ इत्यतो निष्ठायामिति 'नेडुशि' इत्यतो नेडिति चानुवर्तत

इति भावः । नन्वचेर्नित्य सट्कत्वात् कथन्तस्य कचिद्वेट्कत्वमित्यत आह । उदितो वेति ॥
५३६
[कृदन्त
सिध्दान्तकौमुदीसहिता

(सू ३३२८) इनि क्त्वायां वेट्टत्वादिह नेट् । ममक्तः । 'अनपादाने' किम् । उद्क्तमुदकं कूपान् । नत्वस्यामिद्धत्वान् 'त्रश्च–' (सू २९४) इति षत्वे प्रामे, 'निष्ठादेशः षत्वम्वरप्रत्ययेद्विधिपु मिद्धो वाच्यः' (वा ४७७३) । शृतम् ।

३०२६ । परिस्कन्दः प्राच्यभरतेषु । (८-३-७५)

पूर्वेण मूर्धन्ये प्रामे तदभावा निपात्यते । परिस्कन्द । 'प्राच्य इति किम् । परिष्कन्दः-परिस्कन्दः । “परेश्च' (मू२३९९) इति षत्वविकल्पः । स्तन्भे:' (सू २२७२) इति षत्वे प्राप्त ।

३०२७ । प्रतिस्तब्धनिस्तब्धौ च । (८-३-११४)

अत्र षत्व न स्यान् ।

३०२८ । दिवोऽविजिगीषायाम् । (८-३-४९)

दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । टून । विजिगीषायां तु,

३०२९ । निर्वाणोऽवाते । (८-२-५०)


समक्र इति । सङ्गत इत्यर्थ । सम्पूवात् अञ्चुधात क्त’ ‘आर्धधातुकस्येट्’ इति प्राप्तस्य इटेो निषेधः।'अनिदिताम्’ इति नलोपः । चस्य कुत्वम्। उदक्तमुदकं कूपादिति ॥ उद्धतमित्यर्थ । अत्रापादानसमभिव्याहारसत्वात् नत्वन्नेति भाव । “अा ऋश्चू छदन सस्य इचुत्वन निर्देशः, अस्मात्क्तः, ‘अहिज्या' इति सम्प्रसारणम्, ऊदित्वेन वेट्कत्वादिह ‘यस्य विभाषा' इति नेट्, चस्य कुत्वेन क’, ‘ओदितश्च' इति निष्ठानत्व, तस्यासिद्धत्वेन झल्परत्वात् ‘स्कोः' इति सलोपः, णत्वम्, वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्यासिद्धत्वेन झल्परत्वात् 'त्रश्च' इति षत्वं स्यादित्यत आह । निष्ठादेशष्षत्वेति । तथा च ‘त्रश्श्वभ्रस्जसृजमृजयज राजभ्राजच्छशां षः’ इति षत्वे कर्तव्ये नत्वस्यासिद्धत्वाभावेन झलुपरकत्वाभावान्न षत्वमित्यर्थे । स्वरप्रत्ययेडिधिघूदाहरणानि भाध्ये स्पष्टानि । परिस्कन्दः प्राच्यभरतेषु ॥ 'अपदान्तस्य मूर्धन्य:’ इत्यधिकारे इद सूत्रम् । पूर्वेणेति ॥ “परेश्च' इति पूर्वसूत्रम् । परेः परस्य स्कन्दे सस्य षो वा स्यादिति तदर्थः। तेन पत्वविकल्पे प्राप्ते प्राच्यभरतषु षत्वाभावो निपात्यत इत्यर्थ. । परिस्कन्द इति ॥ परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः । दिवो ॥ अविजिगीषायामिति छेदः । यून इति ॥ स्तुत इत्यर्थः । ‘च्छेः'इत्यूठ । विजिगीषायान्तु यूतमिति । तस्य विजिगीषया प्रवृत्तरिति भावः । निर्वाणोऽवाते ॥ कर्ता नेति ॥ निरित्युपसर्गपूर्वो वा

धातुर्विनाशे बर्तते, उपरमे च । तस्मिन् धात्वर्थे यदि वायुः कर्ता तदा नत्वन्नेत्यर्थ ।
प्रकरणम्]
५३७
बालमनोरमा ।


अवाते इति च्छेदः । :पूर्वाद्वातेर्निष्टातस्य नत्वं स्याद्वातश्चत्कर्ता न । न निर्वाणोऽन्निर्मुनिर्वा । वाते तु निर्वातो वातः ।

३०३० । शुषः कः । (८-२-५१)

निष्ठात इत्येव । शुष्कः ।

३०३१ । पञ्चो वः । (८-२-५२)

पक

३०३२ । क्षायो मः । (८-२-५३)

६ामः ।

३०३३ । स्त्यः प्रपूर्वस्य । (६-१-२३)

प्रात्रयः सम्प्रसारण स्यान्नष्ठायाम् ।

३०३४ । प्रत्येोऽन्यतरस्याम् । (८-२-५४)

निष्टातस्य मो का स्यात् । प्रस्तीभः-प्रस्तीत : । “प्रान् ' कम् । स्त्यान ।

३०३५ । अनुपसर्गात्फुछक्षीबकृशोछाघाः । (८-२-५५ )

वि फला, फुलः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिप्यते । फुलवान् । क्षीवादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्य


निर्वाणोऽष्टिर्मुनिर्वेति । नष्टः उपरतः इनि क्रमेणार्थ: । 'गल्यथकर्मक' इत्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृवान्नत्वन्नति भाव । 'निर्वाणो दीपो वातन इत्यत्र तु वातस्य करणत्वेन विवक्षितत्वात्कर्तृन्वाभावान् नन्वन्निर्वाह्यम् । भावे तु निर्वात वातेन । शुषः कः ॥ निष्ठात इति । शुषः परस्य निष्टातस्य कः स्यादिति फलितम् । पचो वः । पचेः परस्य निष्ठातस्य व. स्यादित्यर्थः । पछक इति । वत्वस्यासिद्धत्वात् कुत्वम् । क्षायो मः ।। “क्षे क्षय' इत्यस्मात् परस्य निष्टातस्य मः स्यादित्यर्थः । क्षाम इति । “आदचः’ इत्यात्वम् । “गत्यर्थाकर्मक’ इति कर्तरि क्तः । ६ण इत्यर्थः । अन्तभ वितण्यर्थत्वे क्षपित इत्यर्थ. । स्त्यः प्रपूर्वस्य । स्त्यै इत्यस्य कृतात्वस्य स्य इति षष्ठयन्तम्। 'घ्यडस्सम्प्रसारणम्’ इत्यतस्सम्प्रसारणमिति “स्फायः स्फ ' इयतो निष्ठायामिति चानुवर्तते । तदाह । प्रादित्यादि । सम्प्रसारणे पूर्वरूप ‘हल' इति दीधे प्रस्ती त इति स्थिते प्रस्त्योऽन्यतरस्याम् । प्रस्त्य इति पञ्चमी । प्रपूर्वात्स्यैधातेरित्यर्थ । निष्ठातस्य म इति शेषः । प्रस्तीम इति । सद्दीभूत इत्यर्थ. । अनुपसर्गात् । एते निपात्यन्त उपसर्गात् परा न चेदित्यर्थः । लत्वमिति । ‘आदितश्च' इति इडभाव , ‘चरफ़लोश्च' इत्युक्त्वञ्च सिद्धमिति भावः । “फल निष्पत्ती' इत्यस्य तु नात्र ग्रहणम्, इडभावस्यापि निपात्यत्वापत्ते । ननु

त्क्तवंतुष्प्रत्यये फुलवानिति कथम् । क्तवतुप्रत्यये क्तस्यानर्थकत्वेन फुछशब्देनाग्रहणादित्यत आह ।
५३८
[कृदन्त
सिध्दान्तकौमुदीसहिता

सिद्धत्वात्प्राप्तम्यैटोऽभावश्च निपात्यते । श्रीबो मत्तः । कृशस्तनुः । उलाघो नाराग : । 'अनुपमगान्

३०३६ । आदितश्च । (७-२-१६)

आकारेतो निष्ठाया इण्न स्यान् ।

३०३७ । ति च । (७-४-८९)

चरफलोरत उत्स्यात्तादौ किति । प्रफुल्त । प्रक्षीबितः । प्रकृशितः । ओलाधितः । कथं तर्हि “लोश्रदुमं सानुमतः प्रफुलम्' इति । “फुल विकसने' पचाद्यच । सूत्रं तु फुन्तदिनिवृत्त्यर्थम् । “उत्फुलसम्फुल्योरुपसङ्ख-यानम् (वा ४८४३) ।

३०३८ । नुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम् । (८-२-५६)

एभ्या निष्ठातस्य ना वा । नुशः-नुत्त : । विद' विचारणे, रौधादिक एव गृह्यते । उन्दिना परेण साहचयान् । विन्नः-वित्त: । वेत्तेस्तु विदित । विद्यतेविन्नः । उन्दी ।


क्तवत्वेकदेशस्यापीति ॥ क्षीवादिष्विति ।। क्षीबकृशाछाघेष्वित्यर्थः । त्क्तप्रत्यय स्यैवेति । ननु त्क्तवन्वकदेशस्यापीत्यर्थ. । अनर्थकत्वादिति भाव । तस्येति ॥ तलोप स्येत्यर्थः । क्षीवो मत्त इति ॥ क्षीबेः क्तः, तलोप, इडभावश्च । कृशस्तनुरिति । कृशेः क्त., तलापः, इडभावश्च । उलुाघो नीरोग इति ॥ लाघेः क्त , तलोप, इडभावश्च । अत्र मत्तादिरेवार्थः निपातनबलान् । अनुपसर्गात्किमिति । अत्र फुल्त इति प्रत्युदाहरण विवक्षन् तत्र विशषमाह । आदितश्च ॥ निष्ठाया इण्न स्यादिति ॥ 'श्वीदितः’ इत्यतो निष्ठायामिति “नेनडुशि' इत्यता नेदिति चानुवर्तते इति भावः । ति च ॥ ‘चर फलोश्च' इति सूत्रानुवृत्तिम्मन्वा आह । चरफलोरिति । अत उत्स्यादिति ॥ 'उत्परस्यात:’ इत्यतस्तदनुवृत्तेरिति भाव । केितीति ॥ “दीर्घ इण किति' इत्यत मण्डूकप्लुत्या तदनुवर्तते इति भाव । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला निष्फला च । तयो स्सेटकत्वेन निष्ठा विना तकारादिप्रत्ययाभावात् । कथन्तहति । प्रफुछमित्यस्य सोपसर्ग त्वेन निष्टातस्य लत्वासम्भवादिति भावः । समाधत्त । फुछेति । ननु फुलेः पचाद्यचैव फुछ इत्यस्य सिद्धेः फुल इत्यस्य निपातन व्यर्थमित्यत आह । सूत्रन्त्विति ॥ उत्फुल्ल सम्फुल्लुयोरिति ॥ निष्ठातस्य लत्वनिपातनमिति शेषः । सोपसर्गार्थ वचनम् । नुदविदो न्दी ॥ हीधातोरप्राप्से इतरेभ्यो नित्यम्प्राप्से नत्वविकल्पोऽयम् । रोधादिक इति ॥ 'विद विचारणे' इत्यामेत्यर्थः । वेत्तेस्त्विति ॥ 'विद ज्ञाने' इत्यस्येत्यर्थः । अय सेट्, अनिट्केष्वनन्तर्भावात् । तदाह । विदित इति ॥ अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वन्नेति

भावः । विद्यतेर्विन्न इति ॥ ‘दि सत्तायाम्' इत्यमनिट् 'रदाभ्याम्' इति नित्यन्नत्वमिति
प्रकरणम्]
५३९
बालमनोरमा ।

३०३९ । श्रीदितो निष्ठायाम् । (७-२-१४)

श्वयतेरीदितश्च निष्टाया इण्न । उन्नः-उत्त । त्राण:-त्रात: । घ्राण:-

३०४० । न ध्याख्यापृमूच्छिमदाम् । (८-२-५७)

एभ्यो निष्ठातस्य नत्वं न । ध्यात : । खट्यातः । पूतः । *रालापः ।

३०४१ । वित्तो भोगप्रत्यययोः । (४-२-५८)

विन्दतेनिष्टान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुष । “अनयोः' किम्, विन्न । 'विभाषा गमहन-' (सू ३०९९) इति कसौ वेट्त्वादिह नेट् ।

३०४२ । भित्तं शकलम् । (८-२-५९)

भिन्नमन्यत्


भाव । उन्दीति ॥ उदाहरणसूचनम् । श्रवीदितो निष्ठायाम् ॥ श्चि, ईदित् अनयेोस्समा हारद्वन्द्वान्पञ्चमी । “नेनडुशि ' इल्यता नेडित्यनुवर्तते । तदाह । श्वयतेरिति ॥ न ध्याख्या ॥ पञ्चम्यर्थे षष्ठी । तदाह । एभ्य इति ॥ ध्यात्त इति ॥ ध्यैधातोः क्तः “ आदच' इत्यात्वम् । अत्र “सयोगादेरात.’ इति प्राप्तन्नन्वन्न । ख्यात इति ॥ ख्याञ्जादेशपक्षे यण्वत्वात् “सयोगा देरात ' इति प्राप्तन्नत्वन्न । ख्शादशस्य शस्य यत्व तु यस्य णत्वप्रकरणगतस्यासद्धत्वाद्यण्वत्वा भावात् “ संयोगादेरात.’ इति नत्वस्य न प्रसक्तिः । खतस्सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नास्येवेति ख्याग्रहण व्यर्थमेव । पूर्त इति ॥ पृधातोः क्तः 'श्रयुकः किति' इति नेट् 'उदोष्ठय पूर्वस्य’ इति उत्त्व, रपरत्वम्, इह ‘रदाभ्याम्’ इति प्राप्तन्नत्वन्न । मुर्छीधातोः क्त आह । रालोप इति ॥ छस्य लाप इति भावः । मूर्त इति ॥ ‘आदितश्च' इति नट् । छलेोपे 'रदाभ्याम्' इति प्राप्तन्नत्वन्न । ‘हलि च' इति दीर्घ. । मत्त इति ॥ “मदी हर्पग्लेपनयो.’ अस्मान् क्तः * श्रीदित: इति नेट् । अत्र ‘रदाभ्याम्' इति प्राप्त नत्वन्न । वित्तो भोग ॥ भुज्यत इति भोगः भोग्यम् । प्रतीयते इति प्रत्ययः प्रख्यात । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह । विन्दतेरिति ॥ निपातोऽयमिति । “नुदविदोन्दी' इति प्राप्तस्य पाक्षिकनत्वस्य अभाव निपातनामित्यर्थ । तस्य भोगप्रत्यययेो: कदाऽपि नत्वन्नेत्यर्थः । प्रतीते इति ॥ प्रख्यात इत्यथ । वित्तः पुरुष इति ॥ प्रख्यात इत्यथ । विन्न इति ॥ लब्धश्चारादिरित्यर्थः । अत्र 'यस्य विभाषा' इति इण्निषेधमुपपादयति । विभाषा गमेति ॥ एकाच इति निषेधा

चेत्यपि बोध्यम् । भित्तं-शकलम् ॥ शकले वाच्य भिदेः क्तस्य नत्वाभावो निपात्यते ।
५४०
[कृदन्त
सिध्दान्तकौमुदीसहिता


३०४४ । स्फायः ग्फी निष्ठायाम् । (६-१-२२)

३०४३ । ऋणमाश्रमप्यं । (८-२-६०)}} न्त

३०४५ । इण्निष्टायाम् । (७-२-४७)

निरः कुपो निष्ठाया इट् म्यान् । “यस्य विभाषा' (मू ३०२५) इति निषेध प्राप्रे पुनविधिः । निष्कुपित्नः ।

३०४६ । वसतिक्षुधोरिट् । (७-२-५२)

आभ्यां क्त्वानिष्टयोर्निन्यमिट म्यान्न ! उपिन । श्रुधितः ।

३०४७ । अज्ञेः पूजायाम् । (७-२-५३)

पूजार्थादचेः क्त्वानिष्याग्ट् िस्यान् । अश्वित: । गतौ तु अक्तः ।

३०४८ । लुभा विमोहने । (७-२-५४)


शाकलन्वजातिविशिष्ट अवयवामनपेक्ष्य रूढेऽयम् । ततश्च भिन्नशकलयो” पर्यायत्वान्न सह प्रयाग । भिदिक्रियाविवक्षायान्नु भित्त भिन्नमिति भवन्तीति भाष्य स्पष्टम्। ऋणमाधमण्यें ॥ अधमर्णम्य कर्म आधमण्र्यम् । आश्धमण्र्यव्यवहारे इति । स च अन्यदीय द्रव्य गृहीत मियता कालन इयल्या मृद्वद्या प्रतिदीयते इनि सविद्वपः, तस्मिन्विषये इत्यर्थः । ऋतमन्य दिति ॥ मन्यमित्यर्थ । म्फायः स्फी ॥ 'स्फायी वृद्धे' अस्य स्फीभावः स्यात् निष्ठायाम्परत इत्यर्थः । इण्निष्टायाम् ॥ 'निरः कुप’ इति सूत्रमनुवर्तते । तदाह । निर इनि । ननु 'आर्द्धधातुकस्यट्' ऽन्यव सिद्ध किमथामद सूत्रामत्यत आह । यस्यात ॥ कुषधातोः तृजादौ “निर कुप' इनि पूर्वसूत्रेण वट्कन्वात् “यस्य विभाषा' इति प्राप्तस्ये इत्यतो वाग्रहणानुवृत्तिनिवृत्तये । वस्मनिश्रुश्रोरिट ॥ पञ्चम्यर्थे षष्ठी । क्त्वानिष्टयोरिति ॥ 'कृिशः क्रानिष्ठयोः' इत्यतः नदनुवृत्तेरिति भाव । नित्यमिनि ॥ इडल्यनुवतमान पुनारऽब्रह णस्य 'स्वरातिसूति' इत्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थन्वादिति भाव" । “एकाच उपदेशे इति इण्निषेधबाधनार्थमिद सूत्रम् । उषित इति । यजादित्वात् सम्प्रसारणम्, “शासिवसि घसीनाश्च ' इति ष । अञ्चैः पूजायाम् ॥ 'उदितो वा' इति विकल्पे प्राप्त ह्यकाया निष्ठायान्तु “यस्य विभाषा' इति निषध प्राप्ते वचनम् । अश्चित इति । “नावेः पूजायाम् इति नलोपनिषेध. । लुभो विमोहन ।। लुभ इति पञ्चमी । “लुभ विमोहने ' तुदादि ।

विमोहन व्याकुलीकरणहमति वृत्तिः । 'लुभ गाध्ये' दिवादिः । अत्र तौदादिकस्यैव प्रहणम्
प्रकरणम्]
५४१
बालमनोरमा ।

लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्न तु गाध्यै । लुभित: । गाध्यें तु, लुब्धः ।

३०४९ । क्रिशः क्त्वानिठयोः । (७-२-५०)

इङ्का स्यान् । 'छिा उपनापे' (अस्य) निन्यं प्राप्त कृिशा विबाधने अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्टायां नियेश्ध प्राप्ने विकल्पः । ििशतः-क्रुिष्टः ।

३०५० । पूङश्च । (७-२-५१)

पृङः क्त्वानिष्टयोरिड्रा स्यान् ।

३०५१ । पूडः क्त्वा च । (१-२-२२)

पूङः क्त्वा निष्टा च सेट् किन्न स्यान् । पवितः-पूतः । क्त्वाग्रहण मुत्तरार्थम् । “नोपधान्–' (सू ३३२४) इत्यत्र हि क्त्वैव सम्बध्यते ।

३०५२ । निष्ठा शीङ्स्विद्विमिद्विविद्विधृषः । (१-२-२९)

एभ्यः सेण्निष्टा किन्न स्यान् । शयितः-शयितवान् । अनुबन्धनिर्देशो यङ्लुइनिवृत्त्यर्थः । शेशियतः-शेयितवान् । “आदिकर्मणि निष्टा वक्तव्या (वा २०५१) ।


तस्यव वमाह्वनाथकन्वान् । ननु दवादकस्य, तस्य गाध्याथकत्वान् । तदाह । न तु गाध्य इति ॥ “तीषसह' इति काया विकल्प प्रामे निष्ठायान्नु “यम्य विभापा' इति निषेधे प्राप्त वचनम् । लुभित इति ॥ विमोहित इत्यर्थः । गाध्ये तु लुब्ध इति ॥ अभिकाङ्कावा नित्यर्थ. । 'मतिबुद्धिपूजार्थेभ्यश्च' इनि कर्तरि क्त । ङ्किशः क्त्वानिष्ठयोः ॥ इड़ा स्यादिति शेष । “स्वरातिसूति' इत्यतो वेत्यनुवृत्तरिति भाव. । नित्यं प्राप्त इति ॥ “आर्धधानुकस्ये डुलादे’ इत्यनेनेति भाव । विकल्पे सिद्धे इति ॥ ऊदित्वादिति भावः । निष्ठायान्निषेधे प्राप्त इति ॥ 'यस्य विभापा' इत्यननति भाव । पूङश्च ॥ वत्वानष्ठयाररात ॥ शि’ कानिष्टयेो' इत्यतस्तदनुवृत्तरिति भावः । इङ्केनि ॥ “स्वरतिसूति' इत्यतः वाग्रहणस्य इण्निष्ठायाम्’ इत्यतः इट् इत्यस्यवानुवृत्तेरिति भाव' । ‘श्रयुक.’ इति निषेध प्राप्त विकल्पोऽयम् । पूङः क्त्वा च । ‘न का सेट्’ इत्यतो न सट् इत्यनुवर्तते । ‘असयोगात्’ इत्यनः किदिति ‘निष्ठा शीड्' इत्यतो निष्ठति च । तदाह । पूङः क्त्वा निष्ठाचेत्यादि । ननु 'न का सेट्’ इत्यव सिद्धे किमर्थमिह काग्रहणमित्यत आह । क्त्वाग्रहणमुत्तरार्थमिति ॥ तदेवोपपादयति । नोपधादित्यत्रेति ॥ तत्र हि काप्रत्ययस्यैवानुवृत्तिरिष्टा ‘पूडश्च' इत्येवोक्तौ तु ‘निष्ठाशीड्’ इत्यतो निष्ठाग्रहणमेवानुवर्तेतेति भावः । निष्ठा शीङ् ॥ “न का सट्’ इत्यतः न सेडित्यनुवर्तते । असयोगात्' इत्यतः किदिति च । तदाह । एभ्यस्सेडिति ॥ शीडिति डकारस्य फलमाह । अनुबन्धात ॥ यड्लुकि “श्तिपा शपा” इति निषेधार्थ इत्यर्थः । शेशियतवानिति ॥

अत्र कित्त्वनिषेधाभावात् कित्वान्न गुण इति भाव । आदिकर्मणि निष्ठा वक्तव्येति ॥
५४२
[कृढ्न्त
सिध्दान्तकौमुदीसहिता

३०५३ आदिकर्मणि क्तः कर्तरि च । (३-४-७१)

आदिकर्मणि यः क्तः स कर्तरि स्यात् । चाद्भावकर्मणोः ।

३०५४ । विभाषा भावादिकर्मणोः । (७-२-१७)

भावे आदिकर्मणि च अदितो निष्ठाया इड़ा स्यान् । प्रस्वेदितचैत्र । प्रस्वेदितं तेन । ८ डिप विदा' इति भवादिरत्र ग्रह्यते, ऊपीद्भिः साहचर्यात् । विद्य तस्तु स्वादतः इत्यव । “डिप मिदा' : पि विदा' दिवादी भवादी च । प्रमेदि त:–प्रमेदितवान् । प्रक्ष्वेदित:-प्रक्ष्वेदितवान् । प्रधर्षितः-प्रधषितवान् । धर्षितं तेन । “सेट्’ किम् । प्रस्विन्नः । प्रस्विन्न तेनेत्यादि ।

३०५५ । ऋषस्तितिक्षायाम् । (१-२-२०)

सेण्निष्टा किन्न स्यात् । मर्षित:-मर्षितवान् । * तितिक्षायां' किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्य

३०५६ । उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । (१-२-२१)

उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतिम् द्योतितम् । मुदितं—मोदितं साधुना । प्रद्युतितः-प्रद्योतितः साधुः । प्रमुदित


दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया. आरम्भकालविशिष्टोश" आदिकर्म । तत्र विद्यमाना द्धातोर्निष्ठा वक्तव्येत्यर्थ । तत्र आदेषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाभावात् भूते विहिता निष्ठा न प्राप्तल्यारम्भः । आदिकर्मणि क्तः कर्तरि च ॥ चान्द्रावकर्मणो रिति । “तयेोरेव कृत्य ' इत्यतस्तदनुवृत्तरिति भाव । “प्रकृत- कट देवदत्तः, प्रकृतवान् कट देवदत्तः” इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः । विभाषा भावादिकर्म णोः ॥ आदितो निष्ठाया इडेतेि ॥ “आदितश्च' इत्यतः आदित इति 'श्रीदतः' इत्यत निष्ठाग्रहण *नेड़ाश ' इत्यतो नेति चानुवर्तत इति भावः । निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते । प्रस्वेदितश्चैत्र इति । चैत्रकर्तृका आरभ्यमाणप्रखेदनाक्रयेत्यर्थः । अीद्भिरिति । त्रिः इत्येषान्ते जीत’, तैर्मिदिप्रभृतिभिरिति तदर्थ । स विषयः कित्त्वप्रति षेधस्येति बोध्यम् । स्विद्यतेस्त्विति ।! 'नि विदा गात्रप्रक्षरणे' इति दैवादिकस्यैव कित्त्व निषेधविधौ ग्रहणामित्यर्थ । स्विदितः इति ॥ 'विभाषा भाव' इति पक्षे इट् । कित्त्वनिषेधविधौ खिद्यतेहणाभावात् कित्त्वान्न गुण । अत्र खिदादीनाम् “आदितश्च' इति इट् प्रतिषिध्यते । भावादिकर्मणेोस्तु पक्षे इट् । मृष्यस्तिातिक्षायाम् ॥ तितिक्षा क्षमा । सेग्निष्ठा किन्नेति ॥ शेषपूरणमिदम् । ‘निष्ठा शीड्' इत्यतो निष्ठति “न खका सेट्’ इत्यतस्सेण्नेति “असयोगात् इत्यतः किदिति चानुवर्तत इति भावः । उदुपधाद्भावादिकर्मणोः । भावे उदाहरति ।

मुदितमित्यादि । आदिकर्मण्युदाहरति । प्रद्युतितः-प्रद्योतितः साधुरिति ॥
प्रकरणम्]
५४३
बालमनोरमा ।


प्रमोदितः साधु । * उदुपधात्' किम् । विदितम् । * भाव-' इत्यादि किम् । रुचितं कार्षापणम् । “सेट्’ किम् । कुष्टम् । * शब्विकरणेभ्य एवेष्यते' (वा ६२६) । नेह । गुध्यतेर्गुधितम् ।

३०५७ । निष्ठायां सेटि । (६-४-५२)

णेलोपः स्यात् । भावितः-भावितवान् । * श्रीदिनः-' (३०३९) इति नट् । सम्प्रसारणम् । २नः । दाप्तः । गुछू, गृढ । वनु, वत । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्त द्वितीया श्रित-' (सू ६८६) इति सूत्रे निपातनादिट् । पतितः । * सेऽसिचि ' (२५०६) इति वेट्कत्वात्सिद्धे कृन्त


आदिकर्मणि कर्तरि क्त उदुपधात्कि - । विदितमिति ॥ 'विद ज्ञाने' इति वेते. रूपम् गुध्यतेर्गुधितमिति । 'गुध परिवेष्टने' दिवादिस्सेट्क. । निष्ठायां सेटि ॥ णेलोपः स्यादिति ॥ शेषपूरणमिदम् । “णरनिटि' इत्यतो णेरिति “ आतो लोपः' इत्यस्मा छेोप इति चानुवर्तते इति भावः । अनिटीति निषेधादप्राप्से आरम्भ । 'टु ओ वि गतिवृच्द्योः अस्मात् ते आह । श्रवीदित इति नेडिति ॥ सम्प्रसारणमिति । यजादित्वादिति भावः । सम्प्रसारणे सति पूर्वरूपे 'हलः' इति दीर्घ * ओोदितश्च' इति निष्ठानत्वे रूपमाह । शशून इति । यद्यपि मूले 'ओदितश्च' इत्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यास. । अत्र अल्विधित्वेऽपि हल इत्यारम्भसामथ्यांदेव पूर्वरूपस्य सम्प्रसारणत्वम् । नित्यत्वात्सम्प्रसारणपूर्वरूपय श्रयक किति' इत्येव निषेधसिद्धेः विग्रहण व्यर्थमिति वाच्यम् । “श्रयुकः किति' इत्यत्र “एकाच उपदेशे ' इत्यतः उपदेशे इत्यनुवृत्तेः । तथाच उपदेशे उगन्तत्वाभावात् निषेधाप्राप्तौ विग्रहणम् । अत एव स्तीत्र्वेत्यादौ उपदेशे उगन्तत्व मादाय इण्निषेधसिद्धिरित्यलम् । ईदित उदाहरति । दीप्त इति ॥ 'दीपी दीप्तौ' दिवादिः । ईदित्वात्रेट्। गूढ इति ॥ ऊदित्वेन वेट्कत्वात्'यस्य विभाषा' इति नेट्। ढत्वधत्वष्टत्वढलोपदीर्घा वनु, वतः । तनु, ततः इति ॥ 'उदितो वा' इति खाया वेट्कत्वात् “यस्य विभाषा इति नेट् । 'अनुदात्तोपदेश' इति नकारलीप । पतेस्सनीति ॥ ‘पत्ल गतौ' अस्य तनिपतिदरिद्राणामुपसङ्खयानम्' इति सनि वेट्कत्वात् “यस्य विभाषा' इति निष्ठायामि निषेधे प्राप्त इत्यर्थ. । पतितशब्दे इट साधयितु युक्तयन्तरमाह । सेऽसिचीति ॥ 'कृती छेदने' ‘वृती हिंसाग्रन्थनयोः' 'नृती गात्रविक्षेपे' एषामीदित्व ‘वीदित.' इति इण्निषेधार्थमिति वक्तव्यम् । ततु न सम्भवति । एषा 'सेऽसिचिकृतवृतछदतृदनृत.' इति सकारादौ वेट्कतय यस्य विभाषा' इत्येव निष्ठाया नित्यमिण्निषेधसिद्धे । ततश्च एषामीदत्करणात् “यस्य विभाषा' इति इण्निषेधस्य अनित्यत्व विज्ञायते । एवञ्च कृतादीना 'यस्य विभाषा' इति इण्निषेधस्य अभावसम्भावनाया 'श्रीदितः’ इति इग्निषेधार्थमीदित्वमर्थवत् । तथा च

पतितशब्दे *यस्य विभाषा' इत्यनित्यत्वान्न भवतीत्यर्थः । तेनेति । “यस्य विभाषा
५४४
[कृदन्त
सिध्दान्तकौमुदीसहिता


त्यादीनामीदित्वेनानित्यत्वज्ञापनाद्वा । तेन * धावितमिभराजधिया' इत्यादि । यस्य विभाषा' (सू ३०२५) इत्यत्रैकाच इत्येव । दरिद्रतः ।

३०५८ । क्षुब्धस्वान्तध्वान्तलमम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः:सक्ताविस्पष्टस्वरानायासभृशेषु । (७-२-१८)

क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिपु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः, मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्रं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टमवि स्पष्टम् । विरिब्धः स्वरः । “म्लेच्छ' 'रेभृ' अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् अनायाससाध्यः कषायविशेष । माधवस्तु नवनातभावा त्प्रागवस्थापत्रं द्रव्यं फाण्टभिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु इत्यनित्यत्वज्ञापनेनेत्यर्थः । धावितमिति । “स्वरातिसूति' इति धूो वेट्-त्वेऽपि “यस्य विभाघा' इति इण्निषेधो नेति भावः । ननु दरिद्राधातोः “तनिपतिदरिद्राणामुपसङ्खयानम्' इति ४ त्यत्रेति । क्षुब्धस्वान्त । क्षुब्ध, स्वान्त, 'वान्त, लन्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टाना द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तम , सत्त, अवस्पष्ट, स्वर, अनायास भृश, एषामष्टाना द्वन्द्वात्सप्तमी । यथासङ्खयमन्वय । समुदायेनेति । । मन्थादष्वत रूढा अवयवार्थाभिनिवेशो न कर्तव्य इत्याह । द्रवद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणी कतेव्या । मन्थनन्दण्डश्धात ॥ वशाखमन्थमन्थानमन्थाना मन्थदण्डक' इत्यमरः । क्षुब्ध इति । “क्षुभ सञ्चलने' अस्मात् क्तः, इडभावो निपात्यते । “झषस्तथोः' इति धः जश्त्वम् । स्वान्तमिति । स्वनधातो क्तः । “ अनुनासिकस्य कि ' इति दीर्घ, निपातनान्नेट् । स्वान्त हृन्मानस मन.' इत्यमर । ध्वान्तं तम इति ॥ ध्वनेः क्त. । “ अनुनासिकस्य कि इतेि दीर्घः । “ अन्धकारोऽस्त्रिया ध्वान्तन्तमिस्र तिमिर तम.' इत्यमरः । लग्रं सक्तमिति । सम्बद्धमित्यर्थ. । लगेः क्तः, इडभाव. । तत्र रदाभ्या परत्वाभावात् कथ निष्ठानत्वमित्यत आह । निष्ठानत्वमपि निपातनादिति । म्लिष्टमविस्पष्टमिति । इडभावे 'त्रश्च' इति ष.। तकारस्य ष्टत्वेन ट. । “ अथ म्लिष्टमविस्पष्टम्' इत्यमरः । विरिञ्श्र: स्वर इति ॥ स्वरविशेषे इत्यर्थ । “रेभृ शब्दे’ अस्मात् त्क्तः, इडभावे “झषस्तथोर्धः’ इति धः । उभयत्र धातुस्वरूप प्रदर्शयन् आह । म्लेच्छ रेभृ अनयोरिति ॥ इत्वमपीति ॥ इडभावश्चेत्यर्थः । फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वञ्च निपात्यते । तस्य सिद्धत्वात् “ अनुनासिकस्य' इति दीर्घः । “ अनायासकृत फाण्टम्' इत्यमरः । वृत्तिकृन्मतमाह । कषायविशेष इति ॥ “यदश्धृतमपिष्ट च कषायमुदकससगमात्राद्विभक्तरसमीषदुष्णन्तत्फाण्ट

मित्युच्यते” इति वृत्तौ स्थितम् । वेदभाष्ये आहेहांत । “तद्वै नवनीतम्भवति घृत वै
प्रकरणम्]
५४५
बालमनोरमा ।

क्षुभितम् । 'क्षुब्धो राजा' इति त्वागमशास्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरोभितम् । फणितम् । बाहितम् ।

३०५९ । धृषिशसी वैयाये । (७-२-१९)

एतौ निष्ठायामविनय एवानिटौ स्त । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिनर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्वे फलं चिन्त्यमिति हरदत्त माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम्-धर्षितम् । प्रधृष्ट प्रधाषत ।

३०६० । दृढः स्थूलबलयोः । (७-२-२०)


दवानाम्फाण्टम्मनुष्याणाम् ' इत शतपथत्राह्मणव्याख्यावसर आहल्यथः । बाढम्भृशामात । बाह्य प्रयत्न अस्मात् त्', इडभावः, ढत्वधत्वष्टुत्वडलापाः । अन्यत्र त्विात ॥ मन्थाद वर्वाच्यत्वाभाव इत्यर्थ । धृषिशासी । वियातः अविनीतः, तस्य भावः वैयात्यम् । तत्र 'नि धृषा प्रागल्भ्ये' इत्यस्य आदित्वादेवेण्निषेधस्सिद्ध । “शसु हिंसायाम्' इत्यस्य तु “उदितो वा' इति काया वेट्कत्वात् “यस्य विभाषा' इति इण्निषेधस्सिद्धः । अतो नियमार्थमित्याह । अविनय एवेति ॥ धृष्टः विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयाल्या भाव इत्यथ । धर्षित इति ॥ बलात्कृत इत्यथ । विशासित इति ॥ हिसित इत्यर्थः । अत्र वैयात्याभावादिण्निषेधो नेति भावः । ननु धृषरादित्वात् “विभाषा भावादिकर्मणो ' इति भावे आदिकर्मणि च इड़िकल्पे प्राप्त तदशे निल्यार्थोऽत्र विधिरस्तु । ततश्च भावादिकर्मभ्या मन्यत्र वैयात्याभावेऽपि “ आदितश्च' इति इण्निषेध एव स्यादित्यत आह । भावादिकर्म णोस्त्विति ॥ नास्तीति ॥ अनभिधानादिति भावः । तत्र वृद्धसम्मतिमाह । अत एवेति ॥ भावकर्मणोर्धेषेरनभिधानादेवेत्यर्थः । अन्यथा धृषरादित्वात् “विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इड़िकल्पे प्राप्त तदशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्व हि न वैयालये आदित्वलक्षणेनिषेधार्थम्, 'धृषिशासी वैयाये इत्येव सिद्धेः । नापि वैयाल्यादन्यत्र आदित्वलक्षणेण्निषेधार्थम्, धृषेवैयालय एव इनिषेध नियमेन ततोऽन्यत्र आदित्वलक्षणनिषेधाभावात् । नापि धृषेर्वेयात्ये भावादिकर्मणोर्विषये वभाषा भावादिकर्मणोः' इति इड़िकल्पार्थम्, भावादिकर्मणार्वेयालये धृषेरनभिधानात् तस्मादृषेरादित्व व्यर्थमिति हरदत्त आहेत्यर्थ. । माधवस्त्विति । अवैयाये भावादिकर्मणो रनाभिधाने प्रमाणाभावादिति भावः । तत्र अवैयाये भावे उदाहरति । धृष्टम्-धर्षित मिति ॥ आदिकर्मण्युदाहरति । प्रधृष्टः-प्रधर्षित इति ॥ दृढः स्थूलबलयोः ॥ बलशब्दः अर्शआद्यजन्तः बलवत्परः । तदाह । बलवति चेति ॥ तस्येति ॥

69
५४६
[कृद्न्त
सिध्दान्तकौमुदीसहिता

स्थूले बलवति च निपात्यते । “दृह दृहि वृद्धौ' । क्तस्येडभाव तस्य ढत्वम्, हस्य लोपः, इदितो नलोपश्च । दृहितो-इंहितोऽन्यः ।

३०६१ । प्रभौ परिबृढः । (७-२-२१)

'बृह बृहि वृद्धेौ' । निपातनं प्राग्वन् । परिबृहितः-परिचूंहितोऽन्यः ।

३०६२ । कृच्छूगहनयोः कषः । (७-२-२२)

कषो निष्ठाया इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । 'स्यात्कष्टं कृच्छूमाभीलम्' । कष्टो मोहः । कष्टं शास्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ।

३०६३ । घुषिरविशब्दुने । (७-२-२३)

घुषिनिष्टायामनिट् स्यात् । घुष्टा रज्जु अविशब्दने' किम् घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ।

३०६४ । अर्देः सन्निविभ्यः । (७-२-२४)

एतत्पूर्वादर्देर्निष्टाया इण्न स्यात् । समर्ण: । न्यर्णः। व्यर्णः । अर्दितोऽन्यः।

३०६५ । अभेश्चाविदूर्ये । (७-२-२५)

अभ्यर्णम् । नातिदूरमासन्न वा । अभ्यर्दितमन्यत् ।


निष्ठातकारस्य ढत्वन्निपात्यते इत्यर्थः । हस्य लोप इति ॥ निपात्यते इति शेषः। इदित इति ॥ अनिदितस्तु नलोपस्सिद्ध एवेति भाव । ननु हस्य ढत्वे कृते 'झषस्तथेोधेऽध ? इति तकारस्य धत्वे तस्य छुत्वेन ढत्वे “ढो ढे' इति ढलोपे दृढ इति सिद्धम् । ततश्च इडभाव एव निपात्यताम्, न तु हकारलोपो ढत्वञ्चेति चेत् । मैवम् । तथाहि सति द्रढीयानित्यादौ ढलोपस्यासिद्ध त्वेन ऋकारस्य सयागपरतया लघुत्वाभावात् ' र ऋता हलादलघा ' इति रभावो न स्यात् । अत्र हकारलोपस्य ढत्वस्य च निपातने तु ऋकारस्य न संयोगपरकत्वम् । अस्य हलोपस्य साप्तमिकत्वेन सिद्धत्वाभावात् इति भाष्ये स्पष्टम् । प्रभौ परिवृढः । प्राग्वदिति ॥ तकारढत्वस्य हलोपस्य चेवत्यर्थः । कृच्छूगहनयोः ॥ कृच्छूशब्दो दुःखे तत्कारणे च वर्तते । कष्टं दुःखं तत्कारणञ्चेति ॥ “स्यात्कष्टड्कृच्छूमाभीलम्” इत्यमरकाशवाक्यम् । दुःखकारण उदाहरति । कष्टो मोह इति ॥ गहने उदाहरति । कष्टं शास्त्रमिति ॥ गहनशब्द विवृणोति । दुरवगाहमिति । घुषिरविशब्दने ॥ घुष्टा रज्जुरिति ॥ उत्पादितेत्यर्थः । आयामतेति वा । शब्देन अभिप्रायप्रकाशन विशब्दनम्। तदाह । शब्देनेति । अर्देः सन्नि विभ्यः ॥ समर्ण इति ॥ सम् अर्दू त इति स्थिते 'रदाभ्याम्' इति निष्ठातस्य पूर्व

दकारस्य च नत्वम्, णत्वम् । अभेश्चाविदूर्ये ॥ अविदूरस्य भावः आविदूर्यम् । तस्मिन्
प्रकरणम्]
५४७
बालमनोरमा ।

३०६६ । णेरध्ययने वृत्तम् । (७-२-२६)

यन्तादृतेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दः, छात्रेण सम्पादितम्, अधीतमिति यावत् । अन्यत्र तु वर्तिता रज्जु ।

३०६७ । श्धृतं पाके । (६-१-२७)

श्रातिश्रपयत्यो: त्ते श्रृभावो निपात्यते क्षीरहविषोः पाके । शृतं क्षीरं स्वयमेव विछिन्ने पकं वेत्यर्थः । क्षीरहविभ्यमन्यत्तु श्राणं-श्रपितं वा ।

२७६८ । वा दान्तशान्तपूर्णददुस्तरस्पष्टच्छद्धज्ञताः । (७-२-२७

एते णिचि निष्टान्ता वा निपात्यन्ते । पक्षे, दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञापितः ।


गम्ये अभेः परः अर्दिरनिट्क इत्यर्थः। सामीप्य इत्येव तु नोक्तम् । अनतिदूरस्य असङ्गहापत्तेः । तत्सूचयन्नाह । नातिदूरमिति । णेरध्ययने । णिलुक् चेति ॥ णिलोपे तु लघूपधगुण स्यादिति भाव । अधायमान इत ।। सूत्र अध्ययनशब्द" कमाण ल्युडन्तः इति भाव । श्रष्टतम्पाके ॥ 'श्रा पाके' घटादिः । तस्माद्धेतुमण्णिचि पुकि मित्वाद्रखे श्रपि इति भवतीति स्थितिः । श्रातिश्रपयत्योरिति ॥ अण्यन्तस्य ण्यन्तस्य च श्राधातोरित्यर्थ । क्षीरहविषो रिति ॥ एतच वार्तिकालभ्यते । अण्यन्त व्यावष्ट । स्वयमेव विन्निमिति ॥ श्राधातुरण्यन्त पाके वर्तते । पाकश्चात्र विकृित्तिरेव विवाक्षिता । न तु तदनुकूलव्यापारोऽपि । तथाच क्षीर विकृित्याश्रयमिति फलितम् । ततो णिचि विकृित्यनुकूलव्यापारार्थकपाविना समानार्थकात् श्रपि इत्यस्मात् कर्मणि क्तप्रत्यये फलितमाह । पचमिति । एतच्च भाष्यकैयटयेोः स्पष्टम् । “क्षीराज्यहविषां श्रृतम्' इत्यमरस्य तु प्रमाद एव, “क्षीरहविषोः' इति वार्तिकविरोधात् । वा दान्तशान्तपूर्णदस्तस्पष्टछन्नज्ञप्ताः ॥ ‘णरध्ययने वृत्तम्’ इत्यतो णारलयजुवतत । ‘दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते । “ अनुनासिकस्य' इति दीर्घ । णिलोपस्तु न स्थानिवत् । निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः, शान्तः । “पूरी आप्यायने' ण्यन्तात् त्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वम्, णत्वम्, पूर्णः । एतन “न ध्याख्या पृमूच्छि' इत्येव सिद्धे पूर्णग्रहण व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात् पूर्णरूपार्थत्वात् । “दसु उपक्षये' ण्यन्तात् इडभावो निपात्यते, उपधावृछद्यभावश्च । णिलोपः । “स्पश बाधने ण्यन्तात् त्क्तः, इडभावो निपात्यते उपधावृद्यभावश्च, णिलोप । स्पष्टम् । 'छद अपवारणे ण्यन्तात् त्क्त । इडभावो वृद्धभावश्च निपात्यते । णिलोपः, “रदाभ्याम्' इति नत्वम्, छन्नः । ‘ज्ञप मिच' इति चुरादिण्यन्तात् क्तः । “इडभावो वृध्यभावो णिलोपः' इति कैयटः, ज्ञप्त ।

पक्ष इति। निपातनाभावपक्ष इत्यर्थः । दमितः, शमित इति ॥ अमन्तत्वेन मित्वाद्रस्वः।
५४८
[कृदन्त
सिध्दान्तकौमुदीसहिता


३०६९ । रुष्यमत्वरसङ्घुषास्वनाम् । (७-२-२८)

एभ्यो निष्ठाया इङ्का स्यान् । रुष्टः-रुषितः । आन्तः-अमितः । तूर्ण त्वरितः । अस्यादित्वे पफल मन्दम् । सङ्गुष्टः-सडुषितः । आस्वान्तः-आस्वनितः।

३०७० । हृषेलॉमसु । (७-२-२९)

हृषेनिष्ठाया इङ्का स्यात् लोमसु विषये । दृष्टं-हृषितं लोम । 'विस्मित प्रतिघातयोश्च' (वा ४४१७) । दृष्टो-हृषितो मैत्रः । विस्मित प्रातहता वेत्यर्थः । अन्यत्र तु, “हृषु अलीके' उदित्वान्निष्ठायां नेट् । 'हृष तुष्टौ' इट् ।

३०७१ । अपचितश्च । (७-२-३०)

चायेनिपातोऽयं वा । अपचित:-अपचायित


ज्ञापित इति ॥ अवाराादकस्य रूपम् । चाराादकस्य तु ज्ञापत इत्यव । रुष्यमत्वर ॥ रुषि, अम, त्वर, सघुष्, आस्वन्, एषान्द्वन्द्वः । णाररात निवृत्तम् । पञ्चम्यर्थे षष्ठी । तदाह । एभ्य इति ॥ वा स्यादिति ॥ 'वा दान्त' इत्यतस्तदनुवृत्तरिति भाव . । रुष्टः-रुषित इति ॥ 'तीषसह' इति रुषेो वेट्कत्वात् “यस्य विभाषा' इति निषेधे प्राप्त विकल्पोऽयम् । आन्तः-अमित इति ॥ ‘अम गत्यादिषु' त्क्तः । इडभावपक्षे “ अनुनासिकस्य ’ इति दीर्घ । तूर्णः त्वरित इति ॥ 'वि त्वरा सम्भ्रमे' क्तः, इडभावपक्षे “ज्वरत्वर' इत्यूठ् । रदाभ्याम्' इति नत्वम्, णत्वम् । “ आदितश्च' इति नित्यमिप्निषेधे प्राप्त विकल्पोऽयम् । आदित्वस्य तु फलमात्मनेपदमात्रम् । तदाह । अस्य आदित्वे फलम्मन्दमिति ॥ तथा चव “एध वृद्धौ' इत्यादिवत् हस्वानुबन्धत्वमेव न्याय्यामिति भाव । संघुष्टः-संघुषित इति ॥ *घुषिरविशब्दने' इति घुषेस्सम्पूर्वस्य नित्यमिण्निषेधे प्राप्त विकल्पोऽयम् । अास्वान्तः-अास्वनितः इति ॥ आङ्पूर्वस्वनेः क्तः । इडभावपक्षे “ अनुनासिकस्य' इति दीर्घ । ‘क्षुब्धस्वान्त' इति निपातनन्तु सम्पूर्वस्य स्वनेर्न भवति । परत्वादस्यैव विकल्पस्य प्रासारख्याहु । 'न वा ' इति सूत्रभाष्ये तु सघुषास्वनोर्विषये उभयत्र विभाषेत्युक्तम् । हृषलॉमसु ॥ लोमसु कर्तृष्विति बोध्यम् । इदश्च “अजयम्' इति सूत्र भाष्य स्पष्टम् । हृष्टम्-हृषितं लोमेति ॥ 'गत्यर्थाकर्मक' इति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थ । विास्मतप्रतिघातयोश्चेति ॥ वार्तिकमिदम् । हृषेर्निष्ठाया इड़ा'इति शेष । उदित्वादिति । उदितो वा' इति खकाया वेट्कत्वात् “यस्य विभाषा' इति निष्ठायात्रेडित्यर्थः । तथा अळीकेऽर्थे हृष्ट इत्येव । मृषोत्क्तवानित्यर्थः । इडिति ॥ * हृष तुष्टौ' इति धातोः ते इडेव भवतीत्यर्थ । हृषितः तुष्ट इत्यर्थः । विस्मितप्रतिघातयास्तु धातूनामनेकार्थत्वादृत्तिः । तत्र लोमसु विस्मितप्रतिघातयोश्च ‘हृषु अळीके' इत्यस्मात् “यस्य विभाषा' इति नित्यमिणिनषेध प्राप्त विभाषेयम् । “हृष तुष्टौ' इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषा इति विवेकः । अपचितश्च ॥

अपपूर्वस्य विओ ण्यन्तस्य निष्ठायाचिभावो निपात्यते' इति भाष्यम् । तदाह ।
प्रकरणम्]
५४९
बालमनोरमा ।

३०७२ । प्यायः पी । (६-१-२८)

पी वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं मुखम् । अन्यत्र प्यानः-पीनः स्वेद सोपैसगस्य न' (वा ५०६५) प्रप्यानः । “आङ्पूर्वस्यान्धूधसोः स्यादेव' (वा ३४६१) । आपीनोऽन्धुः ।

३०७३ । हादेो निष्ठायाम् । (६-४-९५)

३०७४ । द्यतिस्यतिमास्थामिति किति । (७-४-४०)

एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सित: । मा, माङ, मेड़ः, मित । स्थितः ।

३०७५ । शाच्छेोरन्यतरस्याम् । (७-४-४१)

शितः-शातः । छितः-छातः । व्यवस्थितविभाषात्वाद्वतविषये श्यते नित्यम् । संशितं व्रतम् । सम्यक्सम्पादितमित्यर्थः । संशितो ब्राह्मणः । व्रत विषयकयत्रवानित्यर्थे

३०७६ । दुधातेर्हिः । (७-४-४२)

तादौ किति । अभिहितम् । निहितम् ।


चायेर्निपातोऽयमिति ॥ प्यायः पी ॥ वा स्यान्निष्ठायामिति ॥ ३शषपूरणमिदम् । 'विभापाभ्यवपूर्वस्य ' इत्यतो विभाषेति * स्फायः स्फी' इत्यता निष्ठायामिति चानुवर्तते इति भावः । व्यवस्थितविभाषेति । अत्र व्याख्थानमेव शरणम् । “सोपसर्गस्य न' इत्यादि भाष्ये स्पष्टम् । हृादो निष्ठायाम् ॥ ह्रस्वः स्यादिति । शेषपूरणमिदम् । 'खचि हस्वः’ इत्यतस्तनुवृतेरिति भावः । प्रहृन्न इति ॥ ‘ह्यादी सुखे' त्क्तः । ‘श्वीदित.’ इति नेट् । 'रदाभ्याम्' इति नत्वम् । द्यतिस्यति ॥ एषां चतुर्णा द्वन्द्वात्षष्ठी । 'दो अवखण्डने इत्यस्य द्यतीति निर्देश . । “षे अन्तकर्मणि' इत्यस्य तु स्यतीति निर्देशः । इत् ति कितीति च्छेद. । ईत्वेति । “घुमास्था' इति इंत्वस्य 'दो दद्धाः’ इतेि दद्रावस्य च यथासम्भव मपवाद इत्यर्थः। दोधातोरुदाहरति । दित इति ॥ मा माङ् मेङिति । 'गामादाग्रहणे घ्वविशेषः’ इति वचनादिति भाव . । शाच्छो ॥ *शो तनूकरणे ', “छो छेदन' अनयो कृतात्वयोर्निर्देशः । अनयोरिकारान्तादेशो वा स्यात् तादौ कितीत्यर्थः । व्यवस्थितेति । एतच भाष्ये स्पष्टम् । दधातेर्हिः । तादौ कितीति । शेषपूरणमिदम् । 'द्यतिस्यति १ इद च “ आङ्पूर्वस्यान्धूधसो.' (वा ३४३१) इति वार्तिकस्य “आङ्पूर्वस्यैव' इति

नियमसिद्धम्
५५०
[कृद्न्त
सिध्दान्तकौमुदीसहिता


३०७७ । दो दुद्धेोः । (७-४-४६)

घुसंज्ञकस्य 'दा' इत्यस्य 'दथु' स्यात्तादौ किति । चत्र्वम् । दत्त घोः' किम् । दात: । तान्तो वायमादेशः । न चैवं विद्त्तमित्यादावुपसर्गस्य 'दस्ति' (सू ३०७९) इति दीर्घपत्तिः । तकारादौ तद्विधानात् । दान्तो वा । धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे 'झषस्तथोः-' (सू २२८०) इति धत्वं शङ्क-यम् । सन्निपातपरिभाषाविरोधात् ।

३०७८ । अच उपसर्गतः । (७-४-४७)

अजन्तादुपसर्गात्परस्य “ दा' इत्यस्य घोरचस्तः स्यात्तादौ किति । चत्वम् । प्रत 'अवदत्तं विद्त्तश्च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तश्च निदत्तमिति चेष्यते ॥” [इति भाष्यम्]


इत्यतस्तदनुवृत्तेरिति भावः । दो दद्धो ।। द इति षष्ठयन्तम् । तदाह । दा इत्यस्येति । दथ् इति च्छेदः । तदाह । दथ् स्यादिति । तवर्गद्वितीयान्तोऽयमादेशः । तादौ कितीति । ति कितीत्यनुवृत्तेरिति भाव. । चत्वमिति । “खरि च' इति थकारस्य तकार इत्यथ । दात इति ।। दाप्दैपो रूपम् । अदाप् इत्युक्ते’ घुत्वाभावान्न दद्रावः । तान्तो वेति ॥ तवर्गप्रथमान्त इत्यर्थः । नन्वेव सति विदत्तमित्यादौ दस्तीत्युपसर्गस्य दीर्घत्वाप त्तिः । तत्र हि द इति षष्ठी सप्तम्यर्थे । इगन्तोपसर्गख्य दीर्घः स्यात् तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्कय निराकरोति । न चैवमिति । आदेशस्य तवर्गप्रथमान्तत्वे सतीत्यर्थ । तकारा दाविति ॥ 'दस्ति' इत्यत्र द इति षष्ठी तीत्यत्रान्वेति । तथाच इगन्तोपसर्गस्य दीर्घः स्यात् दकारादेशतकारादावुत्तरपदे इत्यर्थः । उत्तरपदाधिकारात् । ततश्च उत्तरपदस्यात्र तकारादित्वा भावात् न दीर्घ इति भावः । दान्तो वा धान्तो वेति ॥ तवर्गतृतीयान्तो वा चतुर्थान्तो वा अयमादेश इत्यर्थः । न चेति ॥ दान्तत्व निष्ठानत्वम्, धात्वन्त “झषस्तथो ' इति धत्वञ्च न शङ्कयमित्यन्वयः । सन्निपातेति ॥ दान्तादेशस्य धान्तादेशस्य च तकारादि प्रत्ययेोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वामम्भवादिति भावः । अच उपसर्गा

त्तः ॥ । अच इत्यावर्तते, एकमुपसर्गविशेषणम् । द्वितीयन्तु त इत्यत्राकार उच्चारणाथ स्थानिसमर्पकम् । तदाह । अजन्तादिति ॥ घोरिति ॥ घोरवयवस्येत्यर्थः । ततः स्या दिति ॥ तकारः स्यादित्यर्थः । ददादेशापवादः । चत्वैमिति ॥ प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चत्वेन तकार इत्यर्थः । अवदत्तं विदत्तञ्चेति । भाष्य स्थश्लोकोऽयम् । अत्र आदिकर्मणीयेतत् प्रदत्तमित्यत्रैव सम्बध्यत । नायम् ‘अञ्च उपसर्गात्तः इत्यस्य अपवाद इति भ्रमितव्यमित्याह । चशब्दाद्यथाप्राप्तमिति । तथा चावदत्तादिशब्देषु
प्रकरणम्]
५५१
बालमनोरमा ।

३०७९ । दुस्ति । (६-३-१२४)

इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । 'खरि च' (सू १२१) इति चत्र्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । 'घुमास्था (सू २४६२) इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । “जनसन- (सू २५०४) इत्यात्त्वम् । जातम् । सातम् । खातम् ।

३०८० । अदो जग्धिल्यैति किति । (२-४-३६)

ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्याल्यपि तादौ किति च । इकार उचारणार्थः । धत्वम् । 'झरो झरि–' (सू ७१) जग्धः । 'आदि कर्मणि क्तः कर्तरि च' (सू ३०५३) । प्रकृतः कटं स । प्रकृतः कटस्तन्न निष्ठायामण्यदर्थे' (सू ३०१४) इति दीर्घः । 'क्षियो दीघात्' (सू ३०१५) इति नत्वम् । प्रक्षीणः सः ।

३०८१ । वाऽक्रोशदैन्ययोः । (६-४-६१)


ददादेशेोऽपि कदाचिलभ्यते इत्यर्थ । अत एव प्रकृतसूत्रभाष्ये 'अचव उपसर्गात्तः’ इत्यस्यावकाशः प्रत्तमवत्तम् इति सङ्गच्छते इति भावः । दििस्त । 'इकः काशे' इत्यत” इक इति ‘उपसर्गस्य घञ्जयमनुष्ये' इत्यतः उपसर्गस्येति * ठूलेोपे' इत्यतो दीर्घ इति चानुवर्तते । उत्तरपद इत्याधि कृत तीत्यनेन विशेष्यते । तदादिविधिः । द इति षष्ठी ति इत्यत्रान्वेति । तथाच दाधातोरादेश यस्तकारः तदादै उत्तरपदे इति लभ्यते । तदाह । इगन्तेत्यादि । ननु नि दा त इति स्थिते “अच उपसर्गात्तः' इति दकारादाकारस्य तकारे दकारस्य “खरि च' इति चत्वें प्रकृत सूत्रेण उपसर्गस्य दीर्घ नीत्तामिति रूप वक्ष्यति । तदयुक्तम् । दीर्घ कर्तव्य चत्र्वस्यासिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाभावादित्यत आह । खरि चेति चत्र्वमाश्रयात् सिद्धमिति ॥ दादेशतकारमाश्रित्य विधीयमाने दीर्घ चत्वं नासिद्धम् । चत्वारसद्ध तकारमाश्रित्य विधिबला दल्यथ सूत्तमिति चिन्त्यम् । गतिश्च' इति सूत्रभाष्यवार्तिकयोस्सुदत्तमिल्य उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वन्नेतेि प्रपश्चितत्वात् । अथ धड्गापाधातुभ्य. त्क्त आह । घुमास्थेति । धीतमिति ॥ ‘दधातेर्हिः' इत्यत्र इलुविकरणग्रहणान्न हिभावः । अदो जाग्धिः । धत्वमिति । जग्धु त इति स्थिते “झषस्तथोः' इति तकारख्य धकार इत्यर्थ । झरो झरि इति । अनेन पाक्षिको धकारलेोप इत्यर्थः । आदिकर्मणि क्त इति । व्याख्यात प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति । कर्तुमारब्धवानित्यर्थः। कटस्य कर्मण अनाभिहितत्वात् द्वितीया । कर्तुरभिहितत्वात् तच्छब्दात्प्रथमा । चकाराद्रावे कर्मणि चेत्युक्तम् । तत्र कर्मण्युदाहरति । प्रकृतः कटस्तेनेति । प्रक्षीणस्स इति ।

आदिकर्मणि क्तः । आदिकर्मणीति वा । वाऽक्रोशदैन्ययोः ॥ अण्यदर्थ इत्यनुवर्तते ।
५५२
[कृदन्त
सिध्दान्तकौमुदीसहिता


क्षियो निष्ठायां दीघों वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षिता

३०८२ । निनदीभ्यां स्रातेः कौशले । (८-३-८९)

आभ्यां रुन्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः शास्त्रेषु । नद्यां स्रातीति नदीष्णः । “सुपि-' (सू २९१६) इति क ।

३०८३ । सूत्रं प्रतिष्णातम् । (८-३-९०)

प्रतेः स्न्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्रातम् ।

३०८४ । कांपष्ठलो गात्र । (८-३-९१)

कपिष्ठलो नाम यस्य कापिष्टलिः पुखः । ‘गोत्रे' किम् । कपीनां स्थलं कपिस्थलम् ।

३०८५ । विकुशमिपरिभ्यः स्थलम् । (८-३-९६)

एभ्यः स्थलस्य सस्य षः स्यात् । विष्टलम् । कुष्टलम् । शमिष्टलम् । परिष्टलम् ।

३०८६ । गत्यर्थाकर्मकश्लिषशीड्स्थासवसजनरुहजीर्यतिभ्यश्च । (३-४-७२)

एभ्यः कर्तरि क्तः स्याद्भावकर्मणोश्च । गङ्गां गत । गङ्गां प्राप्तः । म्लान: स: । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयित: । वैकुण्ठमधिष्ठित


ण्यदथे भावकर्मणी इत्युक्तम् । आक्रोशे उदाहरति । क्षीणायुभेवांते । 'गत्यर्थकर्मक इति कर्तरि क्तः । दैन्य उदाहरति । क्षीणोऽयं तपस्वीति । कृश इत्यर्थ । निनदीभ्याम् ।। सस्य षः स्यादिति ।। “सहस्साडस्सः' इत्यतः स इत षष्ठयन्तमनुवर्तते, “ अपदान्तस्य मूर्धन्यः’ इत्यप्यधिकृतमिति भाव । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति ॥ नद्याडुशल स्नातीति विग्रहः । सुपीति क इति । “सुपि स्थ.’ इत्यत्र सुपीति योगावभागातू क इत्यर्थः । गल्यर्थ । गत्यर्थ, अकर्मक, श्लिष, शीड्, स्था, आस, वस, जन, रुह, जीर्यति एषान्दशानान्द्वन्द्वः । ‘ल. कर्मणि च भावे च' इत्यतः भावे कर्मणीति ‘आदिकर्मणि क्तः कर्तरि च इत्यतः कर्तरि इति चानुवर्तते । तदाह । एभ्य इत्यादिना । कर्तरीयेवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः । गङ्गाङ्गत इति । कर्तरि क्तः । गङ्गाम्प्राप्त इति । “आप्ल व्याप्तौ' उपसर्गवशाद्भतौ वर्तते । अकर्मकादुदाहरति । म्लान इति । क्षीण इत्यर्थः । सयोगादः’ इति निष्ठानत्वम् । आश्लिष्ट इति । आलिङ्गितवानित्यर्थः । ननु अकर्मकत्वादेव सिद्धे शीडादीना पुनहणं व्यर्थमित्यत आह । शेषमधिशयित इति । शेषे शयितवा नित्यर्थः । “अधिशीड्स्थासाम्' इति शेषः कर्म । अतो नाकर्मकत्वादिह प्राप्तिरिति भावः ।

वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थितवानित्यर्थः । ‘अधिशीड्स्थासाम्’ इति वैकुण्ठः कर्म ।
प्रकरणम्]
५५३
बालमनोरमा ।

शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्धमनु जीर्णः । पक्षे प्राप्ता गङ्गा तेनेत्यादि ।

३०८७ । क्तोऽधिकरणे च ध्रव्यगतिप्रत्यवसानार्थेभ्यः। (३-४-७६)

एभ्योऽधिकरणे क्तः स्यान् । चाद्यथाप्राप्तम् । ध्रौव्यं स्थैर्यम् 'मुकुन्दस्यासितामदमिदं यातं रमापते. ।

पक्षे आसेरकर्मकत्वात्कतरि भावे चव । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च । रमापतिरिदं यात । तेनेदं यातम् । भुजे कर्मणि । अनन्तेनेदं भुक्तम्। कथं भुक्ता ब्राह्मणाः’ इति । भुक्तमस्ति एषामिति मत्वर्थीयोऽच् । वर्तमान इत्यधिकृत्य ।


अतो नाकर्मकत्वादिह प्राप्ति । शिवमुपासित इनि । शिवम्परिचरितवानित्यर्थ । उपवेश नाथकत्व अक्कमकत्वऽाप इह उपसगवशन्नाथान्तरसक्रमकत्वादकमकत्यनन न प्राप्तिरिति भाव । यजादन्वात्सम्प्रसारणम् । “ शास इति ष । हरिदिने न भुक्तवानित्यर्थ । ‘उपान्वध्यास ' इति हरिदिनङ्कर्म । ततश्चाकर्म कत्वाभावादप्राप्तिः । राममनुजान इनि । अनुकृतवानत्यर्थः । अनुसृत्य जातवानिति वा । उपर्याक्रान्तवानित्यर्थ वश्व मनुजाण इात जधाता कर्तरि क्तः । 'ऋनः इति इत्त्व, रपरत्वं ‘हाल च' इति दीर्घः । ‘रदाभ्याम्' इति नत्व, णत्वम् । पक्षे इति । कर्तरि प्रत्ययाभावपक्षे इत्यर्थः । तक्तोऽधिकरणे च । ध्रीव्य गतिः प्रत्यवसानञ्च अर्थो येषामिति विग्रहः । भ्रौव्यार्थेभ्यः गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्विित यावत् । चाद्यथाप्राप्तमिति ॥ कर्मकर्तृभावेवष्वपि यथासम्भवमित्यर्थः । ध्रौव्यमित्यस्य विवरण स्थैर्यमिति ॥ स्थिरीभवनम, उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितामद मिति ॥ श्रोकोऽयम् । आस्यते अस्मिन्नित्यासितम्, आसनमित्यर्थः। भ्रौव्यार्थस्योदाहरणमिदम् । इदं यानं रमापनेरिति । गत्यर्थस्योदाहरणम् । यायत गम्यते अस्मिन्निति यात, मार्ग इत्यर्थः । भुक्तमेतदनन्तस्येति ॥ भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानामिल्यथः । 'आधि करणवाचिनश्च' इति त्रिष्वपि कर्तरि षष्ठी । पक्षे इन ॥ अधिकरणे प्रत्ययाभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति ॥ ततश्च न कर्मणि इत्यर्थः । आसितो मुकुन्द तक इति ॥ आसितवानित्यर्थः । आसितं तेनेति ॥ भवे उदाहरणम् । गत्यर्थेभ्य इत ॥ तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थ । “लः कर्मणि च ? इत्यत्रादर्शनादिति भावः । भुजे कर्मणीति ॥ भक्षणार्थात्कर्मणि क्तः, न तु भाव । सकर्मकभ्यो भावे प्रत्ययस्य ‘लः कर्मणि' इत्यत्रादर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अन.भ धानादित्यर्थः । कथमिति ॥ भुजः कर्तरि क्ताभावस्योक्तत्वादिति भावः । सम,धते । भुक्त मस्त्येषामिति । अत्र गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययाऽस्त्यव । अविशेषात् 'अजर्य सङ्गतम्

70
५५४
[कृदन्त
सिध्दान्तकौमुदीसहिता

३०८८ । जीतः क्तः । (३-२-१८७)

शि विद्ा' क्ष्विण्ण । *वि इन्धी' इद्धः ।

३०८९ । मतिबुद्धिपूजार्थेभ्यश्च । (३-२-१८८)

मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजित । आर्चितः । चवकारोऽनुक्तसमुचयार्थः । 'शीलितो रक्षितः क्षान्त आकुष्टो जुष्ट इत्यपि' इत्यादि ।

३०९० । नपुंसके भावे क्तः । (३-३-११४)

कुीबत्वविशिष्ट भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ।

३०९१ । सुयजोर्डनिप् । (३-२-१०३)

सुनोतेर्यजेश्च ङ्कनिप्स्यादूते । सुत्वा, सुत्वानौ । यज्वा, यज्वानैौ ।

३०९२ । जीर्यतेरतृन् । (३-२-१०४) ।

भूते इत्येव। जरन्-जरन्तौ-जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णः जीर्णवान्।


इति सूत्रे “ अनेकमन्यपदार्थे' इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमा चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ॥ ‘वर्तमाने लट्' इत्यतो मण्डूकप्लुत्या अनु वर्तमान इत्यर्थः । चानशादीनां सर्वकालतायाः 'भूते' इति सूत्रे भाष्ये उक्तत्वात् इत्याहुः । आीतः क्तः ॥ त्रिः इत् यस्य तस्माद्वर्तमानक्रियावृत्तेः क्त इत्यर्थः । “तयोरेव कृल्यक्त' इति भावकर्मणेोरेव भूते विाहितः क्तः वर्तमाने न प्राप्रेोतीत्यारम्भः । श्विण्ण इति ॥ “आदितश्च इति नेट् । इद्ध इति ॥ “श्वीदितः' इति नेट् । मतिबुद्धि ॥ मति, बुद्धि, पूजा, अर्थ एषामिति विग्रहः । वर्तमाने त्क्त इति शेषः । ‘तयेोरेव' इति भावकर्मणोरेव। मतः इष्ट इति ॥ इच्छाथैकान्मनेरिषेश्च क्तः । 'तीषसह' इति वेट्कत्वात् 'यस्य विभाषा' इति नेट् । शीलितो रक्षित इति ॥ भाष्यस्थश्लोकोऽयम् । इत्यादीति ॥ आदिना “रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ।” “हृष्टतुट्टैौ तथाक्रान्तस्तथोभौ सयतोद्यतौ । कष्टम्भविष्यतीत्याहुरमृतःपूर्ववत्स्मृतः” इति सङ्गहः । कष्टशब्दो भविष्यति अमृतशब्दो वर्तमाने इत्यर्थः । नपुंसके भावे क्त ॥ काल सामान्ये इति ॥ अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । ‘अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकात्'इति ‘णेरध्ययने वृत्तम्’ इति सूत्रे भाष्यकैयटयोः स्पष्टम्। तद्वनयन्नकर्मकेभ्य एवोदाहरति । जलिपतमित्यादि । गत भुक्तमित्यादौ तु अविवक्षितकर्मकत्वात् अकर्मकत्व बोध्यम् । अत एव गत हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविवक्षया षष्ठीति दिक् । सुयजो ईनिप् ॥ पञ्चम्यर्थे षष्ठी । सुनोतेर्यजेश्च इनिबित्यर्थः । भूते इति । अस्य भूताधिकारस्थत्वा दिति भावः । सुत्वा-सुत्वानाविांते ड्रनिपि उपावितौ, इकार उच्चारणार्थ गुणः । जीर्यतेरतृन् ॥ भूते इत्येवेति ॥ भूतार्थवृत्तधातोरतृन् स्यादित्यर्थः । ऋकार

नकाराबितौ । अत्प्रत्ययशिष्यते । जरन्निति ॥ उगित्वान्नुम् । जीर्ण इति ॥ ‘ऋत इत्’
प्रकरणम्]
५५५
बालमनोरमा ।


३०९३ । छन्दसि लिट् । (३-२-१०५)

३०९४ । लिटः कानज्वा । (३-२-१०६)

३०९५ । कसुश्च । (३-२-१०७)

इह भूतसामान्ये छन्दसि लिट् । तस्य विधीयमानौ कसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । “ तं तस्थिवांसं नगरो पकण्ठे' । 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि ।

३०९६ । वस्वेकाजाडसाम् । (७-२-६७)

द्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट्, नान्येषाम्। एकाच् आरिवान् । आत्, ददिवान् । जक्षिवान् । “एषाम्' किम् । बभूवान् ।


रपरत्वम्, 'हलि च' इति दीर्घः । निष्ठानत्वम् । छन्दसि लिट् ॥ लिटः कानज्वा ॥ कसुश्ध ॥ त्रीणीमानि सूत्राणि । अत्र प्रथमसूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्ट । भूतसामान्ये छन्दसि लिडिति ॥ अनद्यतनपरोक्षत्व छन्दसि न विवक्षितमिति भावः । लिट. कानज्वा' इति द्वितीय सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूत लिटः कानजादेश. स्यादित्यर्थः । लिङ्ग्रहण लिण्मात्रस्य ग्रहणार्थम् । तेन “परोक्ष लिट्’ इति यो लिड़िहितः तस्यापि ग्रहणार्थः । अन्यथा “ अनन्तरस्य ' इति न्यायेन प्रकृतस्यैव लिटो प्रहण स्यादिति वृत्तौ स्पष्टम् । वाग्रहणन्तु पक्षे लिटः श्रवणार्थ, वासरूपविधिलादेशेषु नेति ज्ञापनार्थ वा । तत्प्रयोजनन्तु 'भाषाया सदवस' इत्यत्र अनुपदमेव वक्ष्यते । “कसुश्च' इति तृतीय सूत्रम् । छन्दसि भूते लिटः कसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे कसेोरेवानुवृत्त्यर्थः । इमौ कानच्कसू आदेशौ छान्दसाविति अत्रैव भाष्यकैयटयोः स्पष्टम् । तदाह । तस्येत्यादि त्रिमुनिमतमित्यन्तम् ॥ 'विभाषा पूर्वाह्वापराह्म' इति सूत्रभाष्ये तु पपुष आगत पपिवदूप्यमिति प्रयुक्तम् । तेन लोकेऽपि कचित् कसोस्साधुत्व सूचितम् । तदाह । कवयस्त्विति ॥ तस्थिवांसमिति ॥ स्थाधातोः लिटः कसुः । द्वितीयैकवचने ‘अत्वसन्तस्य’ इति दीर्घ, उगित्वान्नुम् । अधिजग्मुष इति ॥ आधिपूर्वाद्भमेर्लिटः कसुः 'गमहन इत्युपधालोप, शसि वसोस्सम्प्रसारण, पूर्वरूपम्, षत्वम् । वस्वे ॥ वसु इत्यविभक्तिको निर्देश. । तथाच व्याख्यास्यति । वसोरिति । नित्यत्वात् द्वित्वे कृते एकाच्त्वमेव नेति कथमिट्टस्यात् इत्यत आह । कृतद्विर्वचनानामेकाचामिति ॥ कृतेऽपि द्वित्वे एकाचव एव ये अवशिष्यन्ते तेषामित्यर्थः । 'नेनड़शि कृति' इति निषेध बाधित्वा कादिनियमात् सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह । नान्येषामिति ॥ आरिवानिति ॥ ‘ऋ गतौ' “ऋच्छ त्यूताम्” इति गुणे कृते द्वित्वादिषु पूर्ववत् कृतेषु अयमेकाच् । ददिवानिति ॥ डु दाञ् दाने कृते द्वित्वे नायमकाच् इण्निमित्तश्चातो लोपो नासति तस्मिन् भवतीति अनेकाजर्थमा

द्वहणम् । जक्षिवानिति ॥ 'लिठ्यन्यतरस्याम्' इत्यदेर्धस्लादेशः । द्वित्वे कृते नायमेकाजिति
५५६
[कृदन्त
सिध्दान्तकौमुदीसहिता

३०९७ । भाषायां सद्वसश्रुवः । (३-२-१०८)

सदादिभ्यो भूतसामान्ये भाषायां लिङ्का स्यान् , तस्य च नित्यं कसुः । निषेटषीमासनत्रबन्धधीर अध्यूघुषस्तामभवज्जनस्य । शुश्रुवान् ।

३०९८ । उपेयिवाननाश्चाननूचानश्च । (३-२-१०९)

एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिङ्का, तस्य नित्यं उपेयिवान् । “उपेयुषः स्वामपि मूर्तिमग्रयाम्' । उपेयुषी उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्रातेः कसुरेिडभावश्च धृतजयधृनेरनाशुषः' इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वद्स्यानुवचन कृतवाननूचान


घसिग्रहणम् । भाषायाम् एषान्द्वन्द्वान्पञ्चम तस्य च नित्यं कसुििन वाग्रहण लिटैव सम्बश्यते । तस्य कसुतु नित्य इति भाष्ये स्पष्टम् । पक्षे लुड् तस्य भूतसामान्ये विहितत्वात् तु भूतसामान्ये लिडय नित्य लुडपवादः स्यात् । सरूपत्वात् । अस्य व भूतसामान्ये लिटः न तिड् । अस्य कसोस्तदपवादत्वात् वासरूपांवाधतु लादेशषु नात कानज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखर विस्तर । निषेदुषीमिति ॥ निपूर्वोत्स देर्लिटः कसुः, द्वित्वम् “ अत एकहल्मध्ये ' इत्यत्वाभ्यासलोपौ, वसास्सम्प्रसारणं, पूर्वरूप, षत्वम् । अध्यूषुष इति ॥ आधिपूर्वाद्वसधातोर्लिट कसु, यजादित्वाद्धातोर्वस्य सम्प्रसारणम् । पूर्वरूपम्, उस् इत्यम्य द्वित्व, हलादिशेष , सवर्णदीर्घ । शसि वसास्सम्प्रसारण, पूवरूपम् शुश्रुवानात श्रुधातोर्लिट कसुः, द्वित्वम् । उपेयिवान् ॥ इडिति ॥ उपपूर्वादिण्धातो लिट कसु, नित्यत्वाद्दित्वम् । वलादिलक्षण इट् “नेड़शि कृति' इति प्रतिषिद्ध, स तावत् कादिनियमान्पुनरुत्थितः । पुनश्च 'वखेकाजाद्धमाम्' इति सूत्रेण एकाचश्च आदन्ताच घसेश्च परस्य वसेोरिट् स्यात् नान्येभ्य इत्यर्थकन द्वित्व नन्तरमनकाच्त्वान् प्रतिषिद्धः, सोऽयमिट अनेन निपातनन प्रतिप्रसूयते' इति भाष्य स्पष्टम् । इटि कृत उत्तरखण्डस्य इकारस्य यण् , अभ्यासस्य दीघतु निपात्यते । नन्वत्र अपूर्व एव इट् निपात्यनामित्यत आह । उपेयुषीति उगत्वा । प्रातप्रसूता वल दलक्षण इट तु न तात्रामत्तस्य वकारस्य सम्प्रसारणेन विनाशोन्मुखत्वात् अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट स्यादिति भावः । उपेत्यांचवांक्षतांमेांत ॥ अत्र व्याग्व्यानमेव शरणम्। अश्मातेरेिते श्राविकरणः, क्रयादिः, लिट. कसु, द्वित्वम् “ अत आदे' इति दीर्घः, सवर्णदीर्घः, द्विहल्त्वा भावान्न नुट् । अश्रातश्व इत्यापन नुट् । इनुवकरणस्थस्यव तत्र प्रहणात् । नञ् उपपदसमासः । नलापो नञ्जः, तस्मान्नुडवि' इति भावः । वचेः कर्तरीति ॥ न तु भावकर्मणेोरिति भाव

प्रकरणम्]
५५७
बालमनोरमा ।


३०९९ । विभाषा गमहनविदुविशाम् । (७-२-६८)

एभ्यो वसोरिड्रा । जग्मिवान्-जगन्वान् । जन्निवान्-जघन्वान् । विविदिवान्–विविद्वान् । विविशिवान्-विविश्वान् । विशिना साहचर्याद्विन्दते ग्रेहणम् । वेत्तेस्तु विविद्वान् । “नेडूशि कृति' (सू २९८१) इतीण्निषधः । 'द्वशेश्च' (वा ४४५२) । ददृशिवान्-दद्दश्वान् ।

३१०० । लटः शतृशानचावप्रथमासमानाधिकरणे । (३-२-१२४)

अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ।

३१०१ । आने मुक् । (७-२-८२)

अदन्तस्याङ्गस्य मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनु वर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि कचित् । सन्ब्राह्मणः । *माङ-याक्रोशे इति वाच्यम्' (वा २१०९) । *मा जीवन्यः परावज्ञादु:खदग्धोऽपि जीवति' । *माङि लुङ्’ (सू २२१९) इति प्राझे एतद्वचनसामथ्यलट

३१०२ । सम्बोधने च । (३-२-१२५)


कानचियजादित्वात्सम्प्रसारण, पूर्वरूप, सवर्णदीर्घः। विभाषा गम ॥ ‘विभाषा गमहन' इत्यादि स्पष्टम् । लटः शतृशानचौ ॥ ‘वर्तमान लट्’ इति पूर्वसूत्रविहितस्यैव एतौ शतृशानचैौ । अनन्तरस्येति न्यायादति ‘वर्तमानसामीप्य' इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारा वितौ । पचन्तमिनि ॥ पाकानुकूलव्यापाराश्रयमित्यर्थः *क्रियाप्रधानमाख्यातम्, सत्व प्रधानानि नामानि ' इति सिद्धान्तात् । शतशित्वेन सार्वधातुकत्वात् ३शाप “अतो गुणे' इति पररूपम् । शानाच शचावितौ । आाने मुक् ॥ ‘अङ्गस्य इत्यधिकृतम् । “अतो येयः’ इति पूर्वसूत्रादनुवृत्तेन षष्ठया विपरिणतेन अता विशष्यते । तदन्तविधि । तदाह । अदन्तस्येति ॥ मुकि ककार इत्, उकार उच्चारणार्थ, विकत्वादन्तावयवः । अनुवर्तमाने इति ॥ “वर्तमाने लट्’ इति पूर्वसूत्रादनुवृत्तम्य लडित्यस्य षष्ठया विपरिणामेन उक्तार्थलाभे सतीत्यर्थः । अधि केति ॥ सूत्राक्षरानारूढस्यापि अर्थस्य लाभार्थमित्यर्थ । सन् ब्राह्मण इति ॥ “अस भुवि' शतृप्रत्यये शपेो लुक् । श्रसोरोपः । माडीति ॥ माड प्रयुज्यमान आक्राश गम्य लटश्शतृशानचाविति वक्तव्यमित्यर्थः । मा जीवन्निति ॥ न जीवत्ययम् अनुपकारित्वात् । मृतप्राय इत्यर्थः। मापचमान इत्यप्युदाहार्यम्। ‘लट३शतृशानचा ' इत्येव सिद्धेः किमर्थमिदमित्यत आह । माङि लुङिन्तीति ॥ सम्बोधने च ॥ लटइशतृशानचाविति शेषः । प्रथमा

समानाधिकरणार्थ आरम्भः । पूर्वसूत्रस्थपुनलङ्कहणस्य अधिकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थ
५५८
[कृद्न्त
सिध्दान्तकौमुदीसहिता

३१०३ । लक्षणहेत्वोः क्रियायाः । (३-२-१२६)

क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं । “कृत्यचः (सू २८३५) । प्रपीयमाणः सोम ।

३१०४ । ईदासः । (७-२-८३)

आसः परस्यानस्य ईत्स्यात् । 'आदेः परस्य’ (सू ४४) आसीनः ।

३१०५ । विदेः शतुर्वसुः । (७-१-३६)

वेतेः परस्य शतुर्वसुरादेशो वा स्यात् । विद्वान् । विदन् । विदुषी ।

३१०६ । तौ सत् । (३-२-१२७)

तौ शतृशानचौ सत्संज्ञौ स्तः ।

३१०७ । लटः सद्वा । (३-३-१४)

व्यवास्थतावभाषयम् । तन्नाप्रथमास्सामानाधकरण्य प्रत्ययान्तरपद्याः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं


मिदम् । लक्षणहेत्वोः ॥ लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणम्, ज्ञापकम् । तदाह । क्रियायाः परिचायके इति ॥ धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । कतैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीन शयन भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति । अर्जयन्वसतीति ॥ अर्जनाय वसतीत्यर्थ । हेतावुदाहरणान्तरमाह । हरिं पश्यन्निति ॥ हरिदर्शनेन ससारदु खान्मुच्यते इत्यर्थः । ननु धनाद्यार्जनस्य वाससाध्य तया कथ तस्य वासहेतुत्व इत्यत आह । हेतुः फलं कारणञ्चेति ॥ इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुत्वमिति भाव । प्रपीयमाण इति ॥ अत्र भिन्नपदस्थत्वात् कथ णत्वमित्यत आह । कृत्यच इति ॥ ईदासः ॥ आस इति पञ्चमी । आनस्येति ॥ 'आने मुक्’ इत्यतस्तदनुवृत्तरिति भावः । विदेः शतुर्वसुः ॥ वेत्तेरिति ॥ विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम् । शतु परस्मैपदत्वात् विद्यतेर्विन्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य न ग्रहणम् । ‘निरनुबन्धकग्रहणे न सानुबन्धकस्य’ इत्युक्ते रिति भावः । वा स्यादिति । ‘तुह्यास्तातड्’ इत्यतस्तदनुवृत्तरिति भाव । विदुषीति ॥ उगि त्वान्डीप्, वसोस्सम्प्रसारण, पूर्वरूपम्, षत्वम् । तौ सत् ॥ ‘लटश्शतृशानचौ' इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति । तदाह । तौ शतृशानचाविति ॥ लष्टः सद्वा ॥ लटश्शतृ शानचौ वा स्त इत्यर्थः । व्यवस्थिति ॥ व्याख्यानादिति भाव. । नित्यमिति ॥ तेन तिङान्निवृति । अप्रथमासामानाधिकरण्ये उदाहरति । करिष्यन्तमिति । प्रत्यय परत उदाहरति । करिष्यतोऽपत्यं कारिष्यत इति ॥ उत्तरपदे उदाहरति । करिष्यद्भक्ति

रिति ॥ करिष्यन्ती भक्तिरिति कर्मधारयः । सम्बोधने उदाहरति । हे करिष्यन्निति ॥
प्रकरणम्]
५५९
बालमनोरमा ।

कारिष्यत: । करिष्यद्भक्ति । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमा सामानाधिकरण्येऽपि कचित् । करिष्यतीति करिष्यन् ।

३१०८ । पूङ्यजोः शानन् । (३-२-१२८)

वतमान । पवमानः । यजमानः ।

३१०९ । ताच्छील्यवयोवचनशक्तिषु चानश । (३-२-१२९)

एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं विभ्राण । शत्रु निघ्रान

३११० । इड्धायः शत्रकृच्छूिणि । (३-२-१३०)

आभ्यां शतृ स्याद्कृच्छूिणि कर्तरि । अधीयन् । धारयन् । “अकृच्छिणि किम् । कृच्छेण अधीते धारयति ।

३१११ । द्विषोऽमित्रे । (३-२-१३१)

३११२ । सुओो यज्ञसंयोगे । (३-२-१३२)

सर्वे सुन्वन्तः, सर्वे यजमानाः, सत्रिणः ।


शयिष्यमाणा भोक्ष्यन्ते यवना इति लक्षणे उदाहार्यम् । हेतावुदाहरति । अर्जयिष्यन्वस तीति ॥ प्रथमासामानाधिकरण्येऽपि कचिदिति ॥ प्रथमासामानाधिकरण्येऽपि कवि दित्यर्थः । कदाचिदित्यपि द्रष्टव्यम् । इदञ्च “लट् शेषे च' इति भविष्यदधिकारविहिते लट्येव प्रवतते इति “अनवक्लप्यमर्ष” इत्यत्र भाष्ये स्पष्टम् । पूङ्यजोः शानन्॥ पञ्चम्यर्थे षष्ठी । वर्तमाने इति ॥ शेषपूरणमिदम् । 'वर्तमान लट्’ इत्यतस्तदनुवृत्तरिति भावः । लड्ग्रहणन्तु निवृत्तम् । ततश्च ण्वुलादिवत्स्वतन्त्रोऽयम्, नतु शत्रादिवछादेशः । तथा च कर्तर्येवायम्, नतु भावकर्मणोः । नच लादेशत्वाभावे सोमम्पवमान इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यम् । ‘न लोक' इति सूत्रे ‘तृन्’ इति प्रत्याहार इत्युक्तत्वात् । ताच्छील्य ॥ चानाशि चशावितौ । भोगं भुञ्जान इति ॥ भोगशील इत्यर्थः । कवचम्बिभ्राण इति ॥ यौवनबलादिति भावः । शत्रुन्निज्ञान इति ॥ निहन्तु शक्त इत्यर्थः । अतः परत्वाभावान्न मुक् । वानश. लादेशत्वा भावात् अनात्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्ति' । इङ्धायः ॥ शतृ अकृच्छिणीति छेदः । अकृच्छूम्, अदुःखम्, तदस्यास्तीति अकृच्छूी। इड्, धारि, अनयोः द्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति ॥ सुखमध्येतेत्यर्थः । धारयन्निति ॥ सुखेन धारयितेत्यर्थ । द्विषोऽमित्रे ॥ द्विषश्शतृप्रत्ययः स्यात् । अमित्रे कर्तरीत्यर्थः । सुञ्जो यज्ञ ॥ यज्ञसयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । सयोगग्रहण यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्त दर्शपूर्णमासज्यातिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तन्तु

सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह । सर्वे सुन्वन्त इति ॥
५६०
[कृदन्त
सिध्दान्तकौमुदीसहिता


३११३ । अर्हः प्रशंसायाम् । (३-२-१३३)

३११४ । आ केस्तच्छीलतद्धर्मतत्साधुकारिषु । (३-२-१३४)

किपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु वाध्या ।

३११५ । तृन् । (३-२-१३५)

कर्ता कटम् ।

३११६ । अलङ्कृञ्जनिराकृञ्प्रजनोत्पचेोत्पतोन्मद्रुच्यपत्रपवृतुवृधुसहचर इष्णुच् । (३-२-१३६)

अलङ्करिष्णुरित्यादि । (निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्प तिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः )

३११७ । णेश्छन्दसि । (३-२-१३७)

'वीरुधः पारयिष्णव ’ ।


अर्हः प्रशंसायाम् ॥ अर्ह इति पञ्चमी । शतृप्रत्यय इति शषे । अर्हन्निति ॥ पूजाम्प्राप्तु यापय इत्यथ । अत्र प्रशस्तस्यव पूजायाग्यत्वात् प्रशसा गम्यत । अभा केस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ आडभिविधौ । तदाह । किपमभिव्याप्येति ॥ भ्राजभासधुर्विद्युनर्जिपृजुग्रावस्तुवः किप्' इति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छी लिकाः प्रत्ययाः प्रायण सोपसर्गेभ्यो नेति ‘आढ्यसुभग’ इति सूत्रे भाष्ये स्पष्टम् । तच्छील तत्खभावः फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मः यस्य स तद्धर्मा । ख धर्मोऽयमिति प्रवर्तमानः । तस्य धात्वर्थस्य साधुकर्ता तत्साधुकारी । तृन् ॥ धातोस्तृन्प्रत्ययः स्यात् तच्छीलादिषु कर्तृषु । तच्छीले उदाहरति । कर्ता कटमिनि ॥ कटकरणक्रियाशील इत्यर्थः । “न लोक' इति षष्ठीनिषेध । “न लाक' इति सूत्रे तृन्नित्यनेन ‘लट शतृ’ इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहाराश्रयणात् । तद्धर्मणि यथा । मण्डयितार. श्राविघ्रायनाः । ऊढां वधू श्राविधायना नाम देशविशेषीयाः वधूमण्डन स्वधर्म इत्यनुष्टातार इत्यर्थः । तत्साधुः कारिणि कर्ता कटमिलेयेवोदाहरणम् । कट साधु करोतीत्यर्थः । अलंकृञ्ज ॥ अलकृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर, एषां द्वादशानन्द्वन्द्वात्पञ्चमी । एभ्यः तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः प्रजनिष्णुः उत्पविष्णुः उत्पतिष्णुः उन्मदिष्णुः रोविष्णुः अपत्रपिष्णुः वर्तिष्णुः वार्धिष्णुः सहिष्णुः

चरिष्णुः । णेश्छन्दसि ॥ ण्यन्ताद्धातोरिष्णुच् स्यात् छन्दसीत्यर्थः । पारयिष्णव इति ॥
प्रकरणम्]
५६१
बालमनोरमा ।

३११८ । भुवश्च । (३-२-१३८)

छन्दसीयेव । भविष्णुः । कथं तर्हि *जगत्प्रभोरप्रभविष्णु वैष्णवम् इति । निरङ्कशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णु. । नैतद्भाष्ये दृष्टम् ।

३११९ । ग्लाजिस्थश्च क्लुः । (३-२-१३९)

छन्दसीति निवृत्तम् । गिद्यं न तु कित् । तेन स्थ ईत्वं न । ग्लास्नुः । गित्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भव । **युकः किति' (सू २३८१) इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः । “दंशेश्छन्दस्युपसङ्ख-यानम्’ (वा २१२९) ।

३१२० । त्रसिगृधिधृषिक्षेिपः क्नुः । (३-२-१४०)

त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ।

३१२१ । शमित्यष्टाभ्यो घिनुण । (३-२-१४१)

उकार उचारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा-शमिनीतरा इत्यत्र 'उगितश्च' (सू ९८७) इति ह्रस्वविकल्पः ।


पृधातोण्र्यन्तादिष्णुचि णेलपम्बाधित्वा “अयामन्ताल्वाय्य' इयय् । इद सूत्रं वैदिकप्रक्रिया यामेव व्याख्यातुमुचितम् । भुवश्च ॥ छन्दसीत्येवेति ॥ भूधातोरिष्णुच् स्यात् । तच्छी लादिषु छन्दसीत्यर्थः । अण्यन्तार्थ आरम्भ । ग्लाजिस्थश्च ॥ निवृत्तमिति । व्याख्या नादिति भावः । चात् भुव इत्यनुकृष्यते । ग्ला, जि, स्था, एषान्द्वन्द्वात्पञ्चमी । ग्ला, जि, स्था, भू इत्येभ्यः क्स्नुः स्यात् तच्छीलादिष्वित्यर्थः । ककार इत् । स्थाम्नु इत्यत्र कित्वलक्षण ‘घुमास्था’ इतीत्वमाशङ्कय आह । गिद्यमिति ॥ सूत्रे चत्वेन ककारनिर्देश इति भावः । गित्वान्न गुण इति ॥ 'क्कूडिति च' इत्यत्र गस्य चत्र्वेन ककारान्तरप्रश्लषादिति भाव । ननु भूष्णुरित्यत्र इट् स्यात्, “श्रयुक किति' इति कित एव इण्निषेधात् । अस्य च गित्त्वादित्यत आह । श्-युक इति ॥ प्रश्लेषादिति ॥ चत्वेनेति भावः । त्रसिगृधि ॥ तच्छीलादिषु कर्तृ विति शेष ! त्रस्नुरिति ॥ नडुशीति नट। गृध्नुः धृष्णुरि यत्र कित्वान्न गुणः शमित्यष्टाभ्यः ॥ इतिशब्दः आदिपर्यायः । शमादयः दिवादौ स्थिताः । तेभ्यः अष्टाभ्यो घिनुण् स्यात् तच्छीलादिष्वित्यर्थ । धित्वमुत्तरसूत्रार्थम् । “ अकर्मकेभ्य एव घिनुण्” इति भाष्यम् । शमिनितरा-शामिनीतरेति ॥ शमिन्शब्दात् त्रियान्नान्तलक्षणडीबन्तात् तरबन्ताष्टाप् । हृस्वविकल्पः इति ॥ भाष्यमते उगित्वाद्रस्वः । काशिकामते तु उगित्वाभावान्न हस्वः ।

71
५६२
[कृदन्त
सिध्दान्तकौमुदीसहिता


न चैवं शमी शामिनावित्यादौ नुम्प्रसङ्गः । झल्प्रहणमपकृष्य झलन्तानामेव तद्विधानात् । “नोदात्तोपदेशस्य-' (सू २७६३) इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्ष्मी । कुमी । प्रमादी । उत्पूर्वान्मदे अलङ्कवादिसूत्रेणेष्णुजुक्तः, वासरूपविधिना घिनुणपि। उन्मादी। ताच्छीलिकेषु वासरूपविधिनस्ति' इति तु प्रायिकम् ।

३१२२ । सम्पृचानुरुधाङन्यमाड-यसपरिस्सृसंसृजपरिदेविसञ्ज्वरपरिक्षिपपरिटपरिवद्परिदृहपरिमुहृदुषद्विषदुहदुहयुजाक्रीडविविचत्यजरजभजातिच्चरापचरामुषाभ्याह्नश्च

(३-२-१४२)

घिनुण्स्यात् । सम्पक । अनुरोधी । आयामी । आयासी । परिसारी । संसर्ग । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भार्गी । अतिचारी । अपचारी । आमोषी । अभ्याघाती ।

३१२३ । वा कषलसकत्थस्रम्भः । (३-२-१४३)


नच हस्वाभावे “तसिलादिषु' इति पुवत्व शङ्कयम् । “सज्ञापूरण्योश्च' इति निषेधात् । ननु भाष्यरीत्या उगित्वाभ्युपगमे शमी-शमिनौ इत्यादौ 'उगिदचाम्' इति नुम् स्यादित्याशङ्कय निराकरोति । न चैवमिति ॥ झल्ग्रहणमपकृष्येति ॥ 'नपुसकस्य झलचः’ इति उत्तरसूत्रादात भाव . । एतच प्रकृतसूत्रे 'युवोरनाकौ' इति सूत्रे च भाष्य स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्कय आह । नोदात्तेति ॥ प्रमादीति ॥ मान्तत्वा भावान्न वृद्धिनिषेध । ननु उत्पूर्वान्मदेरुन्मादीति कथ घिनुण् । अलङ्कजादिसूत्रे उत्पूर्वा न्मदर्विशिष्य इष्णुचेो विधानादित्यत आह । उत्पूर्वादित्यादिना । ननु कथमत्र ताच्छी लिके धिनुणि वासरूपविधिप्रवृत्तिः । ताच्छीलिकेषु वासरूपविधिर्नास्तीति निषेधादित्यत आह । ताच्छीलिकेष्विति ॥ इयम्परिभाषा “निन्दहिस' इत्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति ॥ एतच 'सूदीपदीक्षश्च' इति दीपग्रहणादिति ‘जुचङ्कम्य दन्द्रम्य' इति सूत्रे भाष्ये स्पष्टम् । सम्पृचानुरुधाङयमाङयस ॥ सम्पृच, अनुरुध, आडयम, आडयस, परिसृ, संसृज, परिदेवि, सज्वर, परिक्षिप, परिट, परिवद, परिदह, परिमुह, दुष, द्विष, दुह, दुह, युज, आक्रीड, विवेिच, त्यज, रज, भज, अतिचर, अपचर आमुष, अभ्याहन्, एषां सप्तविंशानां द्वन्द्वात्पञ्चमी । सम्पकति ॥ “चजोः' इति कुत्वम् । अनुरोधीत्यादौ लघूपधगुणः । अदुपधषु उपधावृद्धि । परिदेवीति ॥ “देवृ देवने' भ्वादिः । दीव्यतस्तु ण्यन्तस्य न ग्रहणम् । लाक्षणिकत्वात्, अण्यन्तैस्साहचर्याञ्च । अभ्याघातीति ॥

हनस्तोऽविण्णलोः' इति तत्बम् । 'हो हन्तेः’ इति कुत्वम् । ौ कषलस ॥ कष, लस,
प्रकरणम्]
५६३
बालमनोरमा ।


विकाषी । विलासी । विकत्थी । विस्रम्भी ।

३१२४ । अपे च लषः । (३-२-१४४)

चाद्वैौ । अपलाषी । विलाषी ।

३१२५ । प्रे लपसृदुमथवद्वसः । (३-२-१४५)

प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ।

३१२६ । निन्दुहिंसशिखादविनाशपरिक्षिपपरिटपरिवादिव्याभाषासूयो वुञ् । (३-२-१४६)

पञ्चम्यर्थे प्रथमा । एभ्यो बुञ्स्यात् । निन्दकः । हिंसकः, इत्यादि । ण्वुला सिद्धे बुञ्वचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजाद्यो नेति ।

३१२७ । देविकुशोश्चोपसर्गे । (३-२-१४७)

आदेवकः । आक्रोशकः । “उपसर्गे' किम् । देवयिता । क्रोष्टा ।


कत्थ, स्रम्, एषान्द्वन्द्वात्पञ्चमी । एभ्यो घिनुणु स्यात् ताच्छील्यादिष्वित्यर्थ । अपे च लषः ॥ चाद्वाविति ॥ वैौ उपपदेऽपीत्यर्थ । अपेप वौ च उपपदे लषः घिनुण् इत्यर्थ । ताच्छील्यादिष्वेवेत्यर्थः । प्रे लप ॥ लप, ऋ, दु, मथ, वद्, वस्, एषां षण्णान्द्वन्द्वात्पञ्चमी । प्रे उपपद एभ्य' घनुण स्यात् ताच्छाल्यादाष्वत्यथ नन्दहिंस ॥ निन्द, हिंस, क्रुिश खाद, विनाश, परिक्षिप, परिट, परिवादि, व्याभाष, असूय, एषां दशानां द्वन्द्व. । पञ्चम्यर्थे प्रथमेति ॥ सौत्र पुस्त्वमेकवचन वेति भावः । विनाशेति विपूर्वस्य नशण्र्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्थः । केचित्तु विनाशीति ण्यन्तमेव पठन्ति । परिवादीति तु ण्यन्तमेव । असूयेति कण्डादियगन्त । इत्यादात ॥ , खादकः हकुशकः विनाशकः, परिक्षेपकः, परिराटक, परिवादकः, व्याभाषकः, असूयक । ननु ‘असूयो वुञ्’ इति असूयतेरेव बुञ्विधीयता, न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः । लित्स्वराजित्स्वरयोस्तु नास्ति विशेषः । उभयथाप्युदात्तत्वात् । असूयतेस्तु ण्वुलि प्रत्ययात् पूर्वं ऊकार उदात्तः । वुञ् ितु नित्यादिर्नित्यम्’ इति धातोरकार उदात्त इति विशेष. । तस्मादसूयतेरेव वुञ्विधिरिति युक्त मित्यत आह । ण्वुला सिद्धे इति ॥ तृजादयो नेतीति ॥ तच्छीलादिषु वासरूपविधिः सत्वे हि तद्विषये ण्वुलस्सरूपतया वुञ्जा नित्यम्बाधेऽपि तृजादयः स्यु । अत्र वासरूप विध्यप्रवृत्तौ तु ‘तृन्’ इति सूत्रेण तच्छीलादिषु तृनि प्राप्त बुञ्विधिरथैवान् । अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भाव । इद च प्रायिकम् । तत्फलन्तु उत्पूर्वान्मदेरलकृञ्जआदि सूत्रेण इष्णुजुक्तः, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् । देविकुशोः ॥ देवीति

चुरादिण्यन्तस्य ‘दिवु क्रीडा’ इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः कुशेश्च तच्छीलादिषु वुञ्
५६४
[कृदन्त
सिध्दान्तकौमुदीसहिता

३१२८ । चलनशब्दार्थाद्कर्मकाद्युच् । (३-२-१४८)

चलनार्थाच्छब्दार्थाच युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । 'अकर्मकात्' किम् । पठिता विद्याम् ।

३१२९ । अनुदात्तेतश्च हलादेः । (३-२-१४९)

अकर्मकाद्युच्स्यात् । वर्तन । वर्धनः । “अनुदात्तेतः' किम् । भविता । 'हलादेः' किम् । एधिता । “अकर्मकात्’ किम् । वसिता वस्रम् ।

३१३० । जुचङ्क्रम्यद्दुन्द्रम्यस्मृगृधिज्वलशुचलषपतपद्ः ।(३-२-१५०)

जु' इति सौत्रो धातुर्गतौ वेगे च । जबनः । चङ्क्रमणः । दन्द्रमणः । सरण: । पूर्वेण सिद्धे पद्ग्रहणं “लषपतपद्–' (सू ३१३४) इत्युकब्जा बाधा मा भूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति ।

३१३१ । कुधमण्डार्थेभ्यश्च । (३-२-१५१)

मण्डनः । भूषण


स्यादित्यर्थः । चलन ॥ शब्दन इति ॥ ‘शब्द शब्दन' चुरादिः । शब्दनं शब्दोच्चारणम् । धात्वर्थोपसङ्कहादकर्मकः । अनुदात्तेतश्च ॥ आदिग्रहणाभावे हलन्तादित्यर्थः स्यात् । ततश्च जुगुप्सनः इति न स्यात् । सन्नन्तस्य हलन्तत्वाभावात् । अस्ति चानुदात्तेत्त्व सन्नन्तस्य । गुप इत्यनुदात्तत्त्वस्य कवल प्रयाजनाभावन सन्नन्ताथत्वात् । जुनुचक्रम्य दन्द्रम्य । जु, चङ्कम्य, दन्द्रम्य, सूट, गृधि, ज्वल, शुच, लष, पत, पद् एषान्दशानां द्वन्द्रात्पञ्चमी । एभ्यः तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह। जु इति सौत्र इति ॥ चङ्क्रमण इति । यडन्ताद्युच् । ‘यस्य हलः’ इति यकारलोप, अतो लापः ! एनन्दन्द्रमणः, सरणः, गद्धन', ज्वलन', शान्चनः, लषण', पतनः, पदनः, इत्यप्युदा हार्यम् । पूर्वेणेति ॥ ' अनुदानेतश्च हलादे.’ इत्यननेत्यर्थः । तेनेनि ॥ उकञ्ह्ययं तच्छीलाधि कारस्थ । तत्र वासरूपविधिनैव उकब्जा ‘अनुदात्ततश्च हलादे 'इति विहितस्य पदर्युचः बाधो न भविष्यतीति ‘जुचङ्कम्य' इति युज्विधिरनर्थक' स्यात्। अतस्ताच्छीलकेषु परस्परं वासरूपविधि नास्ति इति विज्ञायत इत्यर्थः । ‘निन्दहिंस’ इति सूत्रे तच्छीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम् । इह तु ताच्छीलिकषु परस्परं वासरूपविधिनस्तीति ज्ञाप्यते इति न पौनरुक्तयम् । तृति ॥ अलम्पूर्वोत् कृञ्जः अलकृत्रिल्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा

‘तृन्’ इति सामान्यविहितः तच्छीलाधिकारस्थो बाध्यते इत्यर्थः । कुधमण्डार्थेभ्यश्च ॥ ‘कुध
प्रकरणम्]
५६५
बालमनोरमा ।


३१३२ । न यः । (३-२-१५२)

यकारान्ताद्युज्न स्यान् । क्नूयिता । क्ष्मायिता ।

३१३३ । सूद्दीपदीक्षश्च । (३-२-१५३)

युञ्जन स्यात् । सूदिता । दीपिता । दीक्षिता । *नमिकम्पि-' (सू ३१४७) इति रेण युचो बाधे सिद्धे दीपेग्रहणं ज्ञापयति “ताच्छीलिकेषु वास रूपविधिनस्ति' इति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूर्युज्न, कथं मधुसूदनः । नन्द्यादिः ।

३१३४ । लषपतपद्स्थाभूवृषहनकमगमशूभ्य उकम्।(३-२-१५४)

लाषुकः । पातुकः इत्यादि ।

३१३५ । जल्पभिक्षकुट्टलुण्टवृङः षाकन् । (३-२-१५५)

जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाक । वराकः । वराकी ।

३१३६ । प्रजेोरिनिः । (३-२-१५६)


केोपे’ “मडि भूषायाम्' एतदर्थेभ्यः धातुभ्यो युच स्यात् तच्छीलादिष्वित्यर्थः । न यः ॥ य इति पञ्चम्यन्त धातुविशेषणम् । तदन्तविधिः । तदाह । यकारान्तादिति ॥ क्नूयिता । क्ष्मायितेति ॥ ‘क्नूयी शब्दे उन्दने च' ‘क्ष्मायी विधूनने’ ‘अनुदात्ततश्च हलादेः' इति युच् निषिध्यते । तृनेव भवति । सूदीप ॥ सूद, दीप, दीक्ष , एषान्द्वन्द्वात्पञ्चमी । युज्नेति ॥ शेषपूरणमिदम् । ‘अनुदात्ततश्च' इति प्राप्ती युच् प्रतिपिध्यते । नान्विह दीपग्रहण व्यर्थम् । नामिकम्पिस्म्यजसकमहिंसदीपो रः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धे । नच वासरूपविधिना तद्वाध' शङ्कय । ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह । नमिवकपीति रेणेति । रप्रत्ययेनत्यर्थः । प्रायिकामनि । तथा चात्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचा बाधासम्भवात् इह दीपेर्युचे निषेधेऽर्थवानिति भावः । तेनेति । ताच्छीलिकेऽपि कचिद्वासरूपविधस्सत्त्वादित्यर्थः । कम्रा कमनेति ॥ इच्छा शीलेत्यर्थः । ‘अनुदात्ततश्च' इति युच ‘नमिकम्पि’ इति रेण पक्षे बाध इति भावः । कम्प्रा, कम्प नेति ॥ चलनशीलेत्यर्थः । अत्र पि ‘नमिकम्पि' इति रेण युच पक्षे बाध इति भाव । आक्षिपति । यदीनि ॥ ‘सूदीपदीक्षश्च' इति सूदर्युच्प्रतिषिध्यते तदा मधुसूदन इति कथमित्यन्वयः । समाधते । नन्द्यादिरिति ॥ सूदिरिति शेष. । तथाचव ‘नन्दिग्राह' इति ल्युप्रत्यय इति भावः । लषपत ॥ एभ्यो दशभ्यः उकञ् स्यात् तच्छीलादिष्वर्थेषु । इत्यादीति ॥ पादुकः । आतेो युक्, स्थायुकः । भावुकः, वर्षक, घातुक’ ‘हनस्तः' इति तत्वम् । हो हन्ते’ इति कुत्वम् । कामुकः, गामुकः, शारुकः । जल्पभिक्ष । एभ्यः पञ्चभ्यध्षाकन् स्यात् । तच्छीला

दिष्वित्यर्थः । षनावितौ । स्त्रियां षित्वान्डीष् । जल्पाकः, इत्यादि । प्रजोरिनिः ॥
५६६
[कृदन्त
सिध्दान्तकौमुदीसहिता


प्रजवी-प्रजविनैौ–प्रज्जविनः ।

३१३७॥जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च। (३-२-१५७)

जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ।

३१३८ । स्पृहेिगृहिपतिदयिनिद्रातन्द्राश्रडाभ्य आलुच् । (३-२-१५८)

आद्याख्यरचुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा, तदो नान्तत्वं निपात्यते । श्रद्धालुः । 'शीडो वाच्य:’ (वा २१४०) । शयालुः ।

३१३९ । दाधेट्सिशद्सदो रुः । (३-२-१५९)

दारुः । धारुः । स्लरुः । ३शदुः । सदुः ।

३१४० । सृघस्यद्दुः क्मरच् । (३-२-१६०)

स्मृमरः । घस्मर

३१४१ । भञ्जभासमिदो घुरच् । (३-२-६१)


जुस्सौत्रो धातुः । प्रपूर्वादस्मात् इनिप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः । नकारादिकार उच्चारणार्थः । जिद्दक्षि ॥ जि, छ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू , एषां दशानां द्वन्द्वः । ‘जि जये, जि अभिभवे, दृड् आदरे, क्षि क्षये, क्षि निवासगत्योः श्रिञ् सेवायां' विपूर्वः । “इण् गतौ, वमु ' नञ्पूर्वः । निपातनात् उद्रिरणे. व्यथ भयसञ्चलनयो नञ्जा धातुना समासे “न लेोपो नजः’ इति नकारलोपः । “अम गत्यादिषु' अभिपूर्वे । “भू सत्तायाम्' परिपूर्वः । 'घू प्रेरणे' प्रपूर्वः । एभ्यः इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूति सूयत्योस्तु सानुबन्धकत्वात् नह ग्रहणम् । स्पृहिगृहेि ॥ स्पृहि, गृहि, पति, दयि, निद्रा तन्द्रा, श्रद्धा, एभ्यः सप्तभ्यः आलुच् स्यात्तच्छीलादिष्वित्यर्थः । स्पृहयालुरिति ॥ स्पृह धातोरदन्तादालुच् । “अयामन्त' इति णरय्, णिलोपापवादः । अछेोपस्य स्थानिवत्वान्न लघूपधगुणः । एव गृहयालुः । पतयालुरित्यत्र तु अछोपस्य स्थानिवत्वान्नोपधावृद्धिः । निद्रालुरिति ॥ 'द्रा कुत्सायाङ्गतौ' निपूर्वादालुच् । तत्पूर्वोद्रेति ॥ तच्छब्दपूर्वो द्राधातुः तन्द्रत्यनेन गृह्यत इत्यर्थः । श्रद्धालुरिति ॥ श्रदित्यव्ययम्, तत्पूर्वात् धाधातोरालुच् । शीडो वाच्य इति ॥ आलुजिति शेषः । दाधेट् ॥ दा, धट्, सि, शद्, सद्., एषा द्वन्द्वात्पञ्चमी । एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थ । स्पृघस्यद्ः ॥ ट, घसि, अद्,

एषां द्वन्द्वात्पञ्चमी । घसिः प्रकृत्यन्तरम् । भञ्जभास । भञ्ज, भास, मिद्, एषां द्वन्द्वात्
प्रकरणम्]
५६७
बालमनोरमा ।

३१४२ ॥ विदिभिदिच्छिदेः कुरच् । (३-२-६२)

विदुरः । भिदुरम् । छिदुरम् ।

३१४३ । इण्नशिजिसर्तिभ्यः करप् । (३-२-१६३)

इत्वरः । इत्वरी । नश्वरः । जित्वरः । स्मृत्वरः ।

३१४४ । गत्वरश्च । (३-२-१६४)

गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ।

३१४५ । जागुरूकः । (३-२-१६५)

३१४६ । यजजपद्दशां यङः । (३-२-१६६)

एभ्यो यङन्तेभ्य ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्द२कः ।

३१४७ । नमिकम्पिस्म्यजसकमहिंसदीपो रः । (३-२-१६७)


पञ्चमी । एभ्यः घुरच् स्यात् तच्छीलादिष्वित्यर्थः । घचावितौ । भंगुर इति ॥ “चजो. इति कुत्वम् । विदिभिदि ॥ तच्छीलादिष्वित्येव । विदेज्ञानार्थस्यैव प्रहणम्, नतु लाभा र्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः । इण्नशिजि ॥ इण्, नशि जि, सृ, एभ्यः करप् स्यात् तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्वन्तु तुगर्थम् । गत्वरश्च ॥ गमेरिति ॥ गमेः करप् अनुनासिकलोपश्च निपात्यते इत्यर्थः । झलादिप्रत्यय परकत्वाभावादनुनासिकलोपस्याप्राप्तिः । पित्वातुक् । गत्वरीति ॥ 'टिड्ढ’ इति ङीप् । जागुरूकः ॥ जागृ इत्यस्य जागुरिति पञ्चम्यन्तम्पदम् । तदाह । जागर्तेरिति ॥ तच्छीलादिष्वित्येव । जागरूक इति ॥ ऋकारस्य गुणः, रपरत्वं । सिद्धरूपन्तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् । यजजपद्दशां यङः ॥ यज, जप, दश, एषा त्रयाणा द्वन्द्व । पञ्चम्यर्थे षष्ठी । तदाह । एभ्य इति ॥ तच्छीलादि ष्वित्येव । ननु दंशेनोपधत्वात् कथन्दशामिति निर्देश इत्यत आह । भाविनेति ॥ ऊकं कृते सति भविष्यतो नलोपस्यात्र निपातनमिति यावत् । यायजूक इति ॥ 'यस्य हलः’ इति यलोपः । “अतो लोपः, दीर्घःऽाकतः’ इत्यभ्यासस्य दीर्घः । जञ्जपूक इति ॥ जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुक् । एवन्दन्दशूकः । निपातनान्नकारलापः । नमिवकम्पि ॥ नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप्, एषान्द्वन्द्वात्पञ्चम्येकवचनम् ।

एभ्यस्सप्तभ्यो रप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः । अजसधातोः धातुपाठे अदर्शनातू आह ।
५६८
[कृदन्त
सिध्दान्तकौमुदीसहिता

नम्रः । कम्प्रः । स्मेर: । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ।

३१४८ । सनाशंसभिक्ष उः । (३-२-१६८)

चिकीर्षेः । आशंसुः । भिक्षु

३१४९ । विन्दुरिच्छुः । (३-२-१६९)

वेत्तेर्नुम् इषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दुः । इच्छति इच्छुः ।

३१५० । क्याच्छन्दसि । (३-२-१७०)

'देवाञ्जिगाति सुन्नयु ।

३१५१ । आदृगमहनजनः किकिनौ लिट् च । (३-२-१७१)

आद्न्तादृदन्ताद्रमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिङ्कत् । पपिः सोमम् । दृदिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । “जन्निवृत्रममित्रियम् ' जज्ञिः । “भाषायां धाञ्कृस्मृगमिजनिमिभ्य:’ (वा २१४४) दधिः । चक्रिः ।


जासिर्नञ्पूर्व इति ॥ 'जसु मोक्षणे' अयन्नञ्पूर्वशक्तिम्वभावात् क्रियासातये वर्तते इत्यर्थः । निपातनाद्धातुना नञ्जः समासे “नलोपेो नञ्ज’ इति नलोपः । सनाशंस ॥ सन्, आशस, भिक्ष, एषान्त्रयाणान्द्वन्द्वात्पञ्चम्येकवचनम् । सनिति सन्प्रत्ययान्तं गृह्यतेत । “षणु दाने, षण सम्भत्तौ इत्यनयोस्तु न ग्रहणम् । गर्गादिषु विजिगीषुझाब्दपाठालिङ्गात् । एभ्यः उप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थ । आशंसुरिति ॥ ‘आडः शासु इच्छायाम्’ इत्यस्मादुः । विन्दुरिच्छु ॥ वेत्तरिति ॥ 'विद ज्ञान' इत्यस्मादुप्रत्यये प्रकृतेर्नुमागमः । “ इषु इच्छायाम्' इत्यस्मादुप्रत्यय षकारस्य छत्वञ्च निपात्यत इत्यथे । वेत्तीति ॥ धातुप्रदर्शनम् । तच्छील इनि ॥ वेदन शील इत्यर्थः । इच्छतात ॥ 'इषु ३च्छायाम्' इति धातुप्रदर्शनम् । इच्छुरिति ॥ एषणशील इत्यर्थः । क्याच्छन्दसि ॥ क्यप्रत्ययान्तादुप्रत्ययः स्यात् तच्छीलादिषु छन्दसीत्यर्थः। सुन्नयुरिति ॥ सुन्द्रं सुखम् । तदात्मन इच्छतीत्यर्थे सुन्नशब्दात् क्यञ्च । *न च्छन्दस्य पुत्रस्य’ इति निषेधात् 'क्यचि च' इति ईत्वम्,‘अकृत्सार्व' इति दीर्घश्च न । सुन्नयुरिति क्यजन्ता दुप्रत्ययः, आतेो लोप । अादृगम ॥ आत्, ऋ, गम, हर, जन, एषान्द्वन्द्वात्पञ्चमी। लिटचेति व्याचष्ट । तौ च लिङ्कदिति ॥ किं किन् अनयोर्द्धन्द्वः । तच्छीलादिष्वित्येव । पपिरिति ॥ पाधातोः किः, द्वित्वादि, आछेोपः । ददिरिति ॥ दाधातोः किः, द्वित्वादि । बत्रिर्वज्र मिति ॥ भृल. कि, द्वित्वादि । जििरति ॥ हनः किः, द्वित्वादि । ‘गमहन' इत्युपधालाप । ‘हो हन्तेः’ इति कुत्वम् । जैज्ञिरिति ॥ जनेः कः, द्वित्वादि । एवं किन्यपि

बोध्यम् । स्वरे विशेष । छान्दसमप्येतत्सूत्रद्वयम्भाषायामित्यादिवक्ष्यमाणवार्तिकविवेचनाय.
प्रकरणम्]
५६९
बालमनोरमा ।


सस्रिः । जग्मिः । जज्ञिः । नेमिः । “सासहेिवावहिचाचलिपापतीनामुप सङ्क-यानम्' (वा २१४४) । यङन्तेभ्यः सहत्यादिभ्यः किकिनौ पतेनग भावश्च निपात्यते ।

३१५२ । स्वपितृषोर्नजिङ् । (३-२-१७२)

स्वप्रक् । तृष्णक्, तृष्णजौ, तृष्णजः । “धृषेश्चेति वाच्यम्' इति काशिकादौ । धृष्णक् ।

३१५३ । शूवन्द्योरारुः । (३-२-१७६)

३१५४ । भियः कुक्लुकनैौ । (३-२-१७४)

भीरुः । भीलुकः । 'कुकन्नपि वाच्यः' (वा २१४५) । भीरुकः ।

३१५ । स्थेशभासपिसकसो वरच् । (३-२-१७५)

स्थावरः । ईश्वरः । भास्वरः । पेस्खरः । कस्वरः ।

३१५६ । यश्च यङः । (३-२-१७६)


इहापन्यस्तम् । भाषायामिति ॥ वार्तिकमिदम् । धाञ्, कृ, स्ट, गमि, जनि, नाम एभ्यष्षड्भ्यः किकिनौ, तौ च लिड़दिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनो कृतयोः द्वित्वादि यथासम्भवं ज्ञेयम् । नेमिरिति ॥ नमेः किः । द्वित्वम्, एत्वाभ्यासलापौ । सासहीति ॥ सहेयैङि द्वित्वादौ “दीघाऽकितः' इति दीर्घ, किकिनोः कृतयो 'यस्य हलः' इति यकारलापे अतो लोपे सासहीति निर्देशः । एव वहेः चलेः पतेश्च यडन्तस्य किकिनन्तस्य निर्देशः । एषान्निपातनस्य उपसङ्खयानमित्यर्थः । तदाह । यङन्तेभ्यस्सहत्या दिभ्य इति ॥ नीगभाव इति ॥ “नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याभाव इत्यर्थः । स्वपितृषोर्नजिङ् ॥ पञ्चम्यर्थे षष्ठी । खपेः तृषेश्च, नाजिड् स्यात् तच्छीलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । डकार इत् । स्वप्नगिति ॥ खपनशील इत्यर्थः । स्वप्रजौ स्वप्रजः । एव तृष्णक्, तर्षणशील इत्यर्थः । धृषेश्चेति ॥ नाजडिति शेषः । काशिकादा विति ॥ भाष्ये तु न दृश्यते इति भावः । शृवन्द्योरारुः ॥ पञ्चम्यर्थे षष्ठी । ‘शू हिंसायाम् वदि अभिवादनतुल्यो.' आभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । भियः ॥ भीधातोः कु क्लुकन् एतौ स्तः । तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । स्थेश ॥ ‘छा गतिनिवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ' एभ्यः वरच् स्यात्तच्छीलादिष्वित्यर्थः ।

ईश्वरीति तु पुंयोगे डीष् । यश्च यङः ॥ 'या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य
५७०
[कृदन्त
सिध्दान्तकौमुदीसहिता


यातेर्यङन्ताद्वरच् स्यात् । “अतो लोपः' (सू २३८०) तस्य 'अच परस्मिन्–' (सू ५०) इति स्थानिवद्भावे प्राप्त न पदान्त इति सूत्रेण यलोपं प्रति स्थानिवद्भावनिषेधात् “लोपो व्योः-' (सू ८७३) इति यकारलोप । अलोपस्य स्थानिवत्वमाश्रित्य आतो लोपे प्राप्त *वरे लुप्त न स्थानिवत् यायावरः ।

३१५७ । भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः किप् । (३-२-१७७)

[वश्राद् । भा:-भासा । धूः-धुरौ । विद्युत् । ऊर्क । पूः-पुरौ दृशिग्रहणस्याप्यपकर्षाज्जवतेदीर्घः । जूः-जुवौ-जुवः । प्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः किप् । ग्रावस्तुत्


यः इति षष्ठयन्तम् । तदाह । यातेरिति ॥ याधातोर्यड्, द्वित्वादि “दीघेऽकितः' इत्य भ्यासस्य दीर्घः, यायाय इति यडन्ताद्वराचि विशेषमाह । अतो लोप इति ॥ हल परत्वाभावात् ‘यस्य हलः’ इति यकारलापो न । यायाय् वर इति स्थिते आह । लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्य “ अचः परस्मिन्' इति स्थानिवत्वात् अकारेण व्यवधानात् वल्परत्वाभावात् कथामह यलाप इत्यत आह । तस्याति ॥ तस्य अहलापस्य यलेोपे कर्तव्ये “न पदान्त' इति स्थानिवत्वनिषेधादित्यर्थः । एवञ्च यडोऽकारस्य यकारस्य च लोपे यायावर इत्यत्र “ आतेो लोप इटेि च ' इत्यालोपमाशङ्कय निराकरोति । अलुोप स्येति ॥ यडकारलोपस्य “ अचः परस्मिन्’ इति स्थानिवत्वमाश्रित्य तदकारात्मकार्धधातुक परत्वात् आकारस्य 'आतो लोप इटि च' इत्याछेोपे प्राप्त सति परिहार उच्यते इत्यर्थः । परिहारमेवाह । वरे लुप्तन्न स्थानिवदिति ॥ लुप्तमिति भावे क्तः । ‘न पदान्त' इति सूत्रे वरे इत्यनेन वरे परे विहितन्न स्थानिवदिति लभ्यते । अछोपेोऽयमार्धधातुके परे विहितः । अतः तस्य स्थानिवत्वाभावान्न यडोऽकारमाश्रित्य “ आतो लोप इटि च' इत्यस्य प्रवृत्तिरित्यर्थः । एवञ्च न पदान्त' इति सूत्रे वरे इत्यशस्य यलोपे इत्यशस्य च यायावर इत्युदाहरणामिति बोध्यम् । भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः ॥ भ्राज, भास, धुर्वी, द्युत, ऊर्जि, पृ, जु, ग्रावस्तु , एभ्योऽष्टभ्यः किंप्स्यात् तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति ॥ 'ब्रश्च' इति षः । भा इति ॥ भासेः किपि सकारान्तस्य रुत्वविसगै । धूरिति ॥ धुर्वीधातोः किप् । रालोप' इति वकारस्य लोपः । धुर् इति रेफान्तम् । सुलोप. । 'वरुपधायाः’ इति दीर्घः । पूरिति ॥ पृधातोः किप् । 'उदोछय' इत्युत्त्वम्, रपरत्वम् । पुर् इति रेफान्तम्, सुलोपे 'वः’ इति दीर्घः । जुधातोः किपि दीर्घ साधयितुमाह । दृशिग्रहणस्याप्यपकर्षादिति ॥ उत्तरसूत्रादिति भावः । अत्र व्याख्यानमेव शरणम् । ननु ग्रावस्तु इति कथ समस्तनिर्देशः ।

सुबन्तस्य प्रावशब्दस्य धातुना समासासम्भवादित्यत आह । श्रावशब्दस्येति ॥
प्रकरणम्]
५७१
बालमनोरमा ।

३१५८ । अन्येभ्योऽपि दृश्यते । (३-२-१७८)

किप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । कचिद्दीर्घः कचिदसम्प्रसारणं, कचिद्वे, कचिद्रस्व । तथा च वार्तिकम् । 'किब्वचि प्रच्छयायतस्तुकटपुजुश्रीणां दीघऽसम्प्रसारणश्च' (वा २१४७-४८) । किव्व चीत्यादिनोणादिसूत्रेण केषाञ्चित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौति आयतस्तूः । कटं प्रवते कटः । जुरुक्तः । श्रयति हरिं श्री । ' द्युतिगमिजुहोतीनां द्वे च (वा २१४९) । दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् । 'जुहोतेदीर्घश्च (वा २१४९) । जुहूः । 'दृ भये' । अस्य हस्वश्च । दीर्यति । ददृत् । 'ध्यायतेः सम्प्रसारणञ्च' (वा २१५१) । धीः ।

३१५९ । भुवः संज्ञान्तरयोः । (३-२-१७९)

मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थ स प्रतिभूः ।


ग्रावस्तुदिति ॥ पित्वातुक् । अन्येभ्योऽपि ॥ किबिति ॥ शेषपूरणमिदम् । भ्राजभास इत्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्य तच्छीलादिषु कर्तृषु किप् दृश्यते इत्यर्थः । विध्यन्तरेति ॥ विधीयते इति विधि, कार्य, कार्यान्तरोपसङ्गहार्थमित्यर्थे । तदेव दर्शयति । कचिद्दीर्घ इत्यादि । किब्वचीत्यादिनेति ॥ 'किव्वचिप्रच्छयायतस्तुकटपुजुश्रीणा दीर्घऽसम्प्रसारणश्च' इत्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति ॥ वचधातो किप् । वचनात् उपधाया दीर्घः । वचिवस्वपि' इति सम्प्रसारणाभावश्च । एव कटरित्यत्र दीर्घ । प्राडिति । वचनान्न सम्प्रसारणम् । जुनुरुक्त इति ॥ 'भ्राजभास' इत्यत्रेति शेन् । अतोऽत्र तद्वहणम्मास्त्विति भावः । श्रीरिति ॥ श्रिञ्ज किपि दीर्घ । द्युनीति ॥ ‘द्युतिगमिजुहोत्यादीनान्द्वित्व किप्च' इति वाच्यमित्यर्थ । 'पूर्वोऽभ्यासः' इत्यत्र षाष्टद्विर्वचन एव पूर्वखण्डस्याभ्याससज्ञावचनादाह । दृशिग्रहणादिति ॥ “ अन्येभ्योऽपि दृश्यते' इत्यत्रेत्यर्थः । ततश्चाभ्यासकार्य हलादिशेषा दीति भाव । दिद्युदिति ॥ 'द्युतिखाप्यो.' इति सम्प्रसारणम् । जगदिति ॥ गमे. किप् गमः कौ' इति मलेोपे तुक् । जुहोतेर्दीर्घश्चेति ॥ वार्तिकमिदम् । चात्किद्वित्वे । हृस्व श्रेति । वार्तिकमिदम् । ददृदिति ॥ हखे कृते तुक् । ध्यायतेरिति ॥ वार्तिकमिदम् । चात् किम् । धीरिति ॥ ध्यैधातोः ििप सम्प्रसारणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्र ‘ध्यायतेस्सम्प्रसारणञ्च' इत्युणादिषु पठितत्वादिद वार्तिकं मास्त्वित्याहुः । वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यन्ते, अतो न पौनरुक्तयशङ्का ।

भुवः संज्ञान्तरयोः । किबिति शेषः । संज्ञान्तरयोरेवेति नियमाथै सूत्रम् । संज्ञाया
५७२
[कृदन्त
सिध्दान्तकौमुदीसहिता


३१६० । विप्रसम्भ्यो डुसंज्ञायाम्। (३-२-१८०)

एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभुव्र्यापकः । प्रभुः स्वामी । सम्भुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् । 'मितादिभ्य उपसङ्खयानम् (वा २१५२) । मितं द्रवतीति मितदुः । शतदुः । शम्भुः । अन्तर्भवितण्यर्थे ऽत्र भवति ।

३१६१ । धः कर्मणि ष्ट्रन् । (३-२-१८१)

धेटो धाञ्श्च कर्मण्यर्थे ष्ट्रन्स्यात् । षो डीषर्थ । धात्री जनन्यामलकी वसुमत्युपमातृषु ।

३१६२ । दात्रीशसयुजस्तुदसिसिचमेिहपतद्शनहः करणे । (३-२-१८२)

दाबादेः ष्टन्स्यात्करणेऽर्थे । दान्यनेन दात्रम् । नेत्रम् ।

३१६३ । तितुत्रतथसिसुसरकसेषु च । (७-२-९)

एषा द्शाना कृत्प्रत्ययानामण्न स्यात् । ३शखम् । यात्रम् । यावक्त्रम् । स्तोत्रम् । तोखम् । सेत्रम् । सेक्त्रम् । मेढूम् । पत्रम् । दंष्ट्रा । नद्री ।


मुदाहरति । मित्रभूनमेति ॥ अन्तर उदाहरति । धनिकेत्यादि । यावद्रव्यभाविन्यः सज्ञा । प्रतिभूशब्दस्तु सत्येव पुरुपे कदाचिन्न भवति । ऋण प्रतिदते सति प्रातिभाव्यस्य निवृत्तेः । विप्रसम्भ्यः ॥ डु असज्ञायामिति छेद । विभुरिति ॥ डित्त्वसामथ्र्यादभस्यापि टेलोपः । सम्भुरिति ॥ सभवति उत्पादयतीति सम्भुः । तदाह । जनितेति । मित द्वादिभ्य इति ॥ मितद्रादिसिद्यर्थ डुप्रत्ययस्य उपसङ्खयानामत्यथः । शम्भुरिति ॥ श सुख भवति उत्पादयतीत्यर्थ । तदेवोपपादयति । अन्तर्भवितेति । धः कर्मणि ष्ट्रन् ॥ धटः कृतात्वस्य धाञ्श्च ध इति पञ्चम्यन्तम् । तदाह । धेट इत्यादि ॥ षकारात् तकारस्य टुत्वसम्पन्नटकारेण निर्देशः, षस्य इत्सज्ञाया लोपे सति टुत्वसम्पन्नस्य निवृत्तिः । तदाह । धात्रीत्यादि । दास्री। दाप्, नी, शस, यु, युज, तु, तुद, सि, सिच, मिह, पत, दशा, नह, एषां त्रयोदशानां द्वन्द्वः। ‘दाप् लवने' इत्यस्य पकारस्य स्थान'यरोऽनु’ इति कृतमकारस्य निर्देशः । अत्र शसेः पतश्च त्रप्रत्यये इटमाशङ्कय आह । तितुत्रत ॥ ति, तु, त्र, त, थ, सि, सु, सर, क, स, एषा दशानां द्वन्द्वः । अत्र सरेत्येकम्।ति, तन्तिः , ‘स्त्रियाम्’ इति क्तिन्। तु, सक्तुः, ‘तनिगमि’ इत्यादिना तुप्रत्ययः । त्र, शस्त्रम्, पत्तूम् । 'दान्नी' इति त्रप्रत्यय । त, हस्तः । औौणादिक तप्रत्ययः । क्तप्रत्यये तु हसितमिलेयव । थ कुष्ठम् । औौणादिकः क्थप्रत्ययः । सि कुक्षि । कुषरौणादिकः क्सिप्रत्ययः । सु, इक्षुः, इषेरौणादिकः क्सुप्रत्ययः । सर, अक्षरम्, अशस्सरन् ।

क, शल्कः, शलेः कः। स, वत्सः, वदेः सः। मेढूमिति ॥ ‘मिह सेचने' त्रः। ढत्वधत्वष्टत्वढलोपाः।
प्रकरणम्]
५७३
बालमनोरमा ।

३१६४ । हलसूकरयोः पुवः । (३-२-१८३)

पूङ्यूञ्जाः करणे ष्ट्रन्स्यात् । तचेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ।

३१६५ । अर्तिलूधूसूखनसहचर इत्रः । (३-२-१८४)

अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ।

३१६६ । पुवः संज्ञायाम् । (३-२-१८५)

पवित्रम् । येनाज्यमुत्पूयते, यचानामिकावेष्टनम् ।

३१६७ । कर्तरि चर्षिदेवतयोः । (३-२-१८६)

पुव इत्रः स्यात् ऋषौ करणे, देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् । देवतायां तु 'अन्निः पवित्रं स मा पुनातु ।

इति पूर्वकृदन्तप्रकरणम् ।


दंष्ट्रति ॥ दशधातोः तः । क्डित्प्रत्ययाभावान्नलोपो न । सूत्रे दशेति शपा निर्देशात् ‘दंश सञ्ज' इात नलोप । केचित्तु दशेल्यकार उच्चारणाथै. । नलोपनिर्देशात् कचिदन्यस्मिन्नपि प्रत्यये अकडित्यपि नलोप इति दशना दन्ता इत्याहुः । नड्रीति ॥ नह्यते अनयेति विग्रहः । चर्मरज्जुः । “नह बन्धने' त्रः । “नहो ध' 'झषस्तथोः' इति तस्य धः । षित्वान्डीष् । हलसूकरयाः पुवः ॥ पादत्रामांत ॥ 'नितुत्रतथसिसुसर’ इति नेट् । अर्तिलूधू ॥ अर्ति, लू, धू, सू, खन, सह, चर, एषा सप्ताना द्वन्द्वात्पञ्चमी । पुवः संज्ञायाम् ॥ इत्र इति शेषः । करणे इत्येव । पवित्रमिति ॥ पूयते अनेनाज्यामिति विग्रहः । तदाह । येनाज्यमिति ॥ पूयते आचमनोदकादिकमनेनेति विग्रह मत्वा आह । यञ्चा नामिकेति । अनामिका उपकनिष्ठिकाडुळिः । कर्तरि च ॥ पवित्रमिति ॥ पावमान्यादि सूक्तम् । अग्निः पवित्रमिति ॥ पुनातीत्यर्थः । सामान्याभिप्रायमेकवचन नपुसकत्वञ्च ।

इति श्रीमद्वासुदेवदीक्षितविरचिताया सिद्धान्तकौमुदीव्याख्याया श्रीबालमनोरमाख्यायां

तृतीयाध्यायस्य द्वितीयपादे पूर्वकृदन्तप्रकरण समाप्तम् ।

। श्रीरस्तु ॥

॥ अथोणादयः ।


१ । कृचापाजिमिखदिसाध्यशूभ्य उण । करोतीति कारुः, शिल्पी कारकश्च । ‘आतो युक्-' (सू २७६१) । वातीति वायुः । पायुर्गुदम् । जय त्यभिभवति रोगान् जायुः औषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः


अथ उणादिप्रारम्भ –“कृवापाजि' इत्यादीन्युणादिसूत्राणि मूले प्रौढमनोरमायाञ्च स्फुट व्याख्यातानि । तत्र न किञ्चिद्याख्यातव्यमुपलभ्यते । तानि चेवमान्युणादिसूत्राणि शाकटायनमुनि प्रणीतानि, नतु पाणिनिना प्रणीतानि इति “उणादयो बहुळम्' इति सूत्रभाष्ये “नाम च धातुजमाह निरुत्ते व्याकरणे शकटस्य च तोकम्’ इति वार्तिकव्याख्यानावसरेऽभिहितम् । उणादीनां शास्त्रान्तरपठिनाना साधुत्वाभ्यनुज्ञानार्थ बहुळग्रहणम्' इति कैयटः । न द्येषा म्पाणिनीयत्वे शास्त्रान्तरशब्दो युज्यते । उणादिप्रत्ययान्ताश्शब्दा पाणान्नमत अव्युत्पन्ना एव । अत एव “आयनयी' इति सूत्रे “प्रातिपदिकविज्ञानाञ्च भगवतः पाणिनस्सिद्धमुणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि” इति भाष्ये उक्तम् । अत एव च । “आदेशप्रत्यययोः’ इति सूत्रभाष्ये उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि इत्युका तर्हि सर्पिषा थजुषेल्यादौ अप्रत्ययत्वात् षत्वाभावमाशङ्कय बहुळग्रहणात् प्रत्ययसज्ञामवलम्ब्य षत्व साधितम् । व्युत्पत्ति पक्षश्च निराकृतः । अतोऽयुणादिसूत्राणान्न पाणिनीयत्वम् । अत एव “अजेव्यैघञ्पो इति सूत्रभाष्ये अजधातोर्युप्रत्यये प्रकृतेर्वीभावे वायुशब्दो व्युत्पादितः । उणादिसूत्राणां पाणिनीयत्वे हि 'कृवापाजि' इत्युणादिसूत्रेण उप्रत्ययमाश्रियैव व्युत्पद्येत । एवञ्च कचिद्राष्ये उणादीना व्युत्पन्नत्वाश्रयण शास्रान्तरमूलकमेव इति शब्देन्दुशेखरे प्रपञ्चितम् । तथा च ‘किब्वचिप्रच्छयायतस्तुकटपुजुश्रीणा’ इत्युणादिसूत्र णां तथाविधवार्तिकानाञ्च न पैौनरुक्तयशाङ्का ॥** कृत्वापा ॥ “कारुः शिल्पिनि कारके” इति धरणिकोशमभिप्रेत्याह । कारुरित्यादि । आद्ये योगरूढिः । द्वितीये तु योगमात्रामति विवेकः । अत एव द्वितीये धात्वर्थे प्रति कारकान्वयो भवत्येव । तथा च भट्टिः । “राघवस्य ततः कार्य कारुर्वानरपुङ्गवः । सर्ववानर सेनानामाश्वागमनमादिशत् ” इति । पायुः पुंसि । ‘गुदन्त्वपान पायुनौ' इत्यमर” । पिबत्यनेन तैलादिकामिति विग्रहः । पाति रक्षतीति विग्रहे रक्षकोऽपि । तथा च मन्त्रः । 'भुवस्तस्य स्वतवाः पायुरप्रे' इति । “स्वतवान्पायौ' इति रुत्वम् । जायुरिति । 'भषजौषधभैषज्या न्यगदो जायुरित्यपि' इत्यमरः । साहवर्यात्पुंस्त्वम् । 'मायुः पित्तं कफः श्लेष्म' इत्यमरः ।


'उणादिषु बालमनोरमाप्रणेतुर्वासुदेवदीक्षितस्याभिप्रायानुसारेण प्रौढमनोरमा मुद्रयते ।
प्रकरणम्]
५७५
बालमनोरमा ।

पित्तम् । स्वादुः । सान्नेोति परकायै साधुः । अश्नुते आशु शीघ्रम् । 'आशुत्राहः पाटलः स्यात् ' ।

२ । छन्दसीणः । 'मा न आयैौ' ।

३ । दृसनिजनिचरिचटिभ्यो झुण । दीयेत इति दारु । “स्नुः प्रस्थ सानुरास्त्रियाम्' । जानु-जानुनी । इंह 'जनिवध्योश्च' (सू २५१२) इति न निषेधः । अनुबन्धद्वयसामथ्र्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृग यवादित्वात्कुप्रत्यये 'चटु' इत्यपि ।

४ । किञ्वरयोः श्रीणः । किं श्रृणातीति किंशारुः सस्यशार्क, बाणश्च । जरामेति जरायुर्गर्भाशयः । “ गर्भाशयो जरायुः स्यात् ' ।

५ । त्रो रश्च लः । तरन्त्यनेन वर्णा इति तालु ।

६ । कृके वचः कश्च । कृकेन गलेन वक्तीति कृकवाकुः । 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः ।


शब्दोऽपि मायुः । ‘यत्पशुर्मायुमकृत गोमायुरेको अजमायुरक' इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यानात् । स्वदते रोचते इति स्वादु । विशेष्यनिन्नोऽयम् । एव साधुरपि । आशु शीघ्रमिति ॥ विलम्बाभावमात्रपरत्वे कीब, तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् । अथ शीघ्रमित्युप क्रम्य “कृीबे शीघ्राद्यसत्त्वे स्यातूिष्वेषा भेद्यगामि यत्' इत्यमर व्रीहौ तु पुंस्येव छन्दसीणः ॥ उणनुवर्तते । मा न आयाविति ॥ आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः । अत एव “त्वामझे प्रथममायुमायवे । मानस्तोक' इत्यादिमन्त्रेषु वदभाष्ये तथैव व्याख्यातम् । अर्वाचीनास्तु “छन्दसीण.’ इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तते इति स्वीकृत्य “ आयुजीवितकालो ना' इत्यमरग्रन्थे आयुशब्दमुकारान्त व्याचख्युः । 'वायुना जगदायुर्वा' इति वर्णविवेकः । ‘एतेर्णिच' इत्युप्रत्ययः। सकारान्तो वक्ष्यमाण आयुश्शब्दस्तु लोक वेदयोर्निर्विवाद एव । अत एव जटा आयुरस्येति विग्रहे 'गृध्र हत्वा जटायुषम्' इति प्रयोगः । कथन्तर्हि, “मा वधिष्ट जटायु माम्' इति भट्टि । “तटी विन्ध्यस्याद्रेरभजत जटायोः प्रथमज ’ इति विन्ध्यवर्णने अभिनन्दश्चेति चेत् । अर्वाचीनमते तावद्रमेव । वस्तुतस्तु जटां याति प्राझेोतीति जटायुः । मृगय्वादित्वात् कु । आयातीलयायुः । 'जटायुषा जटायुश्च विद्यादायु न्तथायुषा' इति द्विरूपकोशः । चाटिति ॥ 'चटु चाटु प्रिय वाक्यम्' इति हट्टवन्द्र । “चाटु वाकृतकसम्भ्रममासाङ्कार्मणत्वमगमद्रमणेषु” इति माघ । “चाटुनैरि प्रियोक्ति स्यात्' इति रन्नमालाकोशः । नरि पुसि । ‘चकर च बहुचाटून् प्रौढयोषिद्वदस्य' इति माघ । इह सूत्र रहिमपि पठित्वा राहुरित्येके । बाहुलकादिति तु बहव । सस्येति ॥ 'किशारुन सस्यशूके विशिखे कङ्कपक्षिणि ' इति मेदिनीकोशः । त्रो रश्च लः ॥ त्र इति तरतेः षष्ठया निर्देशः । के

वितु त्रैरिति च्छित्वा ऋधातोरपि प्रश्लेषात् इयर्ति अर्यते वा आलुः । शाकविशेषो घटी
५७६
[उणाद्य
सिध्दान्तकौमुदीसहिता


७ । भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः। भरति िबभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुः अजगरः । तरुवृक्षः । चरन्ति भक्षयन्ति देवता इमभिति चरुः । त्सरुः खङ्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरञ्च । 'स्त्रियां मूर्तिस्तनु स्तनूः' । धनुः शस्त्रविशेषः । “धनुना च धनुर्विदु ' । 'धनुरिवाजनि वक्र इति श्रीहर्षः । किन्नरः । “मदुः पानीयकाकिका' इति रभसः । न्यङ्का मयुः दित्वात्कुत्वं, जश्त्वेन सस्य दः ।

८ । अणश्च । “लवलेशकणाणवः' चात्कटिवटिभ्याम् । कटति रसनां कटुः । चटति वद्तीति वटुः ।

९ । धान्ये नित् । धान्ये वाच्येऽण उप्रत्ययः स्यात् । स च नित् । नित्त्वादावुदात्तः िप्रयङ्गवश्चमेऽणवश्च िनद्रहणं, मे । “ व्रीहिभेदस्त्वणुः पुमान्' । फलिपाटि-' इत्यादिसूत्रमभिव्याप्य सम्बध्यते ।


चेत्याहुः । “कर्कर्यालुर्गलन्तिका' इत्यमर । भृष्टशी ॥ भरुरिति ॥ 'भरुः स्वणे हरे पुसि इति मेदिनी । 'भरुर्भर्तृकनकयो.' इति हेमचन्द्रः । शयुरिति ॥ 'अजगरे शयुर्वाहस इत्युभौ इत्यमरः । तरुरिति ॥ तरन्ति नरकमनेन रोपकाः । चरुरिति ॥ * अनवस्रावितान्तरूष्मपक ओदन.’ इति याज्ञिकाः । त्रिवृदधिकरणेऽप्येवम् । “उगवादिभ्यो यत्' इति सूत्रे कैयटस्त्वाह । स्थालीवाची चवरुशब्दस्तात्स्थ्यादोदने भाक्त.’ इति । विश्वप्रकाशे तु 'चरुर्भाण्डे च हव्यान्ने इति नानार्थतोक्ता अथ पुमान् चरुर्हव्यान्नभाण्डयो' इति मेदिनी चव पुमान्' इत्यमरप्रन्थे । कर्मार्थघञ्जन्तेन कर्मधारयमधिकरणार्थघञ्जन्ते षष्ठीतत्पुरुषञ्चाश्रित्य द्वेधा व्याचक्षाणाः स्वाम्यादयेोऽपि नानार्थतायामनुकूलाः । “तनु काये त्वचि स्री स्यातूिष्वल्पे विरहे कृशे । धनुः पुमान् प्रियालद्री राशिभेदे शरासने' इति नान्तमेदिनी । विश्वप्रकाशमुदाहरति । धनुना चेत्यादि । ‘स्यात्तनुस्तनुषा सार्द्धम्' इत्यतः सार्धमित्यनुषज्यते । धनुरिवेति ॥ “शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । “क्षिप्नुरनमृजुमाशु विपक्ष सायकम्। इति श्रीहर्षश्लोकशेषः । “धनुर्वेशविशुद्धोऽपि निर्गुणः किङ्करिष्यति” इति धन्वन्तरिः । केोवितु इह सूते धनिं न पठन्ति । तेषां मते सकारान्तधनुःशब्दमेवाश्रित्योक्तग्रन्था निर्वाह्याः । तस्यापि पुंस्त्वात् । उत्तं ह्यमरेण । 'अथास्त्रियौ धनुश्चापैौ' इति । किन्नर इति ॥ 'तुरङ्गवदनो मयु इत्यमरः । ‘मीनातिमिनोति' इत्यात्वन्तु नेह । बाहुलकात् । कटति रसनामिति कटुः । ‘कटु त्री कटुरोहिण्यां लताराजिन्.येोरपि । नपुंसकमकायें स्यात्पुलिङ्गेो रणमात्रके । त्रिषु तद्वत्सगन्ध्योश्च मत्सरेऽपि खरेऽपि च' इति मेदिनी । वटतीति ॥ 'वटुद्विजसुतः स्मृत.’ इति संसारावर्तात् ।

नटवटुरिति तूपचारात् । दन्योष्ठयादिरयम् । कल्पद्रुमादिप्रामाण्यात् । अभिव्याप्येति ॥
उणाद्य:]
५७७
बालमनोरमा ।


१० । शूस्कृन्निहित्रप्यसिवासिहनिििदबन्धिमनिभ्यश्च । श्रृणातीति शरुः । 'शरुरायुधकोपयोः' । स्वरुर्वज्रम् । रुन्नेहुव्र्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । 'पुंसि भूम्न्यसवः प्राणाः' । “ वसुर्हदेऽस्रौ योक्त्रेऽशैौ वसु तोये धने मणैौ' । हनुर्वक्त्रैकदेश: । छेदुश्चन्द्रः । बन्धुः । मनुः । चात् 'बिदि अवयवे' ।

११ । स्यन्देः सम्प्रसारणं धश्च । । देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमर ।

१२ । उन्देरिचादेः । उनत्ति इन्दुः ।

१३ । ईषेः किच । ईषेरुः स्यात्स च किदादेरिकारादेशश्च । ईषते हिनास्ति इषुः शर । 'इषुर्द्धयो ' ।

१४ । स्कन्देः सलोपश्च । कन्दु । १५ । सृजेरसुम् च । चात्सलोप उप्रत्ययश्च । रज्जुः । १६ । कृतेराद्यन्तविपर्ययेयश्च । ककारतकारयोविनिमय । तर्कः सूत्र १७ । नावश्वेः । न्यङ्कादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुगः । १८ । फलिपाटिनमिनिजनां गुक्पटिनाकिधतश्च । फलेर्गुक् फल्गुः ।


यद्यपि फलिपाटील्यादिसूत्र यावदनुवर्तते इतेि न्यासग्रन्थेन मर्यादीकृत्यत्यपि प्रतीयते । तथापि अभिव्याप्येत्येवोचितम् । ‘पिबतं सौम्यं मधु' इत्यादौ मधुशब्दस्याद्युदात्ततादर्शनात् । “वोतो गुणवचनात्' इति सूत्रे हरदत्तेन अभिव्याप्येति स्पष्टमभिधानाचेति भावः । त्रपु सीस मिति ॥ तद्धि अनिं दृष्टा त्रपते लज्जते इव । “त्रपु सीसकरङ्गयोः' इति मेदिनीकोशः । हनुरिति ॥ 'हनुः पुमान् परो गण्डात्' इति वररुचिकोशः । त्रीलिङ्गोऽप्ययम् । 'हनुर्हट्ट विलासिन्यां मृल्यावस्रगदे स्त्रियाम् । द्वयोः कपोलावयवे” इति मेदिनी । अतिशायने मतुप् । हनुमान् । “ अन्येषामपि दृश्यते' इति दृशिग्रहणात् पाक्षिको दीर्घः। हनूमान् । तेहेन बभ्रातीति बन्धुः । प्रज्ञादित्वात् बान्धवः । मनुरादिराजो मन्त्रश्च । बिन्दुः पवर्गीयादिः । कन्दुरिति ॥ स्कन्दत्यस्मिन् जनताप इति व्युत्पत्त्या भोगस्थानमित्याहुः । अमरस्त्वाह । 'हीबेऽम्बरीष भ्राष्टो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इति । कन्दुर्वा ना इति पूर्वेणान्वयाद्वा पुमानित्यर्थः । स्वजेरसुम् घेति ॥ सृजतीति रज्जुः । स्त्रियां, 'रज्जुर्वेण्या गुणे योषित्' इति मेदिनी । आगमसकारस्य २चुत्वेन शः, ज३त्वन ज । तकुंरिति ॥ कृन्तत्यनेनेति विग्रहः । “तकुंटी सूत्रला तकुं.’ इति हारावलीकोशः । फलिपाटि ॥ एकापि षष्ठी विषयभेदाद्रिद्यते । गुगागमे हि फलेरवयवषष्ठी।

पट्यादेशचतुष्टयविधौ तु पाट्यादिभ्यः स्थानषष्ठी । सा धतयोर्विधौ अन्येऽल्युपसहियते इति
५७८
[उणाद्य
सिध्दान्तकौमुदीसहिता

पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यत इति मधु । जायत इति जतु ।

१९ । चलेगुंक्च । “वल संवरणे' । वल्गुः । २० । शाः कित्सन्वञ्च । इयतेरुः स्यात्स च कित्सन्वञ्च । शिशुबलः । २१ । यो द्वे च । ययुरश्धोऽश्वमेधीय: । सन्वदिति प्रकृते द्वेग्रहणमित्व निवृत्त्यर्थम्

२२ । कुत्रैश्च । बधु । “बधुर्मुन्यन्तरे विष्णौ बधू नकुलपिङ्गलैौ ।’ चाद्न्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।

२३ । पृभिदिव्याधिगृधिधृषिभ्यः । कुः स्यात् । पुरुः । भिनत्ति भिदुर्वे जाम् । “ग्रहिज्या-' (सू २४१२) इति सम्प्रसारणम् । विरहिणं विध्यति विधुः । 'विधुः शशाङ्के कर्परे हृषीकेशे च राक्षसे' । गृधुः कामः । धृषुर्दक्षः ।

२४ । कृग्रेोरुच । करोतीति कुरुः । गृणातीति गुरुः ।

२५ । अपदुःसुषु स्थः । “सुषामादिषु च' (सू १०२२) इति षत्वम् । अपटु । प्रतिकूलम् । दुष्ठु । सुषु ।

२६ । रपेरेिचोपधायाः । अनिष्टं रपतीति रिपुः ।

२७ । अर्जिदृशिकम्यमिपशिबाधामृजिपशितुग्धुग्दीर्घहकारश्च । अर्जयति गुणानृजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः कन्दर्पः । अन्धुः कूपः ।


विवेकः । अनागमकाना सागमका आदेशा इति पक्षे तु स्थानषष्ठयेवेति बोद्यम् । “फल्ग्वसारे ऽभिधेयवत् । नदीभेदे मलय्वा त्री' इति मेदिनी । वल संवरणे इति ॥ दन्योष्ठयादिः । यक्तूज्वलदत्तेन सूत्रे पवर्गीयादि पठित्वा, “बल प्राणने' इत्युपन्यस्तम् । तलक्ष्यविरोधादुपेक्ष्यम् । अय नाभा वदति वल्गवो गृहे' इत्यादौ दन्त्योष्ठयपाठस्य निर्विवादत्वात् । धरणिकोशस्थमाह । बश्रुरिति ॥ 'बध्रुवैश्वानरे मूलपाणौ चव गरुडध्वजे । बिशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् ॥ ' इति मेदिनीकोशः। अन्यतोऽपीति ॥ “भ्रः कुश्च' इति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्याहुः । भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुचयाचेति बोध्यम् । पृभिदिव्यधिगृधि ॥ 'पुरुः प्राज्ये अभिधेयवत् । पुसि स्याद्देवलोके च नृत्यभेदपरागयो.' इति मेदिनी । सुषामेत्यादि । एतच न्यासाद्यनुरोधेनोक्तम् । वातककृता तु, स्थास्थन्स्थूनामुप सङ्खयातम् । “अपष्ठु पुसि बाले च वामे स्यादन्यलिङ्गके' इति मेदिनी । अर्जिदृशि ॥ अस्य ऋजिरादेश दृशेः पशिः । कमेस्तुगागम अम रोगगत्यादिषु अस्य धुगागमः । 'पशि नाशने ' । सोत्रो धातु । अस्य दीर्घ । “बाधृ लोडने ' । अस्य हादेशः । षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थ. । अविशेषेणेति ॥ वादिगणे तु पश्चिति

पठितम् । “पशु दृश्यर्थमव्ययम्' इति धरणिः । कन्तुः कन्दर्प इति ॥ 'कन्तुर्मकराङ्कः
उणाद्यः]
५७९
बालमनोरमा ।


'पांसुर्ना न द्वयो रज ' । “तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' । बाधत इति बाहुः । “बाहुः स्त्रीपुंसयोर्भुजः' ।

२८ । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च । तयाणा कुः सम्प्र सारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्कादित्वात्कुत्वम् । भृञ्जति तपसा भृगुः ।

२९ । लङ्गिबंह्योर्नलोपश्च । लघुः । “बालमूललध्वलमङ्गुलीनां वा लो रत्वमापद्यते' (वा ४७९८) । रघुपभेदः । बहुः ।

३० । ऊर्णेतेर्नुलोपश्च । ऊरु सक्थि । ३१ । महति हृस्वश्च । उरु महत् । ३२ । श्लिषेः कश्च । श्लिष्यतीति श्लिकुभृत्यः । उद्यतो ज्योतिश्च ।

३३ । आङ्परयोः खनिशूभ्यां डिच । आ खनतीत्याखुः। परं श्रृणातीति परशुः । पृषोदरादित्वाद्कारलोपात्पर्युरपि ।

३४ । हरिमितयावः । 'दु गतौ' अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्दूयते हरिदुर्वेक्षः । मितं द्रवति मितदुः समुद्रः ।

३५ । शते च । शतधा द्रवति शतदुः । बाहुलकात्केवलादपि । द्रव त्यूध्र्वमिति दुर्वेक्षः शाखा च । तद्वान्दुमः ।


इति त्रिकाण्डशेषः । पांसुरिति ॥ “पडि पसि नाशने ।' चुरादिदैन्यान्तः । स्त्रीपुंसयो रिति ॥ उक्त ह्यमरेण । ‘द्वौ परौ द्वयोर्भुजबाहू’ इति । परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुसयोरिति तदर्थः । अकारान्तोऽग्ययम् । अत एव “बाह्वोश्च भुजयोः पुमान्’ इति दामोदरः । “बाहा भुजेऽपुमान्मानभेदाश्ववृषवायुषु' इति मेदिन्याम् । टावन्तोऽप्ययम् । प्रथिम्रदि । प्रथते इति पृथु । 'पृथु. स्यान्महति त्रिषु । त्वक्पत्र्याङ्कष्णजीरेऽथ पुमानम्रौ नृपान्तरे' इति मेदिनी । म्रदितुं शक्यते अकठिनत्वादिति मृदु. कोमलः । “भृगु पुमान् मुने हरे तटे शुक्रे' इति मेदिनी । ‘भृगुः शुके प्रपाते च जमदग्रौ पिनाकिनि' इति कोशान्तरम् । लघुरिति ॥ 'पृकाया स्त्री लघुः कृीब शीघ्र कृष्णागुरुण्यपि' इति त्रिकाण्डशेषः । ‘लघुरगुरौ च मनोज्ञे नि:सार वाच्यवत् कृीबम् । शीघ्र कृष्णागुरुणि च पृकानामौषधौ तु स्त्री' इति मेदिनी । नृपभेद इति ॥ एतेन ‘अवेक्ष्य धातोर्गमनार्थमर्थविचकारान्नारघुमात्मसम्भवम्’ इति व्याख्यातम्। बहुरिति । बहुस्तु त्यूदिसङ्खयासु विपुले त्वभिधेयवत्' इति मेदिनी । ऊरुर्जङ्केति उज्ज्वलदत्तः । तन्न । तयोर्भदात् । ऊर्णयते आच्छाद्यते इत्यूरुः । कर्मणि प्रत्ययः । उरु महदिति ॥ कर्तरि प्रत्यय. । उद्यत इति । स हि यावत्कार्यं श्लिष्यति लगति व्याप्रियते इति यावत् । पर्शरपीति ॥

पर्शः परशुना सह' इति विश्वः । हरिदुर्वेक्ष इति ॥ दारुहरिद्रा इत्येके । तद्धानिति ॥
५८०
[उणाद्य
सिध्दान्तकौमुदीसहिता

३६। खरु शङ्कुपीयुनीलंगुलिगु । पचैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूखोंऽश्वश्च । 'शङ्कन कील शल्ययोः' । “पिबतेरीत्वं युगागमश्च ' । पीयुर्वायसः कालः सुवर्णश्च । निपूर्वालगि गतावस्मात्कुर्नेर्दीर्घश्च । नीलहुः कृमिविशेषः शृगालश्च । ‘नीलाङ्क इति पाठान्तरम् । तत्र धातोरपि दीर्घः । “लग सङ्गे' अस्य अत । इत्वभ्चेव लगतीति लिगु चित्तम् । लिगुर्मुखैः ।

३७ । मृगय्वादयश्च । एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयु व्यधः । देवयुर्धार्मिकः । मित्रयुलोकयात्राभिज्ञः । आकृतिगणोऽयम् ।

३८ । मन्दिवाशिमथिचतिचङ्कयङ्किभ्य उरच । मन्दुरा वाजिशाला । वाशुरा रात्रिः। मथुरा। चतुरः । चङ्करो रथः । अङ्करः। खर्जुरादित्वादङ्करोऽपि।

३९ । व्यथेः सम्प्रसारणं किञ्च । “विथुरश्चोररक्षसोः' ।


द्युदुभ्या म' । खरुशब्दस्य कूरो मूख लयः 'द्रय झापादीवृत्त्यनुसारेणोक्तम् । खरुः पतिवरा कन्येत्यपि बोद्यम् । 'खरुर्दन्ते हरे दर्षे हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशषों । शंकुरिति ॥ “शकि शङ्कायाम्' । शङ्कतेऽस्मादिति, “शहुः कीले गरे शत्रे सङ्खयापादप भेदयोः । यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः । पीयुरिति ॥ 'पीयुः काले रवौ घूके' इति मेदिनी । कृमिविशेष इति । 'नीलडुः कृमिजातौ स्यात् भम्भराली प्रसूनया. इति विश्व' । पाठान्तरमिति ॥ 'नीलडुरपि नीलाडुः' इति विश्वः । धातो रपीति । केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः उपपदस्य मुम् दीर्घश्च पाक्षिको निपात्यते इत्याहु । 'लिगु चित्ते नपुसकम्' इति वररुचि । मृगय्वादयश्च ॥ 'मृगयुः पुसि गोमायौ व्याधे च परमेष्ठिनि' इति मेदिनी । 'मृगयुर्बह्मणि ख्यातो गोमायुव्याधयोरपि । देवयुधार्मिके ख्यातो देवयुलॉकयात्रिके' इति विश्वः । आकृतिगण इति ॥ तेन, 'पील प्रतिष्टम्भे' अस्मात्कुः । “पीलुर्गजे दुमे काण्डे परमाणुप्रसूनयो.' इति विश्व । भट्टास्तु पीलुशब्दस्य वृक्षे आर्यप्रसिद्धिः गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजहूः । कडि मदे । कण्डुरित्यादि बोध्यम् । वाशुरा रात्रिरिति ॥ वाश्यन्ते अस्यामिति विग्रहः । वासुरो गर्दभ इत्यन्ये । 'वाशुरा वासितारात्र्यो' इति मेदिनी । ‘चङ्करः स्यन्दने वृक्षे ' इति मेदिनी । अङ्करो रुधिरे लोन्नि पानीयेऽभिनवोद्रिदि' इति च -। खर्जरेति ॥ 'अङ्कराडुर एव च इति विश्वप्रकाशः । व्यथेः ॥ “व्यथ भयसञ्चलनयो ' । अस्मादुरच् कित् स्याद्धातोः सम्प्र सारणञ्च । दशपाद्यां तु ध' किचेति पठित्वा धकारमन्तादेशं विधाय विधुरोऽनझिकः इत्युदा हृतम् । माधवेनापि तदेवानुस्मृतम् । न त्वेतद्युक्तम् । “त्वमेषां विथुरा शवासि । अतिविद्धा विथुरेणाचिदस्रा' इत्यादिमन्त्रषु थकारपाठस्य निर्विवादत्वात् । यदपि माधवेनोक्तं विदिभिदि

इत्यत्र व्यथेः सम्प्रसारणञ्चेति वचनात् कुरचि थान्त रूपमिति । तदतिस्थवीयः । कुरज्विधायके
उणाद्यः]
५८१
बालमनोरमा ।


४० । मुकुरददुरौ । मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । “दृ विदारणे' धातोद्विर्वचनमभ्यासस्य रुक्टिलोपश्च । “ दर्दूरस्तोयदे भेके वाद्यभाण्डाद्रि भेदयोः' । “ दर्दूरा चण्डिकायां स्याद्रामजाले च दर्दूरम्' इति विश्व ।

४१ । मदुरादयश्च । उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मदुरो मत्स्य भेदः । “कबृ वर्णे' । रुगागमः । 'कर्बुरं श्वेतरक्षसो ' । बभ्रातेः खर्जुरा दित्वादूरोऽपि । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोत्रिषु' इति रन्तिदेवः । 'कोकतेर्वा कुक् (च) (गण १९५) कुकुरः-कुकुरः ।

४२ । असरुरन् । असुरः । प्रज्ञाद्यण् । आसुर ।

४३ । मसेश्च । पञ्चमे पादे “मसेरूरन्' इति वक्ष्यते । 'मसूरा मसुरा ब्रीहेिप्रभेदे पण्ययोषिति ' । “मसूरा मसुरा वा ना वेश्यात्रीहिप्रभेद्योः ' । मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ' । 'मसूरमसुरौ च द्वौ ' इति विश्व ।

४४ । शावशेराप्तौ । शु इत्याश्चर्थे । श्वशुरः । 'पतिपत्रयोः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः ।

४५ । अविमह्योष्टिषच । अविषः । महिषः । ४६ । अमेदवश्च । 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' । ४७ । रुहेर्तृद्धिश्च | 'रहुशम्बररााहषाः । ‘राहषा ऋगभद् स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः ।


सूत्रे व्यथेरुपसङ्खयानस्याप्रसिद्धत्वात् । तस्मादिह धः किचेति दशपादीपाठ पुरस्कुर्वन्तः प्रसादकारादयोऽप्युपेक्ष्याः । कथ तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् । धुरो विगत इति प्रादिसमासेनेनत्यवधेहि । ‘समासान्ताः’ इति सूत्रे वृत्तिपदमञ्जयस्तथैवोक्तत्वात् । मुकुर इति ॥ 'मकि मण्डने' । अस्मादुरच् नलोपश्च । बाहुळकादिति ॥ धातोरुपधायाः पक्षे उकार इति भावः । 'मुकुरो मकुरोऽपि च' इति विश्वः । 'मुकुरः स्यान्मकुरवत् दपण वकुळद्रमे । कुलालदण्डे' इति मेदिनी च । धातोरिति । केचित्तु गुणो दुगागमश्च निपात्यते इत्याहुः । कर्बुरामिति ॥ ‘कर्बुर सलिले हेन्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्ताया शबले पुनरन्यवत्' इति मेदिनी । आविष इति ॥ राजा समुद्रश्च । महिषो महान् । 'तुरीयन्धाम महिषो विवक्ति । उत माता महिषमन्ववेनत् ।’ टित्वात् डीप् । महिषी

राजपत्री । रुहेः ॥ 'रौहिषो मृगभेदे स्याद्रौहिषञ्च तृण मतम्’ इति संसारावर्तः ।
५८२
[उणाद्य
सिध्दान्तकौमुदीसहिता

४८ । तवांणेद्वा | 'तव' इति सौत्रो धातुः । “ तविषताविषावब्धौ स्वर्गे च' । स्त्रियां तविषी-ताविषी नदी देवकन्या भूमिश्च । “तविषी बलम्' इति वेद्भाष्यम्

४९ । नावेि व्यथेः । ‘अव्यथिषोऽब्धिसूर्ययोः' । अव्यथिषी धरात्र्यो । । किलेबेक्च । किल्बिषम् ।

५१। इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचि रुधिबन्धिशुषिभ्यः किरच । इषिरोऽन्निः । मदिरा सुरा । ‘मुद्रिः कामुका भ्रयोः' इति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । : छिद्रोिऽसिकुठारयोः' । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः । 'चन्द्रौि चन्द्रहस्तिनौ' । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः । “मुहिर काम्यसभ्ययोः' । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । *शुष शोषणे' शुषिरं छिद्रम् । शुष्कमित्यन्ये ।

५२ । अशेर्णित् । आशिरो वह्निरक्षसो ।

५३ । अजिरशिशिरशिथिलास्थिरस्फिरस्थविरखादिराः । अजेवीभावा भावः । अजिरमङ्गणम् । शशेरुपधाया इत्वम् । “शिशिरं स्यादृतोभेदे तुषारे शीतलेऽन्यवत्' । 'श्रथ मोचने ' उपधाया इत्व रफलाप । प्रत्ययरेफस्य लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् ।


वेदभाष्यमिति ॥ ‘इन्द्रो मित्रस्य तविषीम् । इन्द्रस्यात्र तविषीभ्यः' इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौ, ‘ओजः पाज.’ इत्यादिषु बलनामसु तविषीशब्दस्य पाठश्चेह मूलमिति बोध्यम् । तविषः शोभनाकारे भेळेऽब्धिव्यवसाययोः । तविषी देवकन्याया पुसि स्वर्गे महोदधौ । तविषी चेन्द्रकन्याया ना खर्गाम्बुधिकाञ्चने' इति मेदिनी । किलेर्बुक् च ॥ * किल चैत्यक्रीडनयो ' । किल्बिष पापरोगयोः । अपराधेऽपि' इति मेदिनी । इषिरोऽग्निरिति ॥ आहार इत्यन्ये । छिदिरः पावके रजौ करवाले परश्वधे । मन्दिर नगरेऽगारे कृीब ना मकरालये । चन्दिरोऽनेकपे चन्द्रे । तिमिरन्ध्वान्तनेत्रामयान्तरे । मिहिरः सूर्यबुधयोः । मुहिरः काममूर्खयोः । रुधिरोऽङ्गारके पुंसि कीबन्तु कुडुमासृजोः । शुषिरं वंश्यादिवाद्ये विवरे च नपुसकम् । मूषिके न स्त्रिया नील्योषधौ रन्भ्रान्विते त्रिषु । आशिरो वीतिहोत्रे स्यात् राक्षसे भास्करे पुमान्’ इति मेदिनी । अजिरमङ्गणमिति ॥ अङ्गेल्र्युटि अनादेशस्य बाहुलकाण्णत्वमित्येके । अन्ये तु विश्वकोशा द्युपष्टम्भेन दन्त्यमेवेच्छन्ति । इह दशपादीवृत्तौ नञ्पूर्वस्य जीर्यतेः ऋवर्णलोपो निपात्यते इत्युक्तन्तदपि ग्राह्यम् । ‘आशुन्दूतमजिरं प्रत्न्नमीड्यम्’ इत्यादौ न जीर्यतीत्यजिरः इत्यर्थस्यानु

गुणत्वात् । 'अजिरं प्राङ्गणे कार्यविषये दर्दूरेऽनिले । शिशिरो ना हिमे न स्त्री वृतुभेदे जडे
प्रकरणम्]
५८३
बालमनोरमा ।

तिष्ठतेर्युक्हस्वत्वञ्च । स्थविरः । खदिरः । बाहुलकाच्छीडो बुक्हस्वत्वञ्च । शिबिरम् ।

५४ । सलिकल्यनिमभिडिभण्डिशण्डिपिाण्डितुण्डिकुकिभूभ्य इलच् । सलति गच्छति निन्नमिति सलिलम् । कलिलः । अनिलः । महिळा । पृषो दरादित्वान्महेळापि । भड इति सौत्रो धातुः । ‘भडिलौ शूरसेवकौ' । भण्डिलो दूतः कल्याणञ्च । शण्डिलो मुनिः । पिण्डिलो गणक । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुळकात्कुटिलः ।

५५ । कमेः पश्च । कपिलः ।

५६ । गुपादिभ्यः केित् । गुपिलो राजा । तिजिलो निशाकरः । गुहिलं

५७ । मिथिलादयश्च । मथ्यन्तेऽत्र रिपवो मिथिला नगरी। पथिलः-पथिकः।

५८ । पतिकठिकुठिगडिगुडिदंशिभ्य एरक् । पतेरः पक्षी गन्ता च । कठेरः कृच्छूजीवी । कुठेरः पर्णाशः । बाहुळकान्नुन्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।

५९ । कुम्बंनेलोपश्च । कुबेर ।

६० । शदेस्त च । शतेरः शत्रुः ।

६१ । मूलेरादयः । एरगन्ता निपात्यन्ते। मूलेरो जटा । गुधेरो गोप्ता । गुहरा लाह्वघातकः । मुहरा मूखः ।

६२ । कबेरोतः पश्च । कपोतः पक्षी ।


त्रिषु । खदिरः शाकभेदे स्यात् ना चन्द्रे दन्तधावने ' इति मेदिनी । शिबिरमिति ॥ शेरतेऽस्मिन् राजान । 'निवेशः शिाबिर षण्डम्' इत्यमरः । सलिकलि ॥ कलिल इति ॥ मिश्रेो गहनश्च । महिळेति ॥ 'महिळा फलिनीत्रियोः' इति मेदिनी । पृषोदरेति ॥ तथाच दमयन्तीकाव्ये, ‘परमहेलारतोऽप्यपारदारिकः’ इति । परस्य महेला स्त्री । अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यथे । कापल इत ॥ “कपिला रेणुकायाश्च शिंशपागोविशे षयोः । पुण्डरीकः करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नानले वासुदेवे च कुक्कुरे' इति मेदिनी । रेणुकेह लताविशेषः । 'हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी' इत्यमरात् । मिथिलादयश्च ॥ मथे विलोडन । अकारस्येत्वं निपातनात् । कुठेर इति ॥ कठ कृच्छूजीवने । कुठि च । द्वितीयस्य इदित्वान्नुमि प्राप्त आह । बाहुलकादिति ॥

कबेरोतः ॥ गुपादिसूत्रादारभ्य एतदन्तानि सप्त सूत्राणि केषाञ्चिदसम्मतानि । कपोत
५८४
[उणाद्य
सिध्दान्तकौमुदीसहिता


६३ । भातेर्डवतुः । भातीति भवान् ।

६४ । कठिचकिभ्यामोरन् । कठोरः । चकोरः ।

६५ । किशोरादयश्च । किंपूर्वस्य श्रृणातेष्टिलोपः । किमोऽन्यलोपः । किशोरोऽश्वशाबः । सहोरः साधुः ।

६६ । कपिगडिगाण्डिकटिपटिभ्य ओलच । कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलैौ गुडकपर्यायौ । कटोलः कटुः । पटोल ।

६७ । मीनातेरूरन्। मयूरः।

६८ । स्यन्देः सम्प्रसारणञ्च । सिन्दूरम् ।

६९ । सितानिगमिमसिसच्यविधाञ्कृशिभ्यस्तुन् । सिनोतीति सेतु । तितुत्र-' (३१६३) इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धचदिः । 'ज्वर त्वर-' (सू २६५४) इत्यूट् । तत्र क्ङिती त्यनुवर्तत इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः । ऋकाष्टा ।

७० । प: किञ्च । पिबतीति 'पितुर्वेह्रौ दिवाकरे' ।

७१ । अर्तश्च तुः । अर्तेस्तुः स्यात्स च कित् 'ऋतुः स्त्रीपुष्पकालयोः ।


इति ॥ * कपोतः स्याचित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी । “कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः । अत्रौतचश्चित्व प्रामादिकम् । 'यत्कपोतः पदमझा कृणोति । देवाः कपोत इषितो यदिच्छन्’ इत्यादौ सर्वत्र प्रत्ययस्वरेण मछद्योदात्तस्यैव पठ्यमानत्वात् । कठोर इति ॥ कठिनः पूर्णश्च । 'कठोरताराधिपलाञ्छनच्छविः’ इति माघः। किशोर इति ॥ 'किशोरोऽश्वस्य शाबके । तैलपण्यैषधौ च स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी । कपोल इति ॥ कटे वर्षावरणयोः । केचित्तु सूत्रे कडि मदे इत्येतं पठन्ति । कण्डोलः पिटकः, चण्डालश्च । ‘चण्डालिका तु कण्डोलवीणाचवण्डालवल्लकी' इत्यमरः । पटोल इति ॥ 'पटोलं वस्रभेदे नौषधौ ज्यौत्स्न्यान्तु योषिति' इति मेदिनी । ‘कल शब्दे ।' बाहुळकादतोऽप्योलच् । 'कल्लोल पुसि हर्षे स्यान्महत्सू र्मिषु वारिणः’ इति मेदिनी । स्यन्देः ॥ 'सिन्दूरस्तरुभेदे स्यात् सिन्दूर रक्तचूर्णके । सिन्दूरी रोचनारक्तवेलिकाधातकीषु च' इति मेदिनीविश्वप्रकाशौ । सितनि ॥ 'सेतुर्नालौ कुमारके' इति मेदिनी । 'सेतुरालौ त्रियां पुमान्' इति, “मण्डन्दधिभव मस्तु' इति चामरः । धातुर्नेन्द्रियेषु च । शब्दयोनिमहाभूततदुणेषु रसादिषु । मनःशिलादौ श्लेष्मादौ विशेषाद्वै रिकेऽस् िच' इति मेदिनी । 'श्लेष्मादिरसरक्तादिमहाभूतानि तदुणाः । इन्द्रियाण्यश्मविकृति शब्दयोनिश्च धातवः' इत्यमरः । अर्तश्च तुः ॥ तुनि प्रकृते अन्तोदात्तत्वार्थन्तुः क्रियते ।

ऋतुना यज्ञम् । य ऋतुर्जनानाम्' इत्यादि । ‘ऋतुर्वर्षादिषट्सु च । आर्तवे मासि च पुमान्’ इति
उणाद्यः]
५८५
बालमनोरमा ।


७२ । कमिनिजनिगाभायाहेिभ्यश्च । एभ्यस्तुः स्यात् । ‘कन्तुः कन्दर्प चित्तयोः' । मन्तुरपराधः । जन्तुः प्राणी । 'गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च ' । भातुरादित्यः । 'यातुरध्वगकालयोः' । रक्षसि कृीबम । हेतु

७३ । चायः किः । “केतुर्मुहपताकयोः' ।

७४ । आमोतेर्हस्वश्च । अप्तुः शरीरम् ।

७५ । वसस्तुन् । वस्तु ।

७६ । अगार णिच । “वेश्मभूर्वास्तुरस्त्रियाम्' ।

७७ । कृञ्जः कृतुः । क्रतुर्यज्ञः ।

७८ । एाधवत्याश्चतुः । एधतुः पुरुषः । वहतुरनङ्कान् ।

७९ । जीवेरातुः । * जीवातुरस्त्रियां भत्ते जीविते जीवनौषधे ' ।

८० । आतृकन्दृद्धिश्च । जीवेरित्येव । 'जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषावल ' ।

८१ । कृषिचमितनिधानसर्जिरवार्जभ्य ऊः । “कषैः पुंसि करीषाम्रौ कर्पर्नद्यां स्त्रियां मता' । चमूः । तनूः । धनूः शस्रम् । “सर्ज सर्जने' । सर्जु र्वणिक् । 'खर्ज व्यथने' । खर्जुः पामा ।

८२ । मृजेर्गुणश्च । मर्जुः शुद्धिकृत् ।

८३ । वहो धश्च । “वधूर्जायास्नुषास्रीषु' ।


मेदिनी। कमि। कमिग्रहण प्रपञ्चार्थम् । ‘अर्जिदृशि' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् । मन्तु रिति ॥ ‘मन्तुः पुस्यपराधेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी। ‘दीर्घ ह्यहुशम्’इति मन्त्रस्य वेदभाष्ये तु मन्तुभ इति मन्तुज्ञांनन्तद्वान् हे इन्द्रेति व्याख्यातम् । “गातुन कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे' इति मेदिनी । “भातुन किरणे सूर्ये' इति च । चायः किः ॥ ' केतुन रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि' इति मेदिनी । अप्तुः शरीरमिति ॥ अभिलषितार्थश्च , आप्तव्यत्वात् । अत एव आप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः । कृञ्जः क्रतुः ॥ क्रतुर्यज्ञे मुनौ पुसि' इति मेदिनी । एधिवह्योश्चतुः ॥ वित्वादन्तोदात्त । “स्योन पत्यं वहतु कृणुष्व'। ‘वहतुः पथिके वृषभे पुमान्’ इति मेदिनी । आातृकन् ॥ “जैवातृक पुमान्सोमे कृषका युष्मतोत्रिषु' इति मेदिनी । कृषि ॥ रभसकोशस्थमाह । कषैरिति ॥ ‘कर्षः पुमान् करीषाम्रौ स्त्रियां कुल्याल्पखातयोः' इति मेदिनी । “सर्जुर्वणिजि विद्युति । त्रियां स्वर्गे विधौ रुद्रे' इति, “खर्जुः कीटान्तरे स्मृता । खजूरी पादपे कण्ड्राम्’ इति च । मृजेः ॥ मर्जुः स्त्री शुद्धौ धावकेऽपि च इति मेदिनी । वहः ॥ ‘वधूः स्नुषा नवोढा स्त्री भार्यापृकाङ्गनासु च' इति विश्वः। ‘पृका च महिला

74
५८६
[उणाद्य
सिध्दान्तकौमुदीसहिता


८४ । कषेश्छश्च । कच्छूः पामा ।

८५ । णित्कसिपद्यतेः । कासूः शक्तिः । पादूश्चरणधारिणी । आरूः

८६ । अणो डश्च । आडूर्जलप्वद्रव्यम् ।

८७ । नवि लम्बेर्नलोपश्च । 'तुम्ब्यलाबूरुभे समे' इत्यमरः ।

८८ । के श्र एरङ् चास्य । कशब्दे उपपदे श्रृणातेरूः स्यात् एरङादेशः । कशेरूस्तृणकन्दे स्री' बाहुलकादुप्रत्यये कशेरुः । झीबे पुंसि च ।

८९ । त्रो दुट् च । तरतेरूः स्यात्तस्य दुट् । ‘तः स्याद्दारुहस्तकः ।

९० । दरिद्रातेर्यालोपश्च । इश्च आश्च यौ तयोलॉपः । दर्दूः कुष्ठप्रभेदः ।

९१ । नृतिश्ध्योः कूः । नृतूर्नर्तकः । श्रृंधूरपानम् ।

९२ । ऋतेरम् च । ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी

९३ । अन्दूदृम्भूजम्बूकफेलकर्कन्धूदिधिषुः । एते कूप्रत्ययान्ता निपात्य न्ते । अन्दूर्बन्धनम् । “दृभी ग्रन्थे' निपातनान्नुम् । दृम्भूः । अनुस्वाराभावो ऽपि निपातनादित्येके । दृन्भूः । जनेर्बुक् । जम्बूः । ‘जमु अदने' इत्यस्येत्येके ।


वधूः’ इति त्रिकाण्डशेषः । कषेः ॥ कषशषेति दण्डके पठितः। ‘कछान्तु, पामपामे विचर्चिका' इत्यमरः । णित्कसि ॥ कस गतौ । 'कासूर्विकलवाचि स्यात् तथा शक्तयायुधे स्त्रियाम्' इति मेदिनी । 'कासूः शक्तयायुधे रुजि । बुद्धौ विकलवाचि स्यात्' इति हेमचन्द्रः । न लम्बतेत अलाबूः । त्रो दुट् च ॥ तरिति ॥ 'नेड़शि' इति नेट् । वरमनादाविति परिगणनस्याना श्रितत्वात् बाहुलकाद्वा । केचित्तु त्रो दुक् चेति पठित्वा धातोर्तुगागममाहुः । तेषान्धातोर्गुणो दुर्लभः । चकारबलेन वा साधनीयः, दुगागमात्पूर्व यत्प्राप्तन्तदपि भवतीति व्याख्यानात् । दरिद्रातेः ॥ इश्च आश्रेति ॥ भोजदेवस्तु र्यालोप इति रेफादिक पदं छित्वा द्वेधा व्याख्यत् । इश्च आश्च । दर्दूः । रश्च इश्व आश्च । ‘अन्यबाधेऽन्यसदेशस्य’ इति द्वितीयरेफलोप । दः । मृगय्वादित्वाद्ददुर्हस्वान्तश्च । “ददुणो ददुरोगी स्यातू' इत्यमरः । इत्थञ्चत्वारि रूपाणि । अन्दूदृम्भू ॥ अन्दूर्बन्धनमिति ॥ 'अदि बन्धने ' । “अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च' इति मेदिनी । “अन्दुको हस्तिनिगडे' इत्यमर । “सज्ञायाङ्कन्' । “ केऽणः’ इति हस्वः । केचित्तु ‘अम गतौ' अस्य दुव् अन्दूबुद्धिरिति व्याचख्यु । दृभी ग्रन्थे इति तुदादिः । दृम्भूरिति ॥ सन्दर्भकर्तत्यर्थः । कथकः इत्यन्ये । अस्य रूपाणि हूवादित्युक्तम् । कैयटी ऽप्यत्रानुकूलः । माधवादयस्तु दृढशब्दे उपपदे भुवः किप्प्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते ।

यद्वा दृन्निति नान्तमव्यय दृढार्थकमुपपद, दृन्भूः, तरुः सर्पः कपिर्वेति व्याख्याय ‘दृन्कर’ इति य
उणाद्यः]
५८७
बालमनोरमा ।


बाहुलकाद्रस्वोऽपि । जम्बुः । कर्फ लाति कफेलूः श्लेष्मातकः । निपातना देत्वम् । कर्क दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्य स्यति त्यजतीति द्विधिपूः पुनर्भूः । केचित्तु “अन्दूट्टम्भूजम्बूकम्बू' इति पठन्ति । छटम्फ उन्छेशे ' दृम्फूः सपजाति । * कमेबुक्' । कम्बूः परद्रव्यापहारी ।

९४ । मृग्रेोरुतिः । मरुत् । गरुत्पक्षः ।

९५ । ग्रो मुट् च । गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्ण तृणविशेषश्च ।

९६ । हृषेरुलच । “हर्षलो मृगकामिनोः' । बाहुलकाचटतेः । चटुलं

९७ । हृष्टरुहियुषिभ्य इतिः। 'हरित्ककुभि वर्णे च तृणवाजिविशेषयोः'। सरिन्नदी । 'रोहित्' मृगविशेषस्य स्री । * युष' इति सँौत्रो धातुः । ‘ऋश्यस्य रोहित् पुरुषस्य योषित्' इति भाष्यम् ।

९८ । ताडेर्णिलुक् च । ताडयतीति तडित् ।

९९ । शमेर्हः । बाहुलकादित्संज्ञा एयादेशः इट् च न । “शण्ढः स्यात्पुंसि गोपतौ' । शण्ढः । लाब ।


वर्षाभूवदूपमस्येत्याहु । ह्रस्वोऽपीति ॥ उदाहृतञ्च विक्रमादित्येन । 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति । यत्तु “परिणतजम्बुफलोपभोगहृष्टा” इति भारविप्रयोग हस्वान्तत्वे साधकत्वेनोदाजहु. । तन्न । 'इको हस्वोऽडय.' इति सूत्रेण गतार्थत्वात् । दिधिमिति ॥ केचित्तु दधातेरित्वन्द्वित्व घुक् च निपात्यते । दधात्यसौ दिधिघूरित्याहुः । उज्ज्वलदत्तोक्त पाठमाह । केचित्विति ॥ एतच कैयटमाधवादिमहाग्रन्थविरुद्धमित्यवधेयम् । अत एव दृम्भू स्री सर्पचक्रयोः' इति भान्ते मेदिनी । मरुदिति ॥ प्रज्ञादित्वादणि मारुतोऽपि । मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति । तथा च विक्रमादित्यकोशः । “मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति ससारावर्तश्च । “कोऽयं वाति स दाक्षिणात्यमरुतः’ इति कविराजः । अत्रानुपपत्ति मत्वा दाक्षिणात्यपवन इति पाठं कल्पयन्त्यल्पदृश्वानः इति वर्णविवेकः । गरु दिति ॥ यवादिरयम् । तेन मतुपो वत्व न । गरुत्मान् । ओी मुट् च ॥ 'गर्मुत् त्री स्वर्ण लतयोः' इति मेदिनी । विश्वकोशमाह । हरिदिति ॥ 'हरिद्दिशि स्त्रिया पुसि ह्यवर्णविशेषयोः। अस्त्रियां स्यात्तृणे च' इति मेदिनी । ऋश्यस्येति ॥ एतेन “गतं रोहिद्भतां रिमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः । “रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी । शमेढेः ॥ बाहुलकादिति ॥ यद्यपि *नेड़शिकृति' इति इण्निषेधः सुवच । तथापि नेङ्करमनादाविति परिगणनादेवमुक्तम् । 'शण्ढः स्यात्पुसि गोपतौ' आकृष्टाङ्गे वर्षवरे तृतीय

प्रकृतावपि' इति मेदिनी । कमठ इति ॥ “कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति
५८८
[उणाद्य
सिध्दान्तकौमुदीसहिता


१०० । कमेरठः । कमठ । 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम् इति मेदिनी । बाहुलकाज्जरठः ।

१०१ । रमेििद्धश्च । रामठं हिङ्गु ।

१०२ । शमेः खः । शङ्खः ।

१०३ | कणेष्ठः । कण्ठः ।

१०४ । कलस्तृपश्च । तृपतेः कलप्रत्ययः । चात्तृफतेः । तृपला लता । 'तृफला तु फलत्रिके' ।

१०५ । शपेर्वश्च । शबल ।

१०६ । ऋपादिभ्यश्चित् । वृषलः । पललम् । बाहुलकादुणः । सरलः । तरलः । 'कमेबुक् (च)' (गण १९६) कम्बल । 'मुस खण्डन ' मुसलम् । 'लङ्गवृद्धिश्च '(गण १९७) लाङ्गलम् । 'कुटिकाशिकौतिभ्यः प्रत्ययस्य मुट् ।


मेदिनी । जरठ इति ॥ तृप् वयोहानौ । 'जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यौ । ‘जरठ: कठिने जीर्णे' इति वैजयन्ती । शमेः ख ॥ 'शङ्खो निधौ ललाटास्ि कम्बा न स्त्र ' इत्यमर । “शङ्खः कम्बैौ न योषिन्ना भालास् िनिधिभिन्नखे' इति मेदिनी । कणेष्टः ॥ “कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमेदिन्यौ । फल त्रिके इति ॥ “त्रिफला तृफला च सा' इति विश्वः । त्रिफलाशब्दसमानार्थस्तृफला शब्द इति ‘द्विगोः' इति सूत्रे रक्षितः । 'शप आक्रोशे' । वृषादिभ्यश्चित् ॥ 'शूद्राः श्रावरवणांश्च वृषलाश्च जघन्यजा' ' इत्यमरः । “वृषलस्तुरगे शूद्रे' इति हेमचन्द्र । पललमिति ॥ पल गतौ । “पलल तिलचूर्णे च पङ्के मांसे नपुसकम् । ना राक्षसे इति मेदिनी । 'सरलः पूतिकाष्ठ नाऽथोदारावक्रयोत्रिषु' इति मेदिनी । 'सरला विरलायन्ते घनायन्ते कलिदुमा न शमी न च पुन्नागा अि स्मन्ससारकानने ' इत्यभियुक्तप्रयोग कमेरिति ॥ बाहुलकादित्यत्रानुषज्यते । “कम्बवळा नागराजे स्यात् सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुसकम्' इति मेदिनी । 'मुसल स्यादयोऽग्रे च पुंनपुसकयोः त्रियाम् । तालमूल्यामाखुपणगृिहगोधिकयोरपि' इति मेदिन्याम् । मूर्धन्यमध्योऽप्यमिति वर्णदेशना, ‘मुस खण्डने' इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवात्रेयादिभिः पठित त्वात् । उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः । अत एव मुसलोऽपि चेति विश्वकोशे मुशलोऽपि चेति पाठान्तरम् । लङ्गेरिति ॥ बाहुळकादित्येव । एवमप्रेऽपि । “लाङ्गल तालहलयोः पुष्पभिद्रहदारुणोः । लाङ्गली गृहपिप्पल्याम्' इति हेमचन्द्रः । “लाङ्गली तोय पिप्पल्या कीबन्तु कुसुमान्तरे । गोदारणे तृणे राजगृहदारुविशेषयोः' इति मेदिनी । 'कुड्मलो मुकुल पुस न द्वयोर्नरकान्तरे । ‘कोमल मृदुले जले' इति च । बाहुलकादन्यत्राप । तथा

कुस श्रेलषणे' । दन्यान्तो निर्विवादः । वोपदेवमते तालव्यान्तोऽपि । गुणः । कोसलः कोशलो
उणाद्य:]
५८९
बालमनोरमा ।


(च), (गण १९८) कुट्मल । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलका कामलम्

१०७ । मृजेष्टिलोपश्च । मलम् ।

१०८ । चुपरचोपधायाः । चपलम् ।

१०९ । शकिशम्योर्नित् । शकलम् । शमलम् ।

११० । छो गुग्घ्रस्वश्च । छगलः । प्रज्ञादित्वाच्छागलः ।

१११ । अमन्ताडुः । दण्डः । रण्डा । खण्डः । मण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सत्वाभाव । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्ड । गण्डः । चण्डः । पण्डः छीबः । पण्डा बुद्धिः ।


वा देशविशेषः । “वृद्धेत्कोसल' इति सूत्रे तु दन्त्यपाठ एव साम्प्रदायिकः । ‘सम्ब सम्बन्धे शम्ब च' । सम्बलम् । “शम्बलोऽत्री सम्बलवत् कुलपाथेयमत्सरे' इति मेदिनी । 'कदि आखान । नलापः । रादित्वान्डीष् । “मदान्दोलितकपूरकदलीदलसज्ञया । विश्रमाय श्रमापन्नानाह्वयन्तमिवाध्वगान्’ इति काशीखण्डम् । अजादेराकृतिगणत्वाट्टाबपि । “कदला कदली पृश्न्या कदलीकदलो पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयो ॥ कदला डिम्बि कायाञ्च' इति मेदिनी । “पिजि हिसायाम्' । न्यङ्कादित्वात्कुत्वम् । 'पिङ्गली नागभिदुद्र चण्डांशुपारिपार्श्वके । निधिभेदे कवावमौ पुसि स्यात्कपिलेऽन्यवत् । स्त्रिया वेश्याविशेषे च करिण्याहुमुदस्य च' इति मेदिनी । कुश इति सौत्रो धातु कुशलः शिक्षिते त्रिषु क्षेमे च सुकृते चापि पर्याप्तौ च नपुसकम्' इति मेदिनी । “कमु कान्तौ' । “कमल सलिल तात्रे जलजे व्योन्नि भेषजे । मृगभेदे तु कमलः कमला श्रीवरात्रियो ' इति विश्वमेदिन्यौ । मडि भूषायाम्' । “मण्डल परिधौ कोठे देशे द्वादशराजके । कृीबेऽथ निवहे बिम्बे त्रिषु पुसि तु कुक्कुरे' इति मेदिनी । “कोठो मण्डलकम्' इत्यमरः । *बिम्बोऽत्री मण्डल त्रिषु इति च । ‘कुडि दाहे', 'पट गतौ', 'छो छेदने' । “कुण्डलङ्कर्णभूषाया पाशेऽपि वलयेऽपि च । अथ पटल पटक चव पारच्छद । छदिग्रोगतिलके कृीब बृन्द पुनर्न ना । छल स्खलित शाठ्ययो.' इति मेदिनी । मृजेष्टिलोपश्च ॥ “मलोऽस्त्री पापविट्किोट्ट कृपणे त्वभिधेयवत् इति मेदिनी । चुपे ॥ 'चपल पारदे मीने चिबुके प्रस्तरान्तरे । चपला कमला विद्युत् पुश्चलीपिप्पलीषु च । नपुसक तु शीघ्र स्याद्वाच्यवत्तरलं चले' इति मेदिनी । शकिशम्योः ॥ शकल खण्डे रोहितादीनान्त्वचि च । तद्योगाच्छकली मत्स्यः । ‘मत्स्यान् शकलान्’ इति भाष्यम् । “शकलन्त्वचि खण्डे स्यात् रागवस्तुनि वल्कले' इति मेदिनी । “शमल शकृदनसो.’ इति नानार्थरत्नमाला । छो गुग ॥ ‘छगलं नीलवत्रे ना च्छागे स्त्री वृद्धदारके' इति मेदिनी। छगलश्छागे च्छगली वृद्धदारकभेषजे' इति हेमचन्द्रः । अमन्ताडुः ॥ अमिति प्रत्याहारः । त्रिभ्य एव कणमा इति वृत्तिकारोक्तिस्तु अष्टाद्यायीस्थमात्रविषया । दण्ड इति ॥ बाहुल कात्, ‘चुट्' इति नेत्सज्ञा । * दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमर । “दण्डौ सैन्यार्कपार्श्वगौ ?

इति त्रिकाण्डशेषः । 'रण्डा मूषिकपण्र्याञ्च विधवायाश्च योषिति । खण्डोऽस्त्री शकले
५९०
[उणाद्य
सिध्दान्तकौमुदीसहिता

११२ । कादिभ्यः केित् । कवर्गादिभ्यो ड: कित्स्यात् । कुण्डम् काण्डम् । गुङ् गुड 'घुण भ्रमण घुण्डा भ्रमर तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालञ् चात्वाल: । मृजेरालीयच । मार्जालीयो बिडाल

११४ । पांतचांण्डभ्यामालञ् । पातालम् । चण्डाल प्रज्ञादित्वादणि पण

११५विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चाला


नेक्षुविकारमणिभेदयो मण्ड. पञ्चाडुले शाकभेदे कृीबन्तु मस्तुनि । चण्डा तु पांसुलाया स्री त्रिषु हस्तादिवर्जिते । अण्डं मुष्क च पेश्यां स्यात् । षण्ड पद्मादिसङ्घाते न स्री स्यात् गोपतौ पुमान् । गण्डः स्यात्पुसि खङ्गिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिहवीर चण्डोला तिन्त्रिणीवृक्षे यमकिङ्करदैत्ययो चण्डी कात्यायनीदेव्या हिस्राकोपनयोषितो वण्डा धनहरो शङ्खपुष्पी त्रिष्वतिकोपने । तीत्रेऽपि धियि स्त्री स्यात्' इति मेदिनी सुन्दरम् । कादिभ्यः कित् ॥ कुण्डमिति कुण शब्दोपकरणयोः । कित्त्वान्न गुण कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पतिवत्र सुते पुमान् । पिठर तु न ना' इति मेदिनी । काण्डमिति ॥ कमु कान्तौ । “ अनुनासिकस्य कि ' इति दीर्घ काण्डोऽस्त्री द ण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । अर्वा कुत्सितः । अत एव “काण्ड स्तम्बे तरुस्कन्धे बाणे वरदनीरयोः । कुत्सिते वृक्षभिन्नाडीबृन्दे रहसि न स्त्रियाम्' इति मेदिनी गुडो गोलेक्षुपाकयोः' इत्यमर गुडा स्नुही, तद्वत्केशाः अस्य गुडाकेशः, शिव जटाधाः रित्वात् । “गुडः स्याद्रेोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्याञ्च कथिता गुडिकायाश्च योषिति' इति मेदिनी । स्थाचति लचा सिद्धे आलचः आकाराश्विन्यप्रयोजनः । चित्स्वर बाधित्वा पक्षे आद्युदात्तार्थे इलेयके स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः' इति मेदिनी चात्वाली यज्ञकुण्डे स्याद्दभे च' इति विश्व माजॉलीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी । पातालमिति उपधावृद्धि पाताल नागलोके स्याद्विवरे बडबानले' इति मेदिनी । ‘चडि कोपे' इत्यस्य तु इदित्वान्नुमि अदुपधत्वाभावान्न वृद्धिः । यत्तु माधवग्रन्थे “पति-वण्डिभ्यामालन् इति पठित्वा पातालशब्दे बाहुलकादृद्धिमुक़ा आलािित वृद्यर्थे जितङ्केचित्पठन्ति इत्युपन्यस्य चण्डालशब्देऽपि वृद्धिः स्यादिति दूषितम् । तदतिरभसात् एके इत्यपरितोषोद्भावनम् । तद्वीजन्तु “कुलालवरुडकर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरोध इति बोद्यम् । तमि विशि ॥ *तमु काङ्कायाम्, विश प्रवेशने, बिड आक्रोशे, मृण हिंसायाम्, कुल सस्याने, कपेि

चलनेन, निर्देशान्नल पल गतौ, पाच विस्तारे । “तमालस्तिलके खङ्गे तापिञ्छे वारुणद्रॉम । गता पाण्ड
प्रकरणम्]
५९१
बालमनोरमा ।

११६ पतङ्ग

११७ । तरत्यादिभ्यश्च । तरङ्गः । लवङ्गम् ।

११८ । बिडादिभ्यः कित् । बिडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च।

११९ । सृष्टोद्विश्च । सारङ्गः । वारङ्गः खङ्गादिमुष्टिः ।

१२० । गन्गम्यद्योः । गङ्गा । अद्भः पुरोडाश ।

१२१ । छापूखडिभ्यः कित् । छागः । पूगः । खङ्गः । बाहुलकात् 'षिड अनादरे' गन्सत्वाभावश्च । षिङ्गस्तरलः । “षिङ्गेरगद्यत ससम्भ्रममेवमेका इति माघ ।

१२२ । धृञ्जः किन्नुट् च । भृञ्पा गान्कित्स्यात्तस्य नुट् च । “भृङ्गाः


विशाला त्विन्द्रवारुण्यामुज्जयिन्यान्तु योषिति । नृपवृक्षभिदोः पुसि पृथुलेऽप्यभिधेयवत् । बिडालो नेत्रपिण्डे स्यात् पृषदशुकके पुमान् । मृणालं नलदे कीबं पुन्नपुसकयोर्बिसे । कुलालः ककुभे कुम्भकारे स्त्री त्वञ्जनान्तरे । कपालोऽत्री शिरोऽस् िस्याद्धटादेः शकले व्रजे । पाञ्चाली पुत्रिकारीत्योः स्त्रियां पुम्भून्नि नीवृति' इति मेदिनी । बाहुलकात् इयतेरपि । शाला । ‘शल चलने अस्माद्धति “छायाशालानिशानाम्' इति निपातनात् स्त्रीत्वमिति न्यासकार । बोपदेवस्तु शालङ्कत्थने' इति पपाठ । “शाला दुस्कन्धशाखायाङ्कहे गेहेकदेशयोः । ना झषे ' इति मेदिनी । पतेः ॥ पतेर्वाहुलकादर्थान्तरेऽपि । 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्रीब सूते' इति मेदिनी । सूते पारदे इत्यर्थः । तरत्यादिभ्य ॥ “तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः । बिडङ्ग इति ॥ “बिड आक्रोशे ' । “बिलङ्गः कृमिसङ्कन्ने बिडङ्गो नागरऽन्यवत्' इति विश्वः । “बिडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिन्ने पुनपुसकम्' इति मेदिनी । मृदङ्ग इति ॥ “मृद क्षेोदे । ‘मृदङ्गः पटहे घोषे' इति मेदिनी । कुरङ्ग इति ॥ 'कृ विक्षेपे' बाहुलकादुत्वम् । कुर शब्दे इति वा अस्तु । “सारङ्गः पुसि हरिणे चातके च मतङ्गजे । शबले त्रिषु' इति मेदिनी । बाहुलकात् 'नृ नये' । 'अथ नारङ्गः पिप्पलीरसः । यमजप्राणिनिकटे नागरङ्गदुमेऽपि च इति मेदिनी । गन् गम्यद्योः ॥ बाहुलकादमेरपि । “अङ्ग गात्र उपाये च प्रतीके चाप्रधानके । अङ्गो देशविशेषे स्यादङ्ग सम्बोधनेऽव्ययम्' इति विश्व । “ अङ्गं गात्रे प्रतीकोपाययेोः पुंभून्नि नीवृति । लौबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' इति मेदिनी । छापू ॥ छायते छिद्यते यज्ञार्थमिति छागः । पूयते मुखमनेन । ‘पूगस्तु कमुके बृन्दे’ इति मेदिनी । ‘खड भेदन' । खङ्गो गण्डकश्श्रृङ्गे स्यात् नित्रिंशे गण्डकेऽपि च' इति शब्दतरङ्गिणी । ‘खङ्गो गण्डकश्श्रृङ्गेऽसिबुद्धभेदेषु गण्डके' इति मेदिनी । भृञ्जः ॥ किद्रहण स्पष्टार्थम्, अनुवृत्त्यैव लाभात् । 'भृङ्गो धूम्याटषिङ्गयोः । मधुत्रत भृङ्गराजे पुसि भृङ्गडुडत्वचि' इति मेदिनी । 'श्रृङ्गं प्रभुत्वे

शिखरे चिहे क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ श्रृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां
५९२
[उणाद्य
सिध्दान्तकौमुदीसहिता


१२३ । शृणातेर्हस्वश्च । शृङ्गम् ।

१२४ । गण्शकुनौ । नुट् चेत्यनुवर्तते । शाङ्गः ।

१२५ । मुदिोर्गग्गौ । मुः । गर्ग ।

१२६ । अण्डन्कृस्पृभृष्टञ्जः । करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।

१२७ । शूदृभसोऽदिः । शरत् । “दरदृदयकूलयोः' । भसज्जघनम् ।

१२८ । द्वणातः पुग्घ्रस्वश्च । ऋषत् ।

१२९ । त्यजितनियजिभ्यो डत् । यद । तद् । यद् । सर्वादयः ।

१३० । एतेस्तुट् च । एतद् ।

१३१ । सर्तेरटिः । “सरट् स्याद्वातमेघयोः’ । वेदभाष्ये तु * याभि कृशानुम्' इति मन्त्रे “सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् ।

१३२ । लङ्गेर्नलोपश्च । लघट् वायुः ।

१३३ । पारयतेरजिः । पारक् सुवर्णम् ।

१३४ । प्रथः कित्सम्प्रसारणञ्च । पृथक् । स्वरादिपाठाद्व्ययत्वम् ।

१३५ । भियः घुग्घ्रस्वश्च । भिषक् ।

१३६ । युष्यसिभ्यां मदिक् । 'युष्’ सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।

१३७ । आर्तिस्तुसुहुसृधुक्षिक्षुभायावापादयक्षिनीभ्यो मन् । एभ्यश्चतु र्दशभ्यो मन् । अर्मश्चक्षरो । स्तोमः सङ्गतः । सोमः । होमः । सर्मो


खर्णमीनभेदयो ऋषभौषधौ' इति मेदिनी । “ श्रृङ्ग विषाणमाख्यात शैलाग्रे जलयन्त्रके । मीनौषधिसुवर्णानां भदे श्रृङ्गी प्रयुज्यते ।' इति उत्पलिनीकोशः। अण्डन् कृस् ॥ 'करण्डी मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी । 'वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः इति विश्वमेदिन्यौ । बाहुलकात् तरतेः । “तरण्डो बडिशीसूत्रबद्धकाष्ठादिके वे' इति मेदिनी । शूदृ ॥ “शरत् स्त्री वत्सरेऽप्यूतौ । दरत् स्त्रिया प्रपाते च भयपर्वतयोरपि । भसत् स्त्री भास्वरे योनौ ' इति च मेदिनी । “उवे अम्बसुलाभिके” इति मन्त्रस्य व्याख्यायां भसद्रग इति वेदभाष्यम् । “जाघन्या पत्रीः सयाजयन्ति भसद्वीर्या हि स्त्रियः” इत्यत्र भसज्जघनमिति व्याख्यातारः । दृणातेः ॥ “दृषन्निष्पेषणशिलापदप्रस्तरयोः स्त्रियाम् इति मेदिनी । अर्तिस्तु ॥ 'सोमस्तुहिनदीधितौ । वानरे च कुबेरे च पितृदेवे समीरणे ।

वसुप्रभेदे करे नीरे सोमलतौषधौ' इति मेदिनी । “धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः
प्रकरणम्]
५९३
बालमनोरमा ।

गमनम् । धर्मः । क्षेमं कुशलम् । क्षेोमम् । प्रज्ञाद्यणि क्षेौमश्च । भामः आदित्य । यामः । ‘वाम शोभनदुष्टयोः'। पद्मम्। यक्ष पूजायाम्। य६मा रोगराजः । नेम:।

१३८ । जहातेः सन्वदालोपश्च । 'जिह्मः कुटिलमन्दयोः' ।

१३९ । अवतेष्टिलोपश्च । मन्प्रत्ययस्यायं टिलोपो न प्रकृते । अन्यथा डिदित्येव ब्रूयात् । 'ज्वरत्वर-' (सू २६५४) इति ऊठौ । तयोदधे कृते गुण: । चादिपाठाद्व्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादपाठादव्ययत्वम् । अवतात अाम् ।

१४० । ग्रसेरा च । ग्रामः ।

१४१ ॥ अविसिविसिशुषिभ्यः कित् । ऊमं नगरम् । स्यूमो रश्मि । सिमः सर्वः । शुष्ममग्निसमीरयोः' ।

१४२ । इषियुधीन्धिदसिश्याधूसभ्यो मक् । 'इष्मः कामवसन्तयोः ।


क्रतौ । अहिंसोपनिषन्नयाये ना धनुर्यमसोमपे' इति च । “धमः पुण्य यम न्याय स्वभावा चारयोः क्रतौ' इति विश्व. । ‘क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके । शणजेऽतसिजे इति मेदिनी । “भामः क्रोधे रवा दीप्तौ । यामस्तु पुसि प्रहरे सयमेऽपि प्रकीर्तितः । वाम धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु नायौ स्त्रियामथ । वामी श्रृंगाली बडबारासभीकरभीषु चव । पद्मोऽत्री पद्मके व्यूहनिधिसख्यान्तरेऽम्बुजे । ना नागे' इति च मेदिनी । यक्ष पूजायामिति ॥ यत्तूज्वलदत्तेन ‘जक्ष भक्ष हसनयो.' इत्युपन्यस्तम्, तन्न , तस्य चवर्गतृतीयादित्वात् । न च लक्ष्यमपि तथैवेति भ्रमितव्यम् । “आक्षिभ्यान्ते नासिका भ्याम्” इति मन्त्रे यक्ष्मशब्दस्यान्तस्थादित्वनिर्णयात् । न च तदुपन्यस्तधातुरप्यन्त स्थादि रिति भ्रमितव्यम् । “जक्षत् क्रीडन् रममाण.' इत्यादिप्रयोगेण तथा कविकल्पद्रुमादिभिः सह। विरोधादिति दिक् । मनिन्प्रत्यये तु नान्तः । “राजयक्ष्मेव रोगाणाम्' इति माघ. । “यक्ष्म णापि परिहाणिराययौ' इति रघु. । दशपादीवृत्तौ तु इह सूत्रे पक्षीति पवर्गायिादि पठित्वा सौत्रो धातुः बाहुळकान्नकारस्य नेत्सज्ञा इत्युका अक्षिपक्ष्मेत्युदाहृतम् । तन्न । “पक्ष परिग्रहे इत्यस्मान्मनिना गतार्थत्वात् । 'नेमः क्रुीबेऽवधौ गतें प्राकारे कैतवेऽपि च' इति मेदिनी । नेमस्त्वधे प्राकारगर्तयोः । अवधौ कैतवे च' इति हेमचन्द्रः । जहाते ॥ “जिह्मस्तु कुटिले मन्दे कीबन्तगरपादपे' इति मेदिनी । अवते ॥ “ओ प्रश्रेऽङ्गीकृतौ रोषे' इति विश्व । ग्रसेरा च ॥ 'ग्रसु अदने' । अतो मन् । धातोराकारश्च । 'ग्रामः स्वरे सवसथे बृन्दे शब्दादिपूर्वके' इति विश्व. । शब्दादिपूर्वको प्रामशब्दो बृन्दे । शब्दग्रामो गुणप्राम इति यथा । संपूर्वोऽय युद्धे । तदुक्तम् । 'संपूर्वः संयुगे स्मृतः' इति । ऊमं नगरमिति ॥ ‘त्वे क्रतुम् इति मन्त्रे ‘ऊमास्तर्पका यजमानः’ इति वेदभाष्यम्। स्यूमो रश्मिरिति ॥ सूत्रतन्तुरित्यन्ये। शुष्मं तेजसि सूर्ये ना' इति मेदिनी । ‘शुष्मं बलम्' इति वेदभाष्ये । इषियुधि ॥

5
५९४
[उणाद्य
सिध्दान्तकौमुदीसहिता


ईषीति पाठे दीर्घौदिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यज मानः । इयामः । धूम: । सूमोऽन्तरिक्षम् । बाहुलकादीमै त्रणः ।

१४३ । युजिरुचितिजां कुश्च । युग्मम् । रुक्मम् । तिग्मम् ।

१४४ । हन्तेहिं च । हिमम् ।

१४५ । भियः घुग्वा । भीमः । भीष्म ।

१४६ । धमेः । घृधातोमेग्गुणश्च निपात्यत ।

१४७ । ग्रीष्मः । असतेर्निपातोऽयम् ।

१४८ । प्रथेः षिवन्सम्प्रसारणं च । पृथिवी षवन्नित्येके । पृथवी । 'पृथवी पृथिवी पृथ्वी' इति शब्दार्णवः ।

१४९ । अशपुषिलाटिकाणिखटिविशिभ्यः कन् । अश्वः । 'श्रुष स्रह नादौ' । प्रष्व लटा पक्षिभेदः पल च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्टा । विश्वम् ।

१५० । इण्शीभ्यां वन् । एवां गन्ता । “ये च एवा मरुतः' । असत्त्वे निपातोऽयम् । शेवं लाञ्छनं पुंसाम् । 'शेवं मित्राय वरुणाय' ।

१५१ । सर्वनिघृष्वरिष्वलष्वशिवपद्वमङ्गेष्वा अस्वतन्त्रे । अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वादृषेर्गुणाभावोऽपि । निघृष्यते


युध्म इति ॥ ‘युध्मो धनुषि सयुगे' इति मेदिनी । ‘दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च । “न पूषणम्’ इति मन्त्रस्य भाष्ये तु दस्मो दर्शनीय इति व्याख्यातम् । “त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिका निशा' इत्यमर । ‘श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे कृीबं स्री शारिकौषधौ । अप्रसूताङ्गनायाश्च प्रियङ्गावपि गुग्गलौ । यमुनाया त्रियामाया कृष्णत्रिवृतिकौषधौ । नीलिका याम्' इति मेदिनी । ईमैमिति ॥ 'ईर गतौ' । 'व्रणेोऽस्त्रियामीर्ममरु’ हीबे' इत्यमर । ‘जन जनने' । जन्मम् । मनिनन्तस्तु नान्तः । “जनुर्जननजन्मानि' इत्यमर उभयसाधारणः । युजिरुचि ॥ 'रुक्मन्तु काञ्चने लोहे' इति विश्वमेदिन्यौ । हन्तेर्हि च ॥ 'हिम तुषार मलयोऽद्रवयोः स्यान्नपुसकम् । शीतले वाच्यलिङ्गः’ इति मेदिनी । 'भीष्मो गाङ्गेयघोरयो । भीमोऽम्लवतसे घोरे शम्भौ मध्यमपाण्डवे । घर्मः स्यादानपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि । ग्रीष्म ऊष्मतुभेदयोः' इति च मेदिनी । अशमुषि ॥ ‘अश्व. पुंभेदवाजिनोः' इति विश्व '। 'लट्वा करञ्जभेदे स्यात् फले मचे खगान्तरे' इति विश्वमेदिन्यौ । ‘कण्व पापे मुनौ पुसि कण्व बीजाद्यशीथुषु । विश्वात्वतिविषायां स्त्री जगति स्यान्नपुंसकम् ॥ न ना शुण्ठ्यां पुंसि

देवप्रभेदेऽप्यखिले त्रिषु' इति मेदिनी । इण्शीभ्याम् ॥ ३शवं सुखमिति वेदभाष्यम् ।
प्रकरणम्]
५९५
बालमनोरमा ।

अनेन निघृष्वः खुरः । रिष्वो हिंस्र । लण्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीडो ह्रस्वत्वम् । पद्वो रथो भूलोकश्च । प्रहूयते इति प्रह्व रालापो वा । ईषेर्वन् । ईष्वः आचार्यः । इष्व इत्यन्ये । “ अस्वतन्त्रे' किम् । सर्ता सारकः । बाहुलकाद्रसतेः । ह्रस्वः ।

१५२ । शेवयद्वजिहाग्रीवाप्वमीवाः । शेव इत्यन्तोदात्तार्थम् । यान्यनेन यह्वः । हृस्वो हुगागमश्च । लेलहन्त्यनया जिह्वा । लकारस्य ज: गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईंडागमश्च । आप्रोतीत्याप्वो वायुः । मीचा उद्रकृमिः ।

१५३ । कृगृशूदृभ्यो वः । कर्वः कामः आखुश्च । गर्वः । शर्वः । द्व राक्षस ।

१५४ ॥ कनिन्युदृषितक्षिराजिधन्विद्युप्रतिदिवः । यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम्। युवा सूर्यः । प्रति दीव्यन्त्यस्मिन्प्रतिदिवा दिवसः ।

१५५ । सप्यशभ्यां तुट् च । सप्त । अष्ट ।

१५६ । नजि जहातेः । अहः । १५७ । 'वन्मुक्षन्पूषन्लाह्वन्लदन्तहृन्मूधन्मज्जन्नयमान्वश्वप्सन्पारज्म न्मातरिश्वन्मघवानिति । एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति


ह्रस्व इति ॥ 'हस शब्दे' । “हस्वो न्यक्खर्वयोत्रिषु' इति मेदिनी । शेवयह्व ॥ दशपादी वृत्तिरीत्याह । यान्त्यनेनेति । अन्ये तु यजतेर्जकारस्य हकारो निपात्यत इत्याहुः । यह्मशब्दो वादकानघण्टा महन्नामसु पाठत ' । प्रवा यह्य पुरूणाम् । “यह्य महान्तम्' इति वेदभाष्यम् । मीवेति ॥ वेदभाष्ये तु अमीव इति छित्वा 'अम रोगे' इत्यस्माद्वः ईट् चेत्युक्तम् । “ अमी वहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः । कनिन्यु ॥ ‘युवा स्यात्तरुणे श्रेष्ठ निसर्ग बलशालिनि । वृषा कर्णे महेन्द्रे ना' इति मेदिनी । “तक्षा तु वधाकस्त्वष्टा रथकारस्तु काष्ठ तट्' इत्यमरः । “राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुसि स्यात्' इति मेदिनी । 'समानौ मरुधन्वानौ' इत्यमरः । “अथात्रयाम् । धनुश्चापा धन्वशरासनकादण्ड कार्मुकम्’ इति च । धन्वा तु मरुदेश ना कीबे चापे स्थलेऽपि च' इति मेदिनी । धन्वि र्गत्यर्थः सौत्रो धातुः । ‘द्यु अभिगमे' द्युवा सूर्य । प्रतिदिवेति ॥ 'प्रतिदीने इन्धत

आकृतान्’ इति मन्त्रे तु प्रतिदिवा कितव इति व्याख्यातम्। श्वन्नुक्षन् ॥ कनिप्रत्ययान्ता
५९६
[उणादिषु
सिध्दान्तकौमुदीसहिता

श्वा । उक्षा । पूषा । “हि गतौ ' । इकारस्य दीर्घत्वम् । ऐहतीति पृीहा कुक्षिव्याधि । “क्रुिदू आद्रीभावे ' । छिद्यति छेदा चन्द्रः । रुिन्नह्यतेर्गुण । न्निह्यतीति रुझेहा सुहृचन्द्रश्च । मुह्यन्यस्मिन्नाहते मूर्धा । मुहेरुपधाया दीघ धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् । अर्यमा । विश्धं प्साति विश्वप्सा अग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जने रुपधालोपो मश्चान्तादेशः । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकार लोपः । “मह पूजायाम्' । हस्य घो बुगागमश्च । मघवा इन्द्रः ।

॥ इत्युणादिषु प्रथमःपादः ।

॥ अथ उणादिषु द्वितीयः पादः ।

१५८ । कृहृभ्यामेणुः । करेणुः । हरेणुः गन्धद्रव्यम् ।

१५९ । हनिकुषिनीरमिकाशिभ्यः क्थन् । हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।


इति ॥ नाय निदिति भावः । एतच हलन्तशब्दप्रकरणे मघवन्शब्दे व्युत्पादितम् । केचित्तु नित्वं खीकृत्योक्षन्नादीनां सौत्रमन्तोदात्तनिपातनमाहुः । तद्रौरवादुपेक्षितम् । श्वेति ॥ इकार लोपो निपात्यते । पूषेति ॥ ‘पूष वृद्धौ' 'दौषधिशशाङ्कयोः' इति यादवः । मूर्धेति ॥ ‘मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः । मजेति ॥ टाबन्तोऽप्ययम् । ‘ऊष्मया सार्द्धमूष्मापि मज्जोक्तो मज्जया सह' इति द्विरूपकोशात् । ' अर्यमा तु पुमान् सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी । परिजायते इत्यादि । एतच दशपादीवृत्त्यनुरोधेनोक्तम् । 'परिज्मान सुख रथम्' इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितेो गन्ता । अजेः परिपूर्वस्य “श्वन्नुक्षन्' इत्यादिना मन्प्रत्ययः । अकारलोपः । आद्युदात्तत्वञ्च निपात्यते इत्युक्तम् । उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः, परिज्वा चन्द्र इत्याह । तलक्ष्यविरोधादुपेक्ष्यम् । मात रिश्वेति ॥ सप्तम्या अलुक् उदात्तत्वञ्च निपात्यते । इह भत्वविषये सम्प्रसारणन्न भवति । श्वयुवेति सूत्रेऽभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य ग्रहणम् । इह सूत्रान्त इति शब्द आद्यर्थः । तेनान्येभ्योऽपि यथादर्शनङ्कनिः । दशपाद्यान्तु इतिशब्दो न पठ्यते ॥

॥ इत्युणादिषु प्रथमः पाद ॥

कृद्वभ्याम् ॥ 'करेणुरिभ्या स्त्री नेभे' इत्यमरः । 'करेणुर्गजयेोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी । गन्धेति ॥ कलापवेति बोद्यम् । 'कलापस्तु सतीनकः । हरेणुः खण्डके चास्मिन्’ इति वैश्यवर्गे अमर । “हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः ' इति

मेदिनीविश्वप्रकाशौ । ‘कुठं रोगे सुगन्धे च' इति विश्व । 'नीथे नीथे मघवानं सुतासः' इति
द्वितीय: पाद :]
५९७
बालमनोरमा ।


१६० । अवे भृव्यः । अवभृथः ।

१६१ । उषिकुषिगर्तिभ्यस्थन् । ओष्ठः । कोष्ठम् । गाथा । अर्थः । बाहुलकाच्छाथः ।

१६२ । सर्तेर्णित् । सार्थः समूहः ।

१६३ । नृट्टञ्भ्यामूथन् । जरूथं मांसम् । “वरूथो रथगुप्तौ ना' ।

१६४ । पातृतुदिवचिरिचिसिचिभ्यस्थक् । पीथो रविः घृतं पीथम् । 'तीर्थ शास्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्रीरजःसु च विश्रुतम्' इति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलका दृचेरपि । “रिक्थमृक्थं धनं वसु' । सिक्थम् ।

१६५ । अर्तर्निरि । नित्रंथं साम ।

१६६ । निशीथगोपीथावगथाः । निशीथोऽर्धरात्रो रात्रिमात्रं च । गोपीथं ताथम् । अवगथः प्रातःस्रातः ।

१६७ । गश्चोदि । उद्भीथः साम्रो भागविशेषः ।

१६८ । समीणः । समिथो वह्निः, संग्रामश्च ।


मन्त्रे नीथशब्दस्यान्तोदात्तत्व बाहुलकात् । “नीथे नीथे स्तोत्रे स्तोत्रे च' इति वेदभाष्यम् । 'रथः पुमानवयवे स्यन्दनेन वेतसेऽपि च' इति मेदिनी । “रथः स्यात्स्यन्दने काये चवरणे वेतसेऽपि च' इति विश्वः । “काष्ठा दारुहरिद्रायाङ्कालमानप्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुसकम्' इति मेदिनी । उषिकुषि ॥ * कोष्ठः कुसूले चात्मीये मध्ये कुक्षेगृहस्य च । गाथा श्लोके संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी । 'अर्थोऽभिधेयरैवतुप्रयोजन निवृतिषु' इत्यमरः । “ अर्थो विषयार्थनयोर्द्धर्मकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने' इति मेदिनी । शोथः श्वयथुः । शु गतौ । सर्तेर्णित् ॥ 'सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके' इति मेदिनीविश्वप्रकाशौ । वृञ् ॥ 'जरूथोऽसुरविशेषः’ इति वेद भाष्यम् । 'वरूथ स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः । 'वरूथो रथगुप्तौ स्याद्व रूथं रथवेश्मनोः' इति विश्वः । पातृ ॥ 'तुत्थो ग्रावाञ्जने तु स्यान्नीलीसूक्ष्मैलयोरपि' इति विश्वः। 'तुत्थमञ्जनभेदे स्यात् नीलीसूक्ष्मैलयोः स्त्रियाम्। सिक्थो भक्तपुलाके ना'इति मेदिनी । अर्तेः॥ 'ऋ गतौ' ‘द्रोघवाचस्ते नित्रंथं सञ्चन्ताम्' इति मन्त्रे 'नित्रंथो हिंसा' इति वेदभाष्यम् । निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी । ‘प्रतिल्यञ्चारुमध्वरम्’ इति मन्त्रे गोपीथः सोमपानामिति वेदभाष्यम् । यास्कोऽप्येवम् । तीर्थमिति तु वृतिकार । अवगथ इति ॥ गाडो हखत्व निपातनात् । समीणः ॥ ‘समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः ।

'श्रिये जात' इति मन्त्रे समिथा युद्धानि' इति वेदभाष्यम् । युक्तचैतत् । सम्यगेति
५९८
[उणादिषु
सिध्दान्तकौमुदीसहिता

तिोऽ थाः । तिजेजेलोप पृष्टम् । गूथं विष्ठा । यूथं समूहः । 'प्रोथमस्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते

१७० शिशीङ्हसिसिाधिशुभिभ्यो रक् । द्वात्रिशतो रक्स्यात् । वलि यलोप स्पकारम् । न्यङ्कादत्वात्कुत्वम् । तक्रम् । वत्रकम् ॥ २शत्रक [क्षप्रम् । क्षुद्र तृप्रः पुराडाश ठप्रा बलवान् । वन्द्रः पूजक उन्द्रो जलचरः । श्वित्रं कुष्ठम् वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे'। अजेव । वीरः । नीरम् । पद्रो ग्रामः । मद्रो हर्षों देशभेदश्च । “मुद्रा प्रत्ययकारिणी ' । “खिद्रो रोगो दरिद्रश्च चन्द्रः । पचाद्यचि चन्दोऽपि । “हिमांशुश्चन्द्रमाश्चन्द्र शशी चन्दो हिमद्युति ३१६८ । न रपरसृपिसृजिस्पृशिस्पृहिस्सवनादीनाम् । (८-३-११०)


जयार्थमत्रेति व्युत्पत्तेः । सम्पूर्वस्य इण क्तिन्नाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच ह्यमरेण ‘समित्याजिसमिद्युध ' । तिथ पृष्टम् । 'पृषु सेचने' 'पृष्ठन्तु चरमन्तने इत्यमर र ' इति मादनां । स्तोत्रावशषाऽपि पृष्ठम् । चित्राधकरण गु पुरीषोत्सर्गे' निपातनाद्दीर्घ यूथेऽपि । ‘यूथन्तिर्यक्समूहे स्त्री पुष्पभेदे च योषिति' इति मेदिनी । ‘यूथी पुष्पप्रभेदे स्यात्मा गश्याश्च करेणुके । यूथन्तिर्यक्समूहेऽपि वृन्दमात्रे ऽपि भाषतम् इति विश्व पुइ गतौ निपातनादुणः । 'प्रोथोऽस्त्री हयघोणाया ना कट्यामध्वगे त्रिषु' इति मेदिनी । स्फायिताञ्चि द्वादशशत इत दशपाद्यान्तु त्रयात्रशदुत्ता दम्भिवहिवसीति पठित्वा “वह प्रापणे ' 'नेड़शि' इति नेट् । वाल यलोप स्फार स्यात्पुसि विकटे करकादेश्च बुट्टदे' इति मेदिनी । तक्रमिति तञ्चू सङ्कोचे' वक्र स्याज्जटिले कूरे पुटभेदे शनैश्चरे' इति विश्व वक्र शनैश्चरे पुसि पुटभेदे नपुसकम् । शक्रः पुमान् देवराजे कुहनार्जुनभूरुहो' इति मेदिनी । क्षुद्र इत क्षुदर् सम्पषण क्षुद्र स्यादधमकूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटी सु च चाङ्गेरीवेश्ययोर्हिस्रामक्षिकामात्रयोरपि' इति मेदिनी । तृप्रः पुरो डा इत न तृप्रा उरुव्यस ' इति मन्त्रे वेदभाष्यकारै प्रकृतसूत्रे उज्ज्वलदत्तादिभि श्रेत्थ व्याख्यातम् । दशपादीवृत्तौ तु तृ तृप्रन्दु खामात सुब्धातुवृत्ता

माधव. । हिमाशुरित्यादि शब्दार्णवः । दस्यति रोगान् क्षिपति दस्र दस्रः खरेऽश्विनीसुते'
द्वितीय: पाद:]
५९९
बालमनोरमा ।


रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यान् । “पूर्वपदात् (सू ३६४३) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तन्न *३शासः वसि-' (सू २४१०) इति प्राप्तमपि न । उस्रो रश्मि । उस्रा गौः । वाश्रे दिवसः । वाश्र मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिघ्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुरुत्रम् उदश्रु ।

१७१ । चकेिरम्योरुचोपधायाः । चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।

१७२ । वौ कसेः । विकुस्रश्चन्द्रः ।

१७३ । अमितम्योदीर्वश्च । आम्रम् । ताम्रम् ।

१७४ । निन्देर्नलोपश्च । निद्रा ।

१७५ । अर्देदीर्घश्च । आद्रम् ।

१७६ । शुचेर्दश्च । शूद्रः ।

१७७ । दुरीणो लोपश्च । दुःखेनेयते प्राप्यत इति दूरम् ।

१७८ । कृतेश्च्छः क्रू च । कृच्छू कूरः ।

१७९ । रोदेर्णिलुक् च । रोदयतीति रुद्रः ।

१८० । बहुलमन्यत्रापि संज्ञाछन्दसोः । णिलुगित्येव । 'वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे


इति मेदिनी । 'दस्र खरे चाश्विनयोः' इति विश्वः । भूयोऽभिप्रायेति ॥ माधवस्तु वृत्तिस्वरसमनुरुछ “अविन्द उस्त्रिया' इति मन्त्रे बाहुलकात् षत्वं नेति व्याचष्टे । “उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः' इति मेदिनी । 'उस्रा गव्युपवित्रायामुस्रन्तु किरणे स्मृत इति विश्वः । “वाश्रेो ना दिवसे झीब मन्दिरे च चतुष्पथ' इति मेदिनी । ‘वाश्रो रासभपक्षि णो.' इत्येके । माधवस्तु “वाश्रेव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यत् । ‘शुभ्र स्यादभ्रके लीबमुद्दीप्रशुल्योत्रिषु' इति मेदिनी । चुक्रमिति ॥ 'चक तृप्तौ' । ‘चुक्रस्त्वम्लेऽम्लवेतसे । चुकी चाङ्गेरिकायां स्यात् वृक्षाम्ले चुक्रमिष्यते' इति विश्व. । ‘चुक्रे वृक्षाम्ले चाङ्गेय्यां स्त्री पुंस्यम्लेऽम्लवेतसे' इति मेदिनी । अर्दैदीर्घश्च ॥ “आद्र नक्षत्रभेदे स्यात् स्त्रियां छिन्नेऽभिधेयवत्' इति मेदिनी । शुचेर्दश्च ॥ शद्रो वृषलः । “अहहारे त्वा शूद्रा' इति श्रुतौ तु रूढेबधाद्योग एव पुरस्कृतः । तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितम् । 'शुगस्य तदनादरश्रवणात्' इति । कृतेः ॥ अन्यस्य च्छः । कू तु सर्वस्य । अनेकाल्त्वात् । ‘कृच्छमाख्यानमाभीले पापसान्तपनादिनोः' इति विश्वमेदिन्यौ । 'कूरस्तु कठिने घेरे नृशसे चाभिधेयवत्' इति च । बहुलमन्यत्रापि संज्ञा ॥ बृहयति

वर्धयति प्रजाः ब्रह्मा । शं सुखं भावयति शम्भुः । शोषयति शुष्मेत्यादि । छन्दसि, “वर्धन्तु
६००
[उणादिषु
सिध्दान्तकौमुदीसहिता

१८१ । जोरी च । जीरोऽणु । ज्यश्चेत्येके ।

१८२ । सुसूधागृधिभ्यः क्रन् । सुरः । सूरः । धीरः । गृध्रः ।

१८३ । शुसिचिमीनां दीर्घश्च । शुः सैौत्रः शूरः । सीरम् । चीरम् । मीरः समुद्र

१८४ । वाविन्धेः । वीधै विमलम् ।

१८५ । वृधिवपेिभ्यां रन् । वधै चर्म । वप्रः प्राकारः ।

१८६ ॥ ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्रगौर वत्रेरामालाः । रन्नन्ता एकोनविंशतिः । निपातनाद्रणाभावः । ऋज्रो नायकः । इदि इन्द्रः। अङ्गेर्नलोपः । अग्रम्। ‘वज्रोऽस्त्री हीरके पौ' । डु वप् , उपधाया इत्वम् । विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुत्रं मुखम् । “क्षुर विलेखने' रेफलोपः । अगुणः । क्षुर । “खुर छेदने' रलोपो गुणाभावश्च । भन्देर्नलोपः भद्रम् । “उच्च समवाये' चस्य गः उग्रः । ब्रि भी


त्वा सुष्ठुतयः । य इम जजान । ’ वाहुलकादसंज्ञाछन्दसोरपि कचिदित्याशयेनोदाहरति । वान्तीत्यादि ॥ जोरी च ॥ 'जीरः खङ्गे वणिग्द्रव्ये' इति विश्व । 'जीरस्तु जरणे खङ्गे ? इति मेदिनी । ज्यश्चेति ॥ तथा च, ‘न धातुलोपे' इति सूत्रे ‘जीवेरदानु' इत्यस्य प्रत्याख्या नार्थ नैतज्जीवे रूप किन्तु राकि सम्प्रसारणमिति भाष्ये उक्तम् । सुसू ॥ 'सुरा चषक जय:मद्ययोः । पुलिङ्गत्रिदिवेशे स्यात्' इति मेदिनी । “सुरो देवे सुरा मद्ये चषकेऽपि सुरा कवित्' इति विश्वः । सुवति प्रेरयति कर्मणि लोकामिति सूरः । सूर्यः । “धीरो धैर्यान्विते स्वैरे बुधे कृीबन्तु कुङ्कमे । स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी । “गृध्र खगान्तरे पुसि वाच्यलिङ्गो ऽर्थलुब्धके' इति च । शुरिति तालव्यादिर्गत्यर्थः । ‘शूरः स्यात् यादवे भटे' इति मेदिनी । शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्रौ । 'शूर सूरश्च तरणौ' इति द्विरूपेषु विश्वः । 'सीरो ऽर्कहलयोः पुंसि । चीरी झिल्ल्या नपुसकम् । गोस्तने वस्रभेदे च रेखालेखनभेदयोः' इति मेदिनी । “चीरन्तु गोस्तने वत्रे चूडायां सीसकेऽपि च । चिरी कृच्छादिकाझिल्ल्योः ’ इति विश्वः । वाविन्धेः ॥ 'वीभ्रन्तु विमलार्थकम्' इति विशेष्यनित्रेष्वमरः । ‘वप्रः पितरि केदारे वप्रः प्राकाररोधसोः’ इति धरणिरन्तिदेवौ । 'वप्रस्ताते पुमानत्री वेणुक्षेत्रचये तटे' इति मेदिनी। ऋत्रेन्द्र ॥ 'ऋज गत्यादिषु' । “ऋज़ाश्वः प्रष्टिभिरम्बरीष' इति मन्त्रे ऋज़ा गतिमन्तोऽश्वा यस्य स ऋज्राश्व इति वेदभाष्यम् । 'इन्द्रः शचापतावन्तरात्मन्यादत्ययोगयोः' इति विश्वः । “अग्र पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी । “क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ । 'खुरः कोलदले शफे । भद्रः शिवे खञ्जरीटवृषमेरुकदम्बके ।

करिजातिविशेषे ना कीबं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्राकृष्णाव्योमनदीषु च । तिथिभेदे
द्वितीय: पाद:]
६०१
बालमनोरमा ।

भेरी । पक्षे ल: । भेलो जलतरणद्रव्यम् । शुचेश्वस्य कः, शुक्रः । पक्षे ल । शुक्रुः। गुङ् वृद्धिः । 'गौरोऽरुणे सिते पीते' ‘वन सम्भक्तौ' । वत्रो विभागी । इणो गुणाभावः । 'इरा मद्ये च वारिणि ' । “मा माने' माला ।

१८७ । समि कस उकन् । ‘कस गतौ' । सम्यक् कसन्ति पलायन्ते जना अस्मादिति सङ्कसुकः दुर्जनः, अस्थिरश्च ।

१८८ । पचि च । पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।

१८९ । भयः कुक्कन् । भीरुकः ।

१९० । क्वुन्शिल्पिसंज्ञयोरपूर्वस्यापि । रजकः । इक्षुकुट्टकः । चरकः । 'चष भक्षणे' । चषकः । शुनकः । भषकः ।

१९१ । रमे रश्च लो वा । रमको विलासी । लमकः ।

१९२ । जहाते च । जहकस्यागी कालश्च ।

१९३ । ध्टमा धम च । धमकः कर्मकारः ।


प्रसारिण्याङ्कट्फलानन्तयोरपि । त्रिषु श्रेष्ठ च साधौ च न पुसि करणान्तरे । उग्रः शूद्रासुते क्षत्राद्रुद्रे पुसि त्रिघूत्कटे । स्त्री वचाक्षुद्रयोः' इति मेदिनी । “भेदः लवे भीरुके च निर्बुद्धिमुनि भेदयोः' इति विश्व . । 'भेलः झवे मणौ पुसि भीरावज्ञे च वाच्यवत् । शुक्रः स्यात् भार्गवे ज्येष्ठ मासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्रीब शुको योगान्तरे सित । नपुसकन्तु रजते । गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्र न द्वयोः पद्मकेसरे । गौरी त्वसञ्जातरज.कन्याशङ्करभार्ययो. । 'रोचना रजनीपिङ्गाप्रियडुवसुधासु च । आपगाया विशेषेऽपि यादसां पतियोषिति' इति मेदिनी । “नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्व. । अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । सा गौरी तत्सुतेो यस्तु स गौरः परिकीर्तित. इति ब्रह्माण्डवचन श्राद्धकाण्डे हेमाद्रिणा उदाहृतम् । एतेन 'गौरः शुच्याचारः' इति भाष्य व्थाख्यातम् । 'इरा भूवाक्सुराप्सु च' इति मेदिनी । 'माल क्षेत्रे जने मालो माला पुपादि दामनि' इति मेदिनी । 'मालमुन्नतभूतलम्' इत्युत्पल. । “क्षेत्रमारुह्य मालम्' इति मेघदूतः । मणिपूर्वोऽयमर्थान्तरेऽपि रूढ. । 'मणिमाला स्मृता हारे स्त्रीणान्दन्तक्षतान्तरे' इति विश्व । बाहलकात् “तिज निशाने' रन् दीर्घत्वं जस्य व. । “तीत्रा तु कटुरोहिण्या राजिकागण्डदूर्वयोः । त्रिष्वत्युष्णे नितान्ते च कटौ' इति मेदिनी । समि कसः ॥ 'सङ्कसुकोऽस्थिर.' इति विशेष्यनिन्ने अमर.। क्वुन्।॥ अपूर्वस्य निरुपपदस्य अपिशब्दात्सोपपदस्य। अर्थद्वारकसम्बन्धे षष्ठी, प्रकृतिप्रत्ययार्थयो क्रियाकारकभावात् । ‘रजको धावके शुके' इति विश्व । 'रजकौ धावकशुकौ । इति हेमचन्द्रः । इक्षुकुट्टक इति ॥ ‘कुट्ट छेदने' । इक्षन् कुट्टयति इक्षुकुट्टको गौडिक . ।

76
६०२
[उणादिषु
सिध्दान्तकौमुदीसहिता


१९४ । हनो वध च । वधकः ।

१९५ । बहुलमन्यत्रापि । ‘कुह विस्मापने' । कुहकः । कृतकम् ।

१९६ । कृषेद्धिश्चोदीचाम् । कार्षकः-कृषकः ।

१९७ । उदकं च । प्रपञ्चार्थम् ।

१९८ । वृश्चिकृषोः किन् । वृश्चिकः । कृषिकः ।

१९९ । प्राडिः पणिकषः । प्रापणिकः पण्यविक्रयी । प्राकषिक: परदारो पजीवी ।

२०० । मुषेदीर्घश्च । मूषिकः आखुः।

२०१ । स्यमेः सम्प्रसारणं च । चाद्दीर्घः । सीमिकः वृक्षभेदः ।

२०२ । क्रिय इकन् । क्रयिकः क्रेता ।

२०३ । आङि पणिपनिपतिखनिभ्यः । आपणिकः । आपनिकः इन्द्र आखनिको मूषिको वराहश्च ।

२०४ । इयास्याह्वयविभ्य इनच । इयेनः । स्येनः । हरिण अविनोऽध्वर्युः ।

२०५ । वृजेः किच । वृजिनम् ।

२०६ । अजेरज च । वीभावबाधनार्थम् । अजिनम् ।


‘चषकोऽस्त्री सुरापात्रे मद्यमाद्यप्रभेदयो.' इति मेदिनी । लमकः ऋषिविशेषः । कृषेः ॥ कार्षकः कृषावल । कृषकः स एव । ‘कृषकः पुसि फाले स्यात् कार्षके त्वभिधेयवत्' इति मेदिनी । स्त्री कुशी कुशिकः फाल’ इति रत्नकोशः। उदकं च ॥ उन्दी लेदने । ननु 'क्वुन् शिल्पि इत्यादिना गतार्थमिदम् । अत आह । प्रपञ्चेति । प्राङि ॥ सङ्घात उपपदम् । अाडिः ॥ नन्वनेनैव सिद्धे प्राडीत्यत्र पणिग्रहण व्यर्थमिति चेन्न । उपसर्गान्तरनिवृत्त्यर्थत्वात् । आपणिक इति । वणिक् । नित्खरेरणाद्युदात्त । आपणेन व्यवहरतीत्यर्थे ठकि तु 'कितः' इत्यन्तोदात्तः । 3यास्या ॥ 'इयेनः पत्रिणि पाण्डुरे' इति मेदिनी । स्येनश्चोरः । “स्तेन चौर्ये' इति चौरादिकात्पचाद्यचि तु निर्यकारोऽपि । केचित्तु “स्तायूना पतये' इत्यादिप्रयोगोपष्टम्भेन निर्य कारस्यापि छैधातोःस्वादिषु माधवादिभिः खीकृतत्वातू प्रकृतसूत्रेऽपि तमेव पठन्तः स्तनशब्दो निर्यकार एवेत्याहुः । 'हरिण: पुसि सारङ्गे विशदे त्वभिधेयवत् । हरिणी हरितायाश्च नारी भिदृत्तभेदयोः । सुवर्णप्रतिमायाश्च' इति मेदिनी । वृजेः किञ्च ॥ 'वृजिन कल्मषे कृीबद्देशे

ना कुटिलेऽन्यवतू' इति मेदिन । आजिनमिति ॥ 'अजिनञ्चर्म कृतिः स्त्री' इत्यमर ।
द्वितीय: पाद:]
६०३
बालमनोरमा ।


२०७ । बहुलमन्यत्रापि । कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः “यत्परुषि दिनम्' दिवसोऽपि दिनम् ।

२०८ । दुदक्षिभ्यामिनन् । द्रविणम् । दक्षिण: । दक्षिणा ।

२०९ । अर्तेः किदिच । इरिणं शून्यम् ।

२१० । वेपितुह्योर्हस्वश्च । विपिनम् । तुहिनम् ।

२११ । तलिपुलिभ्यां च । “तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु' । पुलिनम् ।

२१२ । गर्वेरत उच । गौरादित्वान्ङीष् । गुर्विणी गभिणी ।

२१३ । रुहेश्च । रोहिणः ।

२१४ । महेरिनण्च । चादिनन् । माहिनम्-महिनम् राज्यम् ।

२१५ । किब्वविप्रच्छिाश्रिधुदुयुज्वां दीघोंऽसम्प्रसारणं च । वाक् । प्राट् । श्राः । स्रवत्यता घृतादिकमिति लूः, यज्ञोपकरणम् । दूर्हिरण्यम् । कटः कामरूपी कीटश्च । “जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम्

२१६ । आमोतेर्हस्वश्च । आपः । अपः । अद्भिः । अद्भयः ।

२१७ । परौ व्रजेः षः पदान्ते । व्रजेः किब्दीर्घौ स्तः, पदान्ते तु षश्च । परिव्राट । परिव्राजौ ।


कठिनमिति ॥ कठ कृच्छूजीवने । “कठिनमपि निष्ठुरे स्यात् स्तब्धे तु नपुंसके स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायाञ्च' इति मेदिनी । मलिनमिति ॥ “मल लिनन्दूषिते कृष्णे ऋतुमत्यान्तु योषिति' इति मेदिनी । कुण्डिन नगरङ्गुण्डिनमण्डजो ययौ' इति श्रीहर्षे कुण्डिनः ऋषि दिनमिति ॥ परुषि पर्वणि दिन खण्डितमिति तैत्तिरीयथश्रुत्यर्थ । दुदक्षिभ्यामि नन् ॥ “दु गतौ' । 'दक्ष वृद्धौ । 'द्रविण न द्वयोर्वित्ते काञ्चने च पराक्रमे । दक्षिणा दक्षिणोदूतसरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति मेदिनी । दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु । वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयो इति विश्व” । अर्तेः ॥ “इरिण शून्यमूषरम्' इत्यमर । 'इरिणन्तु खरे शून्येऽपि' इति मेदिनी । तुहिनमिति ॥ तुहिर् अर्दने । लघूपधगुणे कृते हख । तलिपुलिभ्याञ्च ॥ तल प्रतिष्ठायाम् । पुल महत्त्वे । “तलिन विरले स्तोके खच्छेऽपि वाच्यलिङ्गकम्' इति मेदिनी । महेः ॥ 'कुतस्त्वमिन्द्र माहिनस्सन्’ इति मन्त्रे माहिनो महनीय पूजनीय इति वेदभाष्यम् । किब्वचि ॥ पृच्छतीति प्राट् । 'छेोः शठ्’ इति शः । प्राशौ प्राशः । श्रीरिति ॥ 'कृदि

कारात्' इति डीष् तु न । कृत्प्रत्ययो य इकार इति व्याख्यानात् । कृदन्तं यदिकारान्तमिति
६०४
[उणादिषु
सिध्दान्तकौमुदीसहिता

२१८ । हुवः इलुवच । जुहूः ।

२१९ । लुवः कः । खुवः ।

२२० । चिक्च । इकार उचारणार्थः । क इत्, कुत्वम् । सुक् । 'लुवं च

२२१ । तनोतेरनश्च वः । तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च । त्वक् ।

२२२ । ग्लानुदिभ्यां डौः । ग्लैौः । नैौः ।

२२३ । च्विरव्ययम् । डौरित्येव । ग्लैौ करोति । *कृन्मेजन्त:’ (सू

४४९) । इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्व्यन्त एवेति ।

२२४ । रातेंडैः । रा: । रायौ । रायः ।

२२५ । गमेडः । 'गौनौदित्ये बलीवर्दे किरणक्रतुभेद् । स्री तु स्या द्दिशि भारत्यां भूमौ च सुरभावपि । नृत्रियोः स्वर्गवज्राम्बुरश्मिद्यग्बाणलोमसु बाहुलकाद्युतराप डा । “द्यौः स्री स्वर्गान्तरिक्षयोः' इति कोश ।

२२६ । भ्रमेश्व डूः । धूः । चाद्रमेः । अग्रेगूः ।

२२७ । दमेडेसिः । दो: । दोषौ ।

२२८ । पणेरिजादेश्च वः । वणिक् । स्वार्थेऽण् । ‘नैगमो वाणिजो वणिक् '।

२२९ । वशेः कित् । ‘उशिगस्रौ घृतेऽपि च' ।

२३० । भृञ्ज ऊच । भूरिक् भूमिः ।

२३१ । जसिसहोरुरिन् । जसुरिर्वज्रम् । सहुरिरादित्यः पृथिवी च ।


पक्षेऽपि कारग्रहणे तत्सामथ्र्यादेव केवलग्रहणात् । दुर्घटस्तु डीषि श्रीमित्यपि रक्षित इच्छती श्रीर्वेषरचनाशोभाभारतीसरलदुमे लक्ष्म्यान्त्रवगसम्पात्तावधापकरणषु विभूतौ च मतौ च स्त्री' इति मेदिनी । जूराकाशे इत्यादि मूलोदाहृतञ्च । हुवः ॥ चात् किब्दीघौं । स्रवः क ॥ 'सु गतौ'। घुवेो यज्ञपात्रविशेषः । 'अय ध्रुवोऽभिजिहर्ति' 'त्रुवेण पार्वणैौ जुहोति' इत्यादौ प्रसिद्धः । चिक्च ॥ त्रुव इत्येव । योगविभाग उत्तरार्थः । तनोतेः ॥ व इति सङ्घातग्रहणम् । तदाह । वशब्देति ॥ “त्रियान्तु त्वगसृग्धरा' इत्यमरः । केशवोक्त माह । गौर्नेत्यादि । 'गौ स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयदृिग्बाण दिग्वाग्भूष्वप्सु भून्नि च' इति मेदिनी । द्यौरिति ॥ कतयाधकरण वा प्रत्ययः । दाराते ॥ त्रिलिङ्गोऽयमिति प्रागेवोक्तम् । जसिलहीरुरिन् ॥ 'जसुरये स्तर्य पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति “नीचायमान जसुरि न श्येनम्’ इत्यत्र जसुरि क्षुधितम् । श्येनन्न श्येनपक्षिण

मिवति । ‘उतस्य वाजी सहुरितौ वा' इति मन्त्रे सहुरिः सहनशीलः इति च वेदभाष्यम् ।
द्वितीय: पाद:]
६०५
बालमनोरमा ।


२३२। सुयुरुट्टो युच् । सवनश्चन्द्रमाः । यवनः । रवणः कोकिलः। वरणः।

२३३ । अशे रश च । अश्रोतेर्युच्स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।

२३४ । उन्देर्नलोपश्च । ओदनः ।

२३५ । गममेगोश्च । गमेर्युच्स्याद्रश्चादेश: । गगनम् ।

२३६ । बहुलमन्यत्रापि । युच्स्यात् । स्यन्दनः । रोचना ।

२३७ । रञ्जः क्युन् । रजनम् ।

२३८ । भूसूधृभ्रस्जिभ्यश्छन्दसि । भुवनम् । सुवनः आदित्यः । धुवनो वह्निः । निधुवनं सुरतम् । भृञ्जनमम्बरीषम् ।

२३९ । कृपृष्टजिमन्दिनिधावः क्युः । किरणः । पुरणः समुद्रः । वृजन मन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।


सुयु ॥ “सवनन्त्वध्वरे स्राने सोमनिर्दलनेऽपि च' इति मदिनी । 'रवण. शब्दने खरे' इति च । “वरणस्तित्क्तशाकेऽपि प्राकारे वरण वृतौ' इति विश्व । ‘वरुणे वरणः सेतुस्तिक्तशाकः कुमारकः' इत्यमर । अशे रश च ॥ जिद्वेति ॥ 'रस आस्वादने' चौरादिक. । ततो नन्द्यादित्वाल्ल्युः । ‘ण्यासश्रन्थः’ इति युज्वा । “ अथ रसन स्वादने ध्वनौ । जिह्वायान्तु न पुसि स्यात् रास्राया रसना स्त्रियाम्' इति मेदिनी । एषा दन्यतालव्यवतोर्द्धयोरर्थव्यवस्था भूरिप्रयो गाभिप्रायेणोक्ता । वस्तुतस्तु द्वावप्यर्थद्वये साधू। तथा हि । “तालव्या अपि दन्त्याश्च शम्बशम्ब लशूकरा । रशनापि च जिह्वायाम्' इति विश्वकोशाजिह्वायामुभयम् । “रसन निस्वने स्वादे रसन्ना काञ्चिजिह्वयोः' इत्यजयधरणिकोशाभ्यां काञ्च्यामुभयं साधु । 'रसनं स्वदने वाथ रसना काश्चिजिह्वयोः । रसनश्चापि रास्रायाम्' इति विश्वप्रकाशाचेति दिक् । एवञ्चेह सूखे अशा व्याप्तौ अश भोजने' इति धातुद्वयमपि प्राह्यम् । “ रस आस्वादने' “रस शब्दे' इति धातुभ्यां बहुलमन्यत्रापि ' इत्यनुपद वक्ष्यमाणो युच् । तेन सर्वत्रावयवार्थानुगमोऽपिसूपपाद् इत्यवधेयम् । उन्देः ॥ 'ओदन न स्त्रिया भत्ते बलायामोदनी स्त्रियाम्' इति मेदिनी । बहुलम् ॥ स्यन्दनन्तु त्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम्' इति मेदिनी । 'रोचना रक्तकल्हारे गोपि त्तवरयोषितो । रोचनः कूटशाल्मल्यां पुसि स्याद्रोचके त्रिषु' इति च । “चदि आहादने ' । चन्दन मलयोद्रवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी' इति विश्व । “चन्दनी तु नदीभेदे । चन्दनोऽत्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी । भद्रकाली ओषधि विशेषः । '। ' भद्रकाली तु गन्धोल्या कात्यायन्यामपि स्त्रियाम्' इति मेदिनी असु क्षेपणे असन क्षपणे कृीब पुंभि स्याज्जीवकदुमे' इति मेदिनी । 'अत सातत्यगमने' । राजपूर्व । राजातनः क्षीरिकाया प्रियाले किंशुकेऽपि च' इति विश्वमेदिन्यौ । एवमन्येऽपि द्रष्टव्याः । रजेः क्युन् ॥ बाहुलकात्कृपेरपि । लत्वाभावश्च । कृपणः । भूसू ॥ बहुलवचनाद्भाषायामपि ।

भुवन विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी । कृपृ ॥ 'निधनं स्यात्कुले नाशे' इति
६०६
[उणादिषु
सिध्दान्तकौमुदीसहिता


२४० । धृषेर्धिष् च संज्ञायाम् । धिषणो गुरुः । धिषणा धी

२४१ । वर्तमाने पृषद्वहन्महज्जगच्छतृवत् अतिप्रत्ययान्ता सेचने ' गुणाभाव पृषन्ति । बृहत् । महान् । गमेर्जगादेशः । जगत्

२४२ । संश्चत्तृपद्वेहत् । एते निपात्यन्ते । पृथकरणं शतृवद्भावनिवृत्त्यर्थम् सचिनोतेः सुट् । इकारलोप संश्चत् कुहकः । तृपत् छत्रम् । विपूर्वात् हन्ते ष्टिलोपः इत ए च । । वेहद्भोपघातिनी

२४३ जरसानः पुरुष

२४४ । ऋञ्जिष्ठधिमन्दिसहेिभ्यः केित् । ऋजसानो मेघ पुरुषः । मन्दसानाऽामजीवञ्च । सहसाना यज्ञा मयूरश्च

२४५ । अर्तेर्गुणः शुट् च । अर्शसानोऽन्नि

२४६ ॥ सम्यानच्स्तुवः । संस्तवानां वाग्मी


मेदिनी । “नि इति हेमचन्द्र । धृषे धषणत्रिदशाचार्ये धिषणा धियि योषिति’ इति मेदिनी । वर्तमाने ॥ ‘पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी । “बृहती क्षुद्रवार्ताक्या कण्टकायञ्च वाचि चव वारिधान्यां महत्याञ्च छन्दोवसनभेदयो ' इति विश्व. । शतृवद्रावात् ‘उगिदचाम्’ इति नुम् बृहत् विपुलम् । 'महती वलकीभेदे राज्ये तु स्यान्नपुसकम् । तत्त्वभेदे पुमान् श्रेष्ठ वाच्यवत् इति मेदिनी । महती नारदीया वीणा । “अवेक्षमाणं महती मुहुर्मुहुः’ इति माघ द्विष्टपे कीबं वायौ ना जङ्गमे त्रिषु । जगती भुवनेन क्ष्मायां छन्दोभेदे जनेऽपि च' इति मेदिनी तत्र वायुवाचिनः पुंलिङ्गस्य नुमि जगन्-जगन्तौ-जगन्तः इत्यादि दुद्युगमिजुहोतीनान्द्वे च इति व्युत्पादितस्य तु नुमभावात् जगत्-जगतावित्यादि । सञ्चिनोतेरिति ॥ सुभूतिचन्द्रस्तु सम्पूर्वाच्छूयते सश्रदिल्याह । तृपत छत्रमिति चन्द्रमा इत्यन्य वृषस्व' इति मन्त्रे तु तृपच्छब्दो यौगिक' । तृप्यन्नित्यर्थः । वेदभाष्ये तु तौदादिकात् तृपते शतृप्रत्यये आगमशास्रस्यानित्यत्वान्नुमभाव इत्युक्तम् । तत्प्रौढिवादमात्रम् । एतेन “त्वमस्य ब्राह्मणादातृपत्पिब' इत्यादि मन्त्रान्तर व्याख्यातम् । गौरित्यनुवृत्तौ ‘वेहद्भभपघातिनी' इत्यमर छन्दस्य ॥ ‘शु गतौ, जूष् वयोहानै एतेन ‘प्रमन्महे' इत्यादिमन्त्रद्वये गन्तृपरतया सौष्ठवे बाहुलकोपष्टम्भेन क्रिष्टव्याख्यान नातीवादर्तव्यम् । ऋजिवृधि ॥ ऋजि भर्जने । इदित्वान्नुम् । तत एव नलोपाभाव एवञ्च अय मन्दिसही चव पूर्वसूत्रे एव पठितु योग्याः । कित्त्वन्तु वृद्धावेवोपयुज्यते उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम्, अर्तेः शुट च वृधेकिदित्युक्तौ सर्वसामञ्जस्यात् । ऋञ्जसानो मेघ इति ॥ 'ऋञ्जसानः पुरुवार उक्थै अस्मिन् मन्दसामा वृषज्ञे वसु' इत्यादिमन्त्राणा भाष्ये तु यौगिकार्थ एव पुरस्कृत

धातोर्गुणः । प्रत्ययस्य शुडागम आसाविषदर्शसानाय शरुम्' इति मन्त्रस्य भाष्ये
द्वितीय: पाद:]
६०७
बालमनोरमा ।

२४७ ॥ युधिबुधिदृशिभ्यः किच । युधानः । बुधानः । दृशानो लोक पालकः । २४८ । हुर्छः सनो लुक् छलोपश्च । जुहुराणश्चन्द्रमाः ।

२४९ । श्वितेर्दश्च । शिश्चिदानः पुण्यकर्मा ।

२५० । तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ । शंसे: क्षदादि भ्यश्च क्रमातृन्तृचौ स्तः । तैौ चानिटौ । शंस्ता स्तोता । शैस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेन् । “वृक्ये चक्षदानम् इति मन्त्रात् । 'उक्षाणं वा वेहतं वा क्षदन्ते' इति ब्राह्मणाच । * क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे' ।

२५१ । बहूलमन्यत्राांपे । मन् मन्ता । हन् हन्ता । इत्यादि ।

२५२ । नप्तृनेष्टत्वष्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ। न पतन्त्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितो ऽत्त्वम्। त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः भ्राता । जायां माति


अर्शसानाय शत्रुणा हिसित्रे इति व्याख्यातम् । युधिबुधि ॥ बाहुलकात् कृपेरपि । कृपाणः खङ्गः । “कृपाणेन कथङ्कार कृपणः सह गण्यते । परेषान्दानसमये यः खकोशं विमुञ्चति ।’ हुर्छः ॥ 'युयोध्यस्मज्जुहुराणमेनः' इति मन्त्रे जुहुराणौटिल्यकारि पाप, युयोधि पृथक् कुर्विति भाष्यम् । श्वितेर्दश्च ॥ श्विता वणें । अस्मात्सनन्तादानचू, सनो लुक्, तकारस्य दकारः । किदित्यनुवृतेर्न गुणः । पुण्यकर्मेति । स हि उज्ज्वलो भवितुमिच्छति । “शिश्चि दानोऽकृष्णकर्मा' ३ति विशेष्यनिन्ने अमरः । अकृष्णं शुक् शुद्धमित्यर्थः । इह क्षीरखामी प्रकृत सूत्र विस्मृत्य, विदि चैलेये, अस्मालिट. कानजिति व्याख्यत् । ततुच्छम् । कानचवश्छान्दसत्वात् । इदित्वेन नलोपानुपपत्तेश्चेति दिक् । कृष्णकर्मेलयमरे पाठान्तरम् । पापकर्मत्यर्थः तत्रावयवार्था नुगमबलेन बोछद्यः । शुद्धो भवितुमिच्छतीत्युक्तो हि इदानीमशुद्ध इति गम्यते । तृन्तृचौ ॥ ‘अप्तृन्’ इत्यतोऽत्र दीघ नेत्युदाहरति । शंस्तररावित्यादि ॥ नित्वादाद्युदात्तः। तथाच मन्त्रः । प्रावग्राम उत शस्तासु विप्र.’ । आदिशब्दात् ‘शासु अनुशिष्टौ'। शास्ति विनयति सत्त्वानि शास्ता बुद्ध, शास्तरौ-शास्तरः । ‘शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति मेदिनी । प्रपूर्वस्य तु ‘अप्तृन्’ इति दीर्घः । प्रशास्तारौ-प्रशास्तार । * क्षत्ता शूद्राच्च वैश्याजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यात् नियुक्तवेधसोः पुमान्’ इति मेदिनी । कोशानुसारेणाह । वैश्याया मिति ॥ अमरस्तु “क्षत्रियायाञ्च शूद्रजे' इत्याह । याज्ञवल्क्योऽपि । ‘क्षयिा मागध वैश्यात् शूद्रात् क्षत्तारमेव च' इति । इह बहुलमन्यत्रापात प्रपञ्चार्थत्वात् उपेक्षितम् ।

नसेति ॥ नञ्जः प्रकृतिभावः । “पतूल् गतौ' इत्यस्मात् तृच् टिलोपः । “त्वष्टा पुमान्।
६०८
[उणादिषु
सिध्दान्तकौमुदीसहिता


जामाता । *मान पूजायाम् ' नलापः माता । पातराकारस्यत्वम् । पिता । दुहेस्तृच्, इट् गुणाभावश्च । दुहिता ।

२५३ । सुञ्यसंक्रडेन् । स्वसा ।

२५४ । यतेद्धिश्च । याता। ‘भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'।

२५५ । नबित्र च नन्देः । न नन्दति नान्दा । इह वृद्धिनौनुवर्तते इत्येके । “ ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सा' इति शब्दार्णवः ।

२५६ । दिवेत्रः । देवा । देवर । “ खामिनो देवृदेवरौ ' ।

२५७ । नयतेर्डिच । ना । नरौ । नरः ।

२५८ । सव्ये स्थश्छन्दसि । 'अम्बाम्ब- (सू २९१८) इत्यत्र 'स्थास्थिन्स्थूणामुपसंख्यानम्' (वा ४९६१) सव्येष्ठा सारथिः । सव्येष्ठरौ । सव्यष्ठर

२५९ । अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । अष्टभ्योऽनिप्रत्ययः स्यात् । अरणिरमेयोंनि । सरणि । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकाद्रजनिः ।

२६० । आङि शुषेः सनश्छन्दसि । आशुशुक्षणिरन्निर्वतश्च ।

२६१ । कृषेरादेश्च चः । चर्षणिर्जनः ।


देवशिल्पितक्ष्णोरादित्यभिद्यपि' इति मेदिनी । जाया मातीत्यन्तर्भावितण्यर्थः । सुञ्जयसेः ॥ असु क्षेपणे । अस दीप्तयादिषु । आभ्या सुजि उपपदे ऋछन्। यतेः ॥ यती प्रयते । नजि च नन्देः ॥ 'उषाप्यूषा ननन्दा च ननान्दा च प्रकीर्तिता' इति द्विरूपेषु विश्वः । देवेति ॥ भ्रातर इत्यनुवृत्तौ खामिनो देवृदेवरौ' इत्यमरः । “देवे धवे देवरि माधवे च' इति श्रीहर्षः । नयतेः ॥ ' स्युः पुमासः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमर । सव्ये ॥ ऋर्डिचेल्यनुवर्तते । सव्ये ष्ठति ॥ 'तत्पुरुषे कृति' इति सप्तम्या अलुक् । आर्तिस् ॥ धमिः सौत्रः । “अराणिर्वह्निमन्थे ना द्वयोर्निर्मन्थदारुणि' इति मेदिनी । “सराणिः श्रेणिवत्र्मनोः' इति दन्यादौ रभस । 'सरणिः पौ मार्गे च' इति मेदिनी । शू हिंसायाम् । ततः शरणिरियेके । 'शरणिः पथि चाऽऽवलौ' इति तालव्यादावजयः । 'इमामझे शरणिम्’ इति मन्त्रे शरणि हिसा व्रत लोपरूपा मीमृषः क्षमखेति वेदभाष्यम् । “धमनी तु शिरा हट्टविलासिन्याश्च योषिति । अशनिः स्त्रीपुसयोः स्याच्चञ्चलायां पवावपि । तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् । रजनी नीलिनीरात्रिहरिद्राजतुकासु च' इति मेदिनी । कुमारी लताविशेषः । “तरणी रामतरणी कर्णिका कारुकेसरा । सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः । रजेर्नलोपोऽपि बाहु

लकात् । कृषेरादेश्च चः ॥ चर्षणिर्जन इति ॥ वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु
द्वितीय: पाद:]
६०९
बालमनोरमा ।


२६२ । अदेर्मुट् च । अद्मनिः अन्निः ।

२६३ । तेश्च । वर्तनिः । गोवर्धनस्तु चकारान्मुट् वत्र्मनिरित्याह ।

२६४ । क्षिपेः किच । क्षिपणिरायुधम् ।

२६५ । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः । अचिज्वला । इदन्तो ऽप्ययम् । “ अग्रेभ्रजन्ते अर्चयः’ । शोचिदप्ति: । हविः सर्पि । 'इस्मन्-' (सू २९८५) इति हृस्व । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छतीसारशूलवान्

२६६ । बृहेनलोपश्च । “बर्हिन कुशशुष्मणो ' ।

२६७ । द्युतेरिसिन्नादेश्च जः । ज्योति ।

२६८ । वसौ रुचेः संज्ञायाम् । वसुरोचिर्यज्ञः ।

२६९ । भुवः केित् । भुविः समुद्रः ।

२७० । सहो धश्च । सधिरनङ्कान् ।

२७१ । पिबतेस्थुक् । 'पाथिश्चक्षुःसमुद्रयोः' ।

२७२ । जनेरुसिः । जनुर्जननम् ।

२७३ । मनेर्धश्छन्दसि । मधुः ।

२७४ । अर्तिपृवपियजितनिधनितपिभ्यो नित् । अरुः । परुर्मेन्थि ।


पाठात् । ‘ओमासश्चर्षणीधृतः। प्रचार्पिणिभ्यः’ इत्यादिमन्त्राणा भाष्ये तथैव व्याख्यानाच। उज्ज्वल दत्ततु आदेश्च ध इति पठित्वा धर्षणी वन्धकीति व्याख्यत् । तदयुक्तम्, तथा सति धृषेरित्येव सूत्रयेत्, प्रागल्भ्यरूपावयवार्थानुगमात् । आदेश्च ध इत्यशस्य त्यागेन लाघवाच। वर्तनिरिति ॥ कृदिकारादिति पक्षे डीष् । “सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः । क्षिपणिः रायुधमिति ॥ 'उतस्य वाजी क्षिपणिन्तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् । अर्चिरिति सान्तम् । “तमर्चिषा स्फूर्जयन्’ इति मन्त्रः । 'नयनमिव सनिद्रं घूर्णते नैशमर्चिः' इति माघ । 'ज्वालाभासोर्न पुस्यचिं.’ इति नानार्थे सान्तेष्वमरः । इदन्तोऽपीति ॥ णिजन्तादच इरिति भाव । * अर्विहेतिः शिख त्रियाम्' इत्यमर । ‘रोचिः शोचिरुभे कृीबे' इति च । छाद्यतेऽनया छदि । छदि. स्त्रियामवेति लिङ्गानुशासनसूत्रम् । एवञ्च ‘पटल छदि.' इत्यमरग्रन्थे पटलसाहचर्याच्छदिषः कृीवतां वदन्त उपेक्ष्याः । हेः ॥ 'बर्हिः पुसि हुताशन । न स्त्री कुशे' इति मेदिनी । द्यते ॥ ज्योतिरस्रौ दिनकरे । पुमान्नपुसके दृष्टौ स्यान्नक्षत्रप्रकाशयोः' इति मेदिनी । वसौ रुचेः ॥

बाहुलकात्केवलादपि । 'रोचिः शोचिरुभे कीबे' । अर्तिपृ ॥ 'त्रणोऽत्रियामीर्ममरुः कृीबे'
५४०
[उणादिषु
सिध्दान्तकौमुदीसहिता

वपुः । यजुः । तनुः-तनुषी-तनूषि । धनुरस्त्रियाम् । “धनुर्वेशविशुद्धोऽपि निर्गुणः किं करिष्यति' । सान्तस्योदन्तस्य वा रूपम् । ‘तपुः सूर्यान्निशत्रुषु ।

२७५ । एतेर्णिच । आयुः । आयुषी ।

२७६ । चक्षेः शिच । चक्षुः ।

२७७ । मुहेः किञ्च । मुहुरव्ययम् ।

२७८ । बहुलमन्यत्रापि । आचक्षुः । परिचक्षुः ।

२७९ । कृगृशृष्टञ्चतेिभ्यः ष्वरच् । 'कर्वरो व्याघ्ररक्षसोः' । गर्वरो ऽहङ्कारी । शर्वरी रात्रि । * वर्वरः प्राकृतो जन.' । चत्वरम् ।

२८० । नो सदेः । ‘निषद्वरस्तु जम्बाल ' । निषद्वरी राखि ।

॥ इत्युणादिपु द्वितीयपादः ॥


॥ अथ उणादिषु तृतीयपाद्ः ॥

२८१ । छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्टरसं यद्वराः । एकादश ष्वरच्प्रत्ययान्ता निपात्यन्ते । “छिदिर' *छद्' अनयो स्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्त । *छत्वरो गृहकुञ्जयोः' ।


इत्यमर । “ग्रन्थिनों पवेपरुषी' इति च । “वपुः कृीबन्तनु शस्ताकृतावपि ' इति मेदिनी । तनुः शरीरम् । 'तनुषे तनुषेऽनङ्गम्' इति सुबन्धु । ‘स्यात्तनुस्तनुषा सार्ध धनुषा च धनु विदुः’ इति द्विरूपषु विश्व । “ अथात्रियान्धनुश्चापौ' इत्यमर । “धनुः प्रियाले ना न स्त्री राशिभेदे शरासने । धनुर्धरे त्रिषु' इति सान्ते मेदिनी । चक्षे ॥ शित्वात्सार्वधातुकत्वे ख्याञ् न । चक्षते रूपमनुभवन्त्यनेनेति चक्षुः । मुहेः ॥ ‘मुहुः पुनःपुनः शश्वत् अभीक्ष्णम सकृत् समाः ।' इत्यव्ययेष्वमरः । अस्मात्पर बहुलमन्यत्रापीति सुस्पष्टत्वात्यक्तम् । कृगृ ॥ नैत्रतः कर्वरः क्रव्यात्कबुरो यातुरक्षसोः' इति शब्दार्णव . । “शर्वरी यामिनीत्रियोः' इति मेदिनी । ‘वर्वरः पामरे केशविन्यासे नीवृदन्तरे । वर्वरः फञ्जिकायान्तु वर्वरा शाखपुष्पयो इति विश्वः । “वर्वर. पामरे केशवल्कले नीवृदन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्' इति मेदिनी । ‘चत्वरं स्थण्डिलेऽङ्गणे' इति च । नौ सदेः ॥ ष्वरजनुवर्तते । सदिरप्रतेः' इति षत्वम् । 'निषद्वरः स्मरे पङ्के निशायान्तु निषद्वरा ' इति मेदिनी ।।

॥ इत्युणादिषु द्वितीयः पाद ॥

छित्वर ॥ 'छित्वर छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी । “डु धाञ्’ ।

अन्यस्य ईत्वम् । एवं “पा पाने' इत्यादीनामित्येके । अन्ये तु “पीव मीव तीव नीव स्थौल्ये
तृतीय: पाद:]
६११
बालमनोरमा ।

धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणम् । तीवरो जातिविशेष नीवरः परिव्राट् । गाहतेद्देस्वत्वम् गह्वरम् । कटे वर्षादौ, कट्टरं व्यञ्जनम् । यमेर्दकारः लक्षणं लक्ष्मणं नाम्नि चिहे च 'लक्षणा हसयोषाया सारसस्य च लक्ष्मणा

२८३ । फेनमीनौ । एतैौ निपात्येते । स्फायतेः फेन

२८४ । कृषेर्वणे । कृष्ण

२८५ । बन्धब्राधबुधां

२८६ ॥ धापृवस्यज्यतिभ्यो नः । “धाना भृष्टयवे स्त्रियः' । पर्ण पत्रम् पणेः किंशुकः । “वस्रो मूल्ये वेतने च अत्रः आदित्य श्राणः पडु इनः सूर्ये नृपे पत्यौ ' सिन


एभ्यः प्रत्यये “लोपो व्यो' इति वलेोपमाहु पीवरः कच्छपे स्थूले ' इति मेदिनी । ‘तीवरो नाम्बुधौ व्याधे’ इति च स्यान्नीवरो वणिजके वास्तवेऽपि च दृश्यते' इति मेदिनीविश्व प्रकाशौ । 'कट्टर कुत्सिते वाच्यलिङ्ग तक्रे नपुसकम्’ इति मेदिनी । बाहुलकादुपपूर्वाज्जुहोते उपह्वरे समीपे स्यादेकान्तेऽपि नपुसकम्' इति मेदिनी । उपह्वरो रथ इति केचित् । “तदुप्रयक्षतम्' इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपे देशे ह्र काटल्य गतिविशेषवाचिना धातुना गतिमात्रमिह लक्ष्यते ततोऽधिकरणे घ कृदुत्तरपदप्रकृत स्वरत्वमिति भाष्ये व्याख्यातम् । इणिसञ् * इन. पल्यों नृपाकेयो जनोऽर्हति च बुद्धे च पुसि स्यात् त्रिषु जित्वरे' इति मेदिनी । “दीना मूषिकयोषाया दुर्गते कातरेऽन्यवत्' इति विश्व उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गके इति मेदिनी । फेनमीनौ ॥ “डिण्डीरो ऽब्धिकफ- फेन.' इत्यमर “मीनो राश्यन्तरे मत्स्ये' इति विश्व । कृष सत्यवतीपुत्र. केशवे वायसेऽर्जुने कृष्णा स्यात् द्रौपदीनीलीकणाद्राक्षासु योषिति वाच्यलिङ्गः स्यात् कृीबे मरिचलेोहयो.' इति मेदिनी । ब्रभ्र. सूर्य इति विश्व ऽभिनवोद्रिदि' इति विश्व पर्ण पत्रे किंशुके ना' इति मेदिनी पुस वेतने स्यान्नपुंसकम्’ इति च वन्न इत सपूव्यों महोनाम्

इति मन्त्रे मनोः पुत्रेऽपि प्रसिद्धः । लक्षणमित्यादि लक्षणलक्ष्मणशब्दौ द्वावपि नाम
६१२
[उणादिषु
सिध्दान्तकौमुदीसहिता


२८८ । वनेरिचोपधायाः । वेन्ना नदी ।

२८९ ॥ च । दीघचारणसामथ्र्यान्न गुणः । स्यून आदित्यः । बाहुलकात्केवलो नः । । उट । अन्तरङ्गत्वाद्यण् । गुणः । स्यान

२९० । कृवृनृासदुपन्यानस्वापभ्या नित् । कण । वर्णः । ‘जर्णश्चन्द्रे च वृक्षे च' । सेना । द्रोण । पन्नो नीचैर्गति । अन्नमोदनः । स्वप्रेो निद्रा ।

२९१ । धेट इच । 'धेनः सिन्धुर्नदी धेना' ।

१९२ ।। तृषिशुषिरासेिभ्यः कित् । तृष्णा । शुष्णः सूर्यो वहिश्च । रत्रं

२९३ । सुब्बो दीर्घश्च । सूना वधस्थानम् ।

२९४ । रमेस्त च । रमयतीति रन्नम् ।

२९५ । रास्रासास्रास्थुणावीणाः । रारुन्ना गन्धद्रव्यम् । सारुन्ना गोगल कम्बलः । स्थूणा गृहस्तम्भः । वाणा वलका ।

२९६ । गादाभ्यामिष्णुच । गेष्णुर्गायनः । देष्णुर्दता ।


चिह्मयोः कृीवौ । रामभ्रातरि पुछिङ्गो हसयेोषायां लक्षणा सारसयोषायां लक्ष्मणा इति व्यवस्थे त्यर्थः । 'लक्षण नान्नि चिहे च सारस्यां लक्ष्मणा वचित् । लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुसि स्यात् सश्रीके चाभिधेयवत्' इति मेदिनी । कोशे तु सारस्यामपि निर्मकारः स्वीकृत । वेन्नेति ॥ लघूपधगुणः । बाहुलकादात । एतच्च 'च्छेो. शठ् इति सूत्रे वृत्तौ ‘ येन विधि ' इति सूत्रे कैयटग्रन्थे च स्पष्टम् । “स्योनः किरणसूर्ययो' इति मेदिनी । कृवृ ॥ 'कर्णः पृथाज्येष्ठसुते सुवर्णाद्रौ श्रुतावपि' इति विश्वमेदिन्यौ । 'वृञ् वरणे दीर्घपाठे तु 'वृ वरणे ' । 'वर्णो द्विजादिशुकादियशोगुणकथासु च । स्तुतौ ना न स्त्रिया भेदे रूपाक्षरविलेखन' इति मेदिनी । विश्वमेदिनीस्थमाह । जर्ण इति ॥ 'जर्णो जीर्णदुमन्दुषु इति हेमचन्द्र । 'द्रोणेऽत्रियामाढके स्यात् आढकादिचतुष्टये । पुमान् कृषीपतौ कृष्णकाके स्री नीवृदन्तरे । त्रियाङ्काष्ठाम्बुवाहिन्याङ्गवादीनामपीष्यते । अन्न भक्त च भुत्ते स्यात् । खप्तः खापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्’ इति मेदिनी । धेट इञ्च ॥ ‘धेना नद्या नदे पुमान् इति मेदिनी । “धनः समुद्रे नद्याञ्च धना' इति विश्व । श्लोको धारेत्यादिषु सप्तपञ्चाशत्सख्या केषु वाड्नामसु धनेति वैदिकनिघण्टौ पठितम् । अत एव “धना जिगाति दाशुषे । इन्द्र धेना भिरिह मादयस्व' इत्यादिषु धना वागिति व्याख्यात भाष्ये । तृषिशुषि ॥ ‘त्रि तृषा पिपासा याम्' । ‘तृष्णा लिप्सापिपासयोः' इति विश्व । सुञ्जः ॥ सूनाऽधोजिह्निकापि च' इति नान्ते अमरः । ‘सून प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलकण्डिकयोः स्त्रियाम्' इति

मेदिनी । रमेस्त च ॥ 'रन्न स्वजातिभेदेऽपि मणावपि नपुसकम्' इति मेदिनी ।
तृतीय: पाद:]
५४१
बालमनोरमा ।

२९७ । कृत्यशूभ्यां क्रुन्नः । कृत्स्रम् । अक्ष्णमखण्डम् ।

२९८ । तिजेदीर्घश्च । तीक्ष्णम् ।

२९९ । श्लिषेरचोपधायाः । श्लक्ष्णम् ।

३०० । यजिमनिशुन्धिदसिजनिभ्यो युच् । यज्युरध्वर्युः । “मन्युर्दैन्ये क्रतौ कुधि' । शुन्ध्युरग्ःि । दस्युस्तस्करः । जन्युः शरीरी ।

३०१ । भुजेमृड्भ्यां युक्त्युको । भुज्युर्भाजनम् । मृत्युः ।

३०२ । सर्तेरयुः । सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।

३०३ । पानीविषिभ्य पः । पाति रक्षत्यस्मादात्मानमिति पापम् । तद्यो गात्पापः । नपः पुराहतः । बाहुलकादुणाभाव नीपो वृक्षविशेषः । वेष्प: पानीयम् ।

३०४ । च्युवः किच । च्युपो वक्त्रम् ।

३०५ । स्तुवो दीर्घश्च । स्तूपः समुछायः ।

३०६ । सुशृभ्यां निच । चात्कित् । सूपः । वाहुलकादुत्वम् । शूर्पम् ।

३०७ । कुयुभ्यां च । कुवन्ति मण्डूका अस्मिन्कूपः । युवन्ति बभ्रन्त्य

३०८ खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः सप्रैते पप्रत्ययान्ता निपा त्यन्ते । खनतेर्नकारस्य षत्वम् । 'खष्पैौ क्रोधबलात्कारौ' । शीलतेर्हस्वश्च । शिल्पं कौशलम् । शसु हिंसायाम् ' । निपातनात्षत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बाधतेः ष । : बाष्पो नेत्रजलोष्मणोः' । बाष्पञ्च । रौतेदीर्घः । रूपं स्वभावे सौन्दर्ये' । पू। पर्प गृहं बालतृणं पडुपीठश्च । “तल प्रतिष्ठा करणे' चुरादिणिचो लुक् । “तल्पं शय्याट्टदारेषु' ।


च्युवः ॥ ‘च्युड् गतौ'। अनेकार्थत्वादिह भाषणे। च्यवन्ते भापन्तेऽनेनेति विग्रह । दशपाद्यान्तु ‘चुप.किच' इति पठ्यते । ‘चुप मन्दायाङ्गतौ'। चोपतीति चुप्पो मन्दगमनकतों। सुशू ॥ ‘सूपेो व्यञ्जनसूदयो.' इति मेदिनी । शूर्पमिति ॥ बाहुलकादुत्व रपरत्व 'हलि च' इति दीर्घ । प्रस्फोटन शूर्पमस्री' इत्यमर । दशपाद्यान्तु कुसुयुभ्यश्च । ‘सृशृभ्यामू च' इति पिठत्वा सूप शूर्पञ्च व्युत्पादितम् । द्विरूपकोशेऽप्युभयन्दर्शितम् । कुयुभ्याञ्च ॥ 'कु शब्दे, यु मिश्रणे' आभ्या प स च नित्धातोदीर्घत्वञ्च । “कूपकूपकमृन्मानगतस्तु गुणवृक्षके' इति मेदिनी । शष्पः क्रोधे बलात्कृतौ' इति विश्व. । 'शष्पे बालतृणेऽपि च । पुसि स्यात्प्रतिभाहानौ' इति मेदिनी । विश्वोक्तिमाह । बाष्प इति ॥ 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह । बाष्पञ्चेति ॥ 'रूप स्वभावे सौन्दर्ये नालके पशुशब्दयोः । ग्रन्थवृत्तौ नाटकादौ आकरश्लो

कयोरपि' इति विश्वमेदिन्यौ । “तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनी ।
६१४
[उणादिषु
सिध्दान्तकौमुदीसहिता


३०९ । स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच् । “ अयामन्त-' (सू

२३११) इति णेरयादेशाः । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नु । गदयित्नु वावदूकः । मदयित्नुः मदिरा ।

३१० । कृहनिभ्यां क्त्नुः । कृत्नुः शिल्पी । हत्नुव्र्याधिः शस्रञ्च ।

३११ । गमेः सन्वच । जिगत्नुः ।

३१२ । दाभाभ्यां जुः । दानुदोता भानु ।

३१३ । वचवेगेश्च । वग्नुः ।

३१४ । धेट इच । धयति तामिति धेनुः ।

३१५ । सुवः कित् । 'सूनुः पुत्रेऽनुजे रवौ'

३१६ । जहातेद्वेऽन्तलोपश्च । जहुः ।

३१७ । स्थो णुः । “स्थाणुः कीले स्थिरे हरे ' ।

३१८ । अजिष्ठरीरिभ्यो निच । अजेवीं वेणुः । वर्णर्नद्देशभेद्योः । रेणुर्द्धयोः स्त्रियां धूलिः


अमरोक्तमाह । तल्पमिति ॥ स्तनिहृषि ॥ स्तनगदी देवशब्दे । चुरादिण्यन्तौ । 'हृष तुष्टौ, पुष पुष्टौ, मदी हर्षग्लेपनयोः ।’ घटादिः । “स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी । 'हर्षयित्नुः सुने हेन्नि पोषयित्नु द्विजे । स्तनयित्नुः पयोवाहे तद्वनैौ ' Iपक मृगरोगयोः' इति विश्वः । 'गदयित्नुः पुमान् कामे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ । मदयित्नुः कामदेवे पुमान् मद्ये नपुसकम्' इति मेदिनी । कृहनिभ्यां त्नुः ॥ कृत्नुरिति ॥ कर्तेत्यर्थः । कित्वान्न गुणः । हत्नुरिति ॥ अनुदात्तेत्यादिना अनुनासिकलोपः । एवमुत्तरत्र गमेरपि । शख्त्रञ्चेति ॥ चाद्धन्ता । दशपादीवृत्तौ तु क्नुरिति तकाररहित पठित्वा कृणुः कर्ता हनुर्वत्रैकदेशः । बाहुलकान्नलोपः । गमेस्तु जिगत्नुरित्युदाहृतम् । तत्सर्वं प्रामादिकम् । लक्ष्य विसवादात् । तथा च श्रूयते । 'सुरूपकृत्नुमूतये । ज्येष्टराज भरेकृत्नुम् अयवृत्नुरगृभीतः । मा नो वधाय हत्नवे । मृग न भीममुपहत्नुमुग्रम् । यो न. सनुत्यः उत वा जिगत्नुः' इत्यादि । अत एव हन्तिधातु विवृण्वता माधवेन उपहत्नुरित्युदाहृत्य वक्त्रोः कित्त्वादजुनासिकलोप इत्युक्तम् । यत्तु तेनैव “सुरूपकृत्नुम्' इति मन्त्रे विवृण्वता तकारोपजनश्छान्दस इत्युक्तम् । तद्दशपादीवृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयम् । दाभाभ्यां नुः ॥ दानुर्दातरि वक्रान्ते' इति मेदिनी । “भानू रश्मिदिवाकरौ' इत्यमरः । वचेः ॥ वनुर्वक्ता । धेटः ॥ “धेनुस्यान्नवसूतिका' इत्यमर । विश्वोक्तिमाह । सूनुरिति ॥ जहाते ॥ 'जहुः स्यात्पुंसि राजर्षिभेदे च मधुसूदने' इति मेदिनी । विश्वोक्तिमाह । स्थाणुरिति ॥ 'स्थाणुः

कीले हरे पुमान् । अस्त्री ध्रुवे' इति मेदिनी । अजिवृ ॥ 'वेणुपान्तरे वशे' इति विश्वः ।
तृतीय: पाद:]
६१५
बालमनोरमा ।


३१९ । विषेः किच । विष्णुः ।

३२० । कृदाधारार्चिकलेिभ्यः कः । बाहुलकान्न कस्येत्संज्ञा । “ककॉ धवलघोटक:’ । दाको दाता । धाकोऽनड़ानाधारश्च । राका पौर्णमासी । अर्क । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि' ।

३२१ । सृष्ठभूशुषिमुषिभ्यः कक् । “ सृक उत्पलवातयोः' । “ वृकः भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम्

३२२ । शुकवल्कोलका । शुभरन्त्यलाप । शुकः । “ वल्कं वल्कल मस्रियाम्' । “ उष दाहे' । षस्य ल: । उल्का ।

३२३ । इण्भीकापाशल्यतिमर्चिभ्यः कन् । “ एके मुख्यान्यकेवलाः' । भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ । काक । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।


रेणुः स्त्रीपुसयोधूलौ पुलिङ्ग* पर्पटे तु ना’ इति मेदिनी । विषेः किच ॥ चकारान्नित् । आद्युदात्तः । ‘विष्णुरित्थाप्रविष्णवे शूषम्’ । कृदा ॥ * कर्कः कर्के तले वह्नौ शुङ्काश्चे दर्पणे घटे इति विश्वमेदिन्यौ । 'राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् । सपूर्णेन्दुतिथावपि' इति मेदिनी । “राका तु सरिदन्तरे । राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च' इति विश्वः । इह दाधारा एषा ‘केण.’ इति हस्वोऽपि बाहुलकान्नेति बोछद्यम् । “अर्कोऽर्कपर्णे स्फटिके रवौ ताम्र दिवस्पतौ' इति विश्वमेदिन्यौ । “कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके । विटकिट्टयोश्च पापे च त्रिषु पापाशये पुनः’ इति मेदिनी । बाहुलकात् रमेरपि कः । 'रङ्कः कृपण मन्दयोः' इति मेदिनी । कपिलकादित्वाछत्वं टाप् । “लङ्का रक्षःपुरी शाखाशाकिनी कुलटासु च' इति विश्वमेदिन्यौ । ससृवृ ॥ “सृका बाणोत्पलवाता' इति हेमचन्द्रः । सृक संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सृक सरणशीलम् । पविं वज्र सशाय सम्यक्तीक्ष्णीकृत्येति व्याख्यातम् । भूक छिद्रे च काले च' इति मेदिनी । 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुसि ग्रन्थिपणे नपुंसकम् । वल्कं वल्कलशल्कयोः’ इति च । उल्का ज्वाला विभावसोः' इति भूतिचन्द्रः । इण्भी ॥ 'एकं सङ्खयान्तरे श्रेष्ठ केवलेतरयोत्रिषु' इति मेदिनी । “काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रभेदे द्वीपभेदयोः । काका स्यात्काकनासायाङ्काकोलीकाकजङ्कयोः । रक्तिकाया मलव्याञ्च काकमाच्या च योषिति । काक सुरतबन्धे स्यात् काकानामपि सहतौ' इति विश्व मेदिन्यौ । पाकः परिणतौ शिशैौ । केशस्य जरसा शौकल्ये स्थाल्यादौ पाचनेऽपि च । शल्कन्तु शकले कल्के' इति मेदिनी । “शल्कैरन्निमिन्थानः’ इति मन्त्रे काष्ठखण्डैरिति व्याख्या तारः । मर्क इति ॥ मचैिः सौत्रो धातुरिति बहव । “मर्च शब्दे’ चौरादिक इति मिदचो न्यात्सूत्रे कैयटः । मत मर्त भर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भत्र्सयतीति

वेदभाष्यम् । न चैवं णिलोपस्य स्थानिवद्भावात्कत्व न स्यात् इति वाच्यम् । पूर्वत्रासिद्धे
६१६
[उणादिषु
सिध्दान्तकौमुदीसहिता

३२४ । नौ हः । जहातेः कन्स्यान्नौ । निहाका गोधिका ।

३२५ । नौ सदेर्डिच । “निष्कोऽस्त्री हेन्नि तत्पले' ।

३२६ । स्यमेरीट् च । स्यमीको वल्मीकः वृक्षभेदश्च । इट् हस्व इति काचवत् । स्यामकः ।

३२७ । अजियुधिनीभ्यो दीर्घश्च । 'वीकः स्याद्वातपक्षिणोः' । यूका । धूका वायुः । नाका वृक्षावशष ।

३२८ । हेियो रश्च लो वा । “' । हाका हाका त्रपा मता

३२९ ॥ शकेरुनोन्तोन्युनयः । “उन' “उन्त' 'उन्ति' “उनि' एते चत्वारः स्यु. । शकुनः । शकुन्तः । शकुन्ति. । शाकुनिः ।

३३० । भुवो झिच् । भवन्तिर्वर्तमानकालः । बाहुलकाद्वेश्च । अवन्तिः । वदेर्वदन्तिः । 'किंवदन्ती जनश्रुति ' ।

३३१ । कन्युच्क्षिपेश्च । चादुव । 'क्षिपण्युर्वसन्तः’ इत्युज्ज्वलदत्तः । भुवन्युः स्वामसूयया ' ।

३३२ । अनुङ् नदेश्च । चाक्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।

३३३ । कृष्टदारिभ्य उनन् । 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।


तदभावात् । बाहुलकात् इयतेः कन् । “शाको द्वीपान्तरेऽपि च । शक्तौ दुमविशेषे च पुमान् हारीतके त्रियाम्' इति मेदिनी । नौ ह ॥ 'निहाका गोधिका समे' इत्यमरः । 'शाकं नस्य निहाकयोः' इति श्रुतिः । ‘निष्कमत्री साष्टहेमशते दीनारकर्षयोः । वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च' इति मेदिनी । स्यमेः ॥ ‘स्यमु शब्दे' । “स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः' इति मेदिनी । अजियु ॥ एभ्यः कन् । एषान्दीर्घश्च । तत्सामथ्र्यात् गुणाभावः । शकेः ॥ “शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजा.' इत्यमरः । 'शकुनस्तु पुमान् पक्षिमात्रे पक्षिविशेषयोः । शुभशसिनिमित्ते च शकुन स्यान्नपुसकम्' इति मेदिनी । “शकुन्तः कीटभेदे स्याद्रासपक्षिविहङ्गयोः' इति । शकुनिः पुसि विहगे सौबले करणान्तरे' इति च । बाहुलका त्कमेरपि प्रत्ययादिलोपे कुशब्दादेशः । कुन्ति । “इतो मनुष्यजातेः' इति डीष् । “कुन्ती पाण्डुप्रियायाश्च सलक्याङ्गुग्गुलुटुमे' इति मेदिनी । कन्युच् ॥ 'क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके' इति मेदिनी । 'भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने' इति विश्व मेदिन्यौ । कृवृ ॥ ‘करुणस्तु रसे वृक्षे कृपायाङ्करुणा मता' इति विश्वमेदिन्यौ। 'वरुणस्तरुभेदे

ऽप्सु प्रतीचीपतिसूर्ययोः' इति विश्वः । ‘दारुणो रसभेदे ना त्रिषु तु स्याद्रयावहे' इति मेदिनी ।
तृतीय: पाद:]
६१७
बालमनोरमा ।

३३४ । त्रो रश्च लो वा । “ तरुणस्तलुठना युवा ' ।

३३५ । क्षुधिपिशिामिथिभ्यः कित् । क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।

३३६ । फलेर्गुक्च । फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।

३३७ । अशेललेशश्च । लशुनम् ।

३३८ । अर्जेर्णिलुक्च । अर्जुनः ।

३३९ । तृणाख्यायां चित् । चित्वादन्तोदात्तः । अर्जुनं तृणम् ।

३४० । अतश्च । अरुण ।

३४१ । अजियमिशीङ्भ्य श्च । “वयुनं देवमन्दिरम्' । यमुना । शयुनः

३४२ । वृतृवदिहानिकमिकषिभ्यः सः । वर्स तर्सम्। तर्सः एवसमुद्रयो ' वत्सः । वत्सं वक्षः । हंसः । * कंसोऽस्त्री पानभाजनम्' । कक्षम् अरण्यम् ।


त्रो रश्च ॥ “तरुण कुब्जपुष्पे ना रुचके यूनि च त्रिषु' इति मेदिनी । “तरुणी तलुनीति च इति द्विरूपेषु विश्व. । क्षुधिपिशि ॥ 'पिशुनडुहुमे स्मृतम् । कपिचक्रे च काके ना सूचक कूरयोत्रिषु । पृकाया पिशुना त्री स्यात्' इति मेदिनी । मिथुन तु द्वयो राशिभेदे स्त्रीपुसयुग्मके ' इति च । फले ॥ “फल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे ! तपस्यसज्ञमासे तत्पूर्णिमायाश्च फाल्गुनी' इति मेदिनी । आणिति ॥ प्रज्ञादित्वात्पक्षेऽणित्यर्थः । “फल्गुनः फाल्गुनोऽर्जुने इति द्विरूपकोश । अशेर्लशश्च ॥ ' अश भोजने' । अस्मादुनन् धातोर्लशादेशश्च । लशुन महाकन्दः । 'उशना लशुन वेश्म कश्मल विश्वमश्ववत्' इति मध्यतालव्येषु विश्वः । लस् चेति पाठस्तु प्रामादिक. । अजेर्णिलुक् च ॥ अत्र “पेणरनिटि' इति लोपेन सिद्धे णिलुक् चेत्युक्त फलचिन्त्यम् । “ अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत्। नपुसकन्तृण नेत्ररोगे चाप्यर्जुना गवि । उषायां बाहुदानद्याहुट्टिन्यामपि च कचित्' इति विश्वमेदिन्यौ । अर्तश्च ॥ “अरुणोऽव्यक्तररागेऽर्के सन्द्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणाऽतिविषा श्यामा मञ्जिष्ठा त्रिवृतासु च' इति मेदिनी । अजियमि ॥ 'विश्वानि देव वयुनानि विद्वान्’ इति मन्त्रे वयुनानि प्रजनानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापयाय प्रशस्यपयाय च वयुनशब्द पठितः । वृतृ ॥ वर्सन्तर्समिति ॥ ‘ति- तुत्र' इति नेट्। षत्वन्तु न भवति। बाहुलकेन षत्वे कर्तव्ये प्रत्ययसज्ञाया अप्रवृत्ते । कक्षशब्दे तु षत्व भवत्येव । एतच्च सर्वम्‘आदेशप्रत्यययो.’ इति सूत्रे भाष्यकैयटपदमञ्जरीषु स्पष्टमेव । उणादिवृति कृतस्तु सर्वेऽपीह भत्वमुदाजहूः। तेषामयमाशयः । अस्तु भाष्यप्रामाण्याद्वर्सन्तर्समिति दन्त्योऽपि साधुः । बाहुलकबललभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावात् पक्षे पत्वमसुतु । वृषितृषि भ्याङ्कनि प्यन्तादेरचि घञ्जथे कप्रत्यये वा वर्षतर्षशब्दयोर्युर्वारत्वात् । अज्विधौ भियादीनामुप सङ्खयान नपुसके क्तादिनिवृत्त्यर्थम्’ इत्यत्र वर्षमित्याकरे उदाहृतत्वाचेति । तस्मादिह द्विरूपता

78
६१८
[उणादिषु
सिध्दान्तकौमुदीसहिता


३४३ । प्लुषेरचोपधायाः । पृक्षः ।

३४४ । मनेदीर्घश्च । मांसम् ।

३४५ । अशेर्देवने । अक्षः ।

३४६ । स्नुव्रश्चिकृत्यूषिभ्यः कित् । लुषा । वृक्ष । कृत्समुदकम् । ऋक्षं नक्षत्रम्

३४७ । ऋषेजतौ । 'ऋक्षेोऽद्रिभेदे भल्लूके शोणके कृतवेधने । ऋक्ष मुक्तश्च नक्षत्रे' इति विश्वः ।

३४८ ॥ उन्दिगुधिकुषिभ्यश्च । उत्सः प्रस्रवणम् । गुत्सः स्तबकः । कुक्षेो जठ२म्

३४९ ॥ गृधिपण्योर्दकौ च । गृत्सः कामदेवः । पक्षः ।

३५० । अशः सरः । अक्षरम् ।

३५१ । वसेश्च । वत्सरः ।


फलिता । 'वर्षोंऽस्त्री भारतादौ स्याज्जम्बूद्वीपाब्दवृष्टिषु । प्रावृट्काले स्त्रियां भून्नि' इति मेदिनी । “तर्षों लिप्सोदन्ययो' इति च । ‘पुत्रादौ तर्णके वर्षे वत्सः झीबन्तु वक्षसि' इति त्रिकाण्डशेष । “हस. स्यान्मानसौकसि । निलॉभनृपविष्ण्वर्कपरमात्मसु मत्सरे । योगभेदे मन्त्रभेदे शरीरमरुदन्तरे । तुरङ्गमप्रभेदे च' इति मेदिनी । “कसोऽस्त्री तैजसे द्रव्ये कास्ये मानेऽसुरे तु ना' इति च । ‘कसो दैत्यान्तरे स्मृतः । कास्ये च कास्यपात्रे च मानभेदे च कीर्तितः’ इति विश्वः । 'कक्षा स्यादन्तरीयस्य पश्चादञ्चलपछवे । स्पद्धया ना तु दोमूल कच्छवीरुतृणेषु च' इति मेदिनी । प्लुषेः ॥ 'लक्षो जटी गर्दभाण्डद्विपभित्कुञ्जराशने' इति मेदिनी । “ ठक्षेो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपाश् च गृहस्य परिकीर्तित इति विश्व. । मनेर्दीर्घश्च ॥ मांस स्यादामिषे कृीब ककोलीजटयोः स्त्रियाम्' इति मेदिनी । अशेः ॥ “अथाक्षमिन्द्रिये । ना घृताङ्गे कर्षचके व्यवहारे कलिदुमे' इत्यमरः । “अक्षो ज्ञाना त्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्वे विभीतकतरावपि । चक्रे कर्षों पुमान् कृीबन्तु त्थसौवर्चलेन्द्रिये' इति मेदिनी । स्नुत्राश्च ॥ 'ऋक्षः पर्वतभेदे स्याद्रल्लूके शोणके पुमान् । कृतवेधनेऽन्यलिङ्ग नक्षत्रे च नपुसकम्’ इति मेदिनी । ऋषेजतौ ॥ नियमार्थमिद सूत्र ऋषेर्जातावेवेति । तेनान्येभ्यः केवलयौगिकत्वेऽपि प्रत्ययः । उन्दिगुधि ॥ 'गुत्सः स्यात्स्तबके स्तम्बे हारभिद्रन्थिपर्णयोः' इति मेदिनी । गुच्छश्च । “गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूप कोशात् । ' स्यादुच्छः स्तबके स्तम्बे हारभेदकलापयोः’ इति च वर्गद्वितीयान्तमेदिनीकोशाच । गृधेश्चत्र्वेन सिद्धे भष्भावनिवृत्तये दकारविधि । “पक्षेो मासार्द्धके पार्श्व ग्रहे साध्यविरोधयोः । केशादेः परतो बृन्दे बले सखिसहाययोः । चुलीरन्धे परत्रे च राजकुञ्जरपार्श्वयोः' इति

विश्वमेदिन्यौ । अशेस्सर ॥ अक्षरमिति ॥ ' अक्षर स्यादपवर्गे परमब्रह्मपर्णयोः’ इति
तृतीय: पाद:]
६१९
बालमनोरमा ।


३५२ । सपूर्वाचित् । संवत्सरः ।

३५३ । कृधूमांदभ्यः केित् । बाहुलकान्न षत्वम् । 'कृसरः स्यातिलौ दनम्' । धूसरः । मत्सरः । 'मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ' ।

३५४ । पते रश्च ल : । पत्सलः पन्थाः ।

३५५ । तन्यूषिभ्यां क्सरन् । तसरः सूत्रवेष्टनम् । ऋक्षरः । ऋत्विक् ।

३५६ ॥ पीयुकूणिभ्यां कालन्हस्वः सम्प्रसारणञ्च । पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।

३५७ । कठिकुषिभ्यां काकुः । कठाकुः पक्षी । कुषाकुरन्निः सूर्यश्च ।

३५८ । सर्तदुक्च । “ सृदाकुर्वातसरितोः' ।

३५९ । वृतेर्तृद्धिश्च । वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।


हेमचन्द्रः । उज्ज्वलदत्तादयस्तु अशे ' सरानात पठ । तन्न । नित्स्वरापत्त• । इष्यते तु प्रत्ययस्वरणाक्षरशब्दस्य मध्यादात्तत्वम् । ‘ऋचवा अक्षरे परमे व्योमन् ।’ ‘अक्षरण निमति सप्तवाणी’ इत्यादृङमन्त्रेषु ‘त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् । अत एव द्वितीयाह्निकान्ते । “अश्रोतेर्वा सरोऽक्षरम्’ इति भाष्यकृतोक्तम् । सपूर्वाचित् ॥ पूर्वेण सहितः सपूर्वः । ‘इद्वत्सराय परिवत्सराय सवत्सराय । सम्पूर्वादिति पाठस्तु लक्ष्यविरोधादुपेक्ष्यः । कृधू ॥ कृसर इत्यादि हारावलीस्थम् । ‘धूसरी किन्नरीभेदे नागरे त्रिषु पाण्डुरे' इति मेदिनी । मत्सरामक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्यपरसम्पत्तौ कृपाणे चाभिधेयवत्' इति । मत्सरोऽन्यशुभद्वषे तद्वत्कृपणयोः त्रिषु' इति अमरः । ‘असह्यपरसम्पत्तौ मात्सर्ये कृपणे कुधि इति विश्व । वद तु याग पुरस्कृत्य प्रयुज्यते । 'इन्दुमिन्द्राय मत्सरम् । त सिन्धवा मत्सर मिन्द्रपानम्’ इत्यादि । मत्सर हर्षहेतुमिति तद्राष्यम्। अमरोक्तिमाह । तस्लर इति ॥‘अनुदात्तो पदेश' इत्यादिना अनुनासिकलोपः । ऋक्षरः, ऋत्विगिति ॥ ‘ऋक्षरन्तोयधारायामृक्षरस्त्वृ विाज स्मृत.' इति मेदिनी । “ अनृक्षरा ऋजव" सन्तु पन्थाः ' इति मन्त्रस्य वदभाष्य तु ऋक्षरः कण्टक इति व्याख्यातम् । पीयुकणिभ्याम् ॥ 'राजादनं प्रियालुः स्यात् । इत्यमरः । 'प्रियालुः स्याप्रियालवत्' इतेि हि द्विरूपकोश. । बाहुलकाद्रजेरपि कालन् । नलोपः । न्यङ्कादित्वात्कुत्वम् । भगाल नरमस्तकम् । मत्वर्थे इनिः । ‘चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः इति राजशेखरः । कठिकुषिभ्याम् ॥ 'कठ कृच्छूजीवने , कुष निष्कर्षे ।’ कठाकुः कपिवह्नयर्के ना परोक्तापिनि त्रिषु' इति मेदिनी उज्ज्वलदत्तस्तु कटिकषिभ्यामिति । पठित्वा ‘कषशिष' इति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार । तत्कोशविरुद्धम्। मेदिनीकोशे उकारप्रक्रमे पाठात् । सर्तेः ॥ 'सृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी ।

वृतेः ॥ वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः । ‘वार्ताकी हिङ्कली
६२०
[उणादिषु
सिध्दान्तकौमुदीसहिता

३६० । पर्देर्नित्सम्प्रसारणमलोपश्च । 'पृदाकुर्तृश्चिके व्याधे चित्रके च

३६१ । सृयुवचिभ्योऽन्युजागूजक्नुचः । अन्युच्, आगूच, अक्नुच् एते क्रमात्स्युः । “सरण्युर्मेघवातयोः' । यवागूः । 'वचक्नुविप्रवाग्मिनो ' ।

३६२ । आनकः शीङ्गभियः । शयानकोऽजगर । भयानकः ।

३६३ । आणको लूधूशिङ्घधाञ्भ्यः । लवाणकं दात्रम् । धवाणको वात: । शिङ्काणकः श्रेष्मा । पृषोदरादित्वात्पक्षे कलोपः । “शिङ्कणं नासिका मले ' । “ धाणको दीनारभाग: ' ।

३६४ । उल्मुकदर्विहोमिनः । उष दाहे । षस्य ल: मुकप्रत्ययश्च । उल्मुकं ज्वलद्ङ्गरम् । ऋणातावः । दावः । 'जुहातामानः । हामा ।

३६५ । ह्नियः कुग्रश्च लो वा । ह्रीकुः ह्रीकु: लज्जावान् ।

३६६ । हसिमृग्ण्विामिदमिलपूधुर्वेिभ्यस्तन् । दशभ्यस्तन्स्यात् । तितुत्र-' (सू ३१६३) इति नेट् । हस्त । मर्तः । गर्तः । एतः कर्बुरः । वातः । अन्तः । दन्तः । “लोतः स्याद्श्रुचिह्नयोः' । 'पोतो बालवहित्रयो ' । धूतः । बाहुलकातुसद्धश्च । तूस्त पाप धूलजटा च ।


सिही भण्टाकी दुष्प्रधर्षिणी' इत्यमर. । “वार्ताक पित्तलङ्किञ्चिदङ्गारपरिपावितम्’ इति वैद्यक शास्रम् । पर्दैः । पृदाकुरित्यादि । ‘पृदाकुर्तृश्चिके व्याधे सर्पवित्रकयोः पुमान्’ इति मेदिनी । स्टयु ॥ 'सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी । ‘सरण्युरस्यसूनुरश्वः’ इति मन्त्रस्य भाष्ये तु सरण्युः शीघ्रगामीति व्याख्यातम् । ‘यवागूरुष्णिका श्राणा विलेपी तरला च सा' इत्यमर । “वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्' इति मेदिनी । ऋषि विशेषऽप्ययम् । यस्य कन्या वाचक्रवीति प्रसिद्धा । अानवकः ॥ “भयानकः स्मृतो व्यान्ने रसे राहौ भयङ्करे' इति मेदिनी । शिङ्काणवक इति ॥ 'शिाधि आघ्राणे ' । 'शिङ्काणङ्काचपात्रे स्यात् लोहनासिकयोर्मले' इति विश्व । ‘शिङ्काण फेफनडिण्डीरो नक्ररेतश्च पिच्छले' इति विक्रमादित्यकोश. । हारावलीस्थमाह । शिङ्काणमिति ॥ उल्मुकमिति च ॥ “दर्वि कम्बिः खजा काचव' इत्यमरः । ड़ियः ॥ कुक्प्रत्ययेऽयङ्ककारो गुणनिषेधार्थः । हसिमृ ॥ 'हस्तः करे करिकरे सप्रकोष्ठ करेऽपि च । ऋक्षे केशात्परो व्राते' इति मेदिनी । मता भूलाक', तत्र भवा मत्यः । दिगादेराकृतिगणत्वाद्यत् । 'गर्तत्रिगर्तभेदे स्यादवटे च कुकुन्दरे । एतः कबुर आगत । अन्त' स्वरूप नाशे वा न स्री शेषेऽन्तिके त्रिषु । दन्तोऽट्टकटके कुछे दशने चौषधौ स्त्रियाम्' इति मेदिनी । “लोतमश्रुणि चोरिते' इति विश्वः ।

क्तत्क्तवतू’ इति सूत्रे लोतो मेष इति कैयट : । “पोतः शिशौ वहित्रे च' इति विश्वमेदिन्यौ ।
तृतीय: पाद:]
६२१
बालमनोरमा ।

३६७ । नञ्ज्याप इट् च । नापितः ।

३६८ । तनिमृड्भ्यां किच । ततम् । मृतम् ।

३६९ । आञ्जिघृसिभ्यः क्तः । अक्तम् । घृतम् । सितम् ।

३७० । दुतनिभ्यां दीर्घश्च । दूतः । तातः ।

३७१ । जमूट् चोदात्तः । जीमूतः ।

३७२ । लोष्टपलितौ । लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् ।


धूत इति ॥ ' धुर्वी हिसायाम् । ' लोपो व्यो’ इति वलेोप. । क्डितीत्यननुवृत्तिपक्षे तु रालोप.’ इति लोपः । “हलि चव ' इति दीर्घः । 'धूर्तन्तु खण्डलवणे धुतूरे ना शठे त्रिषु इति मेदिनी । तनिमृङ्भ्याम् ॥ “तत वीणादिक वाद्यम्' इत्यमरः । ‘अथ ततं व्याप्त विस्तृते च त्रिलिङ्गकम् । कृीब वीणादिवाद्ये स्यात् पुलिङ्गस्तु समीरणे । मृतन्तु याचिते मृत्यौ कृीब मृत्युमति त्रिषु' इति मेदिनी । अञ्जिघृ ॥ अक्त परिच्छिन्नम् । 'अक्तपरिमाणस्य वाचकः इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् । अत्र ‘व्यस्त प्राप्त च सडुले' इति विश्वप्रकाशे लिपि भ्रमात् “अक्त व्याग्रे च सडुले' इत्युदाहरन्नुज्ज्वलदत्तो भ्रान्तत्वादुपेक्ष्य' । तथा च मेदिन्यां वकारादिप्रक्रमे “व्यस्तन्तु व्याकुले व्याप्त ’ इत्युक्तम् । 'घृतमाज्ये जले कृोब प्रदीसे त्वभिधेय वत् । सितमवसिते च बद्धे धवले त्रिषु शर्कराया त्री' इति मेदिनी । 'ऋ गतौ' । बाहुलकात् क्तः । 'ऋतमुञ्छे शिले जले । सत्ये दीझे पूजिते स्यात्' इति मेदिनी । दुतनिभ्याम् ॥ दूतः प्रेष्यः । गौरादित्वात् डीषु । दूती । अथ कथ, तेन दूतिविदितं निषेदुषा' इति रघु दूत्यान्दूतिरपि स्मृता' इति द्विरूपकोश ताताऽनुकम्प्य जनके' इति विश्वमेदिन्यौ । बाहुलकात् शीडोऽपि । शीता लाङ्गलपद्धति । रामपत्री च । शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशाननरिपो. सहधर्मिणी व । शीत स्मृत हिमगुणे च तदन्विते च शीतोऽलसेस च बहवारतरौ च दृष्ट.' इति तालव्यादौ धराणि . । सीता दन्त्यादिरपि । ‘सीता लाङ्गलपद्धतिः । वैदेहीस्वर्गगङ्गासु' इति दन्त्यादौ मेदिनीकोशात् । सीता लाङ्गलरेखा स्यात् व्योमगङ्गा च जानकी' इति दन्त्यादौ रभसकोशाच । अत्र त्यक्त सूत्रम् । जेट् चोदात्तः ॥ 'जि जये' । अतः क्तः, तस्य मूडागमः, स चोदात्तः धातो दीर्घश्च । 'जीमूतस्येव भवति । । ‘जीमूतोऽद्रौ भूतिकरे देवताडे पयोधरे' इति मेदिनी । वेणी गरागरीदेवताळेो जीमूत इत्यपि ' इत्यमर । “जीमूतः स्यात् वृत्तिकरे शक्रेऽद्रौ घोषके घने' इति विश्व. । इद सूत्रमनार्षमिति पुरुषोत्तम । अत एव आकरे पृषोदरादिषु जीमूतशब्दः उदाहृतः । लोष्ट ॥ “लोष्टानि लोष्टवः पुसि' इत्यमरः । अत्र पुसीत्युभयान्वयि । तेन पुंनपुंसकलिङ्गोऽयम् । तथा च स्थानेऽन्तरतमसूत्रे भाष्यम् । लोष्टः क्षिप्तो बाहुवेगङ्गत्वा

इत्यादि । अत एव “लोष्टः पिण्डेऽपि लोष्ट स्यात्' इति पुस्काण्डे गोपालितः । “पलित
५४०
[उणादिषु
सिध्दान्तकौमुदीसहिता


३७३ । हृश्याभ्यामितन् । हरितश्येतौ वर्णभेदौ ।

३७४ । रुहे रश्च लो वा । 'रोहितो मृगमत्स्ययोः' । लोहितं रक्तम् ।

३७५ । पिशेः किच । पिशितं मांसम् ।

३७६ । श्रुदक्षिस्पृहिगृहेिभ्य आय्यः । । दक्षाय्यो श्रवाया यज्ञपशु गरुडो गृध्रश्च । स्पृहयाय्य: । गृहयाय्यो गृहस्वामी ।

३७७ । दिधिषायः । दधातेर्द्धित्वमित्वं षुक्च । 'मित्र इव यो दिधि

३७८ । घृञ्ज एण्यः । वरेण्यः ।

३७९ । स्तुवः क्सेयश्छन्दसि । “स्तुषेय्यं पुरुवर्चसम्' ।

३८० । राजेरन्यः । राजन्यो वह्निः ।

३८१ । शूरम्योश्च । शरण्यम् । रमण्यम् ।

३८२ । अर्तेर्निच । अरण्यम् ।

३८३ । पर्जन्यः । “पृषु सेचने' षस्य ज: 'पर्जन्यः शक्रमेघयोः' ।

३८४ । वदेरान्यः । “वदान्यस्यागिवाग्मिनो


शैलजे ताप केशपाशे च कर्दमे' इति मेदिनी । हृश्या ॥ 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुते ऽन्यवत्' इति मेदिनी । रुहेः ॥ रोहितं कुडुमे रक्त ऋजुशकशरासने । पुसि स्यान्मीनमृगयो भेदे रोहितकदुमे । रोहित रक्तगोशीर्षकुङ्कमाजिकुचन्दने । पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति मेदिनी । पिशेः ॥ “पिशित मास मांस्यां स्त्री' इति मेदिनी । मांस्याञ्जटा मांस्याम् । तथा च “जटा च पिशिता पेशी' इति धन्वन्तरि । श्रुदक्षि ॥ “उद्यतत्रुचे भवसि श्रवाय्य:’ इति मन्त्रे श्रवाय्यो मन्त्रैः श्रवणीयः इति वेदभाष्यम् । ‘दक्षाय्यो यो दम आस नित्यः ।’ ‘विश्वरूपस्य स्पृहयाय्यस्य राजन् ।’ दिधिषाय इति ॥ 'मित्र इव यो दिधिषाय्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः । उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वञ्च, दधिषाय्यो घृतमिति व्याख्यत् । दशपादी वृत्तिकारस्तु धिषशब्दे अस्य द्वित्वं गुणाभावः अत्वञ्चाभ्यासस्य निपात्यते इत्याह । प्रसाद कारादयोऽप्येवमेव प्रतिपन्ना. । तदेतत्सर्वं लक्ष्यविरोधाद्वेदभाष्यविरोधाचोपेक्ष्यम् । स्तुव ॥ स्तुषेय्य स्तोतव्यम् । बहुरूपमिति वेदभाष्यम् । यत्तूज्ज्वलदत्तेन “सुतुवः केय्यः’ इति पठित्वा कित्वादुणाभावे उवडादेशे स्तुवेय्यः पुरन्दरः इत्युक्तम् । तन्न । वेदतद्राष्यादिविरोधात् । तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेव ज्यायान् । पर्जन्यः ॥ ‘मेघशब्देऽपि

पर्जन्यो ध्वनदम्बुदशक्रयोः' इति मेदिनी । वदेः ॥ अजयकोशस्थमाह । वदान्य इत्यादि ॥
तृतीय: पाद:]
६२३
बालमनोरमा ।


३८५ । अमिनक्षियजिवधिपतिभ्योऽत्रन् । अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं तनूरुहम् ।

३८६ । गडेरादेश्च कः । कडत्रम् । डलयेोरेकत्वस्मरणात्कलत्रम् ।

३८७ । दृञ्जवित् । वरत्रा चर्ममयी रज्जुः ।

३८८ । सुवेदेः कत्रः । “सुविदलं कुटुम्बकम् ' ।

३८९ । कृतेर्तुम्च । कृन्तत्रं लाङ्गलम् ।

३९० । भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् । दशभ्योऽत च्स्यात् । भरतः । मरतो मृत्युः । 'दर्शतः सोमसूर्ययोः' । यजतः ऋत्विक् । पर्वतः । पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।

३९१ । पृषिरञ्जिभ्यां कित् । पृषतो मृगो बिन्दुश्च । रजतम् ।

३९२ । खलतिः । स्खलतेः सलोप । अतच्प्रत्ययान्तस्येत्वञ्च । खलति निष्केशशिरा


अमि ॥ ‘नक्ष गतौ' । वधिः प्रकृत्यन्तरम् । नक्षत्रमिति । ‘नभ्राण्नपात्’ इति सूत्रे नञ्जः प्रकृति भाव उक्त.। क्षदेः सौत्रे ऋनि नञ्समासे व्युत्पत्त्यन्तरं तदिति बोछद्यम् । यजत्रं अन्निहोत्रमिति प्राञ्चः। वस्तुतस्तु यजत्रो यष्टव्यदेवता । ‘सन्तो वायुर्वातेन गच्छता सयजत्रैरङ्गानि' इति मन्त्रे तथा दर्शनात् । गडेः ॥ ‘गड सेचने’ ‘कळत्र श्रेणिभार्ययोः' इत्यमरः । वृञ्ज ॥ चित्वादन्तोदात्त. । ‘वरत्रायान्दार्वा नह्यमानः ।' सुविदेः कत्रः ॥ इह प्रायेण कत्रनिति नित पठन्ति । तत्प्रामादि कम् । ‘बृहस्पतेः सुविदत्राणि राद्येत्यादौ नित्स्वरादर्शनात् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्यय स्वरस्यैव दर्शनाच्च । “धन्वचयत्कृन्तत्रञ्च' इति मन्त्रेऽपि तथैव । “कृन्तत्रङ्कर्तनीयमरण्यम् इति वेदभाष्यम् । भृमृदृशियाजिपर्विपच्य ॥ 'भृञ् भरणे' 'मृड् प्राणत्यागे' ‘दृशिर् प्रेक्षणे' दशपायान्तु * भृदृशीङ्' इति पठित्वा “दृड् आदरे शयतः इत्युदाहृतम् । तन्न । रुशन्तमग्न्दिर्शत बृहन्तम् । तरणिर्विश्वदर्शतः। दैव्यो दशतो रथः इत्यादिमन्त्रैस्तद्राष्येण च विरोधातू । “भरतो नाट्यशास्त्रे मुनौ नटे । रामानुजे च दौष्यन्तौ ' इति मेदिनी । यजतः ऋत्विगिति ॥ उज्ज्वलदत्ताद्यनुरोधेनोक्तम् । ‘त्रिर्ने अश्विना यजत । हिरण्यशम्यं यजतो बृहन्तम्’ इत्यादिषु यजतशब्दो यष्टव्यपरतयैव वेदभाष्ये व्याख्यातः। ‘पर्वत पादपे पुसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले' इति मेदिनी । हर्यतोऽश्व इति ॥ एतदपि ‘हयै कान्तौ गतौ च' इति धात्वर्थ वृत्तिकारोक्तिञ्चानुसृत्योक्तम् । ‘परित्यं हर्यत हरिम् । आहर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् । पृषिराजि ॥

पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना' । अनयोश्च त्रिषु चेतबिन्दुयुक्तेऽप्युभाविमौ ।
६२४
[उणादिषु
सिध्दान्तकौमुदीसहिता

३९३ । शीङ्शपिरुगमिवविज्जीविप्राणिभ्योऽथः । सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वचथो धूर्त: । वन्दीति पाठे कर्मणि कर्तरि वा प्रत्ययः वन्द्यते वन्दते वा वन्दथ स्तोता स्तुत्यश्च । जीवथः आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिद् मिभ्याम् । 'शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः' ।

३९४ । भृञ्जांश्चत् । भरथो लोकपालः ।

३९५ । रुदिविदिभ्यां डिन्त । रोदितीति रुदथः शिशुः । वेत्तीति विद्थः ।

३९६ । उपसर्गे वसेः । आवसथो गृहम् । संवसथो ग्रामः ।

३९७ । अत्यविचमितमिनमिराभिलभिन्नभितपिपतिपानिपाणिमहेिभ्यो ऽसच् । त्रयोदशभ्योऽसच्स्यात् । अतीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमन्यस्मिश्चमसः सोमपानपात्रम् । ताम्यत्यस्मिन्निति तमसो ऽन्धकारः । नमसोऽनुकूलः । 'रभसो वेगहर्षयोः' । लभसो धनं याचकश्च । नभते नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कण्टकिफलः' । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।

३९८ । वेङअस्तुट् च । बाहुलकादात्वाभावः । वेतसः ।


रजतन्त्रिषु शुळे स्यात् लीबं हारे च दुर्वणे ' इति मेदिनी । ३ीड्शपि ॥ उज्ज्वलदत्तेनात्र पञ्चमो वञ्चि. पठ्यते । अन्यैस्तु वन्दि . । बञ्चथवन्दथयेोरन्यतर वेदादुपलभ्य बहुश्रुतैः पाठो निर्णेयः । बाहुलकादिति ॥ “शमथः शान्तिमन्त्रिणो.' इति मेदिनी । “दमथस्तु पुमान् दण्डे दमे च परिकीर्तित.’ इति चव । रुदिविद् ि॥ 'विदथो योगिकृतिनो.' इति मेदिनी । अत्रोज्ज्वलदत्तः “रुविदिभ्याङ्कित्' इति पठित्वा रौतीति रुवथः श्वेत्युदाजहार । दशपादी वृत्तिकारस्तु “रुदिविदिभ्याङ्कित्' इति पाठ । किं चोपसर्गे वसेरित्यवरूपमुत्तरसूत्रन्द्वावपि न पेठतुः । तथा हि । शीड्शपीति सूत्रानन्तरं सोपसर्गाद्वसे. भृङआश्चित् रुदिविदिभ्याङ्कितत् । इत्युज्ज्वलदत्तस्य सूत्रपाठ । अन्यस्य तु शीड्शपीति सूत्रानन्तरम् आडिवसेः, भृङअश्चित्, रुदिविदिभ्याङ्कित्, इति सूत्रपाठ. । तदेतत्पाठद्वय भाष्यादिविरोधादुपेक्षितम् । तथा हि । गाङ्कटादिसूत्रे के पुनश्चडादयः चड् अङ् नजिङ्अवड्नड. इति भाष्यम् । 'रुदिविदिभ्याङ्कित इत्यनुवर्तमाने उपसर्गे वसेरित्यथप्रत्यय इति कैयटेन व्याख्यातम् । एवञ्च कुर्वता भाष्यादिविरोधः स्पष्ट एवेत्यास्तान्तावत् । भाष्यकैयटमतेऽपि डिदित्यस्यानुवृत्तेः फलचिन्त्यम् । अत्यविच मि ॥ गौरादित्वात् डीष् । “अतसी स्यादुमा क्षुमा' इत्यमर । ‘चमसो यज्ञपात्रस्य भेदेऽस्त्री

पिष्टके त्रियाम् । पनसः कण्टकिफले कन्दके वानरान्तरे । त्रिया रोगप्रभेदे स्यात्' इति
तृतीय: पाद:]
६२५
बालमनोरमा ।

३९९ । वहियुभ्यां णित् । वाहसोऽजगरः । यावसस्तृणसङ्घातः ।

४०० । वयश्च । वय गातौ । वायसः काकः ।

४०१ । दिवः कित् । दिवसम्-दिवसः ।

४०२ । कृशृशालकालगादभ्याऽभच । करभ । शरभः । शलभः ।

४०३ । ऋपिष्टषिभ्यां कित् । ऋषभः । वृषभः ।

४०४ । रुषानल्लुष्च । ‘रुष हिंसायाम् ' । अस्माद्भच नित्कित्स्यात् लुषादेशश्च । “लुषभो मत्तदन्तिनि' ।

४०५ । रासिवलुिभ्याञ्च । रासभः । वलभः ।

४०६ । जूविशिभ्यां झच । जरन्तो महिषः । वेशन्तः पल्वलम् ।

४०७ । रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि । रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जावन्त अाषधम् । प्राणन्ता वायुः । षत्वान्डाष् । रोहन्ती ।

४०८ । तृभूवह्निवसिभासिसाधिगडिमण्डिजिनान्दिभ्यश्च । दशभ्यो इच्छस्यान् । स च षिन् । तरन्तः समुद्रः । तरन्ती नौका । । २भवन्तः काल वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटा दित्वान्मित्वं ह्रस्वः । 'अयामन्त-' (सू २३११) इति णेरय । गण्डयन्तो जलदः । मण्डयन्ता भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्ता नन्दक ।

४०९ । हन्तेर्मुट् हि च । हेमन्तः ।


मेदिनी । ‘वेअतुट च' इति पठिन्वा “वी गल्यादिषु' इति धातुरुदाहृत । वाहयुभ्याम् ॥ 'अजगर शयूवाहस इत्युभा' इत्यमर । “वा तु लीबे दिवसवासरौ' इति च । कृशू ॥ 'करभा मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते' । “शरभस्तु पशौ' इति मेदिनी । “समौ पतङ्ग शलमौ' इत्यमर । 'कलभ करिशाबक.’ इति च । “गर्दभ चेन्नकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयो ' इति मेदिनी । ऋषिवृषिभ्यां कित् ॥ 'ऋषभस्त्वौष धान्तरे । स्वरभिदृषयो कर्णरन्ध्रगर्दभपुच्छयो । उत्तरस्थः स्मृतः श्रेष्ठ स्री नरान्,ारयोषिति । शूकशिम्ब्यां शिरालायां विधवाया काचन्मता ।।' इति मेदिनी । “वृषभ श्रेष्ठवृषयो ' इति च । रासिवलिभ्याञ्च ॥ ‘रास् शब्दे' 'वल सवरणे'।'वल्लभो दयितेऽध्यक्ष सलक्षणतुरङ्गमे इति च मेदिनी । विशिभ्यां झच ॥ बाहुलकादर्हतेरपि झच् । 'अर्हन्तः क्षपणको जिनः’ इति वक्रमादत्यकाशः । तृभू ॥ इह नन्दिण्यन्त । तदाह । नन्दयन्त इति ॥ उज्ज्वल दत्तस्तु नन्दन्त इत्युदाहृत्य पूर्वसूत्रेण गतार्थतामाशङ्कय अनाशीरर्थ नन्दिग्रहणमित्याह । तन्न ।

79
६२६
[उणादिषु
सिध्दान्तकौमुदीसहिता


४१० । भन्देर्नलोपश्च । भदन्तः प्रव्रजितः ।

४११ । ऋच्छेरः । ऋच्छरा वेश्या । बाहुलकाज्जर्जरझराद्यः ।

४१२ । अर्तिकामिभ्रमिचमिदेविवासिभ्यचित् । षड्भ्योऽराश्चित्स्यात् । अर कपाटम् । कमरः कामुकः । भ्रमर: । चमरः । द्वरः । वासरः ।

४१३ । कुवः क्ररन् । कुरः पक्षिभेदः ।

४१४ । आङ्गमादमान्दभ्य आारन् । अङ्गारः । मद्ररो वराहः । ‘मन्दार पारिजातक: ।

४१५ । गडः कड च ! कडारः ।

४१६ । शृङ्गारभृङ्गारो । शूभृञ्भ्यामारन्नुम्गुग्घस्वश्च । शृङ्गारो रसः । 'श्रृङ्गार.कनकालुका ।

४१७ । कञ्जिमृजिभ्यां चित्। कञ्चिः सौत्रः। कञ्जारो मयूरः। मार्जारः।

४१८ । कमेः किदुचोपधायाः । चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।

४१९ । तुषारादयश्च । तुषार । कासारः । सहार आम्रभेदः ।


इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितत्वात् । बाहुलकादिति ॥ ‘जर्जर शैवले शक्रध्वजे त्रिषु जरत्तरे । झईर स्यात् कलियुगे वाद्यभेदे नदान्तरे' इति मेदिनी । अर्तिकमि ॥ अर छदकपाटयोः । भ्रमर. कामुके भृङ्गे चमरञ्चामरे स्त्री तु मञ्जरीमृगभेदयोः’ इति च मेदिनी । वासर इति ॥ वसेण्र्यन्तादरः । केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा 'वाश्ट शब्दे' वाश्यते वाशर, कोकिल इत्याहुः । अङ्गिमदि ॥ “अङ्गार उल्मुके न स्त्री पुलिङ्गस्तु महीसुते' इति मेदिनी । 'मन्दारः स्यात् सुरदुमे । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयो' इति च । “मदि स्तुत्यादौ' इत्यस्मात् बाहुलकादारुरपि । पारिभद्र तु मन्दारु मैन्दारः पारिजातक ' इति शब्दार्णव । गडेः ॥ “कडारः कपिले दासे ' इति मेदिनी । श्रृङ्गारभृङ्गारौ ॥ 'श्रृङ्गारः सुरते नाट्ये रसे च गजमण्डने । नपुसक लवज्ञेऽपि नाग सम्भवचूर्णयो.’ इति मेदिनी । 'भृङ्गारी झिलिकायां स्यात् कनकालौ पुनः पुमान्’ इति च । कञ्जिमृजिभ्यां ॥ 'कञ्जारो जठरे सूर्ये विरिधौ चारणे मुनौ' इति विश्वमेदिन्यौ । 'मार्जर आतौ खटाङ्गे' इति च । कमेः ॥ 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालकं वरुणाद्रौ ना न द्वयोर्जालयकाश्चने । कुमारी शैलतनयावनकाल्योर्नदीभिदि । सहापराजिता कन्याजम्बूद्वीपेषु च स्त्रियाम्' इति मेदिनी । विश्वप्रकाशे तु 'कुमारी रामतरणी' इति पाठः । रामतरणी लताविशेषः सहेति प्रसिद्ध । “तरणी रामतरणी कणिका चारुकेसरा । सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टु । ‘जम्बूद्वीपसहाकन्याकुमार्योऽथाश्ववारके ।

बालके कार्तिकेये च कुमारी भर्तृदारके' इति त्रिकाण्डशेषः । “तुषारस्तुहिन हिमम् । कासारः
तृतीय: पाद:]
६२७
बालमनोरमा ।


४२० । दीडो नुट् च । दीनारः सुवर्णाभरणम् ।

४२१ । सर्तरपः षुक्च । सर्षपः ।

४२२ । उषिकुटिदलिकविखजिभ्यः कपन् । 'उषपो वह्निसूर्ययोः' । कुटपा मानभाण्डम् । दलपः प्रहरणम् । कचप शाकपत्रम् । खजप घृतम् ।

४२३ । कणेः सम्प्रसारणञ्च । कुणपम् ।

४२४ । कपश्चाक्रवर्मणस्य । स्वरे भेदः ।

४२५ । विटपपिष्टपविशिपोलपाः । चत्वारोऽमी कपन्प्रत्ययान्ताः । ‘विट शब्दे' । “विटप:' । विशतेरादेः प: । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः सम्प्रसारणम् । ‘उलपं कोमलं तृणम्' ।

४२६ । वृतेस्तिकन् । वत्तिका ।

४२७ । कृतिाभिदिलातिभ्यः कित् । कृत्तिका । भित्तिका भित्तिः । लतिका गोधा

४२८ । इष्याशभ्या तकन् । इष्टका । अष्टका ।

४२९ । इणस्तशन्तशसुनी । एतशो ब्राह्मणः । स एव एतशाः ।

४३० । वीपतिभ्यां तनन् । “वी गत्यादौ' । वेतनम् । पत्तनम् ।

४३१ । दृदलिभ्यां भः । दर्भ: । 'दल्भः स्यादृषिचक्रयोः' ।

४३२ । अर्तिगृभ्यां भन् । अभैः । गर्भः ।

४३३ । इणः कित् । इभः ।

४३४ । आसिाञ्जिभ्यां क्थिन् । अस्थि । सक्थि ।

४३५ । प्लुषिकुषिशुषिभ्यः क्सिः । प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।


सरसी सर ।' कणेणः ॥ “कुणपः पूतिगन्धे शवऽपि च' इति मेदिनी । विटपापिष्टप ॥ विटपो न स्त्रिया स्तम्बशाखाविस्तारपछवे । पीठाधिपे च' इति मेदिनी । आदेः प इति । एतच्चोज्ज्वलदत्तरीत्योक्तम् । अन्ये तु सूत्र “विष्टप' इति दन्त्योष्ठयादिमेव पठन्ति । युक्तचैतत् । “यत्र ब्रध्रस्य विष्टपम्' इत्यादौ तथा दर्शनात् । “उलपो न स्त्री गुल्मिन्या ना तृणान्तरे' इति मेदिनी । लतिकेति ॥ लतिः सौत्रः । इष्टकेनि ॥ “इष्टके षीकामालानाम्' इति निर्देशात् 'प्रत्ययस्थात्' इति नत्वम् । अर्तिगृ ॥ 'गर्भ धूणेऽर्भके

कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी । इणः ॥ *इभ स्वम्बरमः पद्मी' इत्यमरः ।
६२८
[उणादिषु
सिध्दान्तकौमुदीसहिता

४३६ । अशेर्नित् । आक्षि ।

४३७ । इषेः क्सुः । इक्षुः ।

४३८ । अवितृस्तृतान्त्रिभ्य ईः । 'अवीनरी रजस्वला' । तरीनः । स्तरीधूम । 'तन्त्रावाणादगुण ।

४३९ । यापोः किद्दे च ॥ ययीरश्व । “पपी: '। स्यात्सामरसूयया

४४० । लक्षमुट् च । लक्ष्मा ।

॥ इत्युणादिषु तृतीयः पादः ॥

॥ अथ उणादिषु चतुथेः पादः ।

४४१ । वातप्रमीः । वातशब्द उपपदे माधातोरीप्रत्ययः । स च कित् । वातप्रमा । अय स्रापुसया ।

४४२ । ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्रिज्यतुजलिः जिघुजिष्ठजिसन्स्यानिथिनुल्यसासानुकः । द्वादशभ्यः क्रमात्स्युः। अर्तेः कत्रिच्। यण् । “बद्धमुष्टिः करो रात्रिः सोऽरात्रिः प्रसृताडुलि ' । तनोतेर्यतुच् । तन्य तुर्वायू रात्रिश्च । अजैरलिच् । अञ्जलिः । वनेरिटुच् । वनिघुः स्थविरान्त्रम् ।


लक्षेर्मुट् च ॥ लक्ष दर्शनाङ्कनयो ।' चुरादिण्यन्तः । अस्मादीप्रत्यय स्यात् । तस्य मुडागमश्च । णिलोप । “लक्ष्मीः सम्पत्तिशोभयो । ऋद्धौषधौ च पद्माया वृद्धिनामौषधेऽपि च । फलिन्यां स्त्री' इति मेदिनी ॥

इत्युणादिषु तृतीयः पादः ।

अयमिति ॥ *द्विचतुषट्पदोरगाः' इत्यमरेणोभयलिङ्गोत्ते’, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य िद्वलिङ्गतोतेश्चति भावः । तत्र 'कृदिकारात्' इति पाक्षिको डीष् कैश्चिदिष्यते । न हि “कारग्रहणे केवलग्रहणम्' इति मुनित्रयेण परिभाषितम् । अत एव “वातप्रमीश्री लक्ष्मीति पक्ष डयन्ता सुमाधव ' इति रक्षितः । एतन्च दुधवटप्रन्थ स्पष्टम् । “ आशीराश्यहि दंष्ट्राया लक्ष्मीर्लक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोश । अत एव “ आशीविषो विषधरः’ इति सङ्गच्छते । “ आशीमिव कलामिन्दो' इति राजशेखरः । “ आशीर्हिताशसाहिंदष्ट्रयो' इति सान्ते अमरात् सान्तोऽप्याशी शब्द इत्यन्यदतत् । बद्धेति ॥ “मुष्टया तु बद्धया । सरन्नि स्यात्' इत्यमर । सहस्त इत्यथ । प्रसङ्गादाह । अरन्निरिति । न रात्रिः अरात्रि इति नञ्समासः । दशपादीवृत्तौ तु इह सूत्रे अर्तेरन्निचमकितं विधाय अरन्नि साधितः । उज्ज्वल दत्तानुसारेणाह । वायू रात्रिश्चति ॥ इह शब्दो मेघः, अशनिश्वत्यपि बोछद्यम् । “ आविष्कृतः णोमि तन्यतुर्न वृष्टिम्’ इति मन्त्रे तन्यतुर्गर्जितमिति, “सृजावृष्टि न तन्यतुः' इति

मन्त्रे तन्यतुर्मेघ इति, ‘दिवश्चित्रं न तन्यतुः’ इति मन्त्रे तन्यतुरशनिरिति वेदभाष्ये
चतुर्थ: पाद:]
६२९
बालमनोरमा ।


अखेरिष्टच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिमोऽग्रमांसम् । मदेः स्यन्, मत्स्यः । अतेरिथिन्, अतिथिः । अङ्गरुलिः, अङ्गुलि । कौतेरसः, कवस्म: । अच इत्येके । कवचम् । यौतेरामः, यवासो दुरालभा । कृशेरानुक् : कृशानुः ।

४४३ । श्रः करन् । उत्तरसूत्रे किद्रहणादिह ककारस्य नेत्वम् । शकेरा ।

४४४ । पुपः कित् । पुष्करम् ।

४४५ । कलश्च । पुष्कलम् ।

४४६ । गमेरिनिः । गमिष्यतीति गमी ।

४४७ । आडिः णित । आगामी ।

४४८ । भुवश्च । भावी ।

४४९ । प्रेः स्थः । प्रस्थायी ।

४५ । परमे कित् । परमेष्ठी ।

४५१ । मन्थः । मन्थतेरिनिः कित्स्यान् । किन्त्वान्नकारलोपः । मन्था मन्थाना-मन्थानः ।

४५२ । पतस्थ च । पन्थाः -पन्थानौ ।


व्याख्यातत्वान् । “ अञ्जलितु पुमान् हस्तमम्पुटे कुटवेऽपि च' इति मेदिनी । स्थावरान्त्रः मान् ॥ 'वनिष्ठार्हदयादधि ' इति मन्त्रस्य भाष्ये तयोक्तत्वात् । अञ्जिष्ठ इति ॥ केचिद डेरिष्णुचमिच्छन्ति । तेषामञ्जिष्णुरित्युदाहरणम् । मदेरिति ॥ 'मत्स्यो मीनेऽथ पुभूत्रि देशे' इति मेदिनी । “अतिथिः कुशपुत्रे स्यात् पुमानागन्तुके त्रिषु । अडुलि करशाखायां कर्णिकायाङ्गजस्य च' इति मेदिन । कवसः सन्नाह कङ्कटजातिश्च । अच इति ॥ कवचो दुर्गभाण्डे च सन्नाहे पर्पटेऽपि च' इति मेदिनी । पुषः ॥ पुष्यतः करः स्यात् । स च कित् ! 'पुष्कर खऽम्बुपद्मयोः । तूर्यवक्रे खङ्गफल हस्तिहस्ताप्रकाण्डयो . । कुष्ठौषधे द्वीपतीर्थ भेदयोश्च नपुमकम् । न, रागनागविहगनृपभेदेषु वारुणौ ’ इति मेदिनी । कलंश्च ॥ पुष्यतेः कलन् कित्स्यात् । पुष्कलसुतु पूर्णे श्रछे' इति हेमचन्द्र । मन्था इति ॥ पथिमथील्यात्त्वम् । इतोऽन्सर्वनामस्थाने । “मन्था मन्थनदण्डे च व्रज वातेऽपि च स्मृत” ।' पन्था इत ॥ पथे गतौ अस्मात्पञ्चाद्याच अकारान्तोऽप्यस्ति । 'वाट पथश्च मार्गश्च' इति सुभूतिचन्द्रपुरु षोत्तमौ । “त्वाचव त्वचः किरोऽपि स्थात् किरो प्रोक्त. पथः पथि' इति द्विरूपषु विश्व । इह ऋभवो देवा क्षयन्त्यमि.ित िवग्रहे “ अन्येभ्येऽपि दृश्यते ? इति ड. । “ ऋभुक्ष खर्गवज्रयेो : इति विश्वः । ततो मत्वर्थीये इनिः । ऋभुक्षिन्निति नान्त प्रातिपदिकम् । आत्त्वमत्वं च । ऋभुक्षा इन्द्र. । ऋभुक्षाणौ ऋभुक्षाणः इत्युज्ज्वलदत्तः । दशपाद्यान्तु “अर्तेर्भक्षिक्षिनक्’ इति

सूत्रमुपन्यस्तम् । *ऋभुक्षणमिन्द्रमाहुव ऊतये' इति मन्त्रस्य वेदभाष्येऽपि तत्सूत्रमुदाहृतम् ।
६३०
[उणादिषु
सिध्दान्तकौमुदीसहिता


४५३ । खजेरावकः । खजाकः पक्षी ।

४५४ । बलाकादयश्च । बलाका । शलाका । पताका ।

४५५ । पिनाकादयश्च । पातेरित्वं नुम् च । “झीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनाः । 'तड आघाते' । तडाक ।

४५६ । कषिदूषिभ्यामीकन् । कषीका पक्षिजातिः । “दूषीका नेत्रयो मलम्

४५७ । अनिहृषिभ्यां किच । अनीकम् । हृषीकम् ।

४५८ । चङ्कणः कङ्कणश्च । ' कण शव्दे' अस्माद्यङ्लुगन्तादीकन् धातो कङ्कणादेशश्च । “ घण्टिकायां कङ्कणीका सैव प्रतिसरापि च' ।

४५९ । शृपृवृञ्जां द्वे रुक्चाभ्यासस्य । शर्शरीको हिंस्र । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेश: ।

४६० । पर्फरीकादयश्च । “स्फुर स्फुरणे' । अस्मादीकन् धातोः पपकरा देशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झईरीकं शरीरम् ।


अत्रायं विवेकः । आद्यमन्त्रऽन्तादात्तत्व न्याय्यम् । अवग्रहाभावो बाहुलकात् । द्वितीये तु अवग्रहाभावो न्याय्य । अन्तोदात्तस्तु बाहुलकादिति । खजाक इति ॥ 'खज मन्थे बलाकादयश्च ॥ “बलाका बकपतिः स्यात् बलाका बिसकण्ठिका । बलाका कामुकी प्रेोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ । ‘शलाका शल्यमदनशारिकासछकीषु च ' इति मेदिनी। पताका वैजयन्त्याश्च सौभाग्ये नाटकाङ्कयो.’ इति च । 'पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्व । पिनाकादयश्च ॥ “पिनाकोऽस्त्री रुद्रचापे पासुवर्षत्रिशूलयोः’ इति मेदिनी । अमरोक्तिमाह । कृीबेति ॥ किञ्च “पिष्ल सञ्चूर्णने' । षकारस्य णत्वं धातोर्युगागम । ‘पिण्याकोऽस्त्री तिलकल्के हिडुबाहीकसिल्हके' इति मदिनी । अमरोक्तिमाह । दूषीकेति ॥ किञ्च दूषयते ‘अच इ' इति इप्रत्यये दूषिः । 'कृदिकारात्' इति डीष् । दूषी । उभाभ्यामपि खार्थे कनि दूषिका हृस्वमछैव, “केऽण.’ इति डीषो हस्वादेशात् । “पिचण्डी दूषिका दूषिः पिचाठञ्च दृशो मलम्' इति विक्रमादित्यकोश . । “दूषिका तूलिकायाञ्च मले स्यालोचनस्य च' इति मेदिनी । अनिहृषिभ्यां ॥ 'अनीकोऽस्त्री गणे सैन्येऽपि ” इति मेदिनी । “हृषीक विषयीन्द्रियम्' । पर्फरादेश इति ॥ उज्ज्वलदत्तरीत्योक्तम् । इत्यमर वस्तुतस्तु धातोर्द्धित्वम् । उकारस्याकारः सलोपः । 'रुक् च भ्यासस्य ' इति दशपाद्युक्तमेव न्याय्यम् । चरेर्नुम् चेत्युत्तरग्रन्थानुरोधेन द्वे रुक्चेत्यादेरनुवृत्तेन्र्याय्यत्वात् । किसलयमिति ॥ नैतैौशेव तुर्फरीपर्फरीका' इति मन्त्रस्य वेदभाष्ये तु 'नि फला विशरणे, पृ पालनपूरणयोः

पर्व पूरणे' एषामन्यतमस्य निपातनमिदमाश्रित्य शत्रूणां विदारयितारः स्तोतृणां पालका
चतुर्थ: पाद:]
५४१
बालमनोरमा ।

तिन्तिडीको वृक्षभेदः । “ चरेर्नुम् च' (गण १९९) । चश्चरीको भ्रमरः । मर्मरीको हीनजन । कर्करीका गलन्तिका । पुणतेः, पुण्डरीकं वादित्रम् । पुण्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।

४६१ । ईषेः किद्रस्वश्च । इषीका शलाका ।

४६२ । ऋकुजेश्च । ऋरजीक उपहतः ।

४६३ । सतनुम् च । स्टणीका लाला ।

४६४ । मृडः कीककङ्कणो । मृडीको मृग । मृडङ्कणः शिशुः ।

४६५ । अलीकादयश्च । कीकन्नन्ता निपात्यन्ते । 'अल भूषणादौ' । अलीकं मिथ्या । विपूर्वाञ्चलीकं विप्रियं खेदश्च । “वलीकं पटलप्रान्ते इत्यादि ।

४६६ । कृतृभ्यामीषन् । करीषोऽस्री शुष्कगोमये । तरीषः तरिता ।

४६७ । शृपृभ्यां किच । शिरीषः । पुरीषम् ।

४६८ । अजेंत्रसुज च । ऋजीषं पिष्टपचनम् ।


विशिष्टार्थस्य पूरयितारौ चेति व्याख्यातम् । तिन्तिडीक इति ॥ तिमेर्मकारस्य डकारः । अभ्यासस्य नुक् च । “तिन्तिडी विश्वाम्लिका' इत्यमरे तु शब्दान्तरम् । तथा च 'तिन्तिडी त्वम्लिका चिञ्चा तिन्तिडीका कपिप्रिया' इति वाचस्पतिः । “ अम्लीका चाम्लिका चिञ्चा तित्तिडीका च तिन्तिडी' इति चन्द्र । “अम्लिका चुक्रिका चुक्रा साम्रा शुक्राऽथ शुक्तिका । अम्लिका चिधिका विश्वा तित्तिडीका च तित्तिडा' इति धन्वन्तरिनिघण्टुः । यत्तु उज्ज्वल दत्तेनोक्तम् 'उपदशस्तृतीयायाम्' इति सूत्रे तित्तिडोपदश भुङ्गे इति भाष्यप्रयोगात्साधुतेति तदुपेक्ष्यम् । ‘उपदंश ' इति सूत्रस्य भाष्यकारेरस्पृष्टत्व भाष्य कुत्राप्य भावाच्च । “भ्रमरश्चञ्चरीकः स्याद्रोलम्बेो मधुसूदन. । इन्दिन्दिर. पुष्पकीटो मधुद्रो मधुकेशटः’ इति त्रिकाण्डशेष । “कर्कयलूर्गलन्तिका' इत्यमरः । “पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्र च दिङ्नागे कोशकारान्तरेऽपि च' इति मेदिनी । ईषेः ॥ 'ईषीका स्यादिशीकापि वानायुजवनायुजा' इति द्विरूपकोश. । सर्तेः ॥ “सृणीका स्यन्दिनी लाला ' इत्यमरः । मृडः कीक ॥ कित्त्वादन्तोदात्तः । कीकनित्युज्ज्वलदत्तादिपाठस्तु प्रामादिक. । मृलोकेऽस्य सुमतौ स्याम । मृलीकावप्रियव्रजान्’ इत्यादिषु चित्खरस्यैव दर्शनात् । अलीकादयश्च ॥ 'अलीकमप्रियेऽपि स्यात् दिव्यसल्ये नपुसकम्' इति मेदिनी । “अलीक मप्रिये भाले वितथे' इति हेमचन्द्रः । तथा च प्रयुज्यते । “त दृष्टिमात्रपतिता अपि कस्य नात्र क्षेोभाय पक्ष्मलदृशामलकाः खलाश्च । नीचा सदैव सविलासमलीकमन्ना ये कालतां

कुटिलताश्च न सत्यजन्ति” इति । 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीठके । ना नागरे' इति
६३२
[उणादिषु
सिध्दान्तकौमुदीसहिता


४६९ । अम्बरीषः । अयं निपात्यते । “ अबि शव्दे' । “ अम्बरीष पुमान्भ्राष्ट्रम्' । अमरस्तु * झीबेऽम्बरीषं भ्राष्ट्रो ना' ।

४७० ॥ कृशूपृकटिपटिशौटिभ्य ईरन् । करीरो वंशाङ्करः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कण्टकः कामश्च । ब्राह्मणादित्वात् ष्यञ् । शैौटीर्यम्

४७१ । वशेः केित् । उशीरम् ।

४७२ । कशेर्मुट् च । कश्मीरो देश: ।

४७३ । कृञ्ज उच । कुरीरं मैथुनम् ।

४७४ । घसेः किञ्च । क्षीरम् ।

४७५ । गर्भीरगम्भीरौ । गमेर्भः । पक्षे नुम् च ।

४७६ । विषा विहा । स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धि , विहा स्वर्गः, अव्यये इमे ।

४७७ । पच एलिमच । 'पचेलिमो वह्निरव्यो

४७८ । शीडो धुञ्जकलञ्वालनः । चत्वार. प्रत्ययाः स्युः । शाधु मद्यम् ।


मेदिनी । “वलीकनीत्रे पटलप्रान्ते ? इत्यमर । वलतेमुगागमे वल्मीकम् । “वामलूरश्च नाकुश्च वल्माक पुनपुस्मकम्' इत्यमर वद्दतेद्धिश्च । वाहीको गौः, वाहश्च । सुप्रपूर्वादिणस्तुट् च सुप्रतीकः । शाम्यतः शमीक ऋजीषम् । एतच ऋजीषिण वृषण ससतश्रिये । आसत्या यातु मघवान् ऋजीषीत्यादिमन्त्रभाष्ये स्पष्टम् । अयमिति ॥ ईषन् प्रत्ययः, अरुट च तस्यागम इत्यर्थः । बापालितोक्तिमाह । अम्बरीष इत्यादि । “ अम्बरीष रणे भ्राष्ट्र छीब पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशेरे भास्करेऽपि च । आम्रातके तु तापे च' इति मेदिनी । कृशू ॥ 'वंशाङ्करे करीरोऽत्री वृक्षभिद्वटयोः पुमान् । करीरा चीरिकायाश्च दन्तमूले च दन्तिनाम्' इति मेदिनी । 'शरीर वष्र्म विग्रह' इत्यमरः । अर्धचदित्वात् शरीरोऽपि । बाहुलकात् । 'हिडि गल्यनादरयोः ।' हिण्डते इतस्ततो गच्छतीति हिण्डीरः । 'हिण्डीरो ऽब्धिकफः फेन.' इत्यमर । 'डिण्डीरोऽपि च हिण्डीर.’ इति द्विरूपकोश . । किमरञ्जम्बीर तूणीरादयोऽप्येव बोद्याः । * किमरे नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी । 'जम्बीरः प्रस्थपुष्पे रूयात्तथा दन्तशठे दुमे' इति च । उशीर वीरणमूलम् । उशीरोऽपि । “मूले ऽस्येोशीरमत्रियाम् । अभय नलद सव्यम्' इत्यमरः । कुरीरमिति ॥ कपिलकादित्वाछत्वे कुलीरः कर्कटकः । घसे ॥ क्षीरामति ॥ उपधालोपः । कत्व षत्वम् । 'क्षीर दुधे च नीरे च' इति विश्वः । गमेरिति ॥ 'निन्नङ्गभीरङ्गम्भीरम्' इत्यमर । पच एलिमञ् ।

कर्तर्यय कृत्यप्रत्ययेषु रिदुपसङ्खयातः । शरतेऽनेन शीधुः । मद्यविशेषः । 'मैरेयमासवः शीधु
प्रकरणम्]
६३३
बालमनोरमा ।

शीलं स्वभावः। शैवलः । शेवालम् । बाहुलकात् वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका' ।

४७९ । मृकाणाभ्यामूकाकणा । मरूको मृगाः काणूकः काकः ।

४८० । वलरूकः । वलकः पक्षी उत्पलमूलं च ।

४८१ । उल्लूकादयश्च । वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । 'शमेर्बुक् च' (गण २००) । शम्बूको

४८२ । शलिमण्डिभ्यामूकण । शालूकं कन्दविशेषः । मण्डूकः ।

४८३ । नियो मिः । नेमिः ।

४८४ । अतरूच । ऊमि ।

४८५ । भुवः कित् । भूमिः ।

४८६ । अश्लोते रश्च । रश्मिः किरणो रज्जुश्च ।

४८७ । दाल्मः । दल विशरणे । दल्मिरिन्द्रायुधम् ।


इत्यमरः । अर्धर्चदिपाठात् कृीबत्वञ्च । “पुन्नपुसकयोदोरुजीवातुस्थाणुशीधवः’ इति त्रिकाण्ड शेष । ‘शील स्वभावे सदृत्त' इति मेदिनी । “जलनीली तु शेवाल शैवलः' इत्यमरः । शैवल पद्मकाष्ठ स्यात् शैवले तु पुमानयम्' इति मेदिनी । शब्दार्णवोक्तिमाह । शेवाल मित्यादि । उलूकादयश्च ॥ “उलूकः पुसि काकादाविन्द्र भारतयोधिनि ' इति मेदिनी । वदेदयैडन्तादृकः । ‘वाचोयुक्तिपटुर्वाग्मी वावदूकश्च वक्तरि' इत्यमरः । शमेर्युक् च ॥ ‘शम्बूको गजकुम्भान्ते घोषे च शूद्रतापसे' इति मेदिनी । बाहुलकादुकप्रत्यये हखमध्योऽपि । ‘जम्बूकं जम्बुक प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोश । जम्बूकबन्धूकादयोऽप्यत्रैव द्रष्टव्याः । जम्बूक. फरवे नीचे पश्चिमाशापतावपि' इति विश्वमेदिन्यौ बन्धूक बन्धुजीवे स्यात् बन्धूक पीतसारके' इति च । शलिमण्डि ॥ 'सौगन्धिकन्तु कहारम्' इत्याद्युपक्रम्य ३शालकमषा कन्दः स्यात्' इत्यमरः । एषा सौगन्धिकादीनां कैरवान्ताना कन्दो मूलमित्यर्थः । नियो मिः ॥ ‘नेमिन तिनिशे कूपत्रिकाचवक्रान्तयोः स्त्रियाम्’ इति मेदिनी । बाहुलकादन्यतो ऽपि । “या प्रापणे ।’ “यामिः स्वसृकुलस्त्रियोः’ इत्यन्तःस्थादौ रभसः । “यामिः कुलत्रीस्वस्रो स्री' इत्यन्तस्थादौ मेदिनी । “जै क्षय।' 'जामिः स्वसृकुलस्त्रियोः' इति चवर्गतृतीयादौ अजयकोशः । 'चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः । अतेरूञ्च ॥ उचेत्युचितम् । 'ऊर्मिः स्त्रीपुंसयोर्वीच्या प्रकाशे वेगभङ्गयो । वस्रसङ्कोचरेखायां वेदनापीडयो रपि' इति मेदिनी । भूमिः, “भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी । अश्रोते ॥ * रश्मिः पुमान् दीधितौ स्यात् पक्षप्रग्रहयोरपि' इति मेदिनी ।

80
६३४
[उणादिषु
सिध्दान्तकौमुदीसहिता

४८८ वीज्याज्वरेिभ्यो निः । वा

४९१ । वाहिश्रिश्रुयुदुग्लाहात्वरिभ्यो नित् । वह्निः । श्रेणिः । श्रोणि योनिः । द्रोणि ग्लानिः । हानिः । तूर्णि बाहुलकान्म्लानि

४९२ । घृणिपृश्क्षिपाष्णिचूर्णिभूर्णि एते पञ्च निपात्यन्ते । घृणि किरण पृश्रिल्पशरीर पृषेर्वेद्विश्च । पाष्णि पादतलम् । चररुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् भूणधरणा

४९३ । दृष्टदृभ्यां वन् | वांवघस्मरः । दांव

४९४ स्तीवेि रध्वर्युः । जागृविर्तृप दीदिविः स्वर्गमोक्षयो यानः । जूण वृष्णिः क्षत्रियमेषयो


वीज्या ॥ अमरोक्तमाह । वेणिः स्यादित्यादि । ‘वेणी केशस्य बन्धने । नद्यादेरन्तरे देवताडे इति मेदिनी वेणी गरागरी देवताडो जीमूत इत्यपि' इत्यमर ज्यानिहनौ स्रवन्त्याश्च इति विश्वः । जूर्णि. स्त्रीरोग. । स्मृवृषि अडुशोऽत्री सृणि स्त्रियाम्' इत्यमर स्यादङ्कशे पुमान्’ इति कोशान्तरम् । अत एव “ आरक्षमझमवमल्य सृणि शिताग्रम्' इति वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डचण्डयेो.’ इति विश्वः । “ ऐन्द्रे वृध्णि षोडशिनि तृतीयम्' इति श्रुतौ वृणि मेषमित्य अग्वैिश्वानरेऽपि स्याचित्रकाख्यौमधौ पुमान्' इति मेदिनी । चाँहिांश्र 'श्रेणि. स्त्रीपुसयोः पौ समाने शिल्पिसहतौ' इति च कटिः श्रेणिः ककुद्मती' इत्यमर योनिः स्त्रीपुसयोश्च स्यादाकरे स्मरमन्दिरे' इति मेदिनी घृ सेन्वने' निप्रत्ययो गुणाभावश्च “घृणिः पुनः, अंशुज्वालातरङ्गेषु' इति हेमचन्द्र पृश्रिरल्पतनौ' इत्यमर पाणिः स्यादुन्मदः स्त्रियाम् । स्त्रिया द्वयोः सैन्यपृष्ठ पादग्रन्थ्यधरेऽपि च' इति मेदिनी । भूर्णिधरणीति तवानभूर्णि.' इति मन्त्रे भाष्ये तु 'भूर्णिर्धारकः पोषको वा' इति व्याख्यातम् । दिवो द्वे ॥ 'दीदिविर्धिषणान्नयो.’ इति विश्व * दीदिविन धिषणेऽत्रे तदत्रियाम्' इति मेदिनी । धिषणो बहस्पति द्वौदशकरश्चक्षा सुरगुरुर्गुरुः' इति त्रिकाण्डशेष दीदिविद्वादशार्चिः स्याज्जीवः प्राक्फल्गुनी सुतः’ इति हारावली । ‘ओदनोऽत्री सदीदिवि.' इत्यमर अत्र सदीदिविददिविसहित इति व्याख्यानं न्याय्यम् । स इति छेदे तु अत्रियामिति न लभ्यते ततश्च “अन्ने तदस्त्रियाम्

स्टाण
चतुथे: पाद:]
६३५
बालमनोरमा ।

४९६ । कृविघृष्विछविस्थविकिीदिवि । कृविस्तन्तुवायद्रव्यम् । घृष्वि वैराहः । छास्थोर्हस्वत्वं च । छविदीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किी पूर्वीत् । क्रिकीदिविश्चाषः । बाहुलकाद्भस्वदीर्घयोर्विनिमय । 'चाषेण किकि

४९७ । पातेडेतिः । पति

४९८ ३शकृन्

४९९ । अमेरतिः । अमतिः कालः ।

५०० । वह्निवस्यर्तिभ्यांश्चित् । वहति: पवन । “वसतिगृहयामिन्योः' ।

५०१ । अश्वेः को वा । अङ्कतिरञ्चतिर्वातः ।

५०२ । हन्तेरंह च । हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरित मनया अंहतिर्दानम् । 'प्रादेशनं निर्वपणमपवर्जनमंहतिः’ ।

५०३ । रमेर्नित् । “रमतिः कालकामयोः ।

५०४ । सूङः क्रिः । सूरि


इति मेदिनीग्रन्थो विरुछेद्यतेति ध्येयम् । “गोपामृतस्य दीदिविम्' इति मन्त्रे तु द्योतमान मित्यर्थे । कृविघृष्वि । एतेन क्विन्नन्ता निपात्यन्ते । घृष्विवेराह इति ॥ 'उग्रस्य पुन स्थविरस्य धृष्वे' इति मन्त्रे तु घृष्वेः कामाना वर्षकस्येत्यर्थः, 'घृषु सेचने' इति धात्वर्था नुगमात् । “छविः शोभारुचोयोंषित्' इति मेदिनी । “ अथ चाषः क्रिकीदिविः' इत्यमरः । विनिमय इति ॥ “किकिदीविः क्रिकीदिवि.’ इति द्विरूपकोशः । पातेः ॥ 'पनिर्धवे ना त्रिध्वीशे' इति मेदिनी । शाके ॥ “उच्चारावस्करौ शमल शकृत् । गूथ पुरीष वर्चस्कमस्री विष्टाविशौ स्त्रियाम्' इत्यमरः । अमेरतिः ॥ 'अथामतिः पुसि हिमदीधितिकालयो ' इति मेदिनी । “अमतिश्चामति. काल.' इति द्विरूपेषु विश्वः । वहिवास ॥ 'वहतिः सचिव गवि इति विश्व. । वसतिः स्यात्स्त्रिया वासो यामिन्याञ्च निकेतने ? इति मेदिनी । अमरोक्तिमाह । प्रादेशनमिति । रमेः ॥ “रमतिनार्यके नाके पुसि स्यात्' इति मेदिनी । वृत्तिकारोक्त कोशान्तरमाह । रमतिरित्यादि ॥ नित्वमाद्युदात्तार्थम् । रन्तिरसि-रमतिरसि । सूङः क्रिः ॥ 'धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः' इत्यमरः । दशपाद्यान्तु सुओो रिन् दीर्घश्च' इति पाठः । तत्र रिनो नकारो नानुबन्ध । उत्तरसूत्रे प्रत्ययान्तरारम्भात् । अनुबन्धत्वे हि लाघवादिहैव किन्नुच्येत । तथा च सूरी सूरिणौ सूरिण इत्यादि रूपम् । अत एवाभिधानमालाया सूरीति नान्तमुदाहृतमित्यवधेयम् । यत्तु दशषादीवृत्तिकारैर्नित्वं

स्वीकृत्य सूरिरित्युदाहृतम् । तदेतेन प्रत्युक्तम् । स्वरविरुद्धमपि, 'सदा पश्यन्ति सूरयः
६३६
[उणादिषु
सिध्दान्तकौमुदीसहिता

५०५ । आदिशदिभूशुभिभ्यः क्रिन् । अद्रिः । शद्रिः शर्करा । भूरेि प्रचुरम् । शुभ्रिब्रह्मा ।

५०६ । वङ्क्रयादय श्र । क्रिकन्नन्ता निपात्यन्ते । वङ्किवर्वाद्यभेदो गृहदारु पाश्र्वास्थि च । वप्रिः क्षेत्रम् । “ अंह्निरङ्किश्च चरण:' । तदिः सौत्रो धातुः । तन्द्रिमहः । बाहुलकाद्वणः । भेरिः ।

५०७ । राशांदभ्यां त्रेिप् । रात्रि ३शात्रः कुञ्जरः ।

५०८ । अदेत्रिनिश्च । चात्रिप् । अत्री । अत्रिणौ । अत्तूिण अत्रिः । अक्ती । अन्तय

५०९ ॥ पतेरात्रेन् । पतांत्रः पक्षी

५१० । मृकाणिभ्यामीचिः । मरीचिः । कणीचिः पलवो निनादश्च ।

५११ । वयतेचित् । श्वयीचिव्यि

५१२ । वेब्बो डिञ्च । वीचिस्तरङ्गः । नञ्समासेऽवीचिर्नरकभेद

५१३ । ऋहांनभ्यामूषन् । अरूषः सूयेः । हनूषो राक्षसः ।


विसूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वात् । आदिशदि अद्रयो दुमशैलार्काः' इत्यमरः । “भूरिन वासुदेवे च हरे च परमेष्ठिनि । नपुसके सुवर्णे च प्राज्ये इति मेदिनी । वङ्किरिति वकि कौटिल्ये ।’ तन्द्रिरिति कारात्' इति पक्षे डीष् । “तन्द्री निंद्राप्रमीलयोः' इति मेदिनी तन्द्री तन्द्रिश्च तन्द्रायाम् विभज्य नक्तन्दिवमस्ततन्द्रिणा' इति भारवि. । राशादभ्या ॥ शतिर्नाम्भोधरे जिष्णौ ' इति मेदिनी । “शत्रिमग्र उपमाङ्केतुमर्यय' इति मन्त्रस्य वेदे भाष्ये तु उपमामुपमानभूतङ्केतु प्रख्यातं शत्रिम् एतन्नामक राजर्षिमिति व्याख्यातम् । अदेत्रिनिश्च ॥ अक्ती भक्षक उज्ज्वलदत्तस्तु देत्रिन् इति पठित्वा अतिरित्युदा जहार । तन्न, त्रिपैव सिद्धे प्रत्ययान्तरवैयथ्र्यात् । गोवर्धनस्तु 'अदेत्रिन्निञ्च' इति पठित्वा निदिति व चनान्नकारस्य नेत्सज्ञा । अत्ती-अतूिणौ-अतूिणः इत्याह । तदपि न, आद्युदात्ता न चेवष्टापत्तिः । “जहीन्या अतूिण पणिम् । दूरे वा ये अन्ति वा कचिदक्तूिण हसीत्यत्तूिणम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् । दशपादीवृत्तौ तु “अदेत्रिन्निच' इति पठित्वा चकारात्तूिबित्युक्तम् । तदपि न, त्रिनिचश्चित्वस्य व्यर्थत्वात् । इकारेणैव नकारपरित्राणे सति प्रत्ययस्वरेणैवेष्टसिद्धेः । अत एव “वधैदु शसान्’ इति मन्त्रस्य भाष्ये ' अदेत्रिनिश्च इति माधवः । ‘न लुमताङ्गस्य’ इति सूत्रे कैयटोऽप्येवमाहेति दिक् । पतत्तिरिति ॥ पक्षि त्वर्थे इनि तु पतत्री पतत्रिणौ इत्यादि । मृकणिभ्यां ॥ 'मरीचि कृपणे दीप्तावृषिभेदे च दृश्यते' इति विश्वः । 'मरीचिर्मुनिभेदे ना ग इति

मेदिनी । “कणीचिः पुष्पितलतागुञ्जयोः शकटेऽस्त्रियाम्' इति च वेञ्जः ॥ 'वीचिः स्वल्पे
चतुर्थ: पाद:]
६३७
बालमनोरमा ।


५१४ । पुरः कुषन् । “पुर अग्रगमनेः' पुरुषः । “अन्येषामपि (सू ३५३९) इति दीर्घः । पूरुषः ।

५१५ । पृनहिकलिभ्य उपच । परुषम् । नहुषः । कलुषम् ।

५१६ । पीयोरूषन् । पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्रुणे पेयूषोऽभिनवं पयः ।

५१७ । मस्जेनुम्च । मजूषा ।

५१८ । गाडेश्च । गण्डूष:-गण्डूषा ।

५१९ । अतंररुः । अररुः शत्र । अररू । अरवः ।

५२० । कुट: किञ्च । कुटरुर्वस्रगृहम् । कित्त्वप्रयोजनं चिन्त्यम् ।

५२१ । शकादिभ्योऽटन् । शकटोऽस्त्रियाम् । ककिर्गत्यर्थः । कङ्कटः संनाहः । देवटः शलपा । करट इत्यादि ।

५२२ ।। कृकदिकडिकटेिभ्योऽम्बच् । करम्बं व्यामिश्रम् । कदिकडी सैौत्रैौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।

५२३ । कदेर्णित्पक्षिणि । कादम्बः कलहंसः ।


तरङ्गे स्यादवकाशे सुखे द्वयो' इति विश्वमेदिन्यौ । पुरः ॥ “पुरुषः पुरुषे साङ्खयज्ञे च पुन्नाग पादपे' इति विश्वमेदिन्यौ । पृनहि ॥ परुष कबुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत्' इति मेदिनी । नहुषेो राजविशेषे नागभिद्यपि' इति हेमचन्द्र । चित्स्वरेणान्तोदात्तत्वे प्राप्त ग्रामादित्वात् वृषादित्वाद्वा आद्युदात्तोऽयम् । “एतच “देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्ये स्पष्टम् । “कलुष त्वाविलैनसो” इति विश्व . । पीयो ॥ “पीयूष सप्तदिवसावधिक्षीरे तथा ऽमृते' इति मेदिनी । 'पियूष' इत्यादिस्त्वमर । मस्जेः ॥ 'पिटक पटकः पेटा मञ्जूषा इत्यमर । गडेश्व ॥ 'गण्डूषो मुखपूतोम्भ पुष्करप्रसृतोन्मिते' इति मेदिनी । अतंररु ॥ उकारान्तोऽय प्रत्ययः । न तु सकारान्त इति स्फोरयति । अररुः इत्यादिना ॥ युक्तचै. तत् । “कञ्चिद्वाविररु शूरमर्यम् । अपाररुमदेवयजनो जहि' इत्यादिमन्त्रेषु तथा दर्शनात् । यतु 'मानः शस्सा अररुषः ’ इत मन्त्रस्य भाष्य सान्ताऽयामात माधवनात् तत्प्राढवादमात्र न तु वास्तवम्, पदस्याद्युदात्तत्वानुपपत्तिप्रसङ्गात् । उक्तप्रयोगस्य कसन्तन रातिना नञ्समासे सौष्ठवात् । 'गुरुद्वषा अररुष दधान्त ' इयत्र स्वयमव तथा व्याख्यानात् । “यो नोऽग्रे अररिवाम् अघायु' इत्यादिमन्त्रान्तरसवादाचेति दिक । ‘कृीवेऽनः शकटोऽस्त्री स्यात्' इत्यमरः। करटो गजगण्डे ख्यात्कुसुमे निस्वजीविनि । एकादशाहादिश्राद्धे दुरूढेऽपि वायसे' इति मेदिनी । कृषकदि ॥ “करम्बो मिश्रिते बान्तो भान्तस्तु दधिसक्तुषु' इति विश्व । “कदम्ब निकुरुम्बे स्यान्नीपसर्षपयो. पुमान्’ इति मेदिनी । 'कलम्बी शाकभेदे स्यात्कदम्बशरयोः पुमान्’

इति च । कदेः ॥ 'कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि ना' इति मेदिनी ।
६३८
[उणादिषु
सिध्दान्तकौमुदीसहिता



५२४ । कलिकद्यॉरमः । कलम: । कर्दम ।

५२५ । कुणिपुल्योः केिन्दच् । “कुण शब्दोपकरणयोः' । कुणिन्दः

शब्दः । पुलिन्दो जातिविशेष

५२६ । कुपेर्वा वश्च । कुपिन्दकुविन्दौ तन्तुवाये ।

५२७ । नौ षडैर्घथिन् । निषङ्गथिरालिङ्गकः ।

५२८ । उद्यतेंश्चित् । उद्रथिः समुद्रः ।

५२९ । सतेर्णिञ्च । सारथि ।

५३० । खर्जिपिञ्जादिभ्य ऊरोलचो । खर्जर । कपूँरः । वल्लूरं शुष्क मांसम् । पिचूलं कुशवर्तिः । “लङ्गेर्तृद्धिश्च' (गण २०१) । लाडूलम् । कुसूलः । “तमेर्जुग्वृद्धिश्च' (गण २०२) । ताम्बूलम् । “श्रृणातेर्तुग्वृद्धिश्च (गण २०३) शार्दूलः । “दुकोः कुक्च' (गण २०४) । दुकूलम् । कुकूलम् ।


कलि । ‘कलमः पुसि लेखन्यां शालौ पाटच्चरेऽपि च' इति मेदिनी । कुपेवों ॥ ‘कुप क्रोधे ।’ श्व वा । तन्तुवाय कुविन्द स्यात् इत्यमरः । बाहुलकात् 'अल मूषणादौ ।’ अलिन्द । ‘यस्यामलिन्देषु न चकुरेव मुग्धाङ्गना गोमयगोमुखानि ' इति माघः । प्रज्ञादित्वादाणि दीघदिरग्यम् । निषङ्गाथरिति ॥ 'चजो ' इति कुत्वम् । “ आभुरस्य निषङ्गथि’ ।” रथकूबर इत्यर्थ. । सर्तेः ॥ 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारराथ .’ इत्यमरः । खर्जिपिञ्जादिभ्यः ॥ 'खर्ज मार्जने' एवमादिभ्य ऊर’ । “पिञ्ज हिसायाम् ' । एवमादिभ्य ऊलच् । 'खर्जुर रूप्यफलयो” खजूर कीटवृक्षयो' इति मेदिनीहेमचन्द्रौ । कृपू सामथ्र्ये ।' बाहुलकाछत्वाभाव । 'अथ कपूरमस्त्रियाम् । घनसारश्चन्द्रसज्ञ सिताभ्रो हिमवालुका' इ ५:मर. । “वल सवरणे ।' वल्लूरम् । “उत्तप्त शुष्कमास ख्यात्तद्वल्लूर त्रिलिङ्ग कम्' इत्यमरः । एव शालूरमण्डूरादयः । “भके मण्डूकवर्षाभूशालूरवदर्दूरा ' इत्यमरः । ‘अथ मण्डूर 'शिङ्काणमपि तन्मले' इति च । तन्मले तस्य पूर्वोक्तस्य लोहस्य मले इत्यर्थ । “लाङ्गलं पुच्छशेफसोः' इति मेदिनी । कुसूल इति ॥ 'कुस श्लेषणे ।' दन्त्यसकारवान् । कुसूलश्च कुसीदश्च मछद्यदन्त्यमुदाहृतम्' इति विश्व . । ताम्बूलादयोऽप्यत्र । “तमु ग्लानौ ।’ ताम्बूली नागवल्ल्यां स्त्री कमुके तु नपुसकम्' इति मेदिनी । ‘शू हिंसायाम् ।' धातोवृद्धिः । दुगागमश्च । 'शार्दूलो राक्षसान्तरे । व्यान्ने च पशुभेदे च सत्तमे तूत्तरस्थिते' इति मेदिनी विश्वप्रकाशौ । उत्तरस्थितमुत्तरपदम् । राजशार्दूल इति यथा । 'दु गतौ', 'कुड् शब्दे ’ अनयोः कुक् च । “दुकूल श्लक्ष्णवत्रे स्यात्क्षौमे च' इति मेदिनी । 'कुकूल शडुसङ्कीर्णेश्वश्रे

ना तु तुषानले' इति विश्वमेदिन्यौ । ‘शिरीषादपि मृद्वङ्गी कयमायतलोचना । अय कच
चतुर्थ: पाद:]
६३९
बालमनोरमा ।


५३१ । कुवश्चट्दीर्घश्च । कूची चित्रलेखनिका ।

५३२ । समीणः । समीचः समुद्र: । समीची हरिणी ।

५३३ । सिवेष्टरू च । सूचो दर्भाडुरः । सूची ।

५३४ । शमेर्वन् । शम्बो मुसलम् ।

५३५ । उल्बादयश्च । बन्नन्ता निपात्यन्ते । “उच समावाये' । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । निम्बः । बिम्बम् ।

५३६ । स्थः स्तोऽम्बजबकौ । तिष्ठतेरम्बच् अबक एतौ स्तः स्तादेशश्च । स्तम्बा गुच्छस्तृणादिनः । स्तवकः पुष्पगुच्छः ।

५३७ । शाशांपेभ्यां ददन ! * शादो जम्बालशष्पयो ' । शब्दः ।

५३८ । अब्दादयश्च । अवतीत्यब्दः। ‘कौतेर्तुम्(च)' (ग २०५)। कुन्दः ।

५३९ । वलिमलितनिभ्यः कयन् । वलयम् । मलय: । तनयः ।

५४० । छह्याः षुग्दुकौ च । वृषय आश्रयः । हृदयम् ।

५४१ । मिपीभ्यां रुः । मेरुः । पेरुः सूर्यः । बाहुलकात्पिबतेरपि । 'संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।

५४२ । जवादयश्च । जत्रु । जत्रुणी । अश्रु । अश्रुणी ।


कुकूलान्निकर्कशो मदनानल’ इति प्रयोगश्च । कुवश्चट् दीर्घश्च ॥ कूचः स्तनः । 'कुचकूचौ स्तने मतौ' इति विश्वः । कूचीति ॥ टित्वान्डीप् । समीणः ॥ इणः सम्युपपदे वट् स्यात् । दीर्घत्वञ्च धातोः । सिवेः ॥ 'सूची तु सीवनद्रव्ये आङ्गिकाभिनयान्तरे' इति मेदिनी । शमेः ॥ 'शम्बः स्यान्मुसलाप्रस्थलोहमण्डलके पौ । शुभान्विते त्रिषु' इति विश्वमेदिन्यौ । उल्बाद्यश्च ॥ ‘गर्भाशयो जरायुः स्यादुल्बच कललोऽस्त्रियाम्' इत्यमरः । शुल्बमिति ॥ शुच शोके ।' लत्वादि प्राग्वत् । “शुल्वे तात्रे यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनी हेमचन्द्रौ । वतेर्नुमागमो हृखत्वञ्च । “बिम्बस्तु प्रतिबिम्बे स्यात् मण्डले पुन्नपुंसकम् । बिम्बिकायाः फले कृीब कृकलापे पुनः पुमान्' इति मेदिनी । स्थः स्तः ॥ “स्तम्बो गुल्मे तृणादीनामप्रकाण्डदुमेऽपि च' इति विश्वः । “स्तम्बोऽप्रकाण्डदुमगुच्छयो.’ इति मेदिनी । स्यात् गुच्छकस्तु स्तबकः' इत्यमरः । शाशपि ॥ “शादः स्यात् कर्दमे शष्पे' इति मेदिनी । अब्दः सवत्सरे वारिवाहमुस्तकयोः पुमान् । कुन्दो माध्येऽत्री मुकुन्दभ्रमिनिध्यन्तरेषु ना इति च । वलिमलि ॥ * वलयः कण्ठरोगे ना कङ्कणे पुन्नपुसकम्' इति मेदिनी । “मलय पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायान्तु योषिति' इति च । “ आत्मजस्तनय. सूनु सुतः पुत्रः ' इत्यमर । वृह्वोः ॥ ह्रियते विषयैः हृदयम् । हट्टचन्द्रोक्तिमाह । संवत्स

रेत्यादि ॥ जञ्वादयश्च ॥ रुप्रत्ययान्ता निपात्यन्ते । “जनी प्रादुर्भावे ।' नकारस्य तकार ।
६४०
[उणादिषु
सिध्दान्तकौमुदीसहिता

५४३ । रुशातिभ्यां कुन् । रुगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्रस्वत्वम् ।

५४४ । जनिदाच्युस्सृष्टमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्रक्रिन्शक्स्यढड टाटचः । जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्रो गन्ताण्डजः क्षीण पुण्यश्च । सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च । बृश आद्रेकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलषः । बिभर्ति भरटः कुलालो

५४५ । अन्येभ्योऽपि दृश्यन्ते । पेत्वममृतम् । भृशम् ।

५४६ । कुसेरुम्भोमेदेताः । कुसुम्भम् । कुसुमम् । कुसीद्म् । कुसितो जनपदः ।

५४७ । सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्य शल्याः । सनोतेरसिप्रत्यय उपधावृद्धिः । सानासिार्हरण्यम् । वृञ्जो नुक्च । वर्णसिर्जलम् । पृ । पर्णसिर्जलगृहम् । “तड आघाते' । तण्डला । अकि


जत्रु स्कन्धसन्धिः । “सन्धी तयैव जत्रुणी' । तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यमर इत्यर्थः । रुशातिभ्याम् ॥ 'रुरुर्देये मृगेऽपि च' इति मेदिनी । जनिदा ॥ नवभ्यो यथासङ्खय नव स्यु. । जनेरित्वन् इकारोच्चारणमुत्तरार्थम् । जनरिटा सिद्धत्वात् । सृणिरिति ॥ नित्स्वरेणाद्युदात्तोऽयम् । 'सृवृषिभ्याङ्कित्' इति निप्रत्यये त्वन्तोदात्तः । मत्स्य इति ॥ अन्तोदात्तोऽयम् । 'ऋतन्यञ्जि' इति सूत्रे तु आद्युदात्तः साधितः । षण्ढ इति ॥ “षम ष्टम वैकल्ये ।' बाहुलकात्सत्वाभाव । “शमो ढ:’ इति सूत्रे तु तालव्यादिः साधितः । “सायं सायो भवेत्कोषः कोशः षण्ढश्च शण्ढवत्' इति द्विरूपकोश । कैयटस्तु 'ठस्येक:’ इति सूत्रे शण्ढ इति प्रतीकमुपादाय , ‘। 'नटी नीलौषधौ जनिदाच्यसृ' इत्यनेन ढप्रत्यये शण्ढ इत्याह स्री स्यात् शैलूषाशोकयोः पुमान्' इति मेदिनी । अन्येभ्योऽपि दृश्यन्ते ॥ इत्वन्नादयो ऽनुवर्तन्ते । कुस ॥ “कुस श्लेषणे ।' 'कुसुम् हेमनि महाराजते ना कमण्डलौ' इति मेदिनी । “कुसुम स्त्रीरजोनेत्ररोगयो. फलपुष्पयोः' इति च । “कुसीद जीवने वृद्या लीबं त्रिषु कुसीदके' इति च । इह सूत्रे तृतीयो हस्वादिदघौदिश्च तन्त्रेणोपात्त. । 'वृषाकग्यमि' इति सूत्रे हस्व एवेति वृत्तिकारहरदत्तादिप्रयोगोपष्टम्भेन निर्णीतम् । 'पारलौकिककुसीदकमासीत् इति श्रीहर्षः । उक्तश्च “गाण्ड्यजगात्' इति सूत्रे हस्वदीर्घयोस्तन्त्रेण निर्देशो वामनेनेति दिक् । उज्ज्वलदत्तमतेनाह वृञ्जो नुक्चेति ॥ दशपाद्यान्तु सानसिधर्णसीति पठित्वा । धृो नुक् च, धर्णसिलोकपालः इति व्याख्यातम् । युक्तचैतत् । धर्णसिम्भूरिधायसमित्यादि

दर्शनात् । तण्डुला इति ॥ उलच्प्रत्ययः, नुगागमः । ‘त्रेधा तण्डुलान् विभजेत् ।’ चित्स्वरः ।
चतुर्थ: पाद:]
६४१
बालमनोरमा ।


लक्षणे उशच् । अङ्कशः । 'चषेरालः । चषालो यूपकटकः' । इल्वलो दैत्य भेदः । पल्वलम् । विधृषा ण्य । ऋएकारस्येकारः । धिष्ण्यम् । शालेयै । शल्यम् । “वा पुंसि शल्यं शङ्कर्ना' ।

५४८ । मूशक्यबिभ्यः लः । मूलम् । शङ्कः िप्रयंवदे । अम्ब्लो रस । बाहुलकाद्मः । अम्लः ।

५४९ । माछाससिभ्यो यः । माया । छाया । सस्यम् । बाहुलकात्सु नोतेः । 'सव्यं दक्षिणवामयो ।

५५० । जनेर्यक् । “ये विभाषा' (सू २३१९) । जन्यं युद्धम् । जाया भार्या

५५१ । अध्न्यादयश्च । यगन्ता निपात्यन्ते । हन्तेर्यक् अडागम उपधालोपश्च ।


“तण्डुलः स्याद्विगण्डे च धान्यादिनिकरे पुमान्’ इति मेदिनी । अंकुश इति । अयमपि चित्खरेणान्तोदात्तः । तथा च मन्त्रः । दीर्घ ह्यङ्कशं पथेति ॥ चवषेराल इति ॥ प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तादयस्तु आलच इति चितमाहुः । तन्न । “चषालं ये अश्वयूपाय तक्षति । चषालवन्तस्तरवः पृथिव्याम्' इत्यादौ चित्स्वरादर्शनात् । अमरोक्तिमाह चषाल इति ॥ इल्वल इति ॥ “इल स्वप्ररणया ।' वलच् गुणाभावः । 'इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः’ इति मेदिनी । “इल्वलाः तच्छिरोदेशे तारका निवसन्ति या:’ इत्यमरः । तत्र * इल्वकाः’ इति पाठान्तरम् । तञ्च “इवि प्रीणने' ' अस्मात् क्वुन् शिल्पि संज्ञयोः' इति क्वुनि बोध्यम् । पिबतेतवेलच । लुगागमः । हस्वत्वञ्च । पिबन्त्यस्मिन् इति पल्वलम् । अल्पसर इकार इत भावो ण्यप्रत्ययश्चति बोध्यम् । “धिष्ण्यं स्थाने गृहे भेऽओं ' इत्यमर । 'धिष्ण्यं स्थानान्नि सद्मसु । ऋक्षे शक्तौ च' इति मेदिनी । “धिष्ण्य स्थाने च ऋक्षे चाम्रौ धिष्ण्यो नालये' इति धरणिः । शलेरिति ॥ 'शल्ये तु न त्रिया शङ्कौ कृीबं क्ष्वेडेषुतोमरे । मदनदुश्वाविधोनी इति मेदिनी । मृशक्य ॥ 'मूड् बन्धने ।’ ‘शक्ल शक्तौ ।’ ‘अवि शब्दे ।' 'मूलं शिफा घयोः । मूलं वित्तेऽन्तिके' इति मेदिनी । “शङ्खः प्रियवदः' इति विशेष्यनिन्नेऽमरः । “अम्लो रसविशेष स्यादम्ला चाङ्गेरिकौषधौ' इति मेदिनी । माछा ॥ 'माया स्याच्छाम्बरीबुछद्योर्माय पीताम्बरेऽसुर' इति मेदिनी । 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कोचवयो कान्तिसच्छोभापषुि स्त्रियाम्' इति विश्वमेदिन्यौ । “वृक्षादीना फलं सस्यम्' इत्यमरः । सव्यं वामे प्रतीपे च' इति मेदिनी । जनेर्यक् ॥ “जन्य हट्टे परीवादे सङ्गामे च नपुसकम् । जन्या मातृवयस्यायाञ्जन्य स्याज्जनके पुमान् । त्रिघूत्पाद्यजनित्रोश्च नवोढाज्ञाति भृत्ययोः । वरन्निग्धे' इति मेदिनी । अध्न्यादयश्च ॥ कौतेर्यतिर्डक् कुड्यमित्युज्ज्वल दत्तादयः । ‘यतोऽनावः’ इत्याद्युदात्तः । डयक्प्रत्ययोऽन्तोदात्त इत्यन्ये इति, “निवाते वात त्राणे' इति सूत्रे वृत्तिः । गुणप्रतिषेधार्थात्कारात् डकारस्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थिते यगन्ता इति प्रायोवादः । अडागम इति ॥ नञ्पूर्वाद्धन्तेर्यगिति वा बोद्यम् । विशन्तः पल्वलञ्चाल्पसरः' इत्यमर

84
६४२
[उणादिषु
सिध्दान्तकौमुदीसहिता

अध्न्या माहेयी । अध्न्यः प्रजापतिः । *कनी दीप्तौ ' । कन्या । बवयोरैक्यम् । वन्ध्या ।

५५२ । स्रामदिपद्यर्तिपृशकिभ्यो वनिप् । स्रावा रसिकः । मद्वा शिवः । पद्वा पन्था । “ अर्वा तुरङ्गगाह्ययोः' । पर्वे ग्रन्थिः प्रस्तावश्च । शका हस्ती । डीब्रौ । शकरी अङ्गलि ।

५५३ । शीङ्कुशिरुहिजिक्षिस्पृधृभ्यः कानिप् । शीवा अजगर । कुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । स्मृत्वा प्रजापतिः । धृत्वा

५५४ । ध्याप्योः संप्रसारणं च । धीवा कर्मकरः । पावा स्थूल ।

५५५ । अदेर्ध च । अध्वा ।

५५६ । प्र ईरशदोस्तुट् च । प्रेत्व प्रशत्वा च सागरः । प्रेत्र्वरी प्रश त्वरी च नदी ।

५५७ । सर्वधातुभ्य इन् । पचिरन्नि । तुडिः । तुण्डिः । वलिः । वटि: । यजि: । देवयाजि: । काशत इति काशिः । यतिः । मलिः । मली । केलिः । ‘मसी परिणामे ।' मसिः । बाहुलकादुणः । कोटिः । हेलिः । बोधिः । नन्दुिः । कलिः ।


अध्न्या इति ॥ यत्तु “ अध्न्यस्य मूर्द्धनि' इति मन्त्रे वेदभाष्यकारैरुक्तम् । 'हन्तुमशक्यो ऽध्न्यः पर्वतः’ इति तत् प्रकृतसूत्रमभिप्रेयैव । यत्तु अहननमन्नः तमर्हतीत्यर्थे 'छन्दसि च' इति य इति तत्रैवोक्तम्, तदुपायान्तरपरतया बोछद्यम् । 'माहेयी सौरभेथी गौरुस्रा माहा च श्रृङ्गिणी । अर्जुन्यग्ध्न्या रोहिणी स्यात्' इत्यमरः । सम्पूर्वाद्धानो यक् । आतो लोपश्च । 'सन्ध्या पितृप्रसूनद्याश्चिन्तामर्यादयोरपि । प्रज्ञाया च सन्ध्याने सन्ध्या च कुसुमान्तरे' इति विश्वः । 'सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु' इति मेदिनी । “सन्ध्या कुमारिका नार्यो रोषधीराशिभेदयोः' इति विश्वमेदिन्यौ । वन्ध्येति ॥ “बन्ध बन्धने ।' 'वन्ध्यस्त्वफलवृक्षादौ त्रियां स्यादप्रजःत्रियाम्' इति मेदिनी । स्नामदि ॥ “ अर्वा तुरङ्गमे पुसि कुत्सिते वाच्य लिङ्गके' इति मेदिनी । * पर्व हीबं महे ग्रन्थौ प्रबले लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि' इति च । अंगुलिरिति ॥ एतच “आरोहतन्दशतं शकरीर्मम' इत्यादि मन्त्रव्याख्याया स्पष्टम्। ‘शकरी च्छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी । सर्वधातुभ्य इन् ॥ यतिरिति ॥ “यती प्रयत्रे ।' 'यति: त्री पाठविच्छेदे निकारयतिनोः पुमान्’ इति मेदिनी । 'कोटिः स्त्री धनुषोऽग्रेऽश्रौ सङ्खयाभेदप्रकर्षयोः । बोधि. पुंसि समाधेश्च भेदे पिप्पल पादपे । नन्दिताङ्ग आनन्द स्त्री नन्दिकेश्वरे पुमान् । कलिः स्त्री कलिकायां ना शराजिकलहे