वृत्तरत्नाकरः/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ वृत्तरत्नाकरः
अध्यायः ४
अध्यायः ५ →

चतुर्थोऽध्यायः[सम्पाद्यताम्]

विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥ ४.१ ॥
भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या ॥ ४.२ ॥
सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ ॥ ४.३ ॥
ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ्भवेदनोजे ॥ ४.४ ॥
असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥ ४.५ ॥
आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ ४.६ ॥
जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा ॥ ४.७ ॥
सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता ॥ ४.८ ॥
अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ ॥ ४.९ ॥
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥ ४.१० ॥

वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः ।
पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ४.११ ॥

स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ ४.१२ ॥