‘भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी।
ध्यानालम्बनतां समाधिनिरतैनीते हितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ।
अत्र नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच तुल्यप्रमाणं श्लिष्टत्वम् ।
न चात्र समुच्चये वाशब्दः । संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः कथं चात्र विरोधः । नैतत् ।
तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव [न] कार्यम् । कृतं च तत्स्पर्धभावं गमयति । स्पर्धिभावश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव
शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात् । स चात्र श्लेषाच्छिष्टः ।
लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः । पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवगन्तव्यम् ।
गुणक्रियायौगपद्यं समुच्चयः ।
गुणानां वैमल्यादीनां यौगपद्येनावस्थानम्, तथैव क्रियाणां च समुच्चयोऽलंकारः । विकल्पप्रतिपक्षेणास्य स्थितिः । क्रमेणं यथा--
<poem>‘विदलितसकलारिकुलं तव बलमिदमाशु विमलं च ।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥'<poem>
उत्तमत्वादिति । द्वयोपि भगवत्संबन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात् । ननु च नेत्रे च तनुश्चेत्यत्र,समुच्चय एव किं न भवतीत्याशङ्कयाह-न चात्रेत्यादि ।
गताविति । वाशब्दस्य समुच्चयार्थलक्षणायाम् । तथेति । समुच्चयार्थपरतयेत्यर्थः । न ह्यत्र समुच्चयार्थो विवक्षितः । एवमत्र विरोधाभावात्कथं विकल्पोऽपि न भवतीत्याह-नन्वित्यादि । न कार्यमिति । तन्वभिधानेनैव नेत्रयोः स्वीकृतत्वात्। कृतमिति । पृथगभिधानम् । स्पर्धिभावमिति । अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्यात् । स्पर्धिभावादिति । तुल्यत्वात् । अ(सु)प्रत्येयत्वादिति । सुष्टुत्वेन विरुद्धस्य कष्टकल्पनानिरासः कृतः । स इति । विकल्पः । एतदेवोपसंहरति--तस्मादित्यादिना । समुच्चये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम् । अनेनास्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम् । गुणक्रियेत्यादि । तथैवेति। यौगपद्यावस्थानेनेत्यर्थः ।
१. ‘निमित्तको’ ख. २. ‘विकल्पस्य’ ख. ३. ‘स चात्र श्लेषः क्लिष्टःख. ४. ‘इ- त्यवघातव्यम् ख.