अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकनायिकाख्यधर्मविशिष्टयोः प्रतीतेः ।
साधारण्येन यथा--
‘तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी ।
विकासमेति सुभग भवद्दर्शनमात्रतः ॥
अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र
च लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्य-
मात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते “उपचारतो ज्ञेयः।
एवं च कार्यसमारोपेऽपि ज्ञेया । इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा ।
औपम्यगर्भत्वेन यथा-
‘दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥'
अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववादुपमागर्भत्वेन च कृते स- मासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेष णमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव ‘परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाधकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्वव-
निर्धारणे । नायकेति सरूपयोरेकशेषः । अपरित्यक्तस्वरूपयोरिति । रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात् । अत्रेति लताव्यवहारप्रतीतौ । ननु यदि लतैकगाम्येव विका- साख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्कयाह-विकास इत्यादि । एतदेवान्य त्रापि योजयति-एवमित्यादिना । तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्य- प्यप्रकृतसंबन्धि धर्मकार्यसमारोपमन्तरेण तद्वयवहारप्रतीतिर्न भवतीति सिद्धम् । सुवेषत्वं प्रकृतार्थ एवानुगुणमित्युपमायाः साधकम् । अतश्च तत्समाश्रयः । समासान्तराश्रय- णेनेति । यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तर- त्वमुक्तम् । पूर्वापेक्षयास्यान्यथात्वात् । अत्रैवेतिं दन्तप्रभेत्यादौ । उपमारूपकसाधक- बाधकाभावादिति । परीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वा- भावः । तथा च न विगुणत्वमिति बाधकत्वाभावः । अतष्चैकपक्षाश्रयाभावादुपमारूपकयोः
१. ‘अपरित्यक्तयोःक. २. ‘शशिनोर्नायकताख्यधर्म' क. ३. “नियतस्य ' स्ख. ४. उपचरितः ख. ५. ‘झयम्' क. ६. संकराश्रयेण’ क.
१. ‘तत्रेति क.