हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८५
← अध्यायः ०८४ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०८५ [[लेखकः :|]] |
अध्यायः ०८६ → |
भगवतः श्रीकृष्णस्य समीपे इन्द्रादीनां देवानां उमासहितस्य भगवतः शिवस्य चागमनम् |
पञ्चाशीतितमोऽध्यायः
वैशम्पायन उवाच
तत इन्द्रः स्वयं तत्र आरुह्य गजमुत्तमम् ।
द्रष्टुं सर्वेश्वरं विष्णुं तपस्यन्तं समाययौ ।। १ ।।
ततो यमस्तु भगवानारुह्य महिषं वरम् ।
किंकरैश्च स्वयं साक्षादाययौ नगमुत्तमम् ।। २ ।।
प्रचेता हंसमारुह्य वारुणैश्च समन्वितः ।
श्वेतच्छत्रसमायुक्तः श्वेतव्यजनवीजितः ।। ३ ।।
ययौ कैलासशिखरं द्रष्टुं केशवमञ्जसा ।
अन्ये चापि तथा देवा आदित्या वसवस्तथा ।। ४ ।।
रुद्राश्चैव तथा राजन् द्रष्टुं केशवमाययुः ।
सिद्धाश्च मुनयश्चैव गन्धर्वा यक्षकिन्नराः ।। ५ ।।
सर्वाश्चाप्सरसो राजन् नृत्यगीतविशारदाः ।
ततो देवगणः सर्वः कैलासं समपद्यत ।। ६ ।।
पर्वतो नारदश्चैव तथान्ये मुनिसत्तमाः ।
विस्मयस्थितलोलाक्षाः सर्वदेवगणास्तथा ।। ७ ।।
आश्चर्यं खलु पश्यध्वं न भूतं न भविष्यति ।
योगिध्येयः स्वयं कृष्णो यत्तप्यति गुरुः स्वयम् ।
को न्वत्र समयो भूयादिति ते मेनिरे गणाः ।। ८ ।।
ततः समाप्ते सकले जगत्पतेर्व्रते समूले सकलेश्वरः शिवः ।
द्रष्टुं हरिं लोकहितैषिणं प्रभुं ययौ भवान्या सह भूतसंघैः ।। ९ ।।
सार्धं कुबेरेण सगुह्यकेन सख्या प्रियेण प्रभुरीश्वरः शिवः ।
स्वयं जटी भूतपिशाचसंवृतः शरी च खड्गी शशिखण्डशेखरः ।। 3.85.१० ।।
करेण बिभ्रत्सहदर्भकुण्डिकां करेण साक्षादपरेण दीपिकाम् ।
अन्येन विभ्रन्महतीं स डिण्डिमां शूलं च बिभ्रन्नपरेण बाहुना ।। ११ ।।
गुणान् स रुद्राक्षकृतान् समुद्वहञ्जटाभिरापिङ्गलताम्रमूर्तिः ।
विराजमानः प्रभुरिन्दुशेखरो वृषेण युक्तः स सितेन शंकरः ।। १२।।
उमास्तनद्वन्द्वसमर्पिताननस्तथा समाश्लिष्य निपीडिताधरः ।
गङ्गाम्बुविक्षालितचन्द्रशेखरस्तां चापि वीक्षन् बहुशस्तदा शिवः ।। १३।।
भस्माङ्गरागैरनुलेपिताननो महोरगैर्बद्धजटः सनातनः ।
शिरःकपालैः परिशोभितस्तदा द्रष्टुं हरिं केशवमभ्ययाच्छिवः ।।१४।।
यमाहुरग्र्यं पुरुषं महान्तं पुरातनं सांख्यनिबद्धदृष्टयः ।
यस्यापि देवस्य गुणान् समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके ।। १५।।
यमाहुरेकं पुरुषं पुरातनं कणादनामानमजं महेश्वरम् ।
दक्षस्य यज्ञं विनिहत्य यो वै विनाश्य देवानसुरान् सनातनः ।। १६।।
यं विदुर्भूततत्त्वज्ञं भूतेशं भूतभावनम् ।
वामदेवं विरूपाक्षमाहुस्तत्त्वविदो जनाः ।। १७।।
महादेवं सहस्राक्षं कालमूर्तिं चतुर्भुजम् ।
रुद्रं रोदननामानमाहुर्विश्वेश्वरं शिवम् ।।१८।।
अप्रमेयमनाधारमाहुर्माहेश्वरा जनाः ।
नग्नं नग्नपरीतं तु नागिनं त्वग्निवर्चसम् ।। १९।।
आहुर्विश्वेश्वरं शान्तं शिवमादिं सनातनम् ।
तस्य मूर्तिरिमाः सर्वा धराद्याः सकला नृप ।।3.85.२०।।
भूमिरापोऽनलो वायुः खं सूर्यश्च तथा शशी ।
अग्निश्च यजमानश्च प्रकृतिश्चैवमष्टधा ।।२१ ।।
महादेवो महायोगी गिरीशो नीललोहितः ।
आदिकर्ता महाभर्ता शूलपाणिरुमापतिः ।
द्रष्टुं विश्वेश्वरं विष्णुं भूतसंघैः समाययौ ।।२२।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवागमनकथने पञ्चाशीतितमोऽध्यायः ।। ८५।।