अत्र यद्यपि ‘सर्वप्रातिपदिकेभ्यः क्विप्’ इत्युपमानात्किञ्विधावामुखे
उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां
पर्यवसानम् । वा विरहवर्णने ‘केयूरायितमङ्गदैःइत्यादौ । एषा च
यथा
समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु
तेषु प्रदेशेषूदाहृता (दृश्यते । इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता । सा
पह्नवोत्प्रेक्षा यथा
‘गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥'
अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगादपह्नवो गम्यते । एवं छ आदिशब्दप्रयोगेऽपि ज्ञेयम् । ‘अपर इव पाकशासनः’ इत्यादावपरशब्द प्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावु
आमुख इति न पुनः पर्यवसाने। उपमाप्रतीतिरिति । तदर्थमेव क्लिपः प्रवृत्तेः । अत एवात्र वाचकाभावान्नोत्प्रेक्षावमिति न वाच्यम् । नहि वाचकसंभवासंभवमात्रमैवालंकाराणां भावा भावप्रयोजकम् । एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलंकार स्वपर्यवसायिनी न स्यात् । तस्माद्वाक्यार्थ एव प्ररूढोऽलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम् । वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः । संभवौचित्यादिति । कस्तूरीति- लकादेर्विषयिणो भालफलकादौ संभवे यथौचित्यं न तथा कण्ठत्विडादेर्विषयस्येत्यर्थः । अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीतिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञत्वम् । नह्यौचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वम् । औचित्यं च नोत्प्रेक्षायां विरुद्धम् । तस्य सर्वत्रव भावात् । उत्प्रेक्षायां पर्यवसानमिति । कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणे नाभेदप्रतिपत्तेः । सादृश्यावगमाभावात् । सादृश्यं ह्युभयनिष्ठम् । न चात्र प्रकृताप्रकृतयोः संस्पर्धितया प्रतीतिः । यथा वेत्यनेनास्या लक्ष्ये प्राचुर्यं दर्शितम् । सोति (एषेति) समस्तो पमाप्रतिपादकविषये दृश्यमाना । सा तु यथा—‘स दण्डपादौ भवदण्डपाद त)मुत्खण्डयन्र- क्षतु चण्डिकायाः । यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्यत्तुलाकोटितुलामुपैति । । अत्र स- त्यपि तुला(कोटि)शब्दे चन्द्रलेखाया एव . तुलाकोटिप्रतीतेरुत्प्रेक्षात्वम् । छद्मशब्द- प्रयोगेन यथा -'स्वेदोदबिन्दुसंदोहच्छद्मना तव राजते । स्मरेणावैम्यनर्धापि दत्तार्धैव कुचस्थली ’ अस्याश्च तत्तच्छब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलंकारैः सह विभागं द र्शयितुमाह--अपर इत्यादि । तत्प्रयोग इत्यपरशब्दप्रयोगे । इवशब्दस्य संभावनाद्यो तकस्याप्रयोगात्सिद्धत्वम् । अत एव चात्र विषयस्यानुपादानमेव । तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तम् । अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम् । त-