मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दाकिनी चिरमवेष्टत पादमूले ॥'
अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पाद-
मूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते। तत्तथा- .
ध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बु-
राशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं
चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवं ‘नखक्षतानीव वनस्थलीनाम्’ इत्य-
त्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव ।
एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ।
विशेषणसाभिप्रायत्वं परिकरः ।
विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम । यथा --
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्ष कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
गर्भीकारेणैवोत्प्रेक्षाया उत्थानात्। एवमिति । यथोक्तगस्येत्यर्थः विशेषणेत्यादि । इहेति समासोत्तयनन्तरम् ।विशेषणानां चात्र बहुवत्मेव विवक्षितम् । अन्यथा ह्यपुष्टार्थस्य दोषत्वाभि धानात्तन्निराकरणेन स्वीकृतस्य पुत्रार्थस्यायं विषयः स्यात् । एवमेवंविधानेकविशेषणोपन्यास- द्वारेण वैचित्र्यातिशयः संभवतीत्यस्यालंकारत्वम् । प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्रा- धान्याभावाद्गर्भीकारस्तदन्तःकृतत्वम् । अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् । प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात् । गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात् । यत्र च प्रतीयमानं प्रत्युपसर्जनीकृतस्वार्थयोः शब्दार्थयोरवस्थानं स ध्वने- र्विषय इति (ध्वंनिविदः । यदाहुः -‘तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यप्रतिष्ठितौ । ध्वनेः स एव विषयः’ इति । अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति ।) अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि । सोत्प्रशंपरत्वमिति । तथा च राज्ञो जग-
१. पादमूल' क २. ‘चरणमूल' क. ३. ‘भर्तृपत्नी’ क
१. ‘निराकरण’ ख. २. ‘विशेषः’ ख. ३. ‘तस्य ’ ख. ४ . प्रतीयमानमनुपसर्ज नीकृवा शब्दार्थयोःख. ५. कौष्टकान्तः स्थितः पाठः क-पुस्तके नास्ति. ६. ‘पर मिति’ क. ७. क.