अथर्ववेदः/काण्डं २०/सूक्तम् ०५५

विकिस्रोतः तः
← सूक्तं २०.०५४ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५५
रेभः।
सूक्तं २०.०५६ →
दे. इन्द्रः। बृहती।

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥
या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।
स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥