अथर्ववेदः/काण्डं ८/सूक्तम् १४

विकिस्रोतः तः
← सूक्तं ८.१३ अथर्ववेदः - काण्डं ८
सूक्तं ८.१४(८.१०)
अथर्वाचार्यः
दे. विराट्।

सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ।
तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।
तां देवः सविताधोक्तामूर्जामेवाधोक्।
तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥
सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ।
तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्।
तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥
सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति ।
तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।
तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्।
तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥
सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।
तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।
तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}