अथर्ववेदः/काण्डं ४/सूक्तम् १२

विकिस्रोतः तः
← सूक्तं ४.११ अथर्ववेदः - काण्डं ४
सूक्तं ४.१२
ऋषिः - ऋभुः
सूक्तं ४.१३ →
दे. रोहणी - वनस्पतिः।

रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।
रोहयेदमरुन्धति ॥१॥
यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।
धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥
सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥
मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।
असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥
लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।
असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥
स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।
सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥
यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।
ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥

[सम्पाद्यताम्]