अथर्ववेदः/काण्डं ६/सूक्तम् ०५९

विकिस्रोतः तः
← सूक्तं ६.०५८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५९
ऋषिः - अथर्वा
सूक्तं ६.०६० →
दे. अरुन्धती औषधिः। अनुष्टुप्

अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।
अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥१॥
शर्म यच्छत्वोषधिः सह देवीररुन्धती ।
करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥
विश्वरूपां सुभगामच्छावदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥